S.D. Human Development, Research & Training Center | वाक्यपदीय प्रथम काण्ड वाक्यपदीय प्रथम काण्ड | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

वाक्यपदीय प्रथम काण्ड

अनादिनिधनम् ब्रह्म  शब्दतत्त्वं यद् अक्षरम्
विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः // वाप १.१ //

एकम् एव यद् आम्नातं $ भिन्नशक्तिव्यपाश्रयात् &
अपृथक्त्वे ऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते // वाप १.२ //

अध्याहितकलां यस्य $ कालशक्तिम् उपाश्रिताः &
जन्मादयो विकाराः षड् भावभेदस्य योनयः // वाप १.३ //

एकस्य सर्वबीजस्य $ यस्य चेयम् अनेकधा &
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः // वाप १.४ //

प्राप्त्युपायो ऽनुकारश् च $ तस्य वेदो महर्षिभिः &
एको ऽप्य् अनेकवर्त्मेव समाम्नातः पृथक् पृथक् // वाप १.५ //

भेदानां बहुमार्गत्वं $ कर्मण्य् एकत्र चाण्गता &
शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते // वाप १.६ //

स्मृतयो बहुरूपास् च $ दृष्टादृष्टप्रयोजनाः &
तम् एवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः // वाप १.७ //

तस्यार्थवादरूपाणि $ निश्रिताः स्वविकल्पजाः &
एकत्विनां द्वैतिनां च प्रवादा बहुधागता // वाप १.८ //

सत्या विसुद्धिस् तत्रोक्ता $ विद्यैवेकपदागमा &
युक्ता प्रणवरूपेण सर्ववादाविरोधिना // वाप १.९ //

विधातुस् तस्य लोकानाम् $ अङ्गोपाङ्गनिबन्धनाः &
विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः // वाप १.१० //

आसन्नं ब्रह्मणस् तस्य $ तपसाम् उत्तमं तपः &
प्रथमं छन्दसाम् अङ्गम् आहुर् व्याकरणं बुधाः // वाप १.११ //

प्राप्तरूपविभागाया $ यो वाचः परमो रसः &
यत् तत् पुण्यतमं ज्योतिस् तस्य मार्गो ऽयम् आन्जसस्ः // वाप १.१२ //

अर्थप्रवृत्तितत्त्वानां $ शब्दा एव निबन्धनम् &
तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणाद् ऋते // वाप १.१३ //

तद् द्वारम् अपवर्गस्य $ वाङ्मलानां चिकित्सितम् &
पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकासते // वाप १.१४ //

यथार्थजातयः सर्वाः $ सबाकृतिनिबन्धनाः &
तथैव लोके विद्यानाम् एसा विद्या परायनम् // वाप १.१५ //

इदम् आद्यं पदस्थानं $ सिद्धिसोपानपर्वणाम् &
इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः // वाप १.१६ //

अत्रातीतविपर्यासः $ केवलाम् अनुपस्यति &
छन्दस्यस् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् // वाप १.१७ //

प्रत्यस्थमितभेदाया $ यद् वाचो रूपम् उत्तमम् &
यद् अस्मिन्न् एव तमसि ज्योतिः सुद्धं विवर्तते // वाप १.१८ //

वैकृतं समति क्रान्ता $ मूर्तिव्यापारदर्शनम् &
व्यतीत्यालोकतमसी प्रकाशं यम् उपासते // वाप १.१९ //

यत्र वाचो निमेत्तानि $ चिह्नानीवाक्षरस्मृतेः &
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् // वाप १.२० //

अथर्वणाम् अङ्गिरसां $ सांनाम् ऋग्यजुषस्य च &
यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः // वाप १.२१ //

यद् एकं प्रक्रियाभेदैर् $ बहुधा प्रविभज्यते &
तद् व्याकरणं आगम्य परं ब्रह्माधिगम्यते // वाप १.२२ //

नित्याः शब्दार्थसंबन्धास् $ तत्राम्नाता महर्षिभिः &
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः // वाप १.२३ //

अपोद्धारपदार्थाः ये $ ये चार्थाः स्थितलक्षणाः &
अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः // वाप १.२४ //

कार्यकारणभावेन $ योग्यभावेन च स्थिताः &
धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु // वाप १.२५ //

ते लिङ्गैश् च स्वशब्दैश् च $ शास्त्रे ऽस्मिन्न् उपवर्णिताः &
स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् // वाप १.२६ //

शिष्टेभ्य आगमात् सिद्धाः $ साधवो धर्मसाधनम् &
अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः // वाप १.२७ //

नित्यत्वे कृतकत्वे वा $ तेषाम् आदिर् न विद्यते &
प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते // वाप १.२८ //

नानर्थिकाम् इमां कश् चिद् $ व्यवस्थां कर्तुम् अर्हति &
तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः // वाप १.२९ //

न चागमाद् ऋते धर्मस् $ तर्केण व्यवतिष्ठते &
ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् // वाप १.३० //

धर्मस्य चाव्यवच्छिन्नाः $ पन्थानो ये व्यवस्थिताः &
न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते // वाप १.३१ //

अवस्थादेशकालानां $ भेदाद् भिन्नासु शक्तिषु &
भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा // वाप १.३२ //

निर्ज्ञातशक्तेर् द्रव्यस्य $ तां तान् अर्थक्रियां प्रति &
विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते // वाप १.३३ //

यत्नेनानुमितो ऽप्य् अर्थः $ कुशलैर् अनुमातृभिः &
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते // वाप १.३४ //

परेषाम् असमाख्येयम् $ अभ्यासाद् एव जायते &
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् // वाप १.३५ //

प्रत्यक्षम् अनुमानं च $ व्यतिक्रम्य व्यवस्थिताः &
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः // वाप १.३६ //

आविर्भूतप्रकाशानाम् $ अनुपप्लुतचेतसाम् &
अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते // वाप १.३७ //

अतीन्द्रियान् असंवेद्यान् $ पश्यन्त्य् आर्षेण चक्षुषा &
ये भावान् वचनं तेषां नानुमानेन बाधते // वाप १.३८ //

यो यस्य स्वम् इव ज्ञानं $ दर्शनं नातिशङ्कते &
स्थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् // वाप १.३९ //

इदं पुण्यम् इदं पापम् $ इत्य् एतस्मिन् पदद्वये &
आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् // वाप १.४० //

चैतन्यम् इव यश् चायम् $ अविच्छेदेन वर्तते &
आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते // वाप १.४१ //

हस्तस्पर्शाद् इवान्धेन $ विषमे पथि धावता &
अनुमानप्रधानेन विनिपातो न दुर्लभः // वाप १.४२ //

तस्माद् अकृतकं शास्त्रं $ स्मृतिं च सनिबन्धनाम् &
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः // वाप १.४३ //

द्वाव् उपादानशब्देषु $ शब्दौ शब्दविदो विदुः &
एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते // वाप १.४४ //

अविभक्तो विभक्तेभ्यो $ जायते ऽर्थस्य वाचकः &
शब्दस् तत्रार्थरूपात्मा संबन्धम् उपगच्छति // वाप १.४५ //

आत्मभेदं तयोः के चिद् $ अस्तीत्य् आहुः पुराणगाः &
बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते // वाप १.४६ //

अरणिस्थं यथा ज्योतिः $ प्रकाशान्तरकारणम् &
तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् // वाप १.४७ //

वितर्कितः पुरा बुद्ध्या $ क्व चिद् अर्थे निवेशितः &
करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते // वाप १.४८ //

नादस्य क्रमजातत्वान् $ न पूर्वो न परश् च सः &
अक्रमः क्रमरूपेण भेदवान् इव जायते // वाप १.४९ //

प्रतिबिम्बं यथान्यत्र $ स्थितं तोयक्रियावशात् &
तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः // वाप १.५० //

आत्मरूपं यथा ज्ञाने $ ज्ञेयरूपं च दृश्यते &
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते // वाप १.५१ //

आण्डभावम् इवापन्नो $ यः क्रतुः शब्दसंज्ञकः &
वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् // वाप १.५२ //

यथैकबुद्धिविषया $ मूर्तिर् आक्रियते पटे &
मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते // वाप १.५३ //

यथा प्रयोक्तुः प्राग् बुद्धिः $ शब्देष्व् एव प्रवर्तते &
व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते // वाप १.५४ //

अर्थोपसर्जनीभूतान् $ अभिधेयेषु केषु चित् &
चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते // वाप १.५५ //

ग्राह्यत्वं ग्राहकत्वं च $ द्वे शक्ती तेजसो यथा &
तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते // वाप १.५६ //

विषयत्वम् अनापन्नैः $ शब्दैर् नार्थः प्रकाश्यते &
न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः // वाप १.५७ //

अतो ऽनिर्ज्ञातरूपत्वात् $ किम् आहेत्य् अभिधीयते &
नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा // वाप १.५८ //

भेदेनावगृहीतौ द्वौ $ शब्दधर्माव् अपोद्धृतौ &
भेदकारेषु हेतुत्वम् अविरोधेन गच्छतः // वाप १.५९ //

वृद्ध्यादयो यथा शब्दाः $ स्वरूपोपनिबन्धनाः &
आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः // वाप १.६० //

अग्निशब्दस् तथैवायम् $ अग्निशब्दनिबन्धनः &
अग्निश्रुत्यैति संबन्धम् अग्निशब्दाभिधेयया // वाप १.६१ //

यो य उच्चार्यते शब्दो $ नियतं न स कार्यभाक् &
अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते // वाप १.६२ //

उच्चरन् परतन्त्रत्वाद् $ गुणः कार्यैर् न युज्यते &
तस्मात् तदर्थैः कार्याणां संबन्धः परिकल्प्यते // वाप १.६३ //

सामान्यम् आश्रितं यद् यद् $ उपमानोपमेययोः &
तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते // वाप १.६४ //

गुणः प्रकर्षहेतुर् यः $ स्वातन्त्र्येणोपदिश्यते &
तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते // वाप १.६५ //

तस्याभिधेयभावेन $ यः शब्दः समवस्थितः &
तसाप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते // वाप १.६६ //

प्राक् सम्ज्ञिनाभिसंबन्धात् $ संज्ञा रूपपदार्थिका &
षष्ट्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते // वाप १.६७ //

तत्रार्थवत्त्वात् प्रथमा $ संज्ञाशब्दाद् विधीयते &
अस्येते व्यतिरेकश् च तदर्थाद् एव जायते // वाप १.६८ //

स्वं रूपम् इति कैश् चित् तु $ व्यक्तिः संज्ञोपदिश्यते &
जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते // वाप १.६९ //

संज्ञिनीं व्यक्तिम् इच्छन्ति $ सूत्रे ग्राह्याम् अथापरे &
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते // वाप १.७० //

कार्यत्वे नित्यतायां वा $ के चिद् एकत्ववादिनः &
कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः // वाप १.७१ //

पदभेदे ऽपि वर्णानाम् $ एकत्वं न निवर्तते &
वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते // वाप १.७२ //

न वर्णव्यतिरेकेण $ पदम् अन्यच् च विद्यते &
वाक्यं वर्णपदाभ्यां च प्रविभागो न कश् चन // वाप १.७३ //

पदे न वर्णा विद्यन्ते $ वर्णेष्व् अवयवा न च &
वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् चन // वाप १.७४ //

भिन्नदर्शनम् आश्रित्य $ व्यवहारो ऽनुगम्यते &
तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः // वाप १.७५ //

स्फोतस्याभिन्नकालस्य $ ध्वनिकालानुपातिनः &
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते // वाप १.७६ //

स्वभावभेदान् नित्यत्वे $ ह्रस्वदीर्घप्लुतादिषु &
प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते // वाप १.७७ //

शब्दस्य ग्रहणे हेतुः $ प्राकृतो ध्वनिर् इष्यते &
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते // वाप १.७८ //

शब्दस्योर्ध्वम् अभिव्यक्तेर् $ वृत्तिभेदं तु वैकृतः &
ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते // वाप १.७९ //

इन्द्रियस्यैवसंस्कारः $ शब्दस्यैवोभवस्य वा &
क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् // वाप १.८० //

इन्द्रियस्यैव संस्कारः $ समाधानाञ्जनादिभिः &
विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये // वाप १.८१ //

चक्षुषः प्राप्यकारित्वे $ तेजसा तु द्वयोर् अपि &
विषयेन्द्रिययोर् इष्टा संस्कारः स क्रमो ध्वनेः // वाप १.८२ //

स्फोटरूपाविभागेन $ ध्वनेर् ग्रहणम् इष्यते &
कैश् चित् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः // वाप १.८३ //

यथानुवाकः श्लोको वा $ सोढत्वम् उपगच्छते &
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते // वाप १.८४ //

प्रत्ययैर् अनुपाख्येयैर् $ ग्रहणानुगुणैस् तथा &
ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते // वाप १.८५ //

नादैर् आहितबीजायाम् $ अन्त्येन ध्वनिना सह &
आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते // वाप १.८६ //

असतश् चान्तराले याञ् $ छब्दान् अस्तीति मन्यते &
प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः // वाप १.८७ //

भेदानुकारो ज्ञानस्य $ वाचश् चोपप्लवो ध्रुवः &
क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् // वाप १.८८ //

ज्ञेयेन न विना ज्ञानं $ व्यवहारे ऽवतिष्ठते &

नालब्धक्रमया वाचा कश् चिद् अर्थो ऽभिधीयते // वाप १.८९ *//

यथाद्यसंख्याग्रहणम् $ उपायः प्रतिपत्तये &
संख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः // वाप १.९० //

प्रत्येकं व्यञ्जका भिन्न $ वर्णवाक्यपदेषु ये &
तेषाम् अत्यन्तभेदे ऽपि संकीर्णा इव शक्तयः // वाप १.९१ //

यथैव दर्शनैः पूर्वैर् $ दूरात् संतमसे ऽपि वा &
अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति // वाप १.९२ //

व्यज्यमाने तथा वाक्ये $ वाक्याभिव्यक्तिहेतुभिः &
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते // वाप १.९३ //

यथानुपूर्वीनियमो $ विकारे क्षीरबीजयोः &
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः // वाप १.९४ //

भागवत्स्व् अपि तेष्व् एव $ रूपभेदो ध्वनेः क्रमात् &
निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् // वाप १.९५ //

अनेकव्यक्त्यभिव्यङ्ग्या $ जातिः स्फोट इति स्मृता &
कैश् चित् व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः // वाप १.९६ //

अविकारस्य शब्दस्य $ निमित्तैर् विकृतो ध्वनिः &
उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् // वाप १.९७ //

न चानित्येष्व् अभिव्यक्तिर् $ नियमेन व्यवस्थिता &
आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते // वाप १.९८ //

देशादिभिश् च संबन्धो $ दृष्टः कायवताम् अपि &
देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः // वाप १.९९ //

ग्रहणग्राह्ययोः सिद्धा $ योग्यता नियता यथा &
व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः // वाप १.१०० //

सदृशग्रहणानां च $ गन्धादीनां प्रकाशकम् &
निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् // वाप १.१०१ //

प्रकाशकानां भेदांश् च $ प्रकाश्यो ऽर्थो ऽनुवर्तते &
तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके // वाप १.१०२ //

विरुद्धपरिमाणेषु $ वज्रादर्शतलादिषु &
पर्वतादिसरूपाणां भावानां नास्ति संभवः // वाप १.१०३ //

तस्माद् अभिन्नकालेषु $ वर्णवाक्यपदादिषु &
वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते // वाप १.१०४ //

यः संयोगविभागाभ्यां $ करणैर् उपजन्यते &
स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः // वाप १.१०५ //

अल्पे महति वा शब्दे $ स्फोटकालो न भिद्यते &
परस् तु शब्दसंतानः प्रचयापचयात्मकः // वाप १.१०६ //

दूरात् प्रभेव दीपस्य $ ध्वनिमात्रं तु लक्ष्यते &
घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते // वाप १.१०७ //

द्रव्याभिघातात् प्रचितौ $ भिन्नौ दीर्घप्लुताव् अपि &
कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः // वाप १.१०८ //

अनवस्थितकम्पे ऽपि $ करणे ध्वनयो ऽपरे &
स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव // वाप १.१०९ //

वायोर् अणूनां ज्ञानस्य $ शब्दत्वापत्तिर् इष्यते &
कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः // वाप १.११० //

लब्धक्रियाः प्रयत्नेन $ वक्तुर् इच्च्चानुवर्तिना &

स्थानेष्व् अभिहतो वायुः शब्दत्वं प्रतिपद्यते // वाप १.१११ *//

तस्य कारणसामर्थ्याद् $ वेगप्रचयधर्मणः &

संनिपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः // वाप १.११२ *//

अणवः सर्वशक्तित्वाद् $ भेदसंसर्गवृत्तयः &

छायातपतमःशब्द- भावेन परिणामिनः // वाप १.११३ *//

स्वशक्तौ व्यज्यमानायां $ प्रयत्नेन समीरिताः &

अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः // वाप १.११४ *//

अथायम् आन्तरो ज्ञाता $ सूक्ष्मवागात्मनि स्थितः &

व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते // वाप १.११५ *//

स मनोभावम् आपद्य $ तेजसा पाकम् आगतः &

वायुम् आविशति प्राणम् अथासौ समुदीर्यते // वाप १.११६ *//

अन्तःकरणतत्त्वस्य $ वायुर् आश्रयतां गतः &

तद्धर्मेण समाविष्टस् तेजसैव विवर्तते // वाप १.११७ *//

विभजन् स्वात्मनो ग्रन्थीञ् $ छ्रुतिरूपैः पृथग्विधैः &

प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते // वाप १.११८ *//

आत्मा बुद्ध्या समर्थ्यार्थान् $ मनो युङ्क्ते विवक्षया &

मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम् // वाप १.११९ *//

अजस्रवृत्तिर् यः शब्दः $ सूक्ष्मत्वान् नोपलभ्यते &
व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते // वाप १.१२० //

तस्य प्राणे च या शक्तिर् $ या च बुद्धौ व्यवस्थिता &
विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते // वाप १.१२१ //

शब्देष्व् एवाश्रिता शक्तिर् $ विश्वस्यास्य निबन्धनी &
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते // वाप १.१२२ //

शब्दादिभेदः शब्देन $ व्याख्यातो रूप्यते यतः &
तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः // वाप १.१२३ //

(षड्गादिभेदः अ) शब्दस्यपरिणामो ऽयम् $ इत्य् आम्नायविदो विदुः &
छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते // वाप १.१२४ //

विभज्य बहुधात्मानं $ स च्छन्दस्यः प्रजापतिः &
छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् // वाप १.१२५ //

साध्वी वाग् भूयसी येषु $ पुरुषेषु व्यवस्थिता &
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः // वाप १.१२६ //

प्राजापत्यं महत् तेजस् $ तत्पात्रैर् इव संवृत्तम् &
शरीरभेदे विदुषां स्वां योनिम् उपधावति // वाप १.१२७ //

यद् एतन् मण्डलं भास्वद् $ धाम चित्रस्य राधसः &
तद्भावम् अभिसंभूय विद्यायां प्रविलीयते // वाप १.१२८ //

इतिकर्तव्यता लोके $ सर्वा शब्दव्यपाश्रया &
यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते // वाप १.१२९ //

आद्यः कारणविन्यासः $ प्राणस्योर्ध्वं समीरणम् &
स्थानानाम् अभिघातश् च न विना शब्दभावनाम् // वाप १.१३० //

न सो ऽस्ति प्रत्ययो लोके $ यः शब्दानुगमाद् ऋते &
अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते // वाप १.१३१ //

वाग्रूपता चेत् उत्क्रामेद् $ अवबोधस्य शाश्वती &
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी // वाप १.१३२ //

सा सर्वविद्याशिल्पानां $ कलानां चोपबन्धनी &
तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते // वाप १.१३३ //

सैषा संसारिणां संज्ञा $ बहिर् अन्तश् च वर्तते &
तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु // वाप १.१३४ //

अर्थक्रियासु वाक् सर्वान् $ समीहयति देहिनः &
तदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते काष्टकुड्यवत् // वाप १.१३५ //

भेदोद्ग्राहविवर्तेन $ लब्धाकारपरिग्रहा &

आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा // वाप १.१३६ *//

एकत्वम् अनतिक्रान्ता $ वाङ्नेत्रा वाङ्निबन्धनाः &

पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः // वाप १.१३७ *//

षड्द्वारं षडधिष्ठानां $ [षट्प्र]बोधां षडव्ययाम् &

ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते // वाप १.१३८ *//

प्रविभागे यथा कर्ता $ तया कार्ये प्रवर्तते &
अविभागे तथा सैव कार्यत्वेनावतिष्ठते // वाप १.१३९ //

प्रविभज्यात्मनात्मानं $ सृष्ट्वा भावान् पृथग्विधान् &

सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते // वाप १.१४० *//

स्वमात्रा परमात्रा वा $ श्रुत्या प्रक्रम्यते यथा &
तथैव रूढताम् एति तया ह्य् अर्थो विधीयते // वाप १.१४१ //

अत्यन्तम् अतथाभूते $ निमित्ते श्रुत्यपाश्रयात् &
दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा // वाप १.१४२ //

अपि प्रयोक्तुर् आत्मानं $ शब्दम् अन्तर् अवस्थितम् &
प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते // वाप १.१४३ //

तस्माद् यः शब्दसंस्कारः $ सा सिद्धिः परमात्मनः &
तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते // वाप १.१४४ //

प्राणवृत्तिम् अतिक्रान्ते $ वाचस् तत्त्वे व्यवस्थितः &

क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि // वाप १.१४५ *//

वाचः संस्कारम् आधाय $ वाचं ज्ञाने निवेश्य च &

विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् // वाप १.१४६ *//

ज्योतिर् आन्तरम् आसाद्य $ च्छिन्नग्रन्थिपरिग्रहः &

कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते // वाप १.१४७ *//

न जात्व् अकर्तृकम् कश् चिद् $ आगमं प्रतिपद्यते &
बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता // वाप १.१४८ //

अस्तं यातेषु वादेषु $ कर्तृष्व् अन्येष्व् असत्स्व् अपि &
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते // वाप १.१४९ //

ज्ञाने स्वाभाविके नार्थः $ शास्त्रैः कश् चन विद्यते &
धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् // वाप १.१५० //

वेदशास्त्राविरोधी च $ तर्कश् चक्शुर् अपश्यताम् &
रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति // वाप १.१५१ //

सतो ऽविवक्षा पारार्थ्यं $ व्यक्तिर् अर्थस्य लैङ्गिकी &
इति न्यायो बहुविधस् तर्केण प्रविभज्यते // वाप १.१५२ //

शब्दानाम् एव सा शक्तिस् $ तर्को यः पुरुषाश्रयः &
स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः // वाप १.१५३ //

यद् उदुम्बरवर्णानां $ घटीनां मण्डलं महत् &

पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् // वाप १.१५४ *//

रूपादयो यथा दृष्टाः $ पर्यर्थं यतशक्तयः &
शब्दास् तथैव दृश्यन्ते विषापहरणादिषु // वाप १.१५५ //

यथैषां तत्र सामर्थ्यं $ धर्मे ऽप्य् एवं प्रतीयताम् &
साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् // वाप १.१५६ //

सर्वो ऽदृष्टफलान् अर्थान् $ आगमात् प्रतिपद्यते &
विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे // वाप १.१५७ //

साधुत्वज्ञानविषया $ सेयं व्याकरणस्मृतिः &
अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् // वाप १.१५८ //

वैखर्या मध्यमायाश् च $ पश्यन्त्याश् चैतद् अद्भुतम् &
अनेकतीर्थभेदायास् त्रय्या चाचः परं परम् // वाप १.१५९ //

गौर् इव प्रक्षरत्य् एका $ रसम् उत्तमशालिनी &

दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता // वाप १.१६० *//

एतयोर् अन्तरं पश्य $ सूक्ष्मयोः स्पन्दमानयोः &

प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति // वाप १.१६१ *//

अन्या त्व् अप्रेर्यमाणैव $ विना प्राणेन वर्तते &

जायते हि ततः प्राणो वाचम् आप्याययन् पुनः // वाप १.१६२ *//

प्राणेनाप्यायिता सैवं $ व्यवहारनिबन्धनी &

सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् // वाप १.१६३ *//

घोषिणी जातनिर्घोषा $ अघोषा च प्रवर्तते &

तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी // वाप १.१६४ *//

स्थानेषु विवृते वायौ $ कृतवर्णपरिग्रहा &

वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना // वाप १.१६५ *//

केवलं बुद्ध्युपादान- $ क्रमरूपानुपातिनी &

प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते // वाप १.१६६ *//

अविभागा तु पश्यन्ती $ सर्वतः संहृतक्रमा &

स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी // वाप १.१६७ *//

पीयूषापूर्यमाणापि $ नित्यम् आगन्तुभिर् मलैः &

अन्त्या कलेव सोमस्य नात्यन्तम् अभिधीयते // वाप १.१६८ *//

यस्यां दृष्टस्वरूपायाम् $ अधिकारो निवर्तते &

पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् // वाप १.१६९ *//

प्राप्तोपरागरूपा सा $ विप्लवैर् अनुषङ्गिभिः &

वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते // वाप १.१७० *//

तद्विभागाविभागाभ्यां $ क्रियमाणाम् अवस्थितम् &
स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः // वाप १.१७१ //

अनादिम् अव्यवच्छिन्नां $ श्रुतिम् आहुर् अकर्तृकाम् &
शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः // वाप १.१७२ //

अविभागाद् विवृत्तानाम् $ अभिख्या स्वप्नवच् छ्रुतौ &
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः // वाप १.१७३ //

कायवाग्बुद्धिविषया $ ये मलाः समवस्थिताः &
चिकित्सालक्षणाध्यात्म- शास्त्रैस् तेषां विशुद्धयः // वाप १.१७४ //

शब्दः संस्कारहीनो यो $ गौर् इति प्रयुयुक्ष्यते &
तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् // वाप १.१७५ //

अस्वगोण्यादयः शब्दाः $ साधवो विषयान्तरे &
निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् // वाप १.१७६ //

ते साधुष्व् अनुमानेन $ प्रत्ययोत्पत्तिहेतवः &
तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः // वाप १.१७७ //

न शिष्टैर् अनुगम्यन्ते $ पर्याया इव साधवः &
ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः // वाप १.१७८ //

अंब्वंब्व् इति यथा बालः $ शिक्षमाणो ऽपभाषते &
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः // वाप १.१७९ //

एवं साधौ प्रयोक्तव्ये $ यो ऽपभ्रंशः प्रयुज्यते &
तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते // वाप १.१८० //

पारंपर्याद् अपभ्रंशा $ विगुणेष्व् अभिधातृषु &
प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः // वाप १.१८१ //

दैवी वाग् व्यतिकीर्णेयम् $ अशक्तैर् अभिधातृभिः &
अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः // वाप १.१८२ //

उभयेषाम् अविच्छेदाद् $ अन्यशब्दविवक्षया &
यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः // वाप १.१८३ //

वाक्यपदीय द्वितीय काण्ड

आख्यातं शब्दसंघातो $ जातिः संघातवर्तिनी &
एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः // वाप २.१ //

पदम् आद्यं पृथक् सर्वं $ पदं सापेक्षम् इत्य् अपि &
वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् // वाप २.२ //

निघातादिव्यवस्थार्थं $ शास्त्रे यत् परिभाषितम् &
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं // वाप २.३ //

साकाङ्क्षावयवं भेदे $ परानाकाङ्क्षशब्दकम् &
कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते // वाप २.४ //

संबोधनपदं यच् च $ तत् क्रियाया विशेषकम् &
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् // वाप २.५ //

यथानेकम् अपि क्त्वान्तं $ तिङन्तस्य विशेषकम् &
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् // वाप २.६ //

यथैक एव सर्वार्थ- $ प्रकाशः प्रविभज्यते &
दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा // वाप २.७ //

चित्रस्यैकस्य रूपस्य $ यथा भेदनिदर्शनैः &
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः // वाप २.८ //

तथैवैकस्य वाक्यस्य $ निराकाङ्क्षस्य सर्वतः &
शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते // वाप २.९ //

यथा पदे विभज्यन्ते $ प्रकृतिप्रत्ययादयः &
अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते // वाप २.१० //

वर्णान्तरसरूपत्वं $ वर्णभागेषु दृष्यते &
पदान्तरसरूपाश् च पदभागा इव स्थिताः // वाप २.११ //

भागैर् अनर्थकैर् युक्ता $ वृषभोदकयावकाः &
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् // वाप २.१२ //

शब्दस्य न विभागो ऽस्ति $ कुतो ऽर्थस्य भविष्यति &
विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते // वाप २.१३ //

ब्राह्मणार्थो यथा नास्ति $ कश् चिद् ब्राह्मणकम्बले &
देवदत्तादयो वाक्ये थतैव स्युर् अनर्थकाः // वाप २.१४ //

सामान्यार्थस् तिरोभूतो $ न विशेषे ऽवतिष्ठते &
उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् // वाप २.१५ //

अशाब्दो यदि वाक्यार्थः $ पदार्थो ऽपि तथा भवेत् &
एवं सति च संबन्धः शब्दस्यार्थेन हीयते // वाप २.१६ //

विशेशशब्दाः केषां चित् $ सामान्यप्रतिरूपकाः &
शब्दान्तराभिसंबन्धाद् व्यज्यन्ते प्रतिपत्तृषु // वाप २.१७ //

तेषां तु कृत्स्नो वाक्यार्थः $ प्रतिभेदं समाप्यते &
व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपतृषु // वाप २.१८ //

स व्यक्तः क्रमवाञ् छब्द $ उपांशु यम् अधीयते &
अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते // वाप २.१९ //

यथोत्क्षेपविशेषे ऽपि $ कर्मभेदो न गृह्यते &
आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः // वाप २.२० //

वर्णवाक्यपदेष्व् एवं $ तुल्योपव्यञ्जना श्रुतिः &
अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते // वाप २.२१ //

नित्येषु च कुतः पूर्वं $ परं वा परमार्थतः &
एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते // वाप २.२२ //

चिरं क्षिप्रम् इति ज्ञाने $ कालभेदाद् ऋते यथा &
भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः // वाप २.२३ //

न नित्यः क्रममात्राभिः $ कालो भेदम् इहार्हति &
व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः // वाप २.२४ //

ताभ्यो या जायते बुद्धिर् $ एका सा भागवर्जिता &
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी // वाप २.२५ //

क्रमोल्लेखानुषङ्गेण $ तस्यां यद् बीजम् आहितम् &
तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते // वाप २.२६ //

भावनासमये त्व् एतत् $ क्रमसामर्थ्यम् अक्रमम् &
व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते // वाप २.२७ //

पदानि वाक्ये तान्य् एव $ वर्णास् ते च पदे यदि &
वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् // वाप २.२८ //

भागानाम् अनुपश्लेषान् $ न वर्णो न पदं भवेत् &
तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् // वाप २.२९ //

यद् अन्तःशब्दतत्त्वं तु $ भागैर् एकं प्रकाशितम् &
तम् आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् // वाप २.३० //

अर्थभागैस् तथा तेषाम् $ अन्तरो ऽर्थः प्रकाश्यते &
एकस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ // वाप २.३१ //

प्रकाशकप्रकाश्यत्वं $ कार्यकारणरूपता &
अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा // वाप २.३२ //

तस्यैवास्तित्वनास्तित्वे $ सामर्थ्ये समवस्थिते &
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने // वाप २.३३ //

संप्रत्ययप्रमाणत्वात् $ पदार्थास्तित्वकल्पने &
पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते // वाप २.३४ //

राजशब्देन राजार्थो $ भिन्नरूपेण गम्यते &
वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते // वाप २.३५ //

यथाश्वकर्ण इत्य् उक्ते $ विनैवाश्वेन गम्यते &
कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा // वाप २.३६ //

वाक्येषु अर्थान्तरगतः $ सादृश्यपरिकल्पने &
केषां चित् रूढिशब्दत्वं शास्त्र एवानुगम्यते // वाप २.३७ //

उपादायापि ये हेयास् $ तान् उपायान् प्रचक्षते &
उपायानां च नियमो नावश्यम् अवतिष्ठते // वाप २.३८ //

अर्थं कथं चित् पुरुषः $ कश् चित् संप्रतिपद्यते &
संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः // वाप २.३९ //

सो ऽयम् इत्य् अभिसंबन्धो $ बुद्ध्या प्रक्रम्यते यदा &
वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् // वाप २.४० //

केवलेन पदेनार्थो $ यावान् एवाभिधीयते &
वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् // वाप २.४१ //

संबन्धे सति यत् त्व् अन्यद् $ आधिक्यम् उपजायते &
वाक्यार्तम् एव तं प्राहुर् अनेकपदसंश्रयम् // वाप २.४२ //

स त्व् अनेकपदस्थो ऽपि $ प्रतिभेदं समाप्यते &
जातिवत् समुदाये ऽपि संख्यावत् कल्प्यते ऽपरैः // वाप २.४३ //

सर्वभेदानुगुण्यं तु $ सामान्यम् अपरे विदुः &
तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् // वाप २.४४ //

भेदान् आकाङ्क्षतस् तस्य $ या परिप्लवमामता &
अवच्छिनत्ति संबन्धस् तां विशेषे निवेशयन् // वाप २.४५ //

कार्यानुमेयः संबन्धो $ रूपं तस्य न विद्यते &
असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते // वाप २.४६ //

नियतं साधने साध्यं $ क्रिया नियतसाधना &
स संनिधानमात्रेण नियमः संप्रकाशते // वाप २.४७ //

गुणभावेन साकाङ्क्षं $ तत्र नाम प्रवर्तते &
साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते // वाप २.४८ //

सन्त एव विशेषा ये $ पदार्थेष्व् अविभाविताः &
ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् // वाप २.४९ //

शब्दानां क्रममात्रे च $ नान्यः शब्दो ऽस्ति वाचकः &
क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते // वाप २.५० //

ये च संभविनो भेदाः $ पदार्थेष्व् अविभाविताः &
ते संनिधाने व्यज्यन्ते न तु वर्णेष्व् अयं क्रमः // वाप २.५१ //

वर्णानां च पदानां च $ क्रममात्रनिवेशिनी &
पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः // वाप २.५२ //

समाने ऽपि तु शब्दत्वे $ दृष्टः संप्रत्ययः पदात् &
प्रतिवर्णं त्व् असौ नास्ति पदस्यार्थम् अतो विदुः // वाप २.५३ //

यथा सावयवा वर्णा $ विना वाच्येन केन चित् &
अर्थवन्तः समुदिता वाक्यम् अप्य् एवम् इष्यते // वाप २.५४ //

अनर्थकान्य् अपायत्वात् $ पदार्थेनार्थवन्ति वा &
क्रमेणोच्चरितान्य् आहुर् वाक्यार्थं भिन्नलक्षणम् // वाप २.५५ //

नित्यत्वे समुदायानां $ जातेर् वा परिकल्पने &
एकस्यैकार्थताम् आहुर् वाक्यस्याव्यभिचारिणीम् // वाप २.५६ //

अभेदपूर्वकाभेदाः $ कल्पिता वाक्यवादिभिः &
भेदपूर्वान् अभेदांस् तु मन्यन्ते पददर्शिनः // वाप २.५७ //

पदप्रकृतिभावश् च $ वृत्तिभेदेन वर्ण्यते &
पदानां संहिता योनिः संहिता वा पदाश्रया // वाप २.५८ //

पदाम्नायश् च यद्य् अन्यः $ संहिताया निदर्शकः &
नित्यस् तत्र कथं कार्यं पदं लक्षणदर्शनात् // वाप २.५९ //

प्रतिवर्णम् असंवेद्यः $ पदार्थप्रत्ययो यथा &
पदेश्व् एवम् असंवेद्यं वाक्यार्थस्य निरूपणम् // वाप २.६० //

वाक्यार्थः संनिविशते $ पदेषु सहवृत्तिषु &
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु // वाप २.६१ //

सूक्ष्मं ग्राह्यं यथान्येन $ संसृष्टं सह गृह्यते &
वर्णो ऽप्य् अन्येन वर्णेन संबद्धो वाचकस् तथा // वाप २.६२ //

पदस्योच्चारणाद् अर्थो $ यथा कश् चिन् निरूप्यते &
वर्णानाम् अपि सांनिध्यात् तथा सो ऽर्थः प्रतीयते // वाप २.६३ //

प्राप्तस्य यस्य सामर्थ्यान् $ नियमार्था पुनः श्रुतिः &
तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते // वाप २.६४ //

यजेतेति ततो द्रव्यं $ प्राप्तं सामर्थ्यलक्षणम् &
व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस् तथा // वाप २.६५ //

तस्माद् व्रीहित्वम् अधिकं $ व्रीहिशब्दः प्रकल्पयेत् &
द्रव्यत्वम् अविरुद्धत्वात् प्राप्त्यर्थः सन् न बाधते // वाप २.६६ //

तेन चापि व्यवच्छिन्ने $ द्रव्यत्वे सहचारिणि &
असंभवाद् विशेषाणां तत्रान्येषाम् अदर्शनम् // वाप २.६७ //

न च सामान्यवत् सर्वे $ क्रियाशब्देन लक्षिताः &
विशेषा न हि सर्वेषां सतां शब्दो ऽभिधायकः // वाप २.६८ //

शुक्लादयो गुणाः सन्तो $ यथा तत्राविवक्षिताः &
तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् // वाप २.६९ //

असंनिधौ प्रतिनिधिर् $ मा भून् नित्यस्य कर्मणः &
काम्यस्य वा प्रवृत्तस्य लोप इत्य् उपपद्यते // वाप २.७० //

विशिष्टैव क्रिया येन $ वाक्यार्थः परिकल्प्यते &
द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् // वाप २.७१ //

निर्ज्ञातार्थं पदं यच् च $ तदर्थे प्रतिपादिते &
पिकादि यद् अविज्ञातं तत् किम् इत्य् अनुयुज्यते // वाप २.७२ //

सामर्थ्यप्रापितं यच् च $ व्यक्त्यर्थम् अनुषज्यते &
श्रुतिर् एवानुषङ्गेण बाधिका लिङ्गवाक्ययोः // वाप २.७३ //

अप्राप्तो यस् तु शुक्लादिः $ संनिधानेन गम्यते &
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः // वाप २.७४ //

अभिन्नम् एव वाक्यं तु $ यद्य् अभिन्नार्थम् इष्यते &
तत् सर्वं श्रुतिभूतत्वान् न श्रुत्यैव विरोत्स्यते // वाप २.७५ //

वाक्यानां समुदायश् च $ य एकार्थप्रसिद्धये &
साकाङ्क्षावयवस् तत्र वाक्यार्थो ऽपि न विद्यते // वाप २.७६ //

प्रासङ्गिकम् इदं कार्यम् $ इदं तन्त्रेण लभ्यते &
इदम् आवृत्तिभेदाभ्याम् अत्र बाधसमुच्चयौ // वाप २.७७ //

ऊहो ऽस्मिन् विषये न्याय्यः $ संबन्धो ऽस्य न बाध्यते &
सामान्यस्यातिदेशो ऽयं विशेषो ऽत्रातिदिश्यते // वाप २.७८ //

अर्थित्वम् अत्र सामर्थ्यम् $ अस्मिन्न् अर्थो न भिद्यते &
शास्त्रात् प्राप्ताधिकारो ऽयं व्युदासो ऽस्य क्रियान्तरे // वाप २.७९ //

इयं श्रुत्या क्रमप्राप्तिर् $ इयम् उच्चारणाद् इति &
क्रमो ऽयम् अत्र बलवान् अस्मिंस् तु न विवक्षितः // वाप २.८० //

इदं पराङ्गैः संबद्धम् $ अङ्गानाम् अप्रयोजकम् &
प्रयोजकम् इदं तेषाम् अत्रेदं नान्तरीयकम् // वाप २.८१ //

इदं प्रधानं शेषो ऽयं $ विनियोगक्रमस् त्व् अयम् &
साक्षाद् अस्योपकारीदम् इदम् आराद् विशेषकम् // वाप २.८२ //

शक्तिव्यापारभेदो ऽस्मिन् $ फलम् अत्र तु भिद्यते &
संबन्धाज् जातभेदो ऽयं भेदस् तत्राविवक्षितः // वाप २.८३ //

प्रसज्यप्रतिषेधो ऽयं $ पर्युदासो ऽयम् अत्र तु &
इदं गौणम् इदं मुख्यं व्यापीदं गुरु लघ्व् इदम् // वाप २.८४ //

भेदेनाङ्गाङ्गिभावो ऽस्य $ बहुभेदं विकल्प्यते &
इदं नियम्यते ऽस्यात्र योग्यत्वम् उपजायते // वाप २.८५ //

अस्य वाक्यान्तरे दृष्टाल् $ लिङ्गाद् भेदो ऽनुमीयते &
अयं शब्दैर् अपोद्धृत्य पदार्थः प्रविभज्यते // वाप २.८६ //

इति वाक्येषु ये धर्माः $ पदार्थोपनिबन्धनाः &
सर्वे तेन प्रकल्पेरन् पदं चेत् स्यद् अवाचकम् // वाप २.८७ //

अविभक्ते ऽपि वाक्यार्थे $ शक्तिभेदाद् अपोद्धृते &
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते // वाप २.८८ //

यथैवैकस्य गन्धस्य $ भेदेन परिकल्पना &
पुष्पादिषु तथा वाक्ये ऽप्य् अर्थभेदो ऽभिधीयते // वाप २.८९ //

गवये नरसिंहे वाप्य् $ एकज्ञानावृते यथा &
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते // वाप २.९० //

अप्रसिद्धं तु यं भागम् $ अदृष्टम् अनुपश्यति &
तावत्य् असंविदं मूढः सर्वत्र प्रतिपद्यते // वाप २.९१ //

तथा पिकादियोगेन $ वाक्ये ऽत्यन्तविलक्षणे &
सदृशस्येव संज्ञानम् असतो ऽर्थस्य मन्यते // वाप २.९२ //

एकस्य भागे सादृश्यं $ भागे भेदश् च लक्ष्यते &
निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा // वाप २.९३ //

तथैव भागे सादृश्यं $ भागे भेदो ऽवसीयते &
भागाभावे ऽपि वाक्यानाम् अत्यन्तं भिन्नधर्मणाम् // वाप २.९४ //

रूपनाशे पदानां स्यात् $ कथं चावधिकल्पना &
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते // वाप २.९५ //

संसर्ग इव रूपाणां $ शब्दे ऽन्यत्र व्यवस्थितः &
नानारूपेषु तद्रूपं तन्त्रेणापरम् इष्यते // वाप २.९६ //

तस्मिन्न् अभेदे भेदानां $ संसर्ग इव वर्तते &
रूपं रूपान्तरात् तस्माद् अनन्यत् प्रविभज्यते // वाप २.९७ //

शास्त्रे प्रत्यायकस्यापि $ क्वचिद् एकत्वम् आश्रितम् &
प्रत्याय्येन क्वचिद् भेदो ग्रहणग्राह्ययोः स्थितः // वाप २.९८ //

ऊ इत्य् अभेदम् आश्रित्य $ यथासंख्यं प्रकल्पितम् &
लृलुटोर् ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः // वाप २.९९ //

यस्येत्य् एतद् अणो रूपं $ संज्ञिनाम् अभिधायकम् &
न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः // वाप २.१०० //

ऊ इत्य् एतद् अभिन्नं च $ भिन्नवाक्यनिबन्धनम् &
भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः // वाप २.१०१ //

प्लुतस्याङ्गविवृद्धिं च $ समाहारम् अचोस् तथा &
व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः // वाप २.१०२ //

अर्धर्चादिषु शब्देषु $ रूपभेदः क्रमाद् यथा &
तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा // वाप २.१०३ //

संहिताविषये वर्णाः $ स्वरूपेणाविकारिणः &
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् // वाप २.१०४ //

इन्द्रियादिविकारेण $ दृष्टं ग्राह्येषु वस्तुषु &
आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ // वाप २.१०५ //

अभिधानक्रियाभेदाच् $ छब्देष्व् अविकृतेष्व् अपि &
रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते // वाप २.१०६ //

ऋचो वा गीतिमात्रं वा $ साम द्रव्यान्तरं न तु &
गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः // वाप २.१०७ //

उपायाच् छ्रुतिसंहारे $ भिन्नानाम् एकशेषिणाम् &
तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते // वाप २.१०८ //

परिगृह्य श्रुतिं चैकां $ रूपभेदवताम् अपि &
तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः // वाप २.१०९ //

सरूपाणां च वाक्यानां $ शास्त्रेणाप्रतिपादितम् &
तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते // वाप २.११० //

एकस्यानेकरूपत्वं $ नालिकादिपरिग्रहात् &
यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता // वाप २.१११ //

यथा पदसरूपाणां $ वाक्यानां संभवः पृथक् &
तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता // वाप २.११२ //

अभिधेयः पदस्यार्थो $ वाक्यस्यार्थः प्रयोजनम् &
यस्य तस्य न संबन्धो वाक्यानाम् उपपद्यते // वाप २.११३ //

तत्र क्रियापदान्य् एव $ व्यपेक्षन्ते परस्परम् &
क्रियापदानुषक्तस् तु संबन्धो ऽथ प्रतीयते // वाप २.११४ //

आवृत्तिर् अनुवादो वा $ पदार्थव्यक्तिकल्पने &
प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते // वाप २.११५ //

अविकल्पितवाक्यार्थे $ विकल्पा भावनाश्रयाः &
अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः // वाप २.११६ //

अभ्यासात् प्रतिभाहेतुः $ सर्वः शब्दो ऽपरैः स्मृतः &
बालानां च तिरश्चां च यथार्थप्रतिपादने // वाप २.११७ //

अनागमश् च सो ऽभ्यासः $ समयः कैश् चिद् इष्यते &
अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः // वाप २.११८ //

अस्त्य् अर्थः सर्वशब्दानां $ इति प्रत्याय्यलक्षणम् &
अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु // वाप २.११९ //

प्रयोगदर्शनाभ्यासाद् $ आकारावग्रहस् तु यः &
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः // वाप २.१२० //

के चिद् भेदाः प्रकाश्यन्ते $ शब्दैस् तदभिधायिभिः &
अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते // वाप २.१२१ //

जातेः प्रत्यायके शब्दे $ या व्यक्तिर् अनुषङ्गिणी &
न तद्व्यक्तिगतान् भेदाञ् जातिशब्दो ऽवलम्बते // वाप २.१२२ //

घटादीनां न चाकारान् $ प्रत्याययति वाचकः &
वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका // वाप २.१२३ //

क्रिया विना प्रयोगेण $ न दृष्टा शब्दचोदिता &
प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते // वाप २.१२४ //

नियतास् तु प्रयोगा ये $ नियतं यच् च साधनम् &
तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते // वाप २.१२५ //

समुदायो ऽभिधेयो वाप्य् $ अविकल्पसमुच्चयः &
असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते // वाप २.१२६ //

असत्योपाधि यत् सत्यं $ तद् वा शब्दनिबन्धनाम् &
शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यताम् // वाप २.१२७ //

सो ऽयम् इत्य् अभिसंबन्धाद् $ रूपम् एकीकृतं यता &
शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते // वाप २.१२८ //

तयोर् अपृथगात्मत्वे $ रूढिर् अव्यभिचारिणी &
किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते // वाप २.१२९ //

लोके ऽर्थरूपतां शब्दः $ प्रतिपन्नः प्रवर्तते &
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया // वाप २.१३० //

अशक्तेः सर्वशक्तेर् वा $ शब्दैर् एव प्रकल्पिता &
एकस्यार्थस्य नियता क्रियादिपरिकल्पना // वाप २.१३१ //

यो वार्थो बुद्धिविषयो $ बाह्यवस्तुनिबन्धनः &
स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते // वाप २.१३२ //

आकारवन्तः संवेद्या $ व्यक्तिस्मृतिनिबन्धनाः &
एते प्रत्यवभासन्ते संविन्ंआत्रं त्व् अतो ऽन्यथा // वाप २.१३३ //

यथेन्द्रियं संनिपतद् $ वैचित्रेणोपदर्शकं &
तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा // वाप २.१३४ //

वक्त्रान्यथैव प्रक्रान्तो $ भिन्नेषु प्रतिपत्तृषु &
स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते // वाप २.१३५ //

एकस्मिन्न् अपि दृश्ये ऽर्थे $ दर्शनं भिद्यते पृथक् &
कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः // वाप २.१३६ //

एकस्यापि च शब्दस्य $ निमित्तैर् अव्यवस्थितैः &
एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते // वाप २.१३७ //

तस्माद् अदृष्टतत्त्वानां $ सापराधं बहुच्छलं &
दर्शनं वचनं वापि नित्यम् एवानवस्थितम् // वाप २.१३८ //

ऋषीणां दर्शनं यच् च $ तत्त्वे किं चिद् अवस्थितम् &
न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनं // वाप २.१३९ //

तलवद् दृश्यते व्योम $ खद्योतो हव्यवाड् इव &
नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः // वाप २.१४० //

तस्मात् प्रत्यक्षम् अप्य् अर्थं $ विद्वान् ईक्षेत युक्तितः &
न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् // वाप २.१४१ //

असमाख्येयतत्त्वानाम् $ अर्थानां लौकिकैर् यथा &
व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् // वाप २.१४२ //

विच्छेदग्रहणे ऽर्थानां $ प्रतिभान्यैव जायते &
वाक्यार्थ इति ताम् आहुः पदार्थैर् उपपादिताम् // वाप २.१४३ //

इदं तद् इति सान्येषाम् $ अनाक्येया कथं चन &
प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते // वाप २.१४४ //

उपश्लेषम् इवार्थानां $ सा करोत्य् अविचारिता &
सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते // वाप २.१४५ //

साक्शाच् छब्देन जनितां $ भावनानुगमेन वा &
इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते // वाप २.१४६ //

प्रमाणत्वेन तां लोकः $ सर्वः समनुगच्छति &
समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् // वाप २.१४७ //

यथा द्रव्यविशेषाणां $ परिपाकैर् अयत्नजाः &
मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा // वाप २.१४८ //

स्वरवृत्तिं विकुरुते $ मधौ पुंस्कोकिलस्य कः &
जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् // वाप २.१४९ //

आहारप्रीत्यपद्वेष- $ प्लवनादिक्रियासु कः &
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् // वाप २.१५० //

भावनानुगताद् एतद् $ आगमाद् एव जायते &
आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते // वाप २.१५१ //

स्वभाववरणाभास- $ योगादृष्टोपपादिताम् &
विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः // वाप २.१५२ //

यथा संयोगिभिर् द्रव्यैर् $ लक्षिते ऽर्थे प्रयुज्यते &
गोशब्दो न त्व् असौ तेषां विशेशाणां प्रकाशकः // वाप २.१५३ //

आकारवर्णावयवैः $ संसृष्टेषु गवादिषु &
शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ // वाप २.१५४ //

संस्थानवर्णावयवैर् $ विशिष्टे ऽर्थे प्रयुज्यते &
शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते // वाप २.१५५ //

दुर्लभं कस्य चिल् लोके $ सर्वावयवदर्शनं &
कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्सो ऽनुमीयते // वाप २.१५६ //

तथा जात्युत्पलादीनां $ गन्धेन सहचारिणाम् &
नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् // वाप २.१५७ //

संख्याप्रमाणसंस्थान- $ निरपेक्षः प्रवर्तते &
बिन्दौ च समुदाये च वाचकः सलिलादिषु // वाप २.१५८ //

संस्कारादिपरिच्छिन्ने $ तैलादौ यो व्यवस्थितः &
आहैकदेशं तत्त्वेन तस्यावयववर्तिना // वाप २.१५९ //

येनार्थेनाभिसंबद्धम् $ अभिधानं प्रयुज्यते &
तदर्थापगमे तस्य प्रयोगो विनिवर्तते // वाप २.१६० //

यांस् तु संभविनो धर्मान् $ अन्तर्णीय प्रयुज्यते &
शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते // वाप २.१६१ //

यथा रोमशफादीनां $ व्यभिचारे ऽपि दृश्यते &
गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते // वाप २.१६२ //

तस्मात् संभविनो ऽर्थस्य $ शब्दात् संप्रत्यये सति &
अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते // वाप २.१६३ //

वाचिका द्योतिका व स्युर् $ द्वित्वादीनां विभक्तयः &
स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः // वाप २.१६४ //

विना संख्याभिधानाद् वा $ संख्याभेदसमन्वितान् &
अर्थान् स्वरूपभेदेन काम्श् चिद् आहुर् गवादयः // वाप २.१६५ //

ये शब्दा नित्यसंबन्धा $ विवेके ज्ञातशक्तयः &
अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते // वाप २.१६६ //

यावच् चाव्यभिचारेण $ तयोः शक्यं प्रकल्पनम् &
नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु // वाप २.१६७ //

संभवे नाभिधानस्य $ लक्षणत्वं प्रकल्पते &
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः // वाप २.१६८ //

न कूपसूपयूपानाम् $ अन्वयो ऽर्थस्य दृश्यते &
अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते // वाप २.१६९ //

अन्वाख्यानानि भिद्यन्ते $ शब्दव्युत्पत्तिकर्मसु &
बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते // वाप २.१७० //

वैरवासिष्ठगिरिशास् $ तथैकागारिकादयः &
कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः // वाप २.१७१ //

यथा पथः समाख्यानं $ वृक्षवल्मीकपर्वतैः &
अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः // वाप २.१७२ //

अन्यथा च समाख्यानम् $ अवस्थाभेददर्शिभिः &
क्रियते किंशुकादीनाम् एकदेशावधारणं // वाप २.१७३ //

कैश् चिन् निर्वचनं भिन्नं $ गिरतेर् गर्जतेर् गमेः &
गवतेर् गदतेर् वापि गौर् इत्य् अत्रानुदर्शितम् // वाप २.१७४ //

गौर् इत्य् एव स्वरूपाद् वा $ गोशब्दो गोषु वर्तते &
व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते // वाप २.१७५ //

सामान्येनोपदेशश् च $ शास्त्रे लघ्वर्थम् आश्रितः &
जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः // वाप २.१७६ //

अर्थान्तरे च यद् वृत्तं $ तत् प्रकृत्यन्तरं विदुः &
तुल्यरूपं न तद् रूढाव् अन्यस्मिन्न् अनुषज्यते // वाप २.१७७ //

भिन्नाव् इजियजी धातू $ नियतौ विषयान्तरे &
कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् // वाप २.१७८ //

एवं च वालवायादि $ जित्वरीवद् उपाचरेत् &
भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् चन // वाप २.१७९ //

अडादीनां व्यवस्थार्थं $ पृथक्त्वेन प्रकल्पनम् &
धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः // वाप २.१८० //

तथा हि संग्रामयतेः $ सोपसर्गाद् विधिः स्मृतः &
क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः // वाप २.१८१ //

कार्याणाम् अन्तरङ्गत्वम् $ एवं धातूपसर्गयोः &
साधनैर् याति संबन्धं तथाभूतैव सा क्रिया // वाप २.१८२ //

प्रयोगार्थेषु सिद्धः सन् $ भेत्तव्यो ऽर्थो विशिष्यते &
प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते // वाप २.१८३ //

धातोः साधनयोगस्य $ भाविनः प्रक्रमाद् यथा &
धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् // वाप २.१८४ //

बीजकालेषु संबन्धाद् $ यथा लाक्षारसादयः &
वर्णादिपरिणामेन फलानाम् उपकुर्वते // वाप २.१८५ //

बुद्धिस्थाद् अभिसंबन्धात् $ तथा धातूपसर्गयोः &
अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते // वाप २.१८६ //

क्व चित् संभविनो भेदाः $ केवलैर् अनिदर्शिताः &
उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना // वाप २.१८७ //

स वाचको विशेषाणां $ संभवाद् द्योतको ऽपि वा &
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते // वाप २.१८८ //

स्थादिभिः केवलैर् यच् च $ गमनादि न गम्यते &
तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते // वाप २.१८९ //

अप्रयोगे ऽधिपर्योश् च $ यावद् दृष्टं क्रियान्तरम् &
तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः // वाप २.१९० //

तथैव स्वार्थिकाः के चित् $ संघातान्तरवृत्तयः &
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः // वाप २.१९१ //

निपाता द्योतकाः के चित् $ पृथगर्थप्रकल्पने &
आगमा इव के चित् तु संभूयार्थस्य साधकाः // वाप २.१९२ //

उपरिष्टात् पुरस्ताद् वा $ द्योतकत्वं न भिद्यते &
तेषु प्रयुज्यमानेषु भिन्नार्थेष्व् अपि सर्वथा // वाप २.१९३ //

चादयो न प्रयुज्यन्ते $ पदत्वे सति केवलाः &
प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते // वाप २.१९४ //

समुच्चिताभिधाने तु $ व्यतिरेको न विद्यते &
असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते // वाप २.१९५ //

समुच्चिताभिधाने ऽपि $ विशिष्टार्थाभिधायिनाम् &
गुणैर् पदानां संबन्धः परतन्त्रास् तु चादयः // वाप २.१९६ //

जनयित्वा क्रिया का चित् $ संबन्धं विनिवर्तते &
श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् // वाप २.१९७ //

तत्र षष्ठी प्रतिपदं $ समासस्य निवृत्तये &
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् // वाप २.१९८ //

स चोपजातः संबन्धो $ विनिवृत्ते क्रियापदे &
कर्मप्रवचनीयेन तत्र तत्र नियम्यते // वाप २.१९९ //

येन क्रियापदाक्षेपः $ स कारकविभक्तिभिः &
युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता // वाप २.२०० //

तिष्ठतेर् अप्रयोगश् च $ दृष्टो ऽप्रत्य् अजयन्न् इति &
सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते // वाप २.२०१ //

कर्मप्रवचनीयत्वं $ क्रियायोगे विधीयते &
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् // वाप २.२०२ //

हेतुहेतुमतोर् योग- $ परिच्छेदे ऽनुना कृते &
आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा // वाप २.२०३ //

क्रियाया द्योतको नायं $ न संबन्धस्य वाचकः &
नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः // वाप २.२०४ //

अनर्थकानां संघातः $ सार्थको ऽनर्थकस् तथा &
वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे // वाप २.२०५ //

पदानाम् अर्थयुक्तानां $ संघातो भिद्यते पुनः &
अर्थान्तरावबोधेन संबन्धविगमेन च // वाप २.२०६ //

सार्थकानर्थकौ भेदे $ संबन्धं नाधिगच्छतः &
अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् // वाप २.१०७ //

अर्थवद्भ्यो विशिष्टार्थः $ संघात उपजायते &
नोपजायत इत्य् एके समासस्वार्थिकादिषु // वाप २.२०८ //

के चिद् धि युतसिद्धार्था $ भेदे निर्ज्ञातशक्तयः &
अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः // वाप २.२०९ //

शास्त्रार्थ एव वर्णानाम् $ अर्थवत्त्वे प्रदर्शितः &
धात्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते // वाप २.२१० //

कृत्तद्धितानाम् अर्थश् च $ केवलानाम् अलौकिकः &
प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते // वाप २.२११ //

अभिव्यक्ततरो यो ऽर्थः $ प्रत्ययान्तेषु लक्ष्यते &
अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः // वाप २.२१२ //

आत्मभेदो न चेत् कश् चिद् $ वर्णेभ्यः पदवाक्ययोः &
अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः // वाप २.२१३ //

वर्णेन केन चिन् न्यूनः $ संघातो यो ऽभिधायकः &
न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते // वाप २.२१४ //

स तस्मिन् वाचके शब्दे $ निमित्तात् स्मृतिम् आदधत् &
साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते // वाप २.२१५ //

पदवाच्यो यथा नार्थः $ कश् चिद् गौरखरादिषु &
सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते // वाप २.२१६ //

समन्वित इवार्थात्मा $ पदार्थैर् यः प्रतीयते &
पदार्थदर्शनं तत्र तथैवानुपकारकम् // वाप २.२१७ //

समुदायावयवयोर् $ भिन्नार्थत्वे च वृत्तिषु &
युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ // वाप २.२१८ //

कश् च साधनमात्रार्थान् $ अध्यादीन् परिकल्पयेत् &
अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् // वाप २.२१९ //

प्रज्ञुसंज्ञ्वाद्यवयवैर् $ न चास्त्य् अर्थावधारणम् &
तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् // वाप २.२२० //

गर्गा इत्य् एक एवायं $ बहुष्व् अर्थेषु वर्तते &
द्वन्द्वसंज्ञो ऽपि संघातो बहूनाम् अभिधायकः // वाप २.२२१ //

यथैकशेषे भुज्यादिः $ प्रत्येकम् अवतिष्ठते &
क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते // वाप २.२२२ //

यच् च द्वन्द्वपदार्थस्य $ तच्छब्देन व्यपेक्षणम् &
सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता // वाप २.२२३ //

यथा च खदिरच्छेदे $ भागेषु क्रमवांस् छिदिः &
तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् // वाप २.२२४ //

सङ्घैकदेशे प्रक्रान्तान् $ यथा सङ्घानुपातिनः &
क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः // वाप २.२२५ //

प्रतिपादयता वृत्तिम् $ अबुद्धान् वाक्यपूर्विकाम् &
वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् // वाप २.२२६ //

अभेदाद् अभिधेयस्य $ नञ्समासे विकल्पितम् &
प्राधान्यं बहुधा भाष्ये दोषास् तु प्रक्रियागताः // वाप २.२२७ //

जहत्स्वार्थविकल्पे च $ सर्वार्थत्यागम् इच्छता &
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः // वाप २.२२८ //

शास्त्रे क्व चित् प्रकृत्यर्थः $ प्रत्ययेनाभिधीयते &
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः // वाप २.२२९ //

यम् अर्थम् आहतुर् भिन्नौ $ प्रत्ययाव् एक एव तम् &
क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् // वाप २.२३० //

अन्वाख्यानस्मृतेर् ये च $ प्रत्ययार्था निबन्धनम् &
निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः // वाप २.२३१ //

प्रसिद्धेर् उद्वमिकरीत्य् $ एवं शास्त्रे ऽभिधीयते &
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः // वाप २.२३२ //

शास्त्रेषु प्रक्रियाभेदैर् $ अविद्यैवोपवर्ण्यते &
अनागमविकल्पा तु स्वयं विद्योपवर्तते // वाप २.२३३ //

अनिबद्धं निमित्तेषु $ निरुपाख्यं फलं यथा &
तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते // वाप २.२३४ //

यथाभ्यासं हि वाग् अर्थे $ प्रतिपत्तिं समीहते &
स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः // वाप २.२३५ //

उत्प्रेक्षते सावयवं $ परमाणुम् अपण्डितः &
तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः // वाप २.२३६ //

घटादिदर्शनाल् लोकः $ परिच्छिन्नो ऽवसीयते &
समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् // वाप २.२३७ //

उपायाः शिक्षमाणानां $ बालानाम् उपलापनाः &
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते // वाप २.२३८ //

अन्यथा प्रतिपद्यार्थं $ पदग्रहणपूर्वकम् &
पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते // वाप २.२३९ //

उपात्ता बहवो ऽप्य् अर्था $ येष्व् अन्ते प्रतिषेधनम् &
क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् // वाप २.२४० //

वृक्षो नास्तीति वाक्यं च $ विशिष्टाभावलक्षणम् &
नार्थे न बुद्धौ संबन्धो निवृत्तेर् अवतिष्ठते // वाप २.२४१ //

विच्छेदप्रतिपत्तौ च $ यद्य् अस्तीत्य् अवधार्यते &
अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् // वाप २.२४२ //

अथ यज् ज्ञानम् उत्पन्नं $ तन् मिथ्येति नञा कृतम् &
नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् // वाप २.२४३ //

निराधारप्रवृत्तौ च $ प्राक्प्रवृत्तिर् नञो भवेत् &
अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् // वाप २.२४४ //

नियमद्योतनार्था वाप्य् $ अनुवादो यथा भवेत् &
कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः // वाप २.२४५ //

विरुद्धं चाभिसंबन्धम् $ उदाहार्यादिभिः कृतम् &
वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते // वाप २.२४६ //

स्तुतिनिन्दाप्रधानेषु $ वाक्येष्व् अर्थो न तादृशः &
पदानां प्रविभागेन यादृशः परिकल्प्यते // वाप २.२४७ //

अथासंसृष्ट एवार्थः $ पदेषु समवस्थितः &
वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने // वाप २.२४८ //

पूर्वं पदेष्व् असंसृष्टो $ यः क्रमाद् उपचीयते &
छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः // वाप २.२४९ //

एकम् आहुर् अनेकार्थं $ शब्दम् अन्ये परीक्षकाः &
निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते // वाप २.२५० //

यौगपद्यम् अतिक्रम्य $ पर्याये व्यवतिष्ठते &
अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा // वाप २.२५१ //

यथा सास्नादिमान् पिण्डो $ गोशब्देनाभिधीयते &
तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः // वाप २.२५२ //

सर्वशक्तेस् तु तस्यैव $ शब्दस्यानेकधर्मणः &
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते // वाप २.२५३ //

एको मन्त्रस् तथाध्यात्मम् $ अधिदैवम् अधिक्रतु &
असंकरेण सर्वार्थो भिन्नशक्तिर् अवस्थितः // वाप २.२५४ //

गोत्वानुषङ्गो वाहीके $ निमित्तात् कैश् चिद् इष्यते &
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः // वाप २.२५५ //

तथा स्वरूपं शब्दानां $ सर्वार्थेष्व् अनुषज्यते &
अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता // वाप २.२५६ //

एकत्वं तु सरूपत्वाच् $ छब्दयोर् गौणमुख्ययोः &
प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः // वाप २.२५७ //

सामिधेन्यन्तरं चैवम् $ आवृत्ताव् अनुषज्यते &
मन्त्रास् च विनियोगेन लभन्ते भेदम् ऊहवत् // वाप २.२५८ //

तान्य् आम्नायान्तराण्य् एव $ पठ्यते किं चिद् एव तु &
अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते // वाप २.२५९ //

शब्दस्वरूपम् अर्थस् तु $ पाठे ऽन्यैर् उपवर्ण्यते &
अत्यन्तभेदः सर्वेषां तत्संबन्धात् तु तद्वताम् // वाप २.२६० //

अन्या संस्कारसावित्री $ कर्मण्य् अन्या प्रयुज्यते &
अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते // वाप २.२६१ //

अर्थस्वरूपे शब्दानां $ स्वरूपाद् वृत्तिम् इच्छतः &
वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया // वाप २.२६२ //

अनेकार्थत्वम् एकस्य $ यैः शब्दस्यानुगम्यते &
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना // वाप २.२६३ //

अर्थप्रकरणापेक्षो $ यो वा शब्दान्तरैः सह &
युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः // वाप २.२६४ //

शुद्धस्योच्चारणे स्वार्थः $ प्रसिद्धो यस्य गम्यते &
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः // वाप २.२६५ //

यस् त्व् अन्यस्य प्रयोगेण $ यत्नाद् इव नियुज्यते &
तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् // वाप २.२६६ //

स्वार्थे प्रवर्तमानो ऽपि $ यस्यार्थं यो ऽवलम्बते &
निमित्तं तत्र मुख्यं स्यान् निमित्ती गौण इष्यते // वाप २.२६७ //

पुराराद् इति भिन्ने ऽर्थे $ यौ वर्तेते विरोधिनि &
अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् // वाप २.२६८ //

वाक्यस्यार्थात् पदार्थानाम् $ अपोद्धारे प्रकल्पिते &
शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते // वाप २.२६९ //

यच् चाप्य् एकं पदं दृष्टं $ चरितास्तिक्रियं क्व चित् &
तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते // वाप २.२७० //

यच् च को ऽयम् इति प्रश्ने $ गौर् अश्व इति चोच्यते &
प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका // वाप २.२७१ //

नैवाधिकत्वं धर्माणां $ न्यूनता वा प्रयोजिका &
आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् // वाप २.२७२ //

जातिशब्दो ऽन्तरेणापि $ जातिं यत्र प्रयुज्यते &
संबन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः // वाप २.२७३ //

विपर्यासाद् इवार्थस्य $ यत्रार्थान्तरताम् इव &
मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् // वाप २.२७४ //

नियताः साधनत्वेन $ रूपशक्तिसमन्विताः &
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः // वाप २.२७५ //

क्रियान्तरे न चैतेषां $ विभवन्ति न शक्तयः &
रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते // वाप २.२७६ //

तथैव रूपशक्तिभ्याम् $ उत्पत्त्या समवस्थितः &
शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते // वाप २.२७७ //

श्रुतिमात्रेण यत्रास्य $ सामर्थ्यम् अवसीयते &
तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् // वाप २.२७८ //

गोयुष्मन्महतां च्व्यर्थे $ स्वार्थाद् अर्थान्तरे स्थितौ &
अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते // वाप २.२७९ //

महत्त्वं शुक्लभावं च $ प्रकृतिः प्रतिपद्यते &
भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका // वाप २.२८० //

अग्निसोमादयः शब्दा $ ये स्वरूपपदार्थकाः &
संज्ञिभिः संप्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता // वाप २.२८१ //

अग्निदत्तस् तु यो ऽग्निः स्यात् $ तत्र स्वार्थोपसर्जनः &
शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते // वाप २.२८२ //

निमित्तभेदात् प्रक्रान्ते $ शब्दव्युत्पत्तिकर्मणि &
हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ // वाप २.२८३ //

ऋष्यादौ प्राप्तसंस्कारो $ यः शब्दो ऽन्येन युज्यते &
तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते // वाप २.२८४ //

अत्यन्तविपरीतो ऽपि $ यथा यो ऽर्थो ऽवधार्यते &
यथासंप्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते // वाप २.२८५ //

यद्य् अपि प्रत्ययाधीनम् $ अर्थतत्त्वावधारणम् &
न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते // वाप २.२८६ //

दर्शनं सलिले तुल्यं $ मृगतृष्णादिदर्शनैः &
भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका // वाप २.२८७ //

यद् असाधारणं कार्यं $ प्रसिद्धं रज्जुसर्पयोः &
तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने // वाप २.२८८ //

प्रसिद्धार्थविपर्यास- $ निमित्तं यच् च दृश्यते &
यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते // वाप २.२८९ //

यच् च निम्नोन्नतं चित्रे $ सरूपं पर्वतादिभिः &
न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते // वाप २.२९० //

स्पर्शप्रबन्धो हस्तेन $ यथा चक्रस्य संततः &
न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् // वाप २.२९१ //

वप्रप्राकारकल्पैश् च $ स्पर्शनावरणे यथा &
नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि // वाप २.२९२ //

मृगपश्वादिभिर् यावान् $ मुख्यैर् अर्थः प्रसाध्यते &
तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः // वाप २.२९३ //

महान् आव्रियते देशः $ प्रसिद्धैः पर्वतादिभिः &
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते // वाप २.२९४ //

मरणादिनिमित्तं च $ यथा मुख्या विषादयः &
न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः // वाप २.२९५ //

देशकालेन्द्रियगतैर् $ भेदैर् यद् दृश्यते ऽन्यथा &
यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते // वाप २.२९६ //

यच् चोपघातजं ज्ञानं $ यच् च ज्ञानम् अलौकिकम् &
न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः // वाप २.२९७ //

घटादिषु यथा दीपो $ येनार्थेन प्रयुज्यते &
ततो ऽन्यस्यापि सांनिध्यात् स करोति प्रकाशनम् // वाप २.२९८ //

संसर्गिषु तथार्थेषु $ शब्दो येन प्रयुज्यते &
तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ // वाप २.२९९ //

निर्मन्थनं यथारण्योर् $ अग्न्यर्थम् उपपादितम् &
धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् // वाप २.३०० //

तथा शब्दो ऽपि कस्मिंश् चित् $ प्रत्याय्ये ऽर्थे विवक्षिते &
अविवक्षितम् अप्य् अर्थं प्रकाशयते संनिधेः // वाप २.३०१ //

यथैवात्यन्तसंसृष्टस् $ त्यक्तुम् अर्थो न शक्यते &
तथा शब्दो ऽपि संबन्धी प्रविवक्तुं न शक्यते // वाप २.३०२ //

अर्थानां संनिधाने ऽपि $ सति चैषां प्रकाशने &
प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते // वाप २.३०३ //

क्व चिद् गुणप्रधानत्वम् $ अर्थानाम् अविवक्षितम् &
क्व चित् सांनिध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् // वाप २.३०४ //

यच् चानुपात्तं शब्देन $ तत् कस्मिंश् चित् प्रतीयते &

क्व चित् प्रधानम् एवार्थो भवत्य् अयस्य लक्षणम् // वाप २.३०५ *//

आख्यातं तद्धितार्थस्य $ यत् किं चिद् उपदर्शकम् &

गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः // वाप २.३०६ *//

निर्देशे लिङ्गसंख्यानां $ संनिधानम् अकारणम् &

प्रमाणम् अर्धह्रसादाव् अनुपात्तं प्रतीयते // वाप २.३०७ //

ह्रस्वस्यार्धं च यद् दृष्टं $ तत् तस्यासंनिधाव् अपि &
ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते // वाप २.३०८ //

दीर्घप्लुताभ्यां तस्य स्यान् $ मात्रया वा विशेषणम् &
जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् // वाप २.३०९ //

गन्तव्यं दृश्यतां सूर्य $ इति कालस्य लक्षणे &
ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते // वाप २.३१० //

विध्यत्य् अधनुषेत्य् अत्र $ विशेषेण निदर्श्यते &
सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः // वाप २.३११ //

काकेभ्यो रक्ष्यतां सर्पिर् $ इति बालो ऽपि चोदितः &
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति // वाप २.३१२ //

प्रक्षालने शरावाणां $ स्थाननिर्मार्जनं तथा &
अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते // वाप २.३१३ //

वाक्यात् प्रकरणाद् अर्थाद् $ औचित्याद् देशकालतः &
शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् // वाप २.३१४ //

संसर्गो विप्रयोगश् च $ साहचर्यं विरोधिता &
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः // वाप २.३१५ //

सामर्थ्यम् औचिती देशः $ कालो व्यक्तिः स्वरादयः &
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः // वाप २.३१६ //

भेदपक्षे ऽपि सारूप्याद् $ भिन्नार्थाः प्रतिपत्तृषु &
नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः // वाप २.३१७ //

नामाख्यातसरूपा ये $ कार्यान्तरनिबन्धनाः &
शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते // वाप २.३१८ //

या प्रवृत्तिनिवृत्त्यर्था $ स्तुतिनिन्दाप्रकल्पना &
कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते // वाप २.३१९ //

विधीयमानं यत् क्रर्म $ दृष्टादृष्टप्रयोजनम् &
स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका // वाप २.३२० //

व्याघ्रादिव्यपदेशेन $ यथा बालो निवर्त्यते &
असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते // वाप २.३२१ //

न संविधानां कृत्वापि $ प्रत्यवाये तथाविधे &
शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते // वाप २.३२२ //

सर्पेषु संविधायापि $ सिद्धैर् मन्त्रौषधादिभिः &
नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति // वाप २.३२३ //

क्व चित् तत्त्वसमाख्यानं $ क्रियते स्तुतिनिन्दयोः &
तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते // वाप २.३२४ //

रूपं सर्वपदार्थानां $ वाक्यार्थोपनिबन्धनम् &
सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः // वाप २.३२५ //

वाक्यं तद् अपि मन्यन्ते $ यत् पदं चरितक्रियम् &
अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् // वाप २.३२६ //

आख्यातशब्दे नियतं $ साधनं यत्र गम्यते &
तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीयते // वाप २.३२७ //

शब्दव्यवहिता बुद्धिर् $ अप्रयुक्तपदाश्रया &
अनुमानं तदर्थस्य प्रत्यये हेतुर् उच्यते // वाप २.३२८ //

[थिस् वेर्से इस् ओन्ल्य् इन् ऋऔ] अपरे तु पदस्यैव $ तम् अर्थं प्रतिजानते &
शब्दान्तराभिसंबन्धम् अन्तरेण व्यवस्थितम् // वाप २.३२९ //

यस्मिन्न् उच्चरिते शब्दे $ यदा यो ऽर्थः प्रतीयते &
तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् // वाप २.३३० //

क्रियार्थोपपदेश्व् एवं $ स्थानिनां गम्यते क्रिया &
वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते // वाप २.३३१ //

तानि शब्दान्तराण्य् एव $ पर्याया इव लौकिकाः &
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते // वाप २.३३२ //

प्रतिबोधाभ्युपायास् तु $ ये तं तं पुरुषं प्रति &
नावश्यं ते ऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना // वाप २.३३३ //

असत्यां प्रतिपत्तौ वा $ मिथ्या वा प्रतिपादने &
स्वैर् अर्थैर् नित्यसंबन्धास् ते ते शब्दा व्यवस्थिताः // वाप २.३३४ //

यथाप्रकरणं द्वारम् $ इत्य् अस्यां कर्मणः श्रुतौ &
बधान देहि वेत्य् एतद् उपायाद् अवगम्यते // वाप २.३३५ //

तत्र साधनवृत्तिर् यः $ शब्दः सत्त्वनिबन्धनः &
न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः // वाप २.३३६ //

स्वार्थमात्रं प्रकाश्यासौ $ सापेक्षो विनिवर्तते &
अर्थस् तु तस्य संबन्धी प्रकल्पयति संनिधिम् // वाप २.३३७ //

पारार्थ्यस्याविशिष्टत्वान् $ न शब्दाच् छब्दसंनिधिः &
नार्थाच् छब्दस्य सांनिध्यं न शब्दाद् अर्थसंनिधिः // वाप २.३३८ //

नष्टरूपम् इवाख्यातम् $ आक्षिप्तं कर्मवाचिना &
यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः // वाप २.३३९ //

तैस् तु नामसरूपत्वम् $ आख्यातस्यास्य वर्ण्यते &
अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते // वाप २.३४० //

न चापि रूपात् संदेहे $ वाचकत्वं निवर्तते &
अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते // वाप २.३४१ //

सर्वं सत्त्वपदं शुद्धं $ यदि भावनिबन्धनम् &
संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि // वाप २.३४२ //

क्रियाप्रधानम् आख्यातं $ नाम्नां सत्त्वप्रधानता &
चत्वारि पदजातानि सर्वम् एतद् विरुध्यते // वाप २.३४३ //

वाक्यस्य बुद्धौ नित्यत्वम् $ अर्थयोगं च लौकिकम् &
दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः // वाप २.३४४ //

व्याप्तिमांश् च लघुश् चैव $ व्यवहारः पदाश्रयः &
लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः // वाप २.३४५ //

न लोके प्रतिपत्तॄणाम् $ अर्थयोगात् प्रसिद्धयः &
तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते // वाप २.३४६ //

अन्यत्र श्रूयमाणैश् च $ लिङ्गैर् वाक्यैश् च सूचिताः &
स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः // वाप २.३४७ //

उत्सर्गवाक्ये यत् त्यक्तम् $ अशब्दम् इव शब्दवत् &
तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते // वाप २.३४८ //

ब्राह्मणानां श्रुतिर् दध्नि $ प्रक्रान्ता माठराद् विना &
माठरस् तक्रसंबन्धात् तत्राचष्टे यथार्थताम् // वाप २.३४९ //

अनेकाख्यातयोगे ऽपि $ वाक्यं न्यायापवादयोः &
एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् // वाप २.३५० //

नियमः प्रतिषेधश् च $ विधिशेषस् तथा सति &
द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः // वाप २.३५१ //

निराकाङ्क्षाणि निर्वृत्तौ $ प्रधानानि परस्परम् &
तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता // वाप २.३५२ //

विशेषविधिनार्थित्वाद् $ वाक्यशेषो ऽनुमीयते &
विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् // वाप २.३५३ //

संज्ञाशब्दैकदेशो यस् $ तस्य लोपो न विद्यते &
विशिष्टरूपा सा संज्ञा कृता च न निवर्तते // वाप २.३५४ //

संज्ञान्तराच् च दत्तादेर् $ नान्या संज्ञा प्रतीयते &
संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् // वाप २.३५५ //

सर्वैर् अवयवैस् तुल्यं $ संबन्धं समुदायवत् &
के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः // वाप २.३५६ //

वर्णानाम् अर्थवत्त्वं तु $ संज्ञानां संज्ञिभिर् भवेत् &
संबद्धो ऽवयवः संज्ञा- प्रविवेके न कल्पते // वाप २.३५७ //

सर्वस्वरूपैर् युगपत् $ संबन्धे सति संज्ञिनः &
नैकदेशसरूपेभ्यस् तत्प्रत्यायनसंभवः // वाप २.३५८ //

एकदेशात् तु संघाते $ केषां चिज् जायते स्मृतिः &
स्मृतेस् तु विषयाच् छब्दात् संघातार्थः प्रतीयते // वाप २.३५९ //

एकदेशात् स्मृतिर् भिन्ने $ संघाते नियता कथम् &
कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः // वाप २.३६० //

एकदेशसरूपास् तु $ तैस् तैर् भेदैः समन्विताः &
अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः // वाप २.३६१ //

साधारणत्वात् संधिग्धाः $ सामर्थ्यान् नियताश्रयाः &
तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते // वाप २.३६२ //

तुल्यायाम् अनुनिष्पत्तौ $ ज्ये-द्रा-घा इत्य् असाधवः &
न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः // वाप २.३६३ //

कृतणत्वाश् च ये शब्दा $ नित्याः खरणसादयः &
एकद्रव्योपदेशित्वात् तान् साधून् संप्रचक्षते // वाप २.३६४ //

गोत्राण्य् एव तु तान्य् आहुः $ संज्ञाशक्तिसमन्वयात् &
निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते // वाप २.३६५ //

व्यवहाराय नियमः $ संज्ञानां संज्ञिनि क्व चित् &
नित्य एव तु संबन्धो डित्थादिषु गवादिवत् // वाप २.३६६ //

कृतकत्वाद् अनित्यत्वं $ संबन्धस्योपपद्यते &
संज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते // वाप २.३६७ //

यथा हि पांसुलेखानां $ बालकैर् मधुक्रादयः &
संज्ञाः क्रियन्ते सर्वासु संज्ञास्व् एषैव कल्पना // वाप २.३६८ //

वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् $ छक्त्यवच्छेदलक्षणः &
अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् // वाप २.३६९ //

संज्ञा स्वरूपम् आश्रित्य $ निमित्ते सति लौकिकी &
का चित् प्रवर्तते का चिन् निमित्तासंनिधाव् अपि // वाप २.३७० //

शास्त्रे ऽपि महती संज्ञा $ स्वरूपोपनिबन्धना &
अनुमानं निमित्तस्य संनिधाने प्रतीयते // वाप २.३७१ //

आवृत्तेर् अनुमानं वा $ सारूप्यात् तत्र गम्यते &
शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः // वाप २.३७२ //

क्व चिद् विषयभेदेन $ कृत्रिमा व्यवतिष्ठते &
संख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि // वाप २.३७३ //

विषयं कृत्रिमस्यापि $ लौकिकः क्व चिद् उच्चरन् &
व्याप्नोति दूरात् संबुद्धौ तथा हि ग्रहणं द्वयोः // वाप २.३७४ //

सङ्घैकशेषद्वन्द्वेषु $ के चित् सामर्थ्यलक्षणम् &
प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते // वाप २.३७५ //

भोजनं फलरूपाभ्याम् $ एकैकस्मिन् समाप्यते &
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते // वाप २.३७६ //

अन्नादानादि रूपां च $ सर्वे तृप्तिफलां भुजिम् &
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव // वाप २.३७७ //

पाद्यवत् सा विभागेन $ सामर्थ्याद् अवतिष्ठते &
भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् // वाप २.३७८ //

दृश्यादिस् तु क्रियैकापि $ तथाभूतेषु कर्मसु &
आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् // वाप २.३७९ //

भिन्नव्यापाररूपाणां $ व्यवहारादिदर्शने &
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् // वाप २.३८० //

लक्ष्यस्य लोकसिद्धत्वाच् $ छास्त्रे लिङ्गस्य दर्शनात् &
अर्थिष्व् आदैक्षु भेदेन वृद्धिसंज्ञा समाप्यते // वाप २.३८१ //

शतादानप्रधानत्वाद् $ दण्डने शतकर्मके &
अर्थिनां गुणभेदे ऽपि संख्येयो ऽर्थो न भिद्यते // वाप २.३८२ //

सङ्घस्यैव विधेयत्वात् $ कार्यवत् प्रतिपादने &
तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः // वाप २.३८३ //

लक्षणार्था श्रुतिर् येषां $ कां चिद् एव क्रियां प्रति &
तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते // वाप २.३८४ //

वृषलैर् न प्रवेष्टव्यम् $ इत्य् एतस्मिन् गृहे यथा &
प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते // वाप २.३८५ //

संभूय त्व् अर्थलिप्सादि- $ प्रतिषेधोपदेशने &
पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते // वाप २.३८६ //

व्यवायलक्षणार्थात्वाद् $ अट्कुप्वाङादिभिस् तथा &
प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते // वाप २.३८७ //

अनुग्रहार्था भोक्तॄणां $ भुजिर् आरभ्यते यदा &
देशकालाद्यभेदेन नानुगृह्णाति तान् असौ // वाप २.३८८ //

पात्रादिभेदान् नानात्वं $ यस्यैकस्योपदिश्यते &
विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते // वाप २.३८९ //

संहत्यापि च कुर्वाणा $ भेदेन प्रतिपादिताः &
स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते // वाप २.३९० //

वीप्साया विषयाभावाद् $ विरोधाद् अन्यसंख्यया &
द्विधा समाप्त्ययोगाच् च शतम् सङ्घे ऽवतिष्ठते // वाप २.३९१ //

भुजिर् द्वन्द्वैकशेषाभ्यां $ यत्रान्यैः सह शिष्यते &
तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते // वाप २.३९२ //

वाक्यान्तराणां प्रत्येकं $ समाप्तिः कैश् चिद् इष्यते &
रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः // वाप २.३९३ //

न वाक्यस्याभिधेयानि $ भेदवाक्यानि कानि चित् &
तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते // वाप २.३९४ //

येषां समस्तो वाक्यार्थः $ प्रतिभेदं समाप्यते &
तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया // वाप २.३९५ //

अथ तैर् एव जनितः $ सो ऽर्थो भिन्नेषु वर्तते &
पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः // वाप २.३९६ //

सहस्थितौ विरोधित्वं $ स्याद् विशिष्टाविशिष्टयोः &
व्यभिचारी तु संबन्धस् त्यागे ऽर्थस्य प्रसज्यते // वाप २.३९७ //

एकः साधारणो वाच्यः $ प्रतिशब्दम् अवस्थितः &
सङ्घे सङ्घिषु चार्थात्मा सम्निधाननिदेशकः // वाप २.३९८ //

यथा साधारणे स्वत्वं $ त्यागस्य च फलं धने &
प्रीतिश् चाविकला तद्वत् संबन्धो ऽर्थेन तद्वताम् // वाप २.३९९ //

वर्णानाम् अर्थवत्तायां $ तेनैवार्थेन तद्वति &
समुदाये न चैकत्वं भेदेन व्यवतिष्ठते // वाप २.४०० //

एकेनैव प्रदीपेन $ सर्वे साधारणं धनम् &
पश्यन्ति तद्वद् एकेन सुपा संख्याभिधीयते // वाप २.४०१ //

नार्थवत्ता पदे वर्णे $ वाक्ये चैवं विशिष्यते &
अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते // वाप २.४०२ //

विनियोगाद् ऋते शब्दो $ न स्वार्थस्य प्रकाशकः &
अर्थाभिधानसंबन्धम् उक्तिद्वारं प्रचक्षते // वाप २.४०३ //

यथा प्रणिहितं चक्षुर् $ दर्शनायोपकल्पते &
तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः // वाप २.४०४ //

क्रियाव्यवेतः संबन्धो $ दृष्टः करणकर्मभिः &
अभिधानियमस् तस्माद् अभिधानाभिधेययोः // वाप २.४०५ //

बहुष्व् एकाभिधानेषु $ सर्वेष्व् एकार्थकारिषु &
यत् प्रयोक्ताभिसंधत्ते शब्दस् तत्रावतिष्ठते // वाप २.४०६ //

आम्नायशब्दान् अभ्यासे $ के चिद् आहुर् अनर्थकान् &
स्वरूपमात्रवृत्तींश् च परेषां प्रतिपादने // वाप २.४०७ //

अभिधानक्रियायोगाद् $ अर्थस्य प्रतिपादकान् &
नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः // वाप २.४०८ //

तेषाम् अत्यन्तनानात्वं $ नानात्वव्यवहारिणः &
अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् // वाप २.४०९ //

प्रयोगाद् अभिसंधानम् $ अन्यद् एषु न विद्यते &
विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः // वाप २.४१० //

नानात्वस्यैव संज्ञानम् $ अर्थप्रकरणादिभिः &
न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं चन // वाप २.४११ //

पदरूपम् च यद् वाक्यम् $ अस्तित्वोपनिबन्धनम् &
कामं विमर्शस् तत्रायं न वाक्यावयवे पदे // वाप २.४१२ //

यथैवानर्थकैर् वर्णैर् $ विशिष्टो ऽर्थो ऽभिधीयते &
पदैर् अनर्थकैर् एवं विशिष्टो ऽर्थो ऽभिधीयते // वाप २.४१३ //

यद् अन्तराले ज्ञानं तु $ पदार्थेषूपजायते &
प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् // वाप २.४१४ //

पूर्वैर् अर्थैर् अनुगतो $ यथार्थात्मा परः परः &
संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु // वाप २.४१५ //

अङ्गीकृते तु केषां चित् $ साध्येनार्थेन साधने &
आराधनियमार्थैव साधनानां पुनः श्रुतिः // वाप २.४१६ //

आधारे नियमाभावात् $ तदाक्षेपो न विद्यते &
सामर्थ्यात् संभवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये // वाप २.४१७ //

क्रिया क्रियान्तराद् भिन्ना $ नियताधारसाधना &
प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः // वाप २.४१८ //

अविभागं तु शब्देभ्यः $ क्रमवद्भ्यो ऽपदक्रमम् &
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च // वाप २.४१९ //

स्वरूपं विद्यते यस्य $ तस्यात्मा न निरूप्यते &
नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते // वाप २.४२० //

अशब्दम् अपरे ऽर्थस्य $ रूपनिर्धारणं विदुः &
अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः // वाप २.४२१ //

अन्यथैवाग्निसंबन्धाद् $ दाहं दग्धो ऽभिमन्यते &
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते // वाप २.४२२ //

पृथङ्निविष्टतत्त्वानां $ पृथगर्थानुपातिनाम् &
इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते // वाप २.४२३ //

तथा पदानां सर्वेषां $ पृथगर्थनिवेशिनाम् &
वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते // वाप २.४२४ //

संसर्गरूपं संसृष्टेष्व् $ अर्थवस्तुषु गृह्यते &
नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् // वाप २.४२५ //

दर्शनस्यापि यत् सत्यं $ न तथा दर्शनं स्थितम् &
वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते // वाप २.४२६ //

अस्तित्वेनानुषक्तो वा $ निवृत्त्यात्मनि वा स्थितः &
अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते // वाप २.४२७ //

क्रियानुषङ्गेण विना $ न पदार्थः प्रतीयते &
सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः // वाप २.४२८ //

सद् इत्य् एतत् तु यद् वाक्यं $ तद् अभूद् अस्ति नेति वा &
क्रियाभिधानसंबन्धम् अन्तरेण न गम्यते // वाप २.४२९ //

आख्यातपदवाच्ये ऽर्थे $ साधनोपनिबन्धने &
विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते // वाप २.४३० //

प्राधान्यात् तु क्रिया पूर्वम् $ अर्थस्य प्रविभज्यते &
साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् // वाप २.४३१ //

प्रयोक्तैवाभिसंधत्ते $ साध्यसाधनरूपताम् &
अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते // वाप २.४३२ //

पचिक्रियां करोतीति $ कर्मत्वेनाभिधीयते &
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते // वाप २.४३३ //

यो ऽंशो येनोपकारेण $ प्रयोक्तॄणां विवक्षितः &
अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः // वाप २.४३४ //

आराद्वृत्तिषु संबन्धः $ कदा चिद् अभिधीयते &
आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते // वाप २.४३५ //

संसृष्टानां विभक्तत्वं $ संसर्गश् च विवेकिनाम् &
नानात्मकानाम् एकत्वं नानात्वं च विपर्यये // वाप २.४३६ //

सर्वात्मकत्वाद् अर्थस्य $ नैरात्म्याद् वा व्यवस्थितम् &
अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् // वाप २.४३७ //

वस्तूपलक्षणः शब्दो $ नोपकारस्य वाचकः &
न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते // वाप २.४३८ //

संबन्धिधर्मा संयोगः $ स्वशब्देनाभिधीयते &
संबन्धः समवायस् तु संबन्धित्वेन गम्यते // वाप २.४३९ //

लक्षणाद् व्यवतिष्ठन्ते $ पदार्था न तु वस्तुतः &
उपकारात् स एवार्थः कथं चिद् अनुगम्यते // वाप २.४४० //

वाक्यार्थो यो ऽभिसंबन्धो $ न तस्यात्मा क्व चित् स्थितः &
व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते // वाप २.४४१ //

पदार्थे समुदाये वा $ समाप्तो नैव वा क्व चित् &
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते // वाप २.४४२ //

अन्वाख्यानाय यो भेदः $ प्रतिपत्तिनिबन्धनम् &
साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते // वाप २.४४३ //

अनेकशक्तेर् एकस्य $ प्रविभागो ऽनुगम्यते &
एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते // वाप २.४४४ //

संप्रत्ययार्थाद् बाह्यो ऽर्थः $ सन्न् असन् वा विभज्यते &
बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः // वाप २.४४५ //

प्रत्ययार्थात्मनियताः $ शक्तयो न व्यवस्थिताः &
अन्यत्र च ततो रूपं न तासाम् उपलभ्यते // वाप २.४४६ //

बहुश्व् अपि तिङन्तेषु $ साकाङ्क्षेष्व् एकवाक्यता &
तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् // वाप २.४४७ //

एकतिङ् यस्य वाक्यं तु $ शास्त्रे नियतलक्षणम् &
तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते // वाप २.४४८ //

तिङन्तान्तरयुक्तेषु $ युक्तयुक्तेषु वा पुनः &
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः // वाप २.४४९ //

इतिकर्तव्यतार्थस्य $ सामर्थ्याद् यत्र काङ्क्ष्यते &
अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते // वाप २.४५० //

तत्त्वान्वाख्यानमात्रे तु $ यावान् अर्थो ऽनुषज्यते &
विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते // वाप २.४५१ //

चिङ्क्रम्यमाणो ऽधीष्वात्र $ जपंश् चङ्क्रमणं कुरु &
तादर्थ्यस्याविशेषे ऽपि शब्दाद् भेदः प्रतीयते // वाप २.४५२ //

फलवन्तः क्रियाभेदाः $ क्रियान्तरनिबन्धनाः &
असंख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः // वाप २.४५३ //

निवृतभेदा सर्वैव $ क्रियाख्याते ऽभिधीयते &
श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना // वाप २.४५४ //

अश्वमेधेन यक्ष्यन्ते $ राजानः सत्त्रम् आसते &
ब्राह्मणा इति नाख्यात- रूपाद् भेदः प्रतीयते // वाप २.४५५ //

सकृच् छ्रुता सप्तदशस्व् $ अनावृत्तापि या क्रिया &
प्रजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते // वाप २.४५६ //

देवदत्तादिषु भुजिः $ प्रत्येकम् अवतिष्ठते &
प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते // वाप २.४५७ //

उच्चारणे तु वाक्यानाम् $ अन्यद् रूपं न गृह्यते &
प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते // वाप २.४५८ //

एकं ग्रहणवाक्यं च $ सामान्येनाभिधीयते &
कर्तरीति यथा तच् च पश्वादिषु विभज्यते // वाप २.४५९ //

यदि आकाङ्क्षा निवर्तेत $ तद्भूतस्य सकृच् छ्रुतौ &
नैवान्येनाभिसंबन्धं तद् उपेयात् कथं चन // वाप २.४६० //

एकरूपम् अनेकार्थं $ तस्माद् उपनिबन्धनम् &
योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् // वाप २.४६१ //

क्व चित् क्रिया व्यक्तिभागैर् $ उपकारे प्रवर्तते &
सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः // वाप २.४६२ //

कालभिन्नाश् च ये भेदा $ ये चाप्य् उष्ट्रासिकादिषु &
प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते // वाप २.४६३ //

एकसंख्येषु भेदेषु $ भिन्ना जात्यादिभिः क्रियाः &
भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ // वाप २.४६४ //

अक्षादेषु यथा भिन्ना $ भक्षिभञ्जिदिविक्रियाः &
प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः // वाप २.४६५ //

अक्षिणां तन्त्रिणां तन्त्रम् $ उपायस् तुल्यरूपता &
एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः // वाप २.४६६ //

द्वाव् अप्य् उपायौ शब्दानां $ प्रयोगे समवस्थितौ &
क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते // वाप २.४६७ //

क्रमे विभज्यते रूपं $ यौगपद्ये न भिद्यते &
क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी // वाप २.४६८ //

भेदसंसर्गशक्ती द्वे $ शब्दाद् भिन्ने इव स्थिते &
यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः // वाप २.४६९ //

अभिन्नो रूपभेदेन $ य एको ऽर्थो विवक्षितः &
तस्यावयवधर्मेण समुदायो ऽनुगम्यते // वाप २.४७० //

भेदनिर्वचने त्व् अस्य $ प्रत्येदं वा समाप्यते &
श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते // वाप २.४७१ //

तत्रैकवचनान्तो वा $ सो ऽक्षशब्दः प्रयुज्यते &
प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति // वाप २.४७२ //

द्विष्ठानि यानि वाक्यानि $ तेष्व् अप्य् एकत्वदर्शिनाम् &
अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते // वाप २.४७३ //

अत्यन्तभिन्नयोर् वा स्यात् $ प्रयोगे तन्त्रलक्षणः &
उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते // वाप २.४७४ //

भेदेनाधिगतौ पूर्वं $ शब्दौ तुल्यश्रुती पुनः &
तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः // वाप २.४७५ //

एकस्यापि विवक्षायाम् $ अनुनिष्पद्यते परः &
विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते // वाप २.४७६ //

अनेका शक्तिर् एकस्य $ युगपच् छ्रूयते क्व चित् &
अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते // वाप २.४७७ //

आवृत्तिशक्तिभिन्नार्थे $ वाक्ये सकृद् अपि श्रुते &
लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते // वाप २.४७८ //

संप्रसारणसंज्ञायां $ लिङ्गाभ्यां वर्णवाक्ययोः &
प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते // वाप २.४७९ //

तथा द्विर्वचने ऽचीति $ तन्त्रोपायाद् अलक्षणः &
एकशेषेण निर्देशो भाष्य एव प्रदर्शितः // वाप २.४८० //

प्रायेण संक्षेपरुचीन् $ अल्पविद्यापरिग्रहान् &
संप्राप्य वैयाकरणान् संग्रहे ऽस्तम् उपागते // वाप २.४८१ //

कृते ऽथ पातञ्जलिना $ गुरुणा तीर्थदर्शिना &
सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने // वाप २.४८२ //

अलब्धगाधे गाम्भीर्याद् $ उत्तान इव सौष्ठवात् &
तस्मिन्न् अकृतबुद्धीनाम् नैवावास्थित निश्चयः // वाप २.४८३ //

वैजिसौभवहर्यक्षैः $ शुष्कतर्कानुसारिभिः &
आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके // वाप २.४८४ //

यः पातञ्जलिशिष्येभ्यो $ भ्रष्टो व्याकरणागमः &
कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः // वाप २.४८५ //

पर्वताद् आगमं लब्ध्वा $ भाष्यबीजानुसारिभिः &
स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः // वाप २.४८६ //

न्यायप्रस्थानमार्गांस् तान् $ अभ्यस्य स्वम् च दर्शनम् &
प्रणीतो गुरुणास्माकम् अयम् आगमसंग्रहः // वाप २.४८७ //

वर्त्मनाम् अत्र केषाम् चिद् $ वस्तुमात्रम् उदाहृतम् &
काण्डे तृतीये न्यक्षेन भविष्यति विचारणा // वाप २.४८८ //

प्रज्ञा विवेकं लभते $ भिन्नैर् आगमदर्शनैः &
कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता // वाप २.४८९ //

तत् तद् उत्प्रेक्षमाणानां $ पुराणैर् आगमैर् विना &
अनुपासितवृद्धानां विद्या नातिप्रसीदति // वाप २.४९० //

वाक्यपदीय तृतीय काण्ड

३,१ जातिसमुद्देश

द्विधा कैश् चित् पदं भिन्नं $ चतुर्धा पञ्चधापि वा &
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् // वाप ३,१.१ //

पदार्थानाम् अपोद्धारे $ जातिर् वा द्रव्यम् एव वा &
पदार्थौ सर्वशब्दानां नित्याव् एवोपवर्णितौ // वाप ३,१.२ //

केषां चित् साहचर्येण $ जातिः शक्त्युपलक्षणम् &
खदिरादिष्व् अशक्तेषु शक्तः प्रतिनिधीयते // वाप ३,१.३ //

अस्वातन्त्र्यफलो बन्धिः $ प्रमाणादीव शिष्यते &
अतो जात्यभिधाने ऽपि शक्तिहीनं न गृह्यते // वाप ३,१.४ //

संश्लेषमात्रं बध्नातिर् $ यदि स्यात् तु विवक्षितः &
शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् // वाप ३,१.५ //

स्वा जातिः प्रथमं शब्दैः $ सर्वैर् एवाभिधीयते &
ततो ऽर्थजातिरूपेषु तदध्यारोपकल्पना // वाप ३,१.६ //

यथा रक्ते गुणे तत्त्वं $ कषाये व्यपदिश्यते &
संयोगिसन्निकर्षाच् च वस्त्रादिष्व् अपि गृह्यते // वाप ३,१.७ //

तथा शब्दार्थसंबन्धाच् $ छब्दे जातिर् अवस्थिता &
व्यपदेशे ऽर्थजातीनां जातिकार्याय कल्पते // वाप ३,१.८ //

जातिशब्दैकशेषे सा $ जातीनां जातिर् इष्यते &
शब्दजातय इत्य् अत्र तज्जातिः शब्दजातिषु // वाप ३,१.९ //

या शब्दजातिः शब्देषु $ शब्देभ्यो भिन्नलक्षणा &
जातिः सा शब्दजातित्वम् अव्यतिक्रम्य वर्तते // वाप ३,१.१० //

अर्थजात्यभिधाने ऽपि $ सर्वे जात्यभिधायिनः &
व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः // वाप ३,१.११ //

जातौ पदार्थे जातिर् वा $ विशेषो वापि जातिवत् &
शब्दैर् अपेक्ष्यते यस्माद् अतस् ते जातिवाचिनः // वाप ३,१.१२ //

द्रव्यधर्मा पदार्थे तु $ द्रव्ये सर्वो ऽर्थ उच्यते &
द्रव्यधर्माश्रयाद् द्रव्यम् अतः सर्वो ऽर्थ इष्यते // वाप ३,१.१३ //

अनुप्रवृत्तिधर्मो वा $ जातिः स्यात् सर्वजातिषु &
व्यावृत्तिधर्मसामान्यं विशेषे जातिर् इष्यते // वाप ३,१.१४ //

संयोगिधर्मभेदेन $ देशे च परिकल्पिते &
तेषु देशेषु सामान्यम् आकाशस्यापि विद्यते // वाप ३,१.१५ //

अदेशानां घटादीनां $ देशाः संबन्धिनो यथा &
आकाशस्याप्य् अदेशस्य देशाः संबन्धिनस् तथा // वाप ३,१.१६ //

भिन्नवस्त्वाश्रया बुद्धिः $ संयोगिष्व् अनुवर्तते &
समवायिषु भेदस्य ग्रहणं विनिवर्तते // वाप ३,१.१७ //

अतः संयोगिदेशानां $ गौणत्वं परिकल्प्यते &
अविवेकात् प्रदेशेभ्यो मुख्यत्वं समवायिनाम् // वाप ३,१.१८ //

अनुप्रवृत्तिरूपा या $ प्रख्या ताम् आकृतिं विदुः &
के चिद् व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते // वाप ३,१.१९ //

भिन्ना इति परोपाधिर् $ अभिन्ना इति वा पुनः &
भावात्मसु प्रपञ्चो ऽयं संसृष्टेष्व् एव जायते // वाप ३,१.२० //

नैकत्वं नापि नानात्वं $ न सत्त्वम् न च नास्तिता &
आत्मतत्त्वेषु भावानाम् असंसृष्टेषु विद्यते // वाप ३,१.२१ //

सर्वशक्त्यात्मभूतत्वं $ एकस्यैवेति निर्णये &
भावानाम् आत्मभेदस्य कल्पना स्याद् अनर्थिका // वाप ३,१.२२ //

तस्माद् द्रव्यादयः सर्वाः $ शक्तयो भिन्नलक्षणाः &
संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः // वाप ३,१.२३ //

यथैव चेन्द्रियादीनाम् $ आत्मभूता समग्रता &
तथा संबन्धिसंबन्ध- संसर्गे ऽपि प्रतीयते // वाप ३,१.२४ //

न तद् उत्पद्यते किं चिद् $ यस्य जातिर् न विद्यते &
आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका // वाप ३,१.२५ //

कारणेषु पदं कृत्वा $ नित्यानित्येषु जातयः &
क्व चित् कार्येष्व् अभिव्यक्तिम् उपयान्ति पुनः पुनः // वाप ३,१.२६ //

निर्वर्त्त्यमानं यत् कर्म $ जातिस् तत्रापि साधनम् &
स्वाश्रयस्याभिनिष्पत्त्यै सा क्रियाणां प्रयोजिका // वाप ३,१.२७ //

विधौ वा प्रतिषेधे वा $ ब्राह्मणत्वादि साधनम् &
व्यक्त्याश्रितास्रिता जातेः संख्याजातिर् विशेषिका // वाप ३,१.२८ //

यथा जलादिभिर् व्यक्तं $ मुखम् एवाभिधीयते &
तथा द्रव्यैर् अभिव्यक्ता जातिर् एवाभिधीयते // वाप ३,१.२९ //

यथेन्द्रियगतो भेद $ इन्द्रियग्रहणाद् ऋते &
इन्द्रियार्थेष्व् अदृश्यो ऽपि ज्ञानभेदाय कल्पते // वाप ३,१.३० //

तथात्मरूपग्रहणात् $ केषां चिद् व्यक्तयो विना &
सामान्यज्ञानभेदानाम् उपयान्ति निमित्तताम् // वाप ३,१.३१ //

सत्यासत्यौ तु यौ भागौ $ प्रतिभावं व्यवस्थितौ &
सत्यं यत् तत्र सा जातिर् असत्या व्यक्तयः स्मृताः // वाप ३,१.३२ //

संबन्धिभेदात् सत्तैव $ भिद्यमाना गवादिषु &
जातिर् इत्य् उच्यते तस्यां सर्वे शब्दा व्यवस्थिताः // वाप ३,१.३३ //

तां प्रातिपदिकार्थं च $ धात्वर्थं च प्रचक्षते &
सा नित्या सा महान् आत्मा ताम् आहुस् त्वतलादयः // वाप ३,१.३४ //

प्राप्तक्रमा विशेषेषु $ क्रिया सैवाभिधीयते &
क्रमरूपस्य संहारे तत् सत्त्वम् इति कथ्यते // वाप ३,१.३५ //

सैव भावविकारेषु $ षड् अवस्थाः प्रपद्यते &
क्रमेण शक्तिभिः स्वाभिर् एवं प्रत्यवभासते // वाप ३,१.३६ //

आत्मभूतः क्रमो ऽप्य् अस्या $ यत्रेदं कालदर्शनम् &
पौर्वापर्यादिरूपेण प्रविभक्तम् इव स्थितम् // वाप ३,१.३७ //

तिरोभावाभ्युपगमे $ भावानां सैव नास्तिता &
लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते // वाप ३,१.३८ //

पूर्वस्मात् प्रच्युता धर्माद् $ अप्राप्ता चोत्तरं पदम् &
तदन्तराले भेदानाम् आश्रयाज् जन्म कथ्यते // वाप ३,१.३९ //

आश्रयः स्वात्ममात्रा वा $ भावा वा व्यतिरेकिनः &
स्वशक्तयो वा सत्ताया भेददर्शनहेतवः // वाप ३,१.४० //

पृथिव्यादिष्व् अभिव्यक्तौ $ न संस्थानम् अपेक्षते &
अनुच्छिन्नाश्रयाज् जातिर् अनित्ये ऽप्य् आश्रये स्थिता // वाप ३,१.४१ //

अनुच्छेद्याश्रयाम् एके $ सर्वां जातिं प्रचक्षते &
न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः // वाप ३,१.४२ //

प्रकृतौ प्रविलीनेषु $ भेदेष्व् एकत्वदर्शिनाम् &
द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः // वाप ३,१.४३ //

ब्राह्मणत्वादयो भावाः $ सर्वप्राणिष्व् अवस्थिताः &
अभिव्यक्ताः स्वकार्याणां साधका इत्य् अपि स्मृतिः // वाप ३,१.४४ //

चित्रादिष्व् अप्य् अभिव्यक्तिर् $ जातीनां कैश्चिद् इष्यते &
प्राण्याश्रितास् तु ताः प्राप्तौ निमित्तं पुण्यपापयोः // वाप ३,१.४५ //

ज्ञानं त्व् अस्मद् विशिष्टानां $ तासु सर्वेन्द्रियम् विदुः &
आभ्यासान् मणिरूप्यादि- विशेषेष्व् इव तद्विदाम् // वाप ३,१.४६ //

जात्युत्पलादिगन्धादौ $ भेदतत्त्वं यद् आश्रितम् &
तद् भावप्रत्ययैर् लोके ऽनित्यत्वान् नाभिधीयते // वाप ३,१.४७ //

अस्वशब्दाभिधानास् तु $ नरसिंहादिजातयः &
सरूपावयवेवान्या तासु श्रुतिर् अवस्थिता // वाप ३,१.४८ //

जात्यवस्थापरिच्छेदे $ संख्या संख्यात्वम् एव वा &
विप्रकर्षे ऽपि संसर्गाद् उपकाराय कल्पते // वाप ३,१.४९ //

लक्षणा शब्दसंस्कारे $ व्यापारः कार्यसिद्धये &
संख्याकर्मादिशक्तीनां श्रुतिसाम्ये ऽपि दृश्यते // वाप ३,१.५० //

न विना संख्यया कश् चित् $ सत्त्वभूतो ऽर्थ उच्यते &
अतः सर्वस्य निर्देशे संख्या स्याद् अविवक्षिता // वाप ३,१.५१ //

एकत्वं वा बहुत्वं वा $ केषां चिद् अविवक्षितम् &
तद् धि जात्यभिधानाय द्वित्वं तु स्याद् विवक्षितम् // वाप ३,१.५२ //

यद्य् एतौ व्याधितौ स्यातां $ देयं स्याद् इदम् औषधम् &
इत्य् एवं लक्षणे ऽर्थस्य द्वित्वं स्याद् अविवक्षितम् // वाप ३,१.५३ //

एकादिशब्दवाच्यायाः $ कर्मस्व् अङ्गत्वम् इष्यते &
संख्यायाः खनति द्वाभ्याम् इति रूपाद् धि साश्रिता // वाप ३,१.५४ //

यजेत पशुनेत्य् अत्र $ संस्कारस्यापि संभवे &
यथा जातिस् तथैकत्वं साधनत्वेन गम्यते // वाप ३,१.५५ //

लिङ्गात् तु स्यात् द्वितीयादेस् $ तद् एकत्वं विवक्षितम् &
एकार्थविषयत्वे च तल् लिङ्गं जातिसंख्ययोः // वाप ३,१.५६ //

अन्यत्राविहितस्यैव $ स विधिः प्रथमं पशोः &
क्रियायाम् अङ्गभावश् च तत् त्व् एतस्माद् विवक्षितम् // वाप ३,१.५७ //

ग्रहास् त्व् अन्यत्र विहिता $ भिन्नसंख्याः पृथक् पृथक् &
प्राजापत्या नवेत्य् एवम्- आदिभेदसमन्विताः // वाप ३,१.५८ //

अङ्गत्वेन प्रतीतानां $ संमार्गे त्व् अङ्गिनां पुनः &
निर्देशं प्रति या संख्या सा कथं स्याद् विवक्षिता // वाप ३,१.५९ //

नान्यत्र विधिर् अस्तीति $ संस्कारो नापि चाङ्गिता &
हेतुः संख्याविवक्षाया यत्नात् सा हि विवक्षिता // वाप ३,१.६० //

संमार्जने विशेषश् च $ न ग्रहे क्व चिद् आश्रितः &
विहितास् ते च संस्कार्याः सर्वेषाम् आश्रयस् ततः // वाप ३,१.६१ //

प्रत्याश्रयं समाप्तायां $ जाताव् एकेन चेत् क्रिया &
पशुना न प्रकल्पेत तत् स्याद् एव प्रकल्पनम् // वाप ३,१.६२ //

एकेन च प्रसिद्धायां $ क्रियायां यदि संभवात् &
पश्वन्तरम् उपादेयम् उपादानम् अनर्थकम् // वाप ३,१.६३ //

यथैवाहितगर्भायां $ गर्भाधानाम् अनर्थकम् &
तथैकेन प्रसिद्धायां पश्वन्तरम् अनर्थकम् // वाप ३,१.६४ //

तावतार्थस्य सिद्धत्वाद् $ एकत्वस्याव्यतिक्रमम् &
के चिद् इच्छन्ति न त्व् अत्र संख्याङ्गत्वेन गृह्यते // वाप ३,१.६५ //

द्वितीयादि तु यल् लिङ्गम् $ उक्तन्यायानुवादि तत् &
न संख्या साधनत्वेन जातिवत् तेन गम्यते // वाप ३,१.६६ //

अन्वयव्यतिरेकाभ्यां $ संख्याभ्युपगमे सति &
युक्तं यत् साधनत्वं स्यान् न त्व् अन्यार्थोपलक्षणं // वाप ३,१.६७ //

साधनत्वे पदार्थस्य $ सामर्थ्यं न प्रहीयते &
संख्याव्यापारधर्मो ऽतस् तेन लिङ्गेन गम्यते // वाप ३,१.६८ //

अपूर्वस्य विधेयत्वात् $ प्राधान्यम् अवसीयते &
विहितस्य परार्थत्वाच् छेशभावः प्रतीयते // वाप ३,१.६९ //

संमार्गस्य विधेयत्वात् $ अन्यत्र विहिते ग्रहे &
विधिवाक्ये श्रुता संख्या लक्षणायां न बाध्यते // वाप ३,१.७० //

विधिवाक्यान्तरे संख्या $ पशोर् नास्ति विरोधिनी &
तस्मात् सगुण एवासौ सहैकत्वेन गम्यते // वाप ३,१.७१ //

निर्ज्ञातद्रव्यसंबन्धे $ यः कर्मण्य् उपदिश्यते &
गुनस् तेनार्थिता तस्य द्रव्येणेव प्रतीयते // वाप ३,१.७२ //

कश्चिद् एव गुणो द्रव्ये $ यथा सामर्थ्यलक्षणः &
आधारो ऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः // वाप ३,१.७३ //

तयोस् तु पृथगर्थित्वे $ संबन्धो यः प्रतीयते &
न तस्मिन्न् उपघातो ऽस्ति कल्प्यम् अन्यन् न चाश्रुतम् // वाप ३,१.७४ //

क्रियया यो ऽभिसंबन्धः $ स श्रुतिप्रापितस् तयोः &
आश्रयाश्रयिणोर् वाक्यान् नियमस् त्व् अवतिष्ठते // वाप ३,१.७५ //

तत्र द्रव्यगुणाभावे $ प्रत्येकं स्याद् विकल्पनम् &
श्रुतिप्राप्तो हि संबन्धो बलवान् वाक्यलक्षणात् // वाप ३,१.७६ //

यदा तु जातिः शक्तिर् वा $ क्रियां प्रत्य् उपदिश्यते &
सामर्थ्यात् संनिधीयेते तत्र द्रव्यगुणौ तदा // वाप ३,१.७७ //

जातीनां च गुणानां च $ तुल्ये ऽङ्गत्वे क्रियां प्रति &
गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः // वाप ३,१.७८ //

व्यक्तिशक्तेः समासन्ना $ जातयो न तथा गुणाः &
साक्षाद् द्रव्यं क्रियायोगि गुणस् तस्माद् विकल्पते // वाप ३,१.७९ //

साम्येनान्यतराभावे $ विकल्पः कैश्चिद् इष्यते &
अतद्गुणो ऽतश् छागः स्यान् मेषो वा तद्गुणो भवेत् // वाप ३,१.८० //

जातेर् आश्रितसंख्यायाः $ प्रवृत्तिर् उपलभ्यते &
संख्याविशेषम् उत्सृज्य क्वचित् सैव प्रवर्तते // वाप ३,१.८१ //

पराङ्गभूतं सामान्यं $ युज्यते द्रव्यसंख्यया &
स्वार्थं प्रवर्तमानं तु न संख्याम् अवलम्बते // वाप ३,१.८२ //

यजेत पशुनेत्य् अत्र $ यज्यर्थायां पशुश्रुतौ &
कृतार्थैकेन पशुना प्रधानं भवति क्रिया // वाप ३,१.८३ //

यावतां संभवो यस्य $ स कुर्यात् तावतां यदि &
आलम्भनं गुणैस् तेन प्रधानं स्यात् प्रयोजितम् // वाप ३,१.८४ //

संमृज्यमानतन्त्रे तु $ ग्रहे यत्र क्रियाश्रुतिः &
संख्याविशेषग्रहणं नैव तत्राद्रियामहे // वाप ३,१.८५ //

शिष्यमाणपरे वाक्ये $ यद् एकग्रहणं कृतम् &
शेषे विशिष्टसंख्ये ऽपि व्यक्तं तल् लिङ्गदर्शनम् // वाप ३,१.८६ //

समासप्रत्ययविधौ $ यथा निपतिता श्रुतिः &
गुणानां परतन्त्राणां न्यायेनैवोपपद्यते // वाप ३,१.८७ //

गुणे ऽपि नाङ्गीक्रियते $ प्रधानान्तरसिद्धये &
संख्या कर्ता तथा कर्मण्य् अविशिष्टः प्रतीयते // वाप ३,१.८८ //

यस्यान्यस्य प्रसक्तस्य $ नियमार्था पुनः श्रुतिः &
निवृत्तौ चरितार्थत्वात् संख्या तत्राविवक्षिता // वाप ३,१.८९ //

सरूपसमुदायात् तु $ विभक्तिर् या विधीयते &
एकस् तत्रार्थवान् सिद्धः समुदायस्य वाचकः // वाप ३,१.९० //

प्रत्ययस्य प्रधानस्य $ समासस्यापि वा विधौ &
सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे // वाप ३,१.९१ //

अभेदरूपं सादृश्यम् $ आत्मभूताश् च शक्तयः &
जातिपर्यायवाचित्वम् एषाम् अप्य् उपवर्ण्यते // वाप ३,१.९२ //

दण्डोपादित्सया दण्डं $ यद्य् अपि प्रतिपद्यते &
न तस्माद् एव सामर्थ्यात् स दण्डीति प्रतीयते // वाप ३,१.९३ //

नेच्छानिमित्ताद् इच्छावान् $ इति ज्ञानम् प्रवर्तते &
तस्मात् सत्य् अपि सामर्थ्ये बुद्धिर् अर्थान्तराश्रया // वाप ३,१.९४ //

स्वभावो व्यपदेश्यो वा $ सामर्थ्यं वावतिष्ठते &
सर्वस्यान्ते यतस् तस्माद् व्यवहारो न कल्पते // वाप ३,१.९५ //

यदा भेदान् परित्यज्य $ बुद्ध्यैक इव गृह्यते &
व्यक्त्यात्मैव तदा तत्र बुद्धिर् एका प्रवर्तते // वाप ३,१.९६ //

भेदरूपैर् अनुस्यूतं $ यदैकम् इव मन्यते &
समूहावग्रहा बुद्धिर् बहुभ्यो जायते तदा // वाप ३,१.९७ //

यदा सहविवक्षायाम् $ एकबुद्धिनिबन्धनः &

बद्धावयवविच्छेदः समुदायो ऽभिधीयते // वाप ३,१.९८ *//

प्रतिक्रियं समाप्तत्वाद् $ एको भेदसमन्वितः &

द्वन्द्वे द्वित्वादिभेदेन तदासाव् उपगम्यते // वाप ३,१.९९ *//

सकृत्प्रवृत्ताव् एकत्वम् $ आवृत्तौ सदृशात्मताम् &
भिन्नात्मकानां व्यक्तीनां भेदापोहात् प्रपद्यते // वाप ३,१.१०० //

अनुप्रवृत्तेति यथा- $ भिन्ना बुद्धिः प्रतीयते &
अर्थो व्यावृत्तरूपो ऽपि तथा तत्त्वेन गृह्यते // वाप ३,१.१०१ //

सरूपाणां च सर्वेषां $ न भेदोपनिपातिनः &
विद्यन्ते वाचकाः शब्दा नापि भेदो ऽवधार्यते // वाप ३,१.१०२ //

ज्ञानशब्दार्थविषया $ विशेषा ये व्यवस्थिताः &
तेषां दुरवधारत्वाज् ज्ञानाद्येकत्वदर्शनम् // वाप ३,१.१०३ //

ज्ञानेष्व् अपि यथार्थेषु $ तथा सर्वेषु जातयः &
संसर्गदर्शने सन्ति ताश् चार्थस्य प्रसाधिकाः // वाप ३,१.१०४ //

ज्ञेयस्थम् एव सामान्यं $ ज्ञानानाम् उपकारकम् &
न जातु ज्ञेयवज् ज्ञानं पररूपेण रूप्यते // वाप ३,१.१०५ //

यथा ज्योतिः प्रकाशेन $ नान्येनाभिप्रकाश्यते &
ज्ञानाकारस् तथान्येन न ज्ञानेनोपगृह्यते // वाप ३,१.१०६ //

न चात्मसमवेतस्य $ सामान्यस्यावधारणे &

ज्ञानशक्तिः समर्था स्याज् ज्ञातस्यान्यस्य वस्तुनः // वाप ३,१.१०७ *//

अयौगपद्ये ज्ञानानाम् $ अस्येत्य् अग्रहणं न च &

यथोपलब्धि स्मरणम् उपलब्धे च जायते // वाप ३,१.१०८ *//

घटज्ञानम् इति ज्ञानं $ घटज्ञानविलक्षणम् &
घट इत्य् अपि यज् ज्ञानं विषयोपनिपाति तत् // वाप ३,१.१०९ //

यतो विषयरूपेण $ ज्ञानरूपं न गृह्यते &
अर्थरूपविविक्तं च स्वरूपं नावधार्यते // वाप ३,१.११० //

३,२ द्रव्यसमुद्देशः

आत्मा वस्तु स्वभावश् च $ शरीरं तत्त्वम् इत्य् अपि &
द्रव्यम् इत्य् अस्य पर्यायास् तच् च नित्यम् इति स्मृतम् // वाप ३,२.१ //

सत्यं वस्तु तदाकारैर् $ असत्यैर् अवधार्यते &
असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते // वाप ३,२.२ //

अध्रुवेण निमित्तेन $ देवदत्तगृहं यथा &
गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते // वाप ३,२.३ //

सुवर्णादि यथा युक्तम् $ स्वैर् आकारैर् अपायिभिः &
रुचकाद्यभिधानानां शुद्धम् एवैति वाच्यताम् // वाप ३,२.४ //

आकारैश् च व्यवच्छेदात् $ सार्वार्थ्यम् अवरुध्यते &
यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः // वाप ३,२.५ //

तेष्व् आकारेषु यः शब्दस् $ तथाभूतेषु वर्तते &
तत्त्वात्मकत्वात् तेनापि नित्यम् एवाभिधीयते // वाप ३,२.६ //

न तत्त्वातत्त्वयोर् भेद $ इति वृद्धेभ्य आगमः &
अतत्त्वम् इति मन्यन्ते तत्त्वम् एवाविचारितम् // वाप ३,२.७ //

विकल्परूपं भजते $ तत्त्वम् एवाविकल्पितम् &
न चात्र कालभेदो ऽस्ति कालभेदश् चगृह्यते // वाप ३,२.८ //

यथा विषयधर्माणां $ ज्ञाने ऽत्यन्तम् असंभवः &
तदात्मेव च तत् सिद्धम् अत्यन्तम् अतदात्मकम् // वाप ३,२.९ //

तथा विकाररूपाणां $ तत्त्वे ऽत्यन्तम् असंभवः &
तदात्मेव च तत् तत्त्वम् अत्यम्न्तम् अतदात्मकम् // वाप ३,२.१० //

सत्यम् आकृतिसंहारे $ यद् अन्ते व्यवतिष्ठते &
तन् नित्यं शब्दवाच्यं तच् छब्दात् तच् च न भिद्यते // वाप ३,२.११ //

न तद् अस्ति न तन् नास्ति $ न तद् एकं न तत् पृथक् &
न संसृष्टं विभक्तं वा विकृतं न च नान्यथा // वाप ३,२.१२ //

तन् नास्ति विद्यते तच् च $ तद् एकं तत् पृथक् पृथक् &
संसृष्टं च विभक्तं च विकृतं तत् तद् अन्यथा // वाप ३,२.१३ //

तस्य शब्दार्थसंबन्ध- $ रूपम् एकस्य दृश्यते &
तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् // वाप ३,२.१४ //

विकारापगमे सत्यं $ सुवर्णं कुण्डले यथा &
विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् // वाप ३,२.१५ //

वाच्या सा सर्वशब्दानां $ शब्दाश् च न पृथक् ततः &
अपृथक्त्वे च संबन्धस् तयोर् नानात्मनोर् इव // वाप ३,२.१६ //

आत्मा परः प्रियो द्वेष्यो $ वक्ता वाच्यं प्रयोजनम् &
विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः // वाप ३,२.१७ //

अजन्मनि तथा नित्ये $ पौर्वापर्यविवर्जिते &
तत्त्वे जन्मादिरूपत्वं विरुद्धम् उपलभ्यते // वाप ३,२.१८ //

३.३ संबन्धसमुद्देश

ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः $ स्वरूपं च प्रतीयते &
शब्दैर् उच्चरितैस् तेषां संबन्धः समवस्थितः // वाप ३,३.१ //

प्रतिपत्तुर् भवत्य् अर्थे $ ज्ञाने वा संशयः क्वचित् &
स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते // वाप ३,३.२ //

अस्यायं वाचको वाच्य $ इति षष्ठ्या प्रतीयते &
योगः शब्दार्थयोस् तत्त्वम् अप्य् अतो व्यपदिश्यते // वाप ३,३.३ //

नाभिधानं स्वधर्मेण $ संबन्धस्यास्ति वाचकम् &
अत्यन्तपरतन्त्रत्वाद् रूपं नास्यापदिश्यते // वाप ३,३.४ //

उपकारात् स यत्रास्ति $ धर्मस् तत्रानुगम्यते &
शक्तीनाम् अपि सा शक्तिर् गुणानाम् अप्य् असौ गुणः // वाप ३,३.५ //

तद्धर्मणोस् तु ताच्छब्द्यं $ संयोगसमवाययोः &
तयोर् अप्य् उपकारार्था नियतास् तदुपाधयः // वाप ३,३.६ //

का चिद् एव हि सावस्था $ कार्यप्रसवसूचिता &
कस्य चित् केन चिद् यस्यां संयोग उपजायते // वाप ३,३.७ //

निरात्मकानाम् उत्पत्तौ $ नियमः क्वचिद् एव यः &
तेनैवाव्यपवर्गश् च प्राप्तभेदे स यत्कृतः // वाप ३,३.८ //

आत्मान्तरस्य येनात्मा $ तदात्मेवावधार्यते &
यतश् चैकत्वनानात्वं तत्त्वं नाध्यवसीयते // वाप ३,३.९ //

तां शक्तिं समवायाख्यां $ शक्तीनाम् उपकारिणीम् &
हेदाभेदाव् अतिक्रान्ताम् अन्यथैव व्यवस्थिताम् // वाप ३,३.१० //

धर्मं सर्वपदार्थानाम् $ अतीतः सर्वलक्षणः &
अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः // वाप ३,३.११ //

पदार्थीकृत एवान्यैः $ सर्वत्राभ्युपगम्यते &
संबन्धस् तेन शब्दार्थः प्रविभक्तुं न शक्यते // वाप ३,३.१२ //

समवायात् स्व आधारः $ स्वा च जातिः प्रतीयते &
एकार्थसमवायात् तु गुणाः स्वाधार एव ये // वाप ३,३.१३ //

द्रव्यत्वसत्तासंयोगाः $ स्वान्याधारोपबन्धनाः &
तत्प्रदेशविभागाश् च गुणा द्वित्वादयश् च ये // वाप ३,३.१४ //

के चित् स्वाश्रयसंयुक्ताः $ के चित् तत्समवायिनः &
संयुक्तसमवेतेषु समवेतास् तथापरे // वाप ३,३.१५ //

स्वाश्रयेण तु संयुक्तैः $ संयुक्तं विभु गम्यते &
समवायस्य संबन्धो नापरस् तत्र दृश्यते // वाप ३,३.१६ //

संबन्धस्याविशिष्टत्वान् $ न चात्र नियमो भवेत् &
तस्माच्छब्दार्थयोर् नैवं संबन्धः परिकल्प्यते // वाप ३,३.१७ //

अदृष्टवृत्तिलाभेन $ यथा संयोग आत्मनः &
क्व चित् स्वस्वामियोगाख्यो ऽभेदे ऽन्यत्रापि स क्रमः // वाप ३,३.१८ //

प्राप्तिं तु समवायाख्यां $ वाच्यधर्मातिवर्तिनीम् &
प्रयोक्ता प्रतिपत्ता वा न शब्दैर् अनुगच्छति // वाप ३,३.१९ //

अवाच्यम् इति यद् वाच्यं $ तद् अवाच्यतया यदा &
वाच्यम् इत्यवसीयेत वाच्यम् एव तदा भवेत् // वाप ३,३.२० //

अथाप्य् अवाच्यम् इत्य् एवं, $ न तद् वाच्यं प्रतीयते &
विवक्षितास्य यावस्था सैव नाध्यवसीयते // वाप ३,३.२१ //

तथान्यथा सर्वथा च $ यस्यावाच्यत्वम् उच्यते &
तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते // वाप ३,३.२२ //

न हि संशयरूपे ऽर्थे $ शेषत्वेन व्यवस्थिते &
अव्युदासे स्वरूपस्य संशयो ऽन्यः प्रवर्तते // वाप ३,३.२३ //

यदा च निर्णयज्ञाने $ निर्णयत्वेन निर्णयः &
प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते // वाप ३,३.२४ //

सर्वं मिथ्या ब्रवीमीति $ नैतद् वाक्यं विवक्ष्यते &
तस्य मिथ्याभिधाने हि प्रक्रान्तो ऽर्थो न गम्यते // वाप ३,३.२५ //

न च वाचकरूपेण $ प्रवृत्तस्यास्ति वाच्यता &
प्रतिपाद्यं न तत् तत्र येनान्यत् प्रतिपाद्यते // वाप ३,३.२६ //

असाधिका प्रतिज्ञेति $ नेयम् एवाभिधीयते &
यथा, तथास्य धर्मो ऽपि नात्र कश्चित् प्रतीयते // वाप ३,३.२७ //

व्यापारस्यापरो यस्मान् $ न व्यापारो ऽस्ति कश्चन &
विरोधम् अनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् // वाप ३,३.२८ //

इन्द्रियाणां स्वविषयेष्व् $ अनादिर् योग्यता यथा &
अनादिर् अर्थैः शब्दानां संबन्धो योग्यता तथा // वाप ३,३.२९ //

असाधुर् अनुमानेन $ वाचकः कैश्चिद् इष्यते &
वाचकत्वाविशेषे वा नियमः पुण्यपापयोः // वाप ३,३.३० //

संबन्धशब्दे संबन्धो $ योग्यताञ्ं प्रति योग्यता &
समयाद् योग्यतासंविन् मातापुत्रादियोगवत् // वाप ३,३.३१ //

शब्दः कारणम् अर्थस्य $ स हि तेनोपजन्यते &
तथा च बुद्धिविषयाद् अर्थाच् छब्दः प्रतीयते // वाप ३,३.३२ //

भोजनाद्य् अपि मन्यन्ते $ बुद्ध्यर्थे यद् असंभवि &
बुद्ध्यर्थाद् एव बुद्ध्यर्थे जाते तद् अपि दृश्यते // वाप ३,३.३३ //

अनित्येष्व् अपि नित्यत्वम् $ अभिधेयात्मना स्थितम् &
अनित्यत्वं स्वशक्तिर् वा सा च नित्यान् न भिद्यते // वाप ३,३.३४ //

शब्देनार्थस्य संस्कारो $ दृष्टादृष्टप्रयोजनः &
क्रियते सो ऽभिसंबन्धम् अन्तरेण कथं भवेत् // वाप ३,३.३५ //

नावश्यम् अभिधेयेषु $ संस्कारः स तथाविधः &
दृस्यते न च संबन्धस् तथाभूतो विवक्षितः // वाप ३,३.३६ //

सति प्रत्ययहेतुत्वं $ संबन्ध उपपद्यते &
शब्दस्यार्थे यतस् तत्र संबन्धो ऽस्तीति गम्यते // वाप ३,३.३७ //

नित्ये ऽनित्ये ऽपि वाप्य् अर्थे $ पुरुषेण कथंचन &
संबन्धो ऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते // वाप ३,३.३८ //

व्यपदेशे पदार्थानाम् $ अन्या सत्तौपचारिकी &
सर्वावस्थासु सर्वेषाम् आत्मरूपस्य दर्शिका // वाप ३,३.३९ //

स्फटिकादि यथा द्रव्यं $ भिन्नरूपैर् उपाश्रयैः &
स्वशक्तियोगात् संबन्धं ताद्रूप्येणेव गच्छति // वाप ३,३.४० //

तद्वच् छब्दो ऽपि सत्तायाम् $ अस्यां पूर्वं व्यवस्थितः &
धर्मैर् उपैति संबन्धम् अविरोधिविरोधिभिः // वाप ३,३.४१ //

एवं च प्रतिषेध्येषु $ प्रतिषेधप्रकॢप्तये &
आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते // वाप ३,३.४२ //

आत्मलाभस्य जन्माख्या $ सता लभ्यं च लभ्यते &
यदि सज् जायते कस्माद् अथासज् जायते कथम् // वाप ३,३.४३ //

सतो हि गन्तुर् गमनं, $ सति गम्ये प्रवर्तते &
गन्तृवच् चेन् न जन्मार्थो, न चेत् तद्वन् न जायते // वाप ३,३.४४ //

उपचर्य तु कर्तारम् $ अभिधानप्रवृत्तये &
पुनश् च कर्मभावेन तां क्रियां च तदाश्रयाम् // वाप ३,३.४५ //

अथोपचारसत्तैवं $ विधेयस् तत्र लादयः &
जन्मना तु विरोधित्वान् मुख्या सत्ता न विद्यते // वाप ३,३.४६ //

आत्मानम् आत्मना बिभ्रद् $ अस्तीति व्यपदिश्यते &
अन्तर्भावाच् च तेनासौ कर्मणा न सकर्मकः // वाप ३,३.४७ //

प्राक् च सत्ताभिसंबन्धान् $ मुख्या सत्ता कथं भवेत् &
असंश् च नास्तेः कर्ता स्याद् उपचारस् तु पूर्ववत् // वाप ३,३.४८ //

तस्माद् भिन्नेषु धर्मेषु $ विरोधिष्व् अविरोधिनीम् &
विरोधिख्यापनायैव शब्दैस् तैस् तैर् उपाश्रिताम् // वाप ३,३.४९ //

अभिन्नकालाम् अर्थेषु $ भिन्नकालेष्व् अवस्थिताम् &
प्रवृत्तिहेतुं सर्वेषां शब्दानाम् औपचारिकीम् // वाप ३,३.५० //

एतां सत्तां पदार्थो हि $ न कश् चिद् अतिवर्तते &
सा च संप्रतिसत्तायाः पृथग् भाश्ये निदर्शिता // वाप ३,३.५१ //

प्रदेशस्यैकदेशं वा $ परतो वा निरूपणम् &
विपर्ययम् अभावं वा व्यवहारो ऽनुवर्तते // वाप ३,३.५२ //

यथेन्द्रियस्य वैगुण्यान् $ मात्राध्यारोपवान् इव &
जायते प्रत्ययो ऽर्थेभ्यस् तथैवोद्देशजा मतिः // वाप ३,३.५३ //

अकृत्स्नविषयाभासं $ शब्दः प्रत्ययम् आश्रितः &
अर्थम् आहान्यरूपेण स्वरूपेणानिरूपितम् // वाप ३,३.५४ //

रूपणव्यपदेशाभ्यां $ लौकिके वर्त्मनि स्थितौ &
ज्ञानं प्रत्य् अभिलापं च सदृशौ बालपण्डितौ // वाप ३,३.५५ //

सर्वार्थरूपता शुद्धिर् $ ज्ञानस्य निरुपाश्रया &
ततो ऽप्य् अस्य परां शुद्धिम् एके प्राहुर् अरूपिकाम् // वाप ३,३.५६ //

उपप्लवो हि ज्ञानस्य $ बाह्याकारानुपातिता &
कालुष्यम् इव तत् तस्य संसर्गे व्यतिभेदजम् // वाप ३,३.५७ //

यथा च ज्ञानम् आलेखाद् $ अशुद्धौ व्यवतिष्ठते &
तथोपाश्रयवान् अर्थः स्वरूपाद् विप्रकृष्यते // वाप ३,३.५८ //

एवम् अर्थस्य शब्दस्य $ ज्ञानस्य च विपर्यये &
भावाभावाव् अभेदेन व्यवहारानुपातिनौ // वाप ३,३.५९ //

यथा भावम् उपाश्रित्य $ तदभावो ऽनुगम्यते &
तथाभावम् उपाश्रित्य तद्भावो ऽप्य् अनुगम्यते // वाप ३,३.६० //

नाभावो जायते भावो $ नैति भावो ऽनुपाख्यताम् &
एकस्माद् आत्मनो ऽनन्यौ भावाभावौ विकल्पितौ // वाप ३,३.६१ //

अभावस्यानुपाख्यत्वात् $ कारणं न प्रसाधकम् &
सोपाख्यस्य तु भावस्य कारणं किं करिश्यति // वाप ३,३.६२ //

तस्मात् सर्वम् अभावो वा $ भावो वा सर्वम् इष्यते &
न त्व् अवस्थान्तरं किं चिद् एकस्मात् सत्यतः स्थितम् // वाप ३,३.६३ //

तस्मान् नाभावम् इच्छन्ति $ ये लोके भाववादिनः &
अभाववादिनो वापि न भावं तत्त्वलक्षणम् // वाप ३,३.६४ //

अद्वये चैव सर्वस्मिन् $ स्वभावाद् एकलक्षणे &
परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते // वाप ३,३.६५ //

चतस्रो हि यथावस्था $ निरुपाख्ये प्रकल्पिताः &
एवं द्वैविध्यम् अप्य् एतद् भावाभावव्यपाश्रयम् // वाप ३,३.६६ //

अविरोधी विरोधी वा $ सन्न् असन् वापि युक्तितः &
क्रमवान् अक्रमो वापि नाभाव उपपद्यते // वाप ३,३.६७ //

अविरोधी विरोधी वा $ सन्न् असन् वापि तत्त्वतः &
क्रमवान् अक्रमो वापि तेन भावो न विद्यते // वाप ३,३.६८ //

अभावे त्रिषु कालेषु $ न भेदस्यास्ति संभवः &
तस्मिन्न् असति भावे ऽपि त्रैकाल्यं नावतिष्ठते // वाप ३,३.६९ //

आत्मतत्त्वपरित्यागः $ परतो नोपपद्यते &
आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते // वाप ३,३.७० //

तत्त्वे विरोधो नानात्व $ उपकारो न कश् चन &
तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते // वाप ३,३.७१ //

यत्र द्रष्टा च दृश्यं च $ दर्शनं चाविकल्पितम् &
तस्यैवार्थस्य सत्यत्वं श्रितास् त्रय्यन्तवेदिनः // वाप ३,३.७२ //

सामान्यं वा विशेषं वा $ यस्माद् आहुर् विशेषवत् &
शब्दास् तस्माद् असत्येषु भेदेष्व् एव व्यवस्थिताः // वाप ३,३.७३ //

न ह्य् अभावस्य सद्भावे $ भावस्यात्मा प्रहीयते &
न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते // वाप ३,३.७४ //

न शाबलेयस्यास्तित्वं $ बाहुलेयस्य बाधकम् &
न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते // वाप ३,३.७५ //

अभावो यदि वस्तु स्यात् $ तत्रेयं स्यात् विचारणा &
ततश् च तदभावे ऽपि स्याद् विचार्यम् इदं पुनः // वाप ३,३.७६ //

अवस्तु स्याद् अतीतं यद् $ व्यवहारस्य गोचरम् &
तत्र वस्तुगतो भेदो न निर्वचनम् अर्हति // वाप ३,३.७७ //

अपदे ऽर्थे पदन्यासः $ कारणस्य न विद्यते &
अथ च प्रागसद्भावः कारणे सति दृष्यते // वाप ३,३.७८ //

का तस्य प्रागवस्थेति $ वस्त्वाश्रितम् इदं पुनः &
प्राग् अवस्थेति न ह्य् एतद् द्वयम् अप्य् अस्त्य् अवस्तुनि // वाप ३,३.७९ //

न चोर्ध्वम् अस्ति नास्तीति $ वचनायानिबन्धनम् &
अलं स्याद् अपदस्थानम् एतद् वाचः प्रचक्षते // वाप ३,३.८० //

अत्यद्भुता त्व् इयं वृत्तिर् $ यद् अभागं यद् अक्रमम् &
भावानां प्राग् अभूतानाम् आत्मतत्त्वं प्रकाशते // वाप ३,३.८१ //

विकल्पोत्थापितेनैव $ सर्वो भावेन लौकिकः &
मुख्येनेव पदार्थेन व्यवहारो विधीयते // वाप ३,३.८२ //

भावशक्तिम् अतश् चैनां $ मन्यन्ते नित्यवादिनः &
भावम् एव क्रमम् प्राहुर् न भावाद् अपरः क्रमः // वाप ३,३.८३ //

क्रमान् न यौगपद्यस्य $ कश् चिद् भेदो ऽस्ति तत्त्वतः &
यथैव भावान् नाभावः कश् चिद् अन्यो ऽवसीयते // वाप ३,३.८४ //

कालस्याप्य् अपरं कालं $ निर्दिशन्त्य् एव लौकिकाः &
न च निर्देशमात्रेण व्यतिरेको ऽनुगम्यते // वाप ३,३.८५ //

आधारं कल्पयन् बुद्ध्या $ नाभावे व्यवतिष्ठते &
अवस्तुष्व् अपि नोत्प्रेक्षा कस्य चित् प्रतिबध्यते // वाप ३,३.८६ //

तस्माच् छक्तिविभागेन $ नित्यः सदसदात्मकः &
एको ऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते // वाप ३,३.८७ //

व्यवहारश् च लोकस्य $ पदार्थैः परिकल्पितैः &
शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते // वाप ३,३.८८ //

३,४ भूयोद्रव्यसमुद्देशः

संसर्गरूपात् संभूताः $ संविद्रूपाद् अपोद्धृताः &
शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् // वाप ३,४.१ //

निमित्तभूताः साधुत्वे $ शास्त्राद् अनुमितात्मकाः &
के चित् पदार्था वक्ष्यन्ते संक्शेपेण यथागमम् // वाप ३,४.२ //

वस्तूपलक्षणं यत्र $ सर्वनाम प्रयुज्यते &
द्रव्यम् इत्य् उच्यते सो ऽर्तो भेद्यत्वेन विवक्शितः // वाप ३,४.३ //

३,५ गुणसमुदेश

संसर्गि भेदकं यद् यत् $ सव्यापारं प्रतीयते &
गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम् // वाप ३,५.१ //

द्रव्यस्याव्यपदेशस्य $ य उपादीयते गुणः &
भेदको व्यपदेशाय तत्प्रकर्षो ऽभिधीयते // वाप ३,५.२ //

सर्वस्यैव प्रधानस्य $ न विना भेदहेतुना &
प्रकर्षो विद्यते नापि ऽशब्दस्योपैति वाच्यताम् // वाप ३,५.३ //

विद्यमानाः प्रधानेषु $ न सर्वे भेदहेतवः &
विशेषशब्दैर् उच्यन्ते व्यावृत्तार्थाभिधायिभिः // वाप ३,५.४ //

वस्तूपलक्षणे तत्र $ विशेषो व्यापृतो यदि &
प्रकर्षो नियमाभावात् स्याद् अविज्ञातहेतुकः // वाप ३,५.५ //

सर्वं च सर्वतो ऽवश्यं $ नियमेन प्रकृष्यते &
संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा // वाप ३,५.६ //

नापेक्षते निमित्तं च $ प्रकर्षे व्यापृतं यदि &
द्रव्यस्य स्याद् उपादानं प्रकर्षं प्रत्य् अनर्थकं // वाप ३,५.७ //

सव्यापारो गुणस् तस्मात् $ स्वप्रकर्षनिबन्धनः &
द्रव्यात्मानं भिनत्त्य् एव स्वप्रकर्षं निवेशयन् // वाप ३,५.८ //

अरूपं पररूपेण $ द्रव्यम् आख्यायते यथा &
अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा // वाप ३,५.९ //

३,६ दिक्समुद्देश

दिक् साधनम् क्रिया काल $ इति वस्त्वभिधायिनः &
शक्तिरूपे पदार्थानाम् अत्यन्तम् अनवस्थिताः // वाप ३,६.१ //

व्यतिरेकस्य यो हेतुर् $ अवधिप्रतिपाद्ययोः &
ऋज्व् इत्य् एवम् यतो ऽन्येन विना बुद्धिः प्रवर्तते // वाप ३,६.२ //

कर्मनो जातिभेदानाम् $ अभिव्यक्तिर् यदाश्रया &
सा स्वैर् उपाधिभिर् भिन्ना शक्तिर् दिग् इति कथ्यते // वाप ३,६.३ //

परापरत्वे मूर्तिनां $ देशभेदनिबन्धने &
तत एव प्रकल्पेते क्रमरूपे तु कालतः // वाप ३,६.४ //

आकाशस्य प्रदेशेन $ भागैश् चान्यैः पृथक् पृथक् &
सा संयोगविभागानाम् उपाधित्वाय कल्पते // वाप ३,६.५ //

दिशो व्यवस्था देशानां $ दिग्व्यवस्था न विद्यते &
शक्तयः खलु भावानाम् उपकारप्रभाविताः // वाप ३,६.६ //

प्रत्यस्तरूपा भावेषु $ दिक् पूर्वेत्य् अभिधीयते &
पूर्वबुद्धिर् यतो दिक् सा समाख्यामात्रम् अन्यथा // वाप ३,६.७ //

स्वाङ्गाद् व्यवस्था या लोके $ न तस्याम् नियता दिशः &
प्रत्यङ्मुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये // वाप ३,६.८ //

देशव्यवस्थानियमो $ दिक्षु न व्यवतिष्ठते &
रूढम् अप्य् अपरत्वेन पूर्वम् इत्य् अभिधीयते // वाप ३,६.९ //

अतो भाषितपुंस्कत्वात् $ पुंवद्भावो न सिध्यति &
अस्मिन्न् अर्थे न शब्देन प्रसवः क्व चिद् उच्यते // वाप ३,६.१० //

दिक्शक्तेर् अभिधाने तु $ नियतं दिशि दर्शनम् &
पूर्वादिनां यथा षष्टेर् जीवितस्यावधारणे // वाप ३,६.११ //

छायाभाभ्यां नगादीनाम् $ भागभेदः प्रकल्पते &
अतद्धर्मसु भावेषु भागभेदो न कल्पते // वाप ३,६.१२ //

परमाणोर् अभागस्य $ दिशा भागो विधीयते &
भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते // वाप ३,६.१३ //

अदेशाश् चाप्य् अभागाश् च $ निष्क्रमा निरुपाश्रयाः &
भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते // वाप ३,६.१४ //

निर्भागात्मकता तुल्या $ परमाणोर् घटस्य च &
भागः शक्त्यन्तरं तत्र परिमाणं च यत् तयोः // वाप ३,६.१५ //

यतः प्रकल्पते भेदो $ भेदस् तत्रापि दृश्यते &
अदृष्टोपरतिं भेदम् अतो ऽयुक्ततरं विदुः // वाप ३,६.१६ //

सर्वत्र तस्य कार्यस्य $ दर्शनाद् विभुर् इष्यते &
विभुत्वम् एतद् एवाहुर् अन्यः कायवतां विधिः // वाप ३,६.१७ //

चैतन्यवत् स्थिता लोके $ दिक्कालपरिकल्पना &
प्रकृतिं प्राणिनां तां हि को ऽन्यथा स्थापयिष्यति // वाप ३,६.१८ //

संकरो व्यवहाराणां $ प्रकृतेः स्याद् विपर्यये &
तस्मात् त्यजन्न् इमान् भावान् पुनर् एवावलम्बते // वाप ३,६.१९ //

तस्यास् तु शक्तेः पूर्वादि- $ भेदो भावान्तराश्रयः &
भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते // वाप ३,६.२० //

अवधित्वेन चापेक्षा- $ योगे दिग्लक्षणो विधिः &
पूर्वम् अस्येति षष्ठ्य् एव दृष्टा धर्मान्तराश्रये // वाप ३,६.२१ //

पूर्वादिनां विपर्यासो $ ऽदृष्टश् चावध्यसंकरे &
ऋज्व् एतद् अस्येत्य् एतच् च लिङ्गं न व्यतिकीर्यते // वाप ३,६.२२ //

अन्तःकरणधर्मो वा $ बहिर् एवं प्रकाशते &
अस्यां त्व् अन्तर्बहिर्भावः प्रक्रियायां न विद्यते // वाप ३,६.२३ //

एकत्वम् आसां शक्तीनां $ नानात्वं वेति कल्पने &
अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् // वाप ३,६.२४ //

विकल्पातीततत्त्वेषु $ संकेतोपनिबन्धनाः &
भावेषु व्यवहारा ये लोकस् तत्रानुगम्यते // वाप ३,६.२५ //

नैकत्वम् अस्त्य् अनानात्वं $ विनैकत्वेन नेतरत् &
परमार्थे तयोर् एष भेदो ऽत्यन्तं न विद्यते // वाप ३,६.२६ //

न शक्तीनां तथा भेदो $ यथा शक्तिमताम् स्थितिः &
न च लौकिकम् एकत्वं तासाम् आत्मसु विद्यते // वाप ३,६.२७ //

नैकत्वं व्यवतिष्ठेत $ नानात्वं चेन् न कल्पयेत् &
नानात्वं चावहीयेत यद्य् एकत्वं न कल्पयेत् // वाप ३,६.२८ //

३,७ साधनसमुद्देश

स्वाश्रये समवेतानां $ तद्वद् एवाश्रयान्तरे &
क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः // वाप ३,७.१ //

शक्तिमात्रासमूहस्य $ विश्वस्यानेकधर्मणः &
सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते // वाप ३,७.२ //

साधनव्यवहारश् च $ बुद्ध्यवस्थानिबन्धनः &
सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते // वाप ३,७.३ //

बुद्ध्या समीहितैकत्वान् $ पञ्चालान् कुरुभिर् यदा &
पुनर् विभजते वक्ता तदापायः प्रतीयते // वाप ३,७.४ //

शब्दोपहितरूपांश् च $ बुद्धेर् विषयतां गतान् &
प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते // वाप ३,७.५ //

बुद्धिप्रवृत्तिरूपं च $ समारोप्याभिधातृभिः &
अर्थेषु शक्तिभेदानां क्रियते परिकल्पना // वाप ३,७.६ //

व्यक्तौ पदार्थे शब्दादेर् $ जन्यमानस्य कर्मणः &
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् // वाप ३,७.७ //

स्वतन्त्रपरतन्त्रत्वे $ क्रमरूपं च दर्शितम् &
निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् // वाप ३,७.८ //

शक्तयः शक्तिमन्तश् च $ सर्वे संसर्गवादिनाम् &
भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते // वाप ३,७.९ //

घटस्य दृशिकर्मत्वे $ महत्त्वादीनि साधनम् &
रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् // वाप ३,७.१० //

स्वैः सामान्यविशेषैश् च $ शक्तिमन्तो रसादयः &
नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः // वाप ३,७.११ //

इन्द्रियार्थमनःकर्तृ- $ संबन्धः साधनं क्व चित् &
यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् // वाप ३,७.१२ //

स्वशब्दैर् अभिधाने तु $ स धर्मो नाभिधीयते &
विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते // वाप ३,७.१३ //

निमित्तभावो भावानाम् $ उपकारार्थम् आश्रितः &
नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते // वाप ३,७.१४ //

स तेभ्यो व्यतिरिक्तो वा $ तेषाम् आत्मैव वा तथा &
व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते // वाप ३,७.१५ //

संदर्शनं प्रार्थनायां $ व्यवसाये त्व् अनन्तरा &
व्यवसायस् तथारम्भे साधनत्वाय कल्पते // वाप ३,७.१६ //

पूर्वस्मिन् या क्रिया सैव $ परस्मिन् साधनं मता &
संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः // वाप ३,७.१७ //

निष्पत्तिमात्रे कर्तृत्वं $ सर्वत्रैवास्ति कारके &
व्यापारभेदापेक्षायां करणत्वादिसंभवः // वाप ३,७.१८ //

पुत्रस्य जन्मनि यथा $ पित्रोः कर्तृत्वम् उच्यते &
अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया // वाप ३,७.१९ //

गुणक्रियाणां कर्तारः $ कर्त्रा न्यक्कृतशक्तयः &
न्यक्तायाम् अपि संपूर्णैः स्वैर् व्यापारैः समन्विताः // वाप ३,७.२० //

करणत्वादिभिर् ज्ञाताः $ क्रियाभेदानुपातिभिः &
स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् // वाप ३,७.२१ //

यथा राज्ञा नियुक्तेषु $ योद्धृत्वं योद्धृषु स्थितम् &
तेषु वृत्तौ तु लभते राजा जयपराजयौ // वाप ३,७.२२ //

तथा कर्त्रा नियुक्तेषु $ सर्वेष्व् एकार्थकारिषु &
कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते // वाप ३,७.२३ //

अनाश्रिते तु व्यापारे $ निमित्तं हेतुर् इष्यते &
आश्रितावधिभावं तु लक्षणे लक्षणं विदुः // वाप ३,७.२४ //

द्रव्यादिविषयो हेतुः $ कारकं नियतक्रियम् &
कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते // वाप ३,७.२५ //

क्रियायै करणं तस्य $ दृष्टः प्रतिनिधिस् तथा &
हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते // वाप ३,७.२६ //

प्रातिलोम्यानुलोम्याभ्यां $ हेतुर् अर्थस्य साधकः &
तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् // वाप ३,७.२७ //

सर्वत्र सहजा शक्तिर् $ यावद्द्रव्यम् अवस्थिता &
क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी // वाप ३,७.२८ //

कुड्यस्यावरणे शक्तिर् $ अस्यादीनां विदारणे &
सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते // वाप ३,७.२९ //

स्वा”न्गसंयोगिनः पाशा $ दैत्यानां वारुणा यथा &
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा // वाप ३,७.३० //

तैक्ष्ण्यगौरवकाठिन्य- $ संस्थानैः स्वैर् असिर् यदा &
छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा // वाप ३,७.३१ //

प्रा”न् निमित्तान्तरोद्भूतं $ क्रियायाः कैश् चिद् इष्यते &
साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते // वाप ३,७.३२ //

प्रवृत्तिर् एव प्रथमं $ क्व चिद् अप्य् अनपाश्रिता &
शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति // वाप ३,७.३३ //

अपूर्वं कालशक्तिं वा $ क्रियां वा कालम् एव वा &
तम् एवम्लक्सनम् भावम् के चिद् आहुह् कथम् च न // वाप ३,७.३४ //

नित्याः षट् शक्तयो ऽन्येषां $ भेदाभेदसमन्विताः &
क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः // वाप ३,७.३५ //

द्रव्याकारादिभेदेन $ ताश् चापरिमिता इव &
दृश्यन्ते तत्त्वम् आसां तु षट् शक्तीर् नातिवर्तते // वाप ३,७.३६ //

निमित्तभेदाद् एकैव $ भिन्ना शक्तिः प्रतीयते &
षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् // वाप ३,७.३७ //

तत्त्वे वा व्यतिरेके वा $ व्यतिरिक्तं तद् उच्यते &
शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते // वाप ३,७.३८ //

परमार्थे तु नैकत्वं $ पृथक्त्वाद् भिन्नलक्षणम् &
पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते // वाप ३,७.३९ //

यत् पृथक्त्वम् असंदिग्धं $ तद् एकत्वान् न भिद्यते &
यद् एकत्वम् असंदिग्धं तत् पृथक्त्वान् न भिद्यते // वाप ३,७.४० //

द्यौः क्षमा वायुर् आदित्यः $ सागराः सरितो दिशः &
अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः // वाप ३,७.४१ //

कालविच्छेदरूपेण $ तद् एवैकम् अवस्थितम् &
स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते // वाप ३,७.४२ //

दृष्टो ह्य् अव्यतिरेके ऽपि $ व्यतिरेको ऽन्वये ऽसति &
वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते // वाप ३,७.४३ //

सामान्यं कारकं तस्य $ सप्ताद्या भेदयोनयः &
षट् कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी // वाप ३,७.४४ //

अथ कर्माधिकारः

निर्वर्त्यं च विकार्यं च $ प्राप्यं चेति त्रिधा मतम् &
तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् // वाप ३,७.४५ //

औदासीन्येन यत् प्राप्यं $ यच् च कर्तुर् अनीप्सितम् &
संज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् // वाप ३,७.४६ //

सती वाविद्यमाना वा $ प्रकृतिः परिणामिनी &
यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते // वाप ३,७.४७ //

प्रकृतेस् तु विवक्षायां $ विकार्यं कैश् चिद् अन्यथा &
निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् // वाप ३,७.४८ //

यद् असज् जायते सद् वा $ जन्मना यत् प्रकाश्यते &
तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् // वाप ३,७.४९ //

प्रकृत्युच्छेदसंभूतं $ किं चित् काष्ठादिभस्मवत् &
किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् // वाप ३,७.५० //

क्रियाकृता विशेषाणां $ सिद्धिर् यत्र न गम्यते &
दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते // वाप ३,७.५१ //

विशेषलाभः सर्वत्र $ विद्यते दर्शनादिभिः &
केषां चित् तदभिव्यक्ति- सिद्धिर् दृष्टिविषादिषु // वाप ३,७.५२ //

आभासोपगमो व्यक्तिः $ सोढत्वम् इति कर्मणः &
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः // वाप ३,७.५३ //

निर्वर्त्यादिषु तत् पूर्वम् $ अनुभूय स्वतन्त्रताम् &
कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः // वाप ३,७.५४ //

तद्व्यापारविवेके ऽपि $ स्वव्यापारे व्यवस्थितम् &
कर्मापदिष्टांल्लभते क्व चिच् छास्त्राश्रयान् विधीन् // वाप ३,७.५५ //

निवृत्तप्रेषणं कर्म $ स्वक्रियावयवे स्थितम् &
निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते // वाप ३,७.५६ //

तानि धात्वन्तराण्य् एव $ पचिसिध्यतिवद् विदुः &
भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना // वाप ३,७.५७ //

एकदेशे समूहे च $ व्यापाराणां पचादयः &
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः // वाप ३,७.५८ //

न्यग्भावना न्यग्भवनं $ रुहौ शुद्धे प्रतीयते &
न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते // वाप ३,७.५९ //

अवस्थां पञ्चमीम् आहुर् $ ण्यन्ते तां कर्मकर्तरि &
निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते // वाप ३,७.६० //

ब्रवीति पचतेर् अर्थं $ सिध्यतिर् न विना णिचा &
स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते // वाप ३,७.६१ //

केषां चिद् देवदत्तादेर् $ व्यापारो यः सकर्मके &
स विना देवदत्तादेः कटादिषु विवक्ष्यते // वाप ३,७.६२ //

निवृत्तप्रेषणं कर्म $ स्वस्य कर्तुः प्रयोजकम् &
प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते // वाप ३,७.६३ //

सदृशादिषु यत् कर्म- $ कर्तृत्वं प्रतिपद्यते &
आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये // वाप ३,७.६४ //

कुतश् चिद् आहृत्य पदम् $ एवं च परिकल्पने &
कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् // वाप ३,७.६५ //

विशेषदर्शनं यत्र $ क्रिया तत्र व्यवस्थिता &
क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते // वाप ३,७.६६ //

कालभावाध्वदेशानाम् $ अन्तर्भूतक्रियान्तरैः &
सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते // वाप ३,७.६७ //

आधारत्वम् इव प्राप्तास् $ ते पुनर् द्रव्यकर्मसु &
कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् // वाप ३,७.६८ //

अतस् तैः कर्मभिर् धातुर् $ युक्तो ऽद्रव्यैर् अकर्मकः &
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते // वाप ३,७.६९ //

सर्वं चाकथितं कर्म $ भिन्नकक्ष्यं प्रतीयते &
धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल // वाप ३,७.७० //

प्रधानकर्म कथितं $ यत् क्रियायाः प्रयोजकम् &
तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् // वाप ३,७.७१ //

दुह्यादिवन् नयत्यादौ $ कर्मत्वम् अकथाश्रयम् &
आख्यातानुपयोगे तु नियमाच् छेष इष्यते // वाप ३,७.७२ //

अन्तर्भूतणिजर्थानां $ दुह्यादीनां णिजन्तवत् &
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा // वाप ३,७.७३ //

करणस्य स्वकक्ष्यायां $ न प्रकर्षाश्रयो यथा &
कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा // वाप ३,७.७४ //

कर्मणस् त्व् आप्तुम् इष्टत्व $ आश्रिते ऽतिशयो यतः &
आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा // वाप ३,७.७५ //

णिजन्ते च यथा कर्ता $ सक्रियः सन् प्रयुज्यते &
न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते // वाप ३,७.७६ //

भेदवाक्यं तु यन् ण्यन्ते $ नीदुहिप्रकृतौ च यत् &
शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना // वाप ३,७.७७ //

यथैवैकम् अपादानं $ शास्त्रे भेदेन दर्शितम् &
तथैकम् एव कर्मापि भेदेन प्रतिपादितम् // वाप ३,७.७८ //

निर्वर्त्यो वा विकार्यो वा $ प्राप्यो वा साधनाश्रयः &
क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते // वाप ३,७.७९ //

अहितेषु यथा लौल्यात् $ कर्तुर् इच्छोपजायते &
विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते // वाप ३,७.८० //

प्रधानेतरयोर् यत्र $ द्रव्यस्य क्रिययोः पृथक् &
शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते // वाप ३,७.८१ //

प्रधानविषया शक्तिः $ प्रत्ययेनाभिधीयते &
यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते // वाप ३,७.८२ //

पचाव् अनुक्तं यत् कर्म $ क्त्वान्ते भावाभिधायिनि &
भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते // वाप ३,७.८३ //

इषेश् च गमिसंस्पर्शाद् $ ग्रामे यो लो विधीयते &
तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः // वाप ३,७.८४ //

पक्त्वा भुज्यत इत्य् अत्र $ केषां चिन् न व्यपेक्षते &
ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते // वाप ३,७.८५ //

तथाभिनिविशौ कर्म $ यत् ति”नन्ते ऽभिधीयते &
क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् // वाप ३,७.८६ //

यन् निर्वृत्ताश्रयं कर्म $ प्राप्तेर् अप्रचितं पुनः &
भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् // वाप ३,७.८७ //

धातोर् अर्थान्तरे वृत्तेर् $ धात्वर्थेनोपसंग्रहात् &
प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया // वाप ३,७.८८ //

भेदा य एते चत्वारः $ सामान्येन प्रदर्शिताः &
ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः // वाप ३,७.८९ //

इति कर्माधिकारः

 

अथ करणाधिकारः

क्रियायाः परिनिष्पत्तिर् $ यद्व्यापाराद् अनन्तरम् &
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् // वाप ३,७.९० //

वस्तुतस् तद् अनिर्देश्यं $ न हि वस्तु व्यवस्थितम् &
स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः // वाप ३,७.९१ //

करणेषु तु संस्कारम् $ आरभन्ते पुनः पुनः &
विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये // वाप ३,७.९२ //

स्वकक्ष्यासु प्रकर्षश् च $ करणानां न विद्यते &
आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् // वाप ३,७.९३ //

स्वातन्त्र्ये ऽपि प्रयोक्तार $ आराद् एवोपकुर्वते &
करणेन हि सर्वेषां व्यापारो व्यवधीयते // वाप ३,७.९४ //

क्रियासिद्धौ प्रकर्षो ऽयं $ न्यग्भावस् त्व् एव कर्तरि &
सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते // वाप ३,७.९५ //

अस्यादीनां तु कर्तृत्वे $ तैक्ष्ण्यादि करणं विदुः &
तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते // वाप ३,७.९६ //

आत्मभेदे ऽपि सत्य् एवम् $ एको ऽर्थः स तथा स्थितः &
तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः // वाप ३,७.९७ //

यथा च संनिधानेन $ करणत्वं प्रतीयते &
तथैवासंनिधाने ऽपि क्रियासिद्धेः प्रतीयते // वाप ३,७.९८ //

स्तोकस्य वाभिनिर्वृत्तेर् $ अनिर्वृत्तेश् च तस्य वा &
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते // वाप ३,७.९९ //

धर्माणां तद्वता भेदाद् $ अभेदाच् च विशिष्यते &
क्रियावधेर् अवच्छेद- विशेषाद् भिद्यते यथा // वाप ३,७.१०० //

इति करणाधिकारः

 

अथ कर्त्रधिकारः

प्राग् अन्यतः शक्तिलाभान् $ न्यग्भावापादनाद् अपि &
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् // वाप ३,७.१०१ //

अदृष्टत्वात् प्रतिनिधेः $ प्रविवेके च दर्शनात् &
आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते // वाप ३,७.१०२ //

धर्मैर् अभ्युदितैः शब्दे $ नियमो न तु वस्तुनि &
कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते // वाप ३,७.१०३ //

एकस्य बुद्ध्यवस्थाभिर् $ भेदे च परिकल्पिते &
कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते // वाप ३,७.१०४ //

उत्पत्तेः प्राग् असद्भावो $ बुद्ध्यवस्थानिबन्धनः &
अविशिष्टः सतान्येन कर्ता भवति जन्मनः // वाप ३,७.१०॰ //

कारणं कार्यभावेन $ यदा वाव्यवतिष्ठते &
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते // वाप ३,७.१०६ //

यथाहेः कुण्डलीभावो $ व्यग्राणां वा समग्रता &
तथैव जन्मरूपत्वं सताम् एके प्रचक्षते // वाप ३,७.१०७ //

विभक्तयोनि यत् कार्यं $ कारणेभ्यः प्रवर्तते &
स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते // वाप ३,७.१०८ //

भावेष्व् एव पदन्यासः $ प्रज्ञाया वाच एव वा &
नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः // वाप ३,७.१०९ //

बुद्धिशब्दौ प्रवर्तेते $ यथाभूतेषु वस्तुषु &
तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते // वाप ३,७.११० //

आकाशस्य यथा भेदश् $ छायायाश् चलनं यथा &
जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ // वाप ३,७.१११ //

यथैवाकाशनास्तित्वम् $ असन् मूर्तिनिरूपितम् &
तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् // वाप ३,७.११२ //

यथा तदर्थैर् व्यापारैः $ क्रियात्मा व्यपदिश्यते &
अभेदग्रहणाद् एष कार्यकारणयोः क्रमः // वाप ३,७.११३ //

विकारो जन्मनः कर्ता $ प्रकृतिर् वेति संशये &
भिद्यते प्रतिपत्तृणां दर्शनं लि”न्गदर्शनैः // वाप ३,७.११४ //

कॢपि संपद्यमाने या $ चतुर्थी सा विकारतः &
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् // वाप ३,७.११५ //

वाक्ये संपद्यतेः कर्ता $ स”न्घश् च्व्यन्तस्य कथ्यते &
वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता // वाप ३,७.११६ //

अत्वं संपद्यते यस् त्वं $ न तस्मिन् युष्मदाश्रया &
प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते // वाप ३,७.११७ //

पूर्वावस्थाम् अविजहत् $ संस्पृशन् धर्मम् उत्तरम् &
संमूर्छित इवार्थात्मा जायमानो ऽभिधीयते // वाप ३,७.११८ //

सव्यापारतरः कश् चित् $ क्व चिद् धर्मः प्रतीयते &
संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः // वाप ३,७.११९ //

विपरीतार्थवृत्तित्वं $ पुरुषस्य विपर्यये &
गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते // वाप ३,७.१२० //

त्वम् अन्यो भवसीत्य् एषा $ तत्र स्यात् परिकल्पना &
राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् // वाप ३,७.१२१ //

संभावनात् क्रियासिद्धौ $ कर्तृत्वेन समाश्रितः &
क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः // वाप ३,७.१२२ //

प्रयोगमात्रे न्यग्भावं $ स्वातन्त्र्याद् एव निश्रितः &
अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः // वाप ३,७.१२३ //

निमित्तेभ्यः प्रवर्तन्ते $ सर्व एव स्वभूतये &
अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये // वाप ३,७.१२४ //

इति कर्त्रधिकारः

 

अथ हेत्वधिकारः

प्रेषणाध्येषणे कुर्वंस् $ तत्समर्थानि चाचरन् &
कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते // वाप ३,७.१२५ //

द्रव्यमात्रस्य तु प्रैषे $ पृच्छ्यादेर् लोड् विधीयते &
सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः // वाप ३,७.१२६ //

गुणक्रियायां स्वातन्त्र्यात् $ प्रेषणे कर्मतां गतः &
नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते // वाप ३,७.१२७ //

क्रियायाः प्रेरकं कर्म $ हेतुः कर्तुः प्रयोजकः &
कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः // वाप ३,७.१२८ //

इति हेत्वधिकारः

 

अथ संप्रदानाधिकारः

अनिराकरणात् कर्तुस् $ त्यागा”न्गं कर्मणेप्सितम् &
प्रेरणानुमतिभ्यां च लभते संप्रदानताम् // वाप ३,७.१२९ //

हेतुत्वे कर्मसंज्ञायां $ शेषत्वे वापि कारकम् &
रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यम् उच्यते // वाप ३,७.१३० //

भेदस्य च विवक्षायां $ पूर्वां पूर्वां क्रियां प्रति &
परस्या”न्गस्य कर्मत्वान् न क्रियाग्रहणं कृतम् // वाप ३,७.१३१ //

क्रियाणां समुदाये तु $ यदैकत्वं विवक्षितम् &
तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते // वाप ३,७.१३२ //

भेदाभेदविवक्षा च $ स्वभावेन व्यवस्थिता &
तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते // वाप ३,७.१३३ //

विकल्पेनैव सर्वत्र $ संज्ञे स्याताम् उभे यदि &
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् // वाप ३,७.१३४ //

त्यागरूपं प्रहातव्ये $ प्राप्ये संसर्गदर्शनम् &
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया // वाप ३,७.१३५ //

इति संप्रदानाधिकारः

 

अथापादानाधिकारः

निर्दिष्टविषयं किं चिद् $ उपात्तविषयं तथा &
अपेक्षितक्रियं चेति त्रिधापादानम् उच्यते // वाप ३,७.१३६ //

संयोगभेदाद् भिन्नात्मा $ गमिर् एव भ्रमिर् यथा &
ध्रुवावधिर् अपायो ऽपि समवेतस् तथाध्रुवे // वाप ३,७.१३७ //

द्रव्यस्वभावो न ध्रौव्यम् $ इति सूत्रे प्रतीयते &
अपायविषयं ध्रौव्यं यत् तु तावद् विवक्षितम् // वाप ३,७.१३८ //

सरणे देवदत्तस्य $ ध्रौव्यं पाते तु वाजिनः &
आविष्टं यद् अपायेन तस्याध्रौव्यं प्रचक्षते // वाप ३,७.१३९ //

उभाव् अप्य् अध्रुवौ मेषौ $ यद्य् अप्य् उभयकर्मजे &
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते // वाप ३,७.१४० //

मेषान्तरक्रियापेक्षम् $ अवधित्वं पृथक् पृथक् &
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् // वाप ३,७.१४१ //

अभेदेन क्रियैका तु $ द्विसाध्या चेद् विवक्षिता &
मेषाव् अपाये कर्तारौ यद्य् अन्यो विद्यते ऽवधिः // वाप ३,७.१४२ //

गतिर् विना त्व् अवधिना $ नापाय इति गम्यते &
वृक्षस्य पर्णं पततीत्य् एवं भाष्ये निदर्शितम् // वाप ३,७.१४३ //

भेदाभेदौ पृथग्भावः $ स्थितिश् चेति विरोधिनः &
युगपन् न विवक्ष्यन्ते सर्वे धर्मा बलाहके // वाप ३,७.१४४ //

धनुषा विध्यतीत्य् अत्र $ विनापायविवक्षया &
करणत्वं यतो नास्ति तस्मात् तद् उभयं सह // वाप ३,७.१४५ //

एकैव वा सती शक्तिर् $ द्विरूपा व्यवतिष्ठते &
निमित्तं संज्ञयोस् तत्र परया बाध्यते ऽपरा // वाप ३,७.१४६ //

निर्धारणे विभक्ते यो $ भीत्रादीनां च यो विधिः &
उपात्तापेक्षितापायः सो ऽबुधप्रतिपत्तये // वाप ३,७.१४७ //

इत्यपादानाधिकारः

 

अथाधिकरणाधिकारः

कर्तृकर्मव्यवहिताम् $ असाक्षाद् धारयत् क्रियाम् &
उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् // वाप ३,७.१४८ //

उपश्लेषस्य चाभेदस् $ तिलाकाशकटादिषु &
उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् // वाप ३,७.१४९ //

अविनाशो गुरुत्वस्य $ प्रतिबन्धे स्वतन्त्रता &
दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः // वाप ३,७.१५० //

आकाशम् एव केषां चिद् $ देशभेदप्रकल्पनात् &
आधारशक्तिः प्रथमा सर्वसंयोगिनां मता // वाप ३,७.१५१ //

इदम् अत्रेति भावानाम् $ अभावान् न प्रकल्पते &
व्यपदेशस् तम् आकाश- निमित्तं संप्रचक्षते // वाप ३,७.१५२ //

कालात् क्रिया विभज्यन्त $ आकाशात् सर्वमूर्तयः &
एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः // वाप ३,७.१५३ //

यद्य् अप्य् उपवसिर् देश- $ विशेषम् अनुरुध्यते &
शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते // वाप ३,७.१५४ //

वसताव् अप्रयुक्ते ऽपि $ देशो ऽधिकरणं ततः &
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् // वाप ३,७.१५५ //

इत्य् अधिकरणाधिकारः

 

अथ शेषाधिकारः

संबन्धः कारकेभ्यो ऽन्यः $ क्रियाकारकपूर्वकः &
श्रुतायाम् अश्रुतायां वा क्रियायां सो ऽभिधीयते // वाप ३,७.१५६ //

द्विष्ठो ऽप्य् असौ परार्थत्वाद् $ गुणेषु व्यतिरिच्यते &
तत्राभिधीयमानः सन् प्रधाने ऽप्य् उपयुज्यते // वाप ३,७.१५७ //

निमित्तनियमः शब्दात् $ संबन्धस्य न गृह्यते &
कर्मप्रवचनीयैस् तु स विशेषो ऽवरुध्यते // वाप ३,७.१५८ //

साधनैर् व्यपदिष्टे च $ श्रूयमाणक्रिये पुनः &
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये // वाप ३,७.१५९ //

निष्ठायां कर्मविषया $ षष्थी च प्रतिषिध्यते &
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते // वाप ३,७.१६० //

अन्येन व्यपदिष्टस्य $ यस्यान्यत्रोपजायते &
व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे // वाप ३,७.१६१ //

प्राधान्यं स्वगुणे लब्ध्वा $ प्रधाने याति शेषताम् &
सहयोगे स्वयोगे ऽतः प्रधानत्वं न हीयते // वाप ३,७.१६२ //

इति शेषाधिकारः

सिद्धस्याभिमुखीभाव- $ मात्रं संबोधनं विदुः &
प्राप्ताभिमुख्यो ह्य् अर्थात्मा क्रियासु विनियुज्यते // वाप ३,७.१६३ //

संबोधनं न वाक्यार्थ $ इति पूर्वेभ्य आगमः &
उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः // वाप ३,७.१६४ //

विभक्त्यर्थे ऽव्ययीभाव- $ वचनाद् अवसीयताम् &
अन्यो द्रव्याद् विभक्त्यर्थः सो ऽव्ययेनाभिधीयते // वाप ३,७.१६५ //

द्रव्यं तु यद् यथाभूतं $ तद् अत्यन्तं तथा भवेत् &
क्रियायोगे ऽपि तस्यासौ द्रव्यात्मा नापहीयते // वाप ३,७.१६६ //

तस्माद् यत् करणं द्रव्यं $ तत् कर्म न पुनर् भवेत् &
सर्वस्य वान्यथाभावस् तस्य द्रव्यात्मनो भवेत् // वाप ३,७.१६७ //

३,८ क्रियासमुद्देश

यावत् सिद्धम् असिद्धं वा $ साध्यत्वेनाभिधीयते &
आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतियते // वाप ३,८.१ //

कार्यकारणभावेन $ ध्वनतीत्य् आश्रितक्रमः &
ध्वनिः क्रमनिवृत्तौ तु ध्वनिर् इत्य् एव कथ्यते // वाप ३,८.२ //

श्वेते श्वेतत इत्य् एतच् $ छ्वेतत्वेन प्रकाशते &
आश्रितक्रमरूपत्वाद् अभिधानं प्रवर्तते // वाप ३,८.३ //

गुणभूतैर् अवयवैः $ समूहः क्रमजन्मनाम् &
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते // वाप ३,८.४ //

समूहः स तत्बाभूतः $ प्रतिभेदम् समूहिसु &
समाप्यते ततो भेदे कालभेदस्य संभवः // वाप ३,८.५ //

क्रमात् सदसतां तेषाम् $ आत्मानो न समूहिनाम् &
सद्वस्तुविषयैर् यान्ति संबन्धं चक्षुरादिभिः // वाप ३,८.६ //

यथा गौर् इति सम्घातः $ सर्वो नेन्द्रियगोचरः &
भागशस् तूपलब्धस्य बुद्धौ रूपं निरूप्यते // वाप ३,८.७ //

इन्द्रियैर् अन्यथाप्राप्तौ $ भेदाम्शोपनिपातिभिः &
अलातचक्रवद् रूपं क्रियाणां परिकल्प्यते // वाप ३,८.८ //

यथा च भागाः पचतेर् $ उदकासेचनादयः &
उदकासेचनादिनां ज्ञेया भागास् तथापरे // वाप ३,८.९ //

यश् चापकर्षपर्यन्तम् $ अनुप्राप्तः प्रतीयते &
तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते // वाप ३,८.१० //

पूर्वोत्तरैस् तथा भागैः $ समवस्थापितक्रमः &
एकः सो ऽप्य् असदध्यासाद् आख्यातैर् अभिधीयते // वाप ३,८.११ //

कालानुपाति यद् रूपं $ तद् अस्तीत्य् अनुगम्यते &
परितस् तु परिच्छिन्नं भाव इत्य् एव कथ्यते // वाप ३,८.१२ //

व्यवहारस्य सिद्धत्वान् $ न चेयं गुणकल्पना &
उपचारो हि मुख्यस्य संभवाद् अवतिष्ठते // वाप ३,८.१३ //

आहितोत्तरशक्तित्वात् $ प्रत्येकं वा समूहिनः &
अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः // वाप ३,८.१४ //

अनन्तरं फलं यस्याः $ कल्पते ताम् क्रियाम् विदुः &
प्रधानभूतां तादर्थ्याद् अन्यासां तु तदाख्यता // वाप ३,८.१५ //

क्रियाप्रवृत्तौ यो हेतुस् $ तदर्थं यद् विचेष्टितम् &

अनपेक्ष्य प्रयुञ्जीत गच्छतीत्य् अवधारयन् // वाप ३,८.१६ *//

सत्सु प्रत्ययरूपो ऽसौ $ भावो यावन् न जायते &
तावत् परेषां रूपेण साध्यः सन्न् अभिधीयते // वाप ३,८.१७ //

सिद्धे तु साधनाकाङ्क्षा $ कृतार्थत्वान् निवर्तते &
न क्रियावाचिनां तस्मात् प्रयोगस् तत्र विद्यते // वाप ३,८.१८ //

स चापूर्वापरिभूत $ एकत्वाद् अक्रमात्मकः &
पूर्वापराणां धर्मेण तदर्थेनानुगम्यते // वाप ३,८.१९ //

असन् निवर्तते तस्माद् $ यत् सत् तद् उपलभ्यते &
तयोः सदसतोश् चासाव् आत्मैक इव गृह्यते // वाप ३,८.२० //

जातिम् अन्ये क्रियाम् आहुर् $ अनेकव्यक्तिवर्तिनीम् &
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते // वाप ३,८.२१ //

अन्ते या वा क्रियाभागे $ जातिः सैव क्रिया स्मृता &
सा व्यक्तेर् अनुनिष्पादे जायमानेव गम्यते // वाप ३,८.२२ //

स्वव्यापारविशिष्टानाम् $ सत्ता वा, कर्तृकर्मनाम् &
क्रिया व्यापारभेदेषु सत्ता वा समवायिनी // वाप ३,८.२३ //

अन्त्ये वात्मनि या सत्ता $ सा क्रिया कैश् चिद् इष्यते &
भाव एव हि धात्वर्थ इत्य् अविच्छिन्न आगमः // वाप ३,८.२४ //

बुद्धिं तज्जातिम् अन्ये तु $ बुद्धिसत्ताम् अथापरे &
प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते // वाप ३,८.२५ //

आविर्भावतिरोभावौ $ जन्मनाशौ तथापरैः &
षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ // वाप ३,८.२६ //

ताभ्यां सर्वप्रवृत्तीनाम् $ अभेदेनोपसम्ग्रहः &
जन्मैवाश्रितसारूप्यं स्थितिर् इत्य् अभिधीयते // वाप ३,८.२७ //

जायमानान् न जन्र्नान्यद् $ विनाशे ऽप्य् अपदार्थता &

अतो भावविकारेषु सत्तैका व्यवतिष्ठते // वाप ३,८.२८ *//

पूर्वभागस् तु यज् जातात् $ तज् जन्मेत्य् अपदिश्यते &

आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते // वाप ३,८.२९ //

आख्यातशब्दैर् अर्थो ऽसाव् $ एवंभूतो ऽभिधीयते &
नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् // वाप ३,८.३० //

फलं फलापदेशो वा $ वस्तु वा तद्विरोधि यत् &
तद् अन्यद् एव पूर्वेषां नाग इत्य् अपदिश्यते // वाप ३,८.३१ //

नैवास्ति नैव नास्तीति $ वस्तुनो ग्रहनाद् विना &
कल्पते पररूपेण वस्त्व् अन्यद् अनुगम्यते // वाप ३,८.३२ //

भावाभावौ घटादिनाम् $ अस्पृशन्न् अपि पाणिना &
कश् चिद् वेदाप्रकाशे ऽपि प्रकाशे तत एव वा // वाप ३,८.३३ //

व्यापि सौक्ष्म्यं क्व चिद् याति $ क्व चित् संहन्यते पुनः &
अकुर्वाणो ऽथ वा किं चित् स्वशक्त्यैवं प्रकाशते // वाप ३,८.३४ //

सर्वरूपस्य तत्त्वस्य $ यत् क्रमेणेव दर्शनम् &
भागैर् इव प्रकॢप्तिश् च तां क्रियाम् अपरे विदुः // वाप ३,८.३५ //

सत्ता स्वशक्तियोगेन $ सर्वरूपा व्यवस्थिता &
साध्या च साधनं चैव फलं भोक्ता फलस्य च // वाप ३,८.३६ //

क्रियाम् अन्ये तु मन्यन्ते $ क्व चिद् अप्य् अनपाश्रिताम् &
साधनैकार्थकारित्वे प्रवृत्तिम् अनपायिनीम् // वाप ३,८.३७ //

सामान्यभूता सा पूर्वं $ भागशः प्रविभज्यते &
ततो व्यापाररूपेण साध्येव व्यवतिष्ठते // वाप ३,८.३८ //

प्रकृतिः साधनानां सा $ प्रथमं तच् च कारकम् &
व्यापाराणां ततो ऽन्यत्वम् अपरैर् उपवर्ण्यते // वाप ३,८.३९ //

बहूनां संभवे ऽर्थानां $ के चिद् एवोपकारिनः &
संसर्गे कश् चिद् एसां तु प्राधान्येन प्रतीयते // वाप ३,८.४० //

साध्यत्वात् तत्र चाख्यातैर् $ व्यापाराः सिद्धसाधनाः &
प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः // वाप ३,८.४१ //

एकत्वावृत्तिभावाभ्यां $ भेदाभेदसमन्वये &
संख्यास् तत्रोपलभ्यन्ते संख्येयावयवक्रियाः // वाप ३,८.४२ //

सिद्धस्यार्थस्य पाकादेः $ कथं साधनयोगिता &
साध्यत्वे वा तिङन्तेन कृतां भेदो न कश् चन // वाप ३,८.४३ //

तत्र कारकयोगाया $ यद्य् आख्यातं निबन्धनम् &
षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः // वाप ३,८.४४ //

एकाभिधान एको ऽर्थो $ युगपच् च द्विधर्मभाक् &
न संभवति सिद्धत्वे स साध्यः स्यात् कथं पुनः // वाप ३,८.४५ //

एतावत् साधनं साध्यम् $ एतावद् इति कल्पना &
शास्त्र एव न वाक्ये ऽस्ति विभागः परमार्थतः // वाप ३,८.४६ //

आख्यातशब्दे भागाभ्यां $ साध्यसाधनवर्तिता &
प्रकल्पिता यथा शास्त्रे स घञादिस्व् अपि क्रमः // वाप ३,८.४७ //

साध्यत्वेन क्रिया तत्र $ धातुरूपनिबन्धना &
सत्त्वभावस् तु यस् तस्याः स घञादिनिबन्धनः // वाप ३,८.४८ //

बन्धुताभेदरूपेण $ बन्धुशब्दे व्यवस्थिता &
समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते // वाप ३,८.४९ //

तत्र यम् प्रति साध्यत्वम् $ असिद्धा तं प्रति क्रिया &
सिद्धा तु यस्मिन् साध्यत्वं न तम् एव पुनः प्रति // वाप ३,८.५० //

राज्ञः पुत्रस्य नप्तेति $ न राज्ञि व्यतिरिच्यते &
पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते // वाप ३,८.५१ //

मृगो धावति पश्येति $ साध्यसाधनरूपता &
तथा विषयभेदेन सरणस्योपपद्यते // वाप ३,८.५२ //

लकृत्यक्तखलर्थानां $ तथाव्ययकृताम् अपि &
रूढिनिष्ठाघञादिनाम् धातुः साध्यस्य वाचकः // वाप ३,८.५३ //

साध्यस्यापरिनिष्पत्तेः $ सो ऽयम् इत्य् अनुपग्रहः &
तिङन्तैर् अन्तरेणेवम् उपमानं ततो न तैः // वाप ३,८.५४ //

साधनत्वं प्रसिद्धं च $ तिङ्क्षु संबन्धिनां यतः &
तेनाध्यारोप एव स्याद् उपमा तु न विद्यते // वाप ३,८.५५ //

न्यूनेषु च समाप्तार्थम् $ उपमानं विधीयते &
क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते // वाप ३,८.५६ //

येनैव हेतुना हंसः $ पततीत्य् अभिधीयते &
आतौ तस्य समाप्तत्वाद् उपमार्थो न विद्यते // वाप ३,८.५७ //

क्रियाणां जातिभिन्नानां $ सादृश्यं नावधार्यते &
सिद्धेश् च प्रक्रमे साध्यम् उपमातुम् न शक्यते // वाप ३,८.५८ //

वनम् वृक्षा इति यथा $ भेदाभेदव्यपाश्रयात् &
अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः // वाप ३,८.५९ //

सामान्ये भाव इत्य् अत्र $ यल् लिङ्गम् उपलभ्यते &
भेदानां अनुमेयत्वान् न तत् तेषु विवक्ष्यते // वाप ३,८.६० //

निर्देशे चरितार्थत्वाल् $ लिङ्गं भावे ऽविवक्सितम् &
उपमानविधित्वाच् च भावाद् अन्यत् पचादिसु // वाप ३,८.६१ //

भवतौ यत् पचादिनां $ तावद् अत्रोपदिश्यते &
न च लिङ्गम् पचादिनां भवतौ समवस्थितम् // वाप ३,८.६२ //

एकश् च सो ऽर्थः सत्ताख्यः $ कथम् चित् कैश् चिद् उच्यते &
लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् // वाप ३,८.६३ //

आचार्यो मातुलश् चेति $ यथैको व्यपदिश्यते &
सम्बन्धिभेदाद् अर्थात्मा स विधिः पक्तिभावयोः // वाप ३,८.६४ //

३,९ काललसमुद्देशः

व्यापारव्यतिरेकेण $ कालम् एके प्रचक्षते &
नित्यम् एकं विभु द्रव्यं परिमाणं क्रियावताम् // वाप ३,९.१ //

दिष्टिप्रस्थसुवर्णादि $ मूर्तिभेदाय कल्पते &
क्रियाभेदाय कालस् तु संख्या सर्वस्य भेदिका // वाप ३,९.२ //

उत्पत्तौ च स्थितौ चैव $ विनाशे चापि तद्वताम् &
निमित्तं कालम् एवाहुर् विभक्तेनात्मना स्थितम् // वाप ३,९.३ //

तम् अस्य लोकयन्त्रस्य $ सूत्रधारं प्रचक्षते &
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते // वाप ३,९.४ //

यदि न प्रतिबध्नीयात् $ प्रतिबन्धं च नोत्सृजेत् &
अवस्था व्यतिकीर्येरन् पौर्वापर्यविनाकृताः // वाप ३,९.५ //

तस्यात्मा बहुधा भिन्नो $ भेदैर् धर्मान्तराश्रयैः &
न हि भिन्नम् अभिन्नं वा वस्तु किं चन विद्यते // वाप ३,९.६ //

नैको न चाप्य् अनेको ऽस्ति $ न शुक्लो नापि चासितः &
द्रव्यात्मा स तु संसर्गाद् एवंरूपः प्रकाशते // वाप ३,९.७ //

संसर्गिनां तु ये भेदा $ विशेषास् तस्य ते मताः &
स भिन्नस् तैर् व्यवस्थानां कालो भेदाय कल्पते // वाप ३,९.८ //

विशिष्टकालसंबन्धाद् $ वृत्तिलाभः प्रकल्पते &
शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते // वाप ३,९.९ //

जन्माभिव्यक्तिनियमाः $ प्रयोगोपनिबन्धनाः &
नित्याधीनस्थितित्वाच् च स्थितिर् नियमपूर्विका // वाप ३,९.१० //

स्थितस्यानुग्रहस् तैस् तैर् $ धर्मैः संसर्गिभिस् ततः &
प्रतिबन्धस् तिरोभावः प्रहाणम् इति चात्मनः // वाप ३,९.११ //

प्रत्यवस्थं तु कालस्य $ व्यापारो ऽत्र व्यवस्थितः &
काल एव हि विश्वात्मा व्यापार इति कथ्यते // वाप ३,९.१२ //

मूर्तीनां तेन भिन्नानाम् $ आचयापचयाः पृथक् &
लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना // वाप ३,९.१३ //

जलयन्त्रभ्रमावेश- $ सदृशीभिः प्रवृत्तिभिः &
स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः // वाप ३,९.१४ //

प्रतिभद्धाश् च यास् तेन $ चित्रा विश्वस्य वृत्तयः &
ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः // वाप ३,९.१५ //

विशिष्टकालसंबन्धाल् $ लब्धपाकासु शक्तिषु &
क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा // वाप ३,९.१६ //

जातिप्रयुक्ता तस्यां तु $ फलव्यक्तिः प्रजायते &
कुतो ऽप्य् अद्भुतया वृत्त्या शक्तिभिः सा नियम्यते // वाप ३,९.१७ //

ततस् तु समवायाख्या $ शक्तिर् भेदस्य बाधिका &
एकत्वम् इव ता व्यक्तीर् आपादयति कारणैः // वाप ३,९.१८ //

अथास्मान् नियमाद् ऊर्ध्वं $ जातयो याः प्रयोजिकाः &
ताः सर्वा व्यक्तिम् आयान्ति स्वच्छे छाया इवाम्भसि // वाप ३,९.१९ //

कारणानुविधायित्वाद् $ अथ कारण पूर्वकाः &
गुणास् तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः // वाप ३,९.२० //

आश्रयाणां च नित्यत्वम् $ आश्रितानां च नित्यता &
ता व्यक्तीर् अनुगृह्णाति स्थितिस् तेन प्रकल्पते // वाप ३,९.२१ //

अनित्यस्य यथोत्पादे $ पारतन्त्र्यं तथा स्थितौ &
विनाशायैव तत् शृष्टम् अस्वाधीनस्थितिं विदुः // वाप ३,९.२२ //

स्थितः संसर्गिभिर् भावैः $ स्वक्रियास्व् अनुगृह्यते &
नैषां सत्ताम् अनुद्गृह्य वृत्तिर् जन्मवतां स्मृता // वाप ३,९.२३ //

जराख्या कालशक्तिर् या $ शक्त्यन्तरविरोधिनी &
सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः // वाप ३,९.२४ //

प्रयोजकास् तु ये भावाः $ स्थितिभागस्य हेतवः &
तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते // वाप ३,९.२५ //

यथैवाद्बुतया वृत्त्या $ निष्क्रमं निर्निबन्धनम् &
अपदं जायते सर्वं तथास्यात्मा प्रहीयते // वाप ३,९.२६ //

क्रिययोर् अपवर्गिण्योर् $ नानार्थसमवेतयोः &
संबन्धिना विनैकेन परिच्छेदः कथं भवेत् // वाप ३,९.२७ //

यथा तुलायां हस्ते वा $ नानाद्रव्यव्यवस्थितम् &
गुरुत्वं परिमीयेत कालाद् एवं क्रियागतिः // वाप ३,९.२८ //

जहाति सहवृत्ताश् च $ क्रियाः स समवस्थिताः &
व्रीहिर् यथोदकं तेन हायनाख्यां प्रपद्यते // वाप ३,९.२९ //

प्रतिबन्धाभ्यनुज्ञाभ्यां $ वृत्तिर् या तस्य शास्वती &
तया विभज्यमानो ऽसौ भजते क्रमरूपतां // वाप ३,९.३० //

कर्तृभेदात् तदर्थेषु $ प्रचयापचयौ गतः &
समत्वं विषमत्वं वा स एकः प्रतिपद्यते // वाप ३,९.३१ //

क्रियाभेदाद् यथैकस्मिंस् $ तक्षाद्याख्या प्रवर्तते &
क्रियाभेदात् तथैकस्मिन्न् ऋत्वाद्याख्योपजायते // वाप ३,९.३२ //

आरम्भश् च क्रिया चैव $ निष्ठा चेत्य् अभिधीयते &
धर्मान्तराणाम् अध्यास- भेदात् सदसदात्मनः // वाप ३,९.३३ //

यावांश् च द्व्यणुकादीनां $ तावान् हिमवतो ऽप्य् असौ &
न ह्य् आत्मा कस्य चिद् भेत्तुं प्रचेतुं वापि शक्यते // वाप ३,९.३४ //

अन्यैस् तु भावैर् अन्येषां $ प्रचयः परिकल्प्यते &
शनैर् इदम् इदं क्षिप्रम् इति तेन प्रतीयते // वाप ३,९.३५ //

असतश् च क्रमो नास्ति $ स हि भेत्तुं न शक्यते &
सतो ऽपि चात्मतत्त्वं यत् तत् तथैवावतिष्ठते // वाप ३,९.३६ //

क्रियोपाधिश् च सन् भूत- $ भविष्यद्वर्तमानताः &
एकादशाभिर् आकारैर् विभक्ताः प्रतिपद्यते // वाप ३,९.३७ //

भूतः पञ्चविधस् तत्र $ भविष्यंश् च चतुर्विधः &
वर्तमानो द्विधाख्यात इत्य् एकादश कल्पनाः // वाप ३,९.३८ //

काले निधाय स्वं रूपं $ प्रज्ञया यन् निगृह्यते &
भावास् ततो निवर्तन्ते तत्र संक्रान्तशक्तयः // वाप ३,९.३९ //

भाविनां चैव यद् रूपं $ तस्य च प्रतिबिम्बकम् &
सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते // वाप ३,९.४० //

तृणपर्णलतादीनि $ यथा स्रोतो ऽनुकर्षति &
प्रवर्तयति कालो ऽपि मात्रा मात्रावतां तथा // वाप ३,९.४१ //

आविश्येवानुसंधत्ते $ यथा गतिमतां गतीः &
वायुस् तत्रैव कालात्मा विधत्ते क्रमरूपताम् // वाप ३,९.४२ //

अयनप्रविभागश् च $ गतीश् च ज्योतिषां ध्रुवा &
निवृत्तिप्रभवाश् चैव भूतानां तन्निबन्धनाः // वाप ३,९.४३ //

मात्राणां परिणामा ये $ कालवृत्त्यनुपातिनः &
नक्षत्राख्या पृथक् तेषु चिह्नमात्रं तु तारकाः // वाप ३,९.४४ //

रुतैर् मृगशकुन्तानां $ स्थावराणां च वृत्तिभिः &
छायादिपरिणामैश् च ऋतुधामा निरूप्यते // वाप ३,९.४५ //

निर्भासोपगमो यो ऽयं $ क्रमवान् इव दृश्यते &
अक्रमस्यापि विश्वस्य तत् कालस्य विचेष्टितम् // वाप ३,९.४६ //

दूरान्तिकव्यवस्थानम् $ अध्वाधिकरणं यथा &
चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा // वाप ३,९.४७ //

तस्याभिन्नस्य कालस्य $ व्यवहारे क्रियाकृताः &
भेदा इव त्रयः सिद्धा यांल् लोको नातिवर्तते // वाप ३,९.४८ //

एकस्य शक्तयस् तिस्रः $ कालस्य समवस्थिताः &
यत्संबन्धेन भावानां दर्शनादर्शने सताम् // वाप ३,९.४९ //

द्वाभ्यां स किल शक्तिभ्यां $ भावानां वरणात्मकः &
शक्तिस् तु वर्तमानाख्या भावरूपप्रकाशिनी // वाप ३,९.५० //

अनागता जन्मशक्तेः $ शक्तिर् अप्रतिबन्धिका &
अतीताख्या तु या शक्तिस् तया जन्म विरुध्यते // वाप ३,९.५१ //

तमःप्रकाशवत् त्व् एते $ त्रयो ऽध्वानो व्यवस्थिताः &
अक्रमास् तेषु भावानां क्रमः समुपलभ्यते // वाप ३,९.५२ //

द्वौ तु तत्र तमोरूपाव् $ एकस्यालोकवत् स्थितिः &
अतीतम् अपि केषां चित् पुनर् विपरिवर्तते // वाप ३,९.५३ //

युगपद् वर्तमानत्वं $ तद्धर्मा प्रतिपद्यते &
केषां चिद् वर्तमानत्वाच् चैति तद्वद् अतीतताम् // वाप ३,९.५४ //

हेतुपकाराद् आक्षिप्तो $ वर्तमानत्वम् आगतः &
शान्तहेतूपकारः सन् पुनर् नोपैति दर्शनम् // वाप ३,९.५५ //

द्वे एव कालस्य विभोः $ केषां चिच् छक्तिवर्त्मनी &
करोति याभ्यां भावानाम् उन्मीलननिमीलने // वाप ३,९.५६ //

कलाभिः पृथगर्थाभिः $ प्रविभक्तं स्वभावतः &
के चिद् बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते // वाप ३,९.५७ //

ज्ञानानुगतशक्तिं वा $ बाह्यं वा सत्यतः स्थितम् &
कालात्मानम् अनाश्रित्य व्यवहर्तुं न शक्यते // वाप ३,९.५८ //

तिस्रो भावस्य भावस्य $ केषां चिद् भावशक्तयः &
ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च // वाप ३,९.५९ //

सत्त्वाद् अव्यतिरेकेण $ तास् तिस्रो ऽपि व्यवस्थिताः &
क्रमस् तास् तदभेदाच् च सदसत्त्वं न भिद्यते // वाप ३,९.६० //

दर्शनादर्शनेनैकं $ दृष्टादृष्टं तद् एव तु &
अध्वनाम् एकता नास्ति न च किं चिन् निवर्तते // वाप ३,९.६१ //

शक्त्यात्मदेवतापक्षैर् $ भिन्नं कालस्य दर्शनम् &
प्रथमं तद् अविद्यायां यद् विद्यायां न विद्यते // वाप ३,९.६२ //

अभेदे यदि कालस्य $ ह्रस्वदीर्घप्लुतादिषु &
दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् // वाप ३,९.६३ //

ह्रस्वदीर्घप्लुतावृत्त्या $ नालिकासलिलादिषु &
कथं प्रचययोगः स्यात् कल्पनामात्रहेतुकः // वाप ३,९.६४ //

अभिव्यक्तिनिमित्तस्य $ प्रचयेन प्रचीयते &
अभिन्नम् अपि शब्दस्य तत्त्वम् अप्रचयात्मकम् // वाप ३,९.६५ //

एवं मात्रातुरीयस्य $ भेदो दाशतयस्य वा &
परिमाणविकल्पेन शब्दात्मनि न विद्यते // वाप ३,९.६६ //

अनुनिष्पादिकल्पेन $ ये ऽन्तराल इव स्थिताः &
शब्दास् ते प्रतिपत्तॄणाम् उपायाः प्रतिपत्तये // वाप ३,९.६७ //

विशिष्टम् अवधिं तं तम् $ उपादाय प्रकल्पते &
कालः कालवताम् एकः क्षणमासर्तुभेदभाक् // वाप ३,९.६८ //

बुद्ध्यवग्रहभेदाच् च $ व्यवहारात्मनि स्थितः &
तावान् एव क्षणः कालो युगमन्वन्तराणि वा // वाप ३,९.६९ //

प्रतिबन्धाभ्यनुज्ञाभ्यां $ नालिकाविवराश्रिते &
यद् अम्भसि प्रक्षरणं तत् कालस्यैव चेष्टितम् // वाप ३,९.७० //

अल्पे महति वा छिद्रे $ तत्संबन्धे न भिद्यते &
कालस्य वृत्तिर् आत्मापि तम् एवास्यानुवर्तते // वाप ३,९.७१ //

आक्रीड इव कालस्य $ दृश्यते यः स्वशक्तिभिः &
बहुरूपस्य भावेषु बहुधा तेन भिद्यते // वाप ३,९.७२ //

त्वचिसारस्य वा वृद्धिं $ तृणराजस्य वा दधत् &
तावत् तद्वृद्धियोगेन कालतत्त्वं विकल्पते // वाप ३,९.७३ //

व्यतिक्रमे ऽपि मात्राणां $ तस्य नास्ति व्यतिक्रमः &
न गन्तृगतिभेदेन मार्गभेदो ऽस्ति कश् चन // वाप ३,९.७४ //

उदयास्तमयावृत्त्या $ ज्योतिषां लोकसिद्धया &
कालस्याव्यतिपाते ऽपि ताद्धर्म्यम् इव लक्ष्यते // वाप ३,९.७५ //

आदित्यग्रहनक्षत्र- $ परिस्पन्दम् अथापरे &
भिन्नम् आवृत्तिभेदेन कालं कालविदो विदुः // वाप ३,९.७६ //

क्रियान्तरपरिच्छेद- $ प्रवृत्ता या क्रियां प्रति &
निर्ज्ञातपरिमाणा सा काल इत्य् अभिधीयते // वाप ३,९.७७ //

ज्ञाने रूपस्य संक्रान्तिर् $ ज्ञानेनैवानुसंहृतिः &
अतः क्रियान्तराभावे सा क्रिया काल इष्यते // वाप ३,९.७८ //

भूतो घट इतीयं च $ सत्ताया एव भूतता &
भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते // वाप ३,९.७९ //

परतो भिद्यते सर्वम् $ आत्मा तु न विकल्प्यते &
पर्वतादिस्थितिस् तस्मात् पररूपेण भिद्यते // वाप ३,९.८० //

प्रसिद्धभेदा व्यापारा $ विरूपावयवक्रियाः &
साहचर्येण भिद्यन्ते सरूपावयवक्रियाः // वाप ३,९.८१ //

व्यवधानम् इवोपैति $ निवृत्त इव दृश्यते &

क्रियासमूहो भुज्यादिर् अन्तरालप्रवृत्तिभिः // वाप ३,९.८२ *//

न च विच्छिन्नरूपो ऽपि $ सो ऽविरामान् निवर्तते &

सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते // वाप ३,९.८३ *//

तदन्तरालदृष्टा वा $ सर्वैवावयवक्रिया *&

सादृश्यात् सति भेदे तु तदङ्गत्वेन गृह्यते // वाप ३,९.८४ //

सद् असद् वापि वस्तु स्यात् $ तृतीयं नास्ति किं चन &
तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते // वाप ३,९.८५ //

निर्वृत्तिरूपम् एकस्य $ भेदाभावान् न कल्पते &
सद् असद् वापि तेनैकं क्रमरूपं कथं भवेत् // वाप ३,९.८६ //

बहूनां चानवस्थानाद् $ एकम् एवोपलभ्यते &
यथोपलब्धि स्मरणं तत्र चाप्य् उपपद्यते // वाप ३,९.८७ //

सदसद्रूपम् एकं स्याद् $ सर्वस्यैकत्वकल्पने &
निर्वृत्तिरूपं निर्वृत्तेः सामान्यम् अथ वा भवेत् // वाप ३,९.८८ //

कार्योत्पत्तौ समर्थं वा $ स्वेन धर्मेण तत् तथा &
आत्मतत्त्वेन गृह्येत सा चास्मिन् वर्तमानता // वाप ३,९.८९ //

क्रियाप्रबन्धरूपं यद् $ अध्यात्मं विनिगृह्यते &
संक्रान्तरूपम् एकत्र ताम् आहुर् वर्तमानताम् // वाप ३,९.९० //

क्रियातिपत्तिर् अत्यन्तं $ क्रियानुत्पत्तिलक्षणा &
न च भूतम् अनुत्पन्नं न भविष्यत् तथाविधम् // वाप ३,९.९१ //

प्राग् विरुद्धक्रियोत्पादान् $ निर्वृत्ते वा विरोधिनि &
व्यापारे ऽवधिभेदेन विषयस् तत्र भिद्यते // वाप ३,९.९२ //

व्यभिचारे निमित्तस्य $ साधुत्वं न प्रकल्पते &
भाव्य् आसीद् इति सूत्रेण तत् काले ऽन्यत्र शिष्यते // वाप ३,९.९३ //

स्वकाल एव साधुत्वे $ कालभेदे गतिः कथम् &
वाक्यार्थाद् अतदर्थेषु विशिष्टत्वं न सिध्यति // वाप ३,९.९४ //

तदर्थश् चेद् अवयवो $ भाविनो भूततागतिः &
न स्याद् अत्यन्तभूतत्वम् एवैकं तत्र संभवेत् // वाप ३,९.९५ //

विशिष्टकालता पूर्वं $ तथापि तु विशेषणे &
आश्रयात् सो ऽन्तरङ्गत्वात् तत्र साधुर् भविष्यति // वाप ३,९.९६ //

आमिश्र एव प्रक्रान्तः $ स पदार्थस् तथाविधः &
केवलस्य विमिश्रत्वं नित्ये ऽर्थे नोपपद्यते // वाप ३,९.९७ //

शुद्धे च काले व्याख्यातम् $ आमिश्रे न प्रसिध्यति &
साधुत्वम् अयथाकालं तत् सूत्रेणोपदिश्यते // वाप ३,९.९८ //

आख्यातपदवाच्ये ऽर्थे $ निर्वर्त्यत्वात् प्रधानता &
विशेषणं तदाक्षेपात् तत्काले व्यवतिष्ठते // वाप ३,९.९९ //

संप्रत्ययानुकारो वा $ शब्दव्यापार एव वा &
अध्यस्यते विरुद्धे ऽर्थे न च तेन विरुध्यते // वाप ३,९.१०० //

भूतं भविष्यद् इत्य् एतौ $ प्रत्ययौ वर्तमानताम् &
अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् // वाप ३,९.१०१ //

अध्वनो वर्तमानस्य $ विषयेण भविष्यता &
भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते // वाप ३,९.१०३ //

इच्छा चिकीर्शतीत्य् अत्र $ स्वकालम् अनुरुध्यते &
भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते // वाप ३,९.१०४ //

आशास्यमानतन्त्रत्वाद् $ आशंसायां विपर्ययः &
प्रयोक्तृधर्मः शब्दार्थे शब्दैर् एवानुशज्यते // वाप ३,९.१०५ //

अप्छालिबीजसंयोगे $ वर्तते निष्पदिर् यदा &
तत्रावयववृत्तित्वाद् भविष्यत्प्रतिषेधनम् // वाप ३,९.१०६ //

फलप्रसवरूपे तु $ निष्पदौ भूतकालता &
धर्मान्तरेषु तद् रूपम् अध्यस्य परिकल्प्यते // वाप ३,९.१०७ //

उपयुक्ते निमित्तानां $ व्यापारे फलसिद्धये &
तत्र रूपं यद् अध्यस्तं तत्कालं तत् प्रतीयते // वाप ३,९.१०८ //

निष्पत्ताव् अवधिः कश् चित् $ कश् चित् प्रतिविवक्षितः &
हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते // वाप ३,९.१०९ //

अबहिःसाधनाधीना $ सिद्धिर् यत्र विवक्षिता &
तत् साधनान्तराभावात् सिद्धम् इत्य् अपदिश्यते // वाप ३,९.११० //

तस्माद् अवधिभेदेन $ सिद्धा मुख्यैव भूतता &
अनागतत्वम् अस्तित्वं हेतुधर्मव्यपेक्षणे // वाप ३,९.१११ //

सताम् इन्द्रियसंबन्धात् $ सैव सत्ता विशिष्यते &
भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः // वाप ३,९.११२ //

अस्तित्वं वस्तुमात्रस्य $ बुद्ध्या तु परिगृह्यते &
यः समासादनाद् भेदः स तत्र न विवक्षितः // वाप ३,९.११३ //

योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां $ न किं चिद् अवतिष्ठते &
स्वस्मिन्न् आत्मनि तत्रान्यद् भूतं भावि च कथ्यते // वाप ३,९.११४ //

३,१० पुरुषसमुद्देश

प्रत्यक्ता परभावश् चाप्य् $ उपाधी कर्तृकर्मनोः &
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ // वाप ३,१०.१ //

सद् असद् वापि चैतन्यम् $ एताभ्याम् अवगम्यते &
चैतन्यभागे प्रथमः पुरुषो न तु वर्तते // वाप ३,१०.२ //

बुधिजानातिचितिभिः $ प्रथमे पुरुषे सति &
सम्ज्ञानार्थैर् न चैतन्य- स्योपयोगः प्रकाश्यते // वाप ३,१०.३ //

संबोधनार्थः सर्वत्र $ मध्यमे कैश् चिद् इष्यते &
तथा संबोधने सर्वां प्रथमां युष्मदो विदुः // वाप ३,१०.४ //

संबोधनं न लोके ऽस्ति $ विधातव्येन वस्तुना &
स्वाहेन्द्रशत्रुर् वर्धस्व यथा राजा भवेति च // वाप ३,१०.५ //

युष्मदर्थस्य सिद्धत्वान् $ नियता चाद्युदात्तता &
युष्मदः प्रथमान्तस्य परश् चेन् न पदाद् असौ // वाप ३,१०.६ //

गुणप्रधानताभेदः $ पुरुशादिविपर्ययः &
निर्देशश् चान्यथा शास्त्रे नित्यत्वान् न विरुध्यते // वाप ३,१०.७ //

यथानिर्देशम् अर्थाः स्युर् $ येसां शास्त्रं विधायकम् &
किम् चित् सामान्यम् आश्रित्य स्थिते तु प्रतिपादनम् // वाप ३,१०.८ //

यो ऽश्वे यः पीठ इत्य् अत्र $ भूतयोर् अश्वपीठयोः &
यथोपलक्षणार्थत्वं तथार्थेष्व् अनुशासनम् // वाप ३,१०.९ //

३,११ संख्यासमुद्देश

संख्यावान् सत्त्वभूतो ऽर्थः $ सर्व एवाभिधीयते &
भेदाभेदविभागो हि लोके संख्यानिबन्धनः // वाप ३,११.१ //

स धर्मो व्यतिरिक्तो वा $ तेषां आत्मैव वा तथा &
भेदहेतुत्वम् आश्रित्य संख्येति व्यपदिश्यते // वाप ३,११.२ //

समवेता परिच्छेद्ये $ क्व चिद् अन्यत्र सा स्थिता &
प्रकल्पयति भावानां संख्या भेदं तथात्मनः // वाप ३,११.३ //

परत्वे चापरत्वे च $ भेदे तुल्या श्रुतिर् यथा &
संख्याशब्दाभिधेयत्वं भेदहेतोस् तथा गुणे // वाप ३,११.४ //

अस्वतन्त्रे स्वतन्त्रत्वं $ परधर्मो यथा गुणे &
अभेद्ये भेद्यभावो ऽपि द्रव्यधर्मस् तथा गुणे // वाप ३,११.५ //

स्वबुद्ध्या तम् अपोद्धृत्य $ लोको ऽप्य् आगमम् आश्रितः &
स्वधर्माद् अन्यधर्मेण व्याचष्टे प्रतिपत्तये // वाप ३,११.६ //

परोपकारतत्त्वानां $ स्वातन्त्र्येनाभिधायकः &
शब्दः सर्वपदार्थाना स्वधर्मद् विप्रकृष्यते // वाप ३,११.७ //

यथैवाविषयं ज्ञानं $ न किं चिद् अवभासते &
तथा भावो ऽप्य् असंसृष्टो न कश् चिद् उपलभ्यते // वाप ३,११.८ //

भेदेन तु समाख्यातं $ यल् लोको ऽप्य् अनुवर्तते &
आगमाच् छास्त्रसदृशो व्यवहारः स वर्ण्यते // वाप ३,११.९ //

बुद्धौ स्थितेषु तेष्व् एवम् $ अध्यारोपो न दुर्लभः &
परधर्मस्य न ह्य् अत्र सदसत्त्वं प्रयोजकम् // वाप ३,११.१० //

सामान्येष्व् अपि सामान्यं $ विशेषेषु विशिष्टता &
संख्यासु संख्या लिङ्गेषु लिङ्गम् एवं प्रकल्पते // वाप ३,११.११ //

अतो द्रव्याश्रितां संख्याम् $ आहुः संसर्गवादिनः &
भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् // वाप ३,११.१२ //

आत्मान्तरानां येनात्मा $ तद्रूप इव लक्ष्यते &
अतद्रूपेण संसर्गात् सा निमित्तसरूपता // वाप ३,११.१३ //

संसृष्टेष्व् अपि निर्भागे $ भूतेष्व् अर्थक्रिया यथा &
सत्त्वादिषु च मात्रासु सर्वास्व् एवं प्रतीयते // वाप ३,११.१४ //

द्वित्वादियोनिर् एकत्वं $ भेदास् तत्पूर्वका यतः &
विना तेन न संख्यानाम् अन्यासाम् अस्ति संभवः // वाप ३,११.१५ //

एकत्वे बुद्धिसहिते $ निमित्तं द्वित्वजन्मनि &
एकत्वाभ्यां समुत्पन्नम् एवं वा तत् प्रतीयते // वाप ३,११.१६ //

एकत्वसमुदायो वा $ सापेक्षे वा पृथक् पृथक् &
एकत्वे द्वित्वम् इत्य् एवं तयोर् द्विवचनं भवेत् // वाप ३,११.१७ //

एको ऽपि गुणभेदेन $ सङ्घो भेदं प्रकल्पयेत् &
आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः // वाप ३,११.१८ //

संख्येयसङ्घसंख्यान- $ सङ्घः संख्येति कथ्यते &
विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका // वाप ३,११.१९ //

एकविंशतिसंख्वावां $ संख्यान्तरसरूपयोः &
एकस्यां बुद्ध्यनावृत्त्या, भागयोर् इव कल्पना // वाप ३,११.२० //

असंख्यासमुदायत्वात् $ संख्याकार्यं विधीयते &
समूहत्वे तु तन् न स्यात् स्वाङ्गादिसमुदायवत् // वाप ३,११.२१ //

संख्येयान्तरतन्त्रासु $ या संख्यासु प्रवर्तते &
आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः // वाप ३,११.२२ //

न संख्यायां न संख्येये $ द्वौ दशेत्य् अस्ति संभवः &
भेदाभावान् न संख्यायां विरोधान् न तदाश्रये // वाप ३,११.२३ //

संख्यायेते दशद्वर्गौ $ द्विदशा इति संख्यया &
तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते // वाप ३,११.२४ //

संख्या नाम न संख्यास्ति $ संज्ञैषेति यथोच्यते &
रूपं न रूपम् अप्य् एवं सम्ज्ञा सा हि सितादिषु // वाप ३,११.२५ //

संख्यानजातियोगात् तु $ संख्या संख्येति कथ्यते &
रूपत्वजातियोगाच् च रूपे रूपम् इति स्मृतम् // वाप ३,११.२६ //

निमित्तम् एकम् इत्य् अत्र $ विभक्त्या नाभिधीयते &
तद्वतस् तु यद् एकत्वं विभक्तिस् तत्र वर्तते // वाप ३,११.२७ //

एकस्य प्रचयो दृष्टः $ समूहश् च द्वयोस् तथा &
निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः // वाप ३,११.२८ //

तद् एकम् अपि चैकत्वं $ विभक्तिश्रवणाद् ऋते &
नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते // वाप ३,११.२९ //

अन्वयव्यतिरेकौ च $ यदि स्याद् वचनान्तरम् &
स्याताम् असति तस्मिम्श् च प्रकृत्यर्थो न कल्प्यते // वाप ३,११.३० //

एकत्वम् एक इत्य् अत्र $ शुद्धद्रव्यविशेषणम् &
सगुणस् तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते // वाप ३,११.३१ //

द्व्येकयोर् इति निर्देशात् $ संख्यामात्रे ऽपि संभवः &
एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वम् उच्यते // वाप ३,११.३२ //

३,१२ उपग्रहसमुद्देश

य आत्मनेपदाद् भेदः $ क्व चिद् अर्थस्य गम्यते &
अन्यतश् चापि लादेशान् मन्यन्ते तम् उपग्रहम् // वाप ३,१२.१ //

क्व चित् साधनम् एवासौ $ क्व चित् तस्य विशेषणम् &
साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् // वाप ३,१२.२ //

क्रिया विषयभेदेन $ जीविकादिषु भिद्यते &
लादेशैः स क्रियाभेदो वाक्येष्व् अपि नियम्यते // वाप ३,१२.३ //

धात्वर्थस् तद्विशेषश् चाप्य् $ उक्तः क्व चिद् उपग्रहः &
धात्वर्थो गन्धनादिः स्याद् व्यतिहारो विशेषणम् // वाप ३,१२.४ //

क्रियाप्रवृत्ताव् आख्याता $ कैश् चित् स्वार्थपरार्थता &
असति वा सति वापि विवक्षितनिबन्धना // वाप ३,१२.५ //

केसां चित् कर्त्रभिप्राये $ णिचा सह विकल्पते &
आत्मनेपदम् अन्येसां तदर्था प्रकृतिर् यथा // वाप ३,१२.६ //

क्रीणीष्व वपते धत्ते $ चिनोति चिनुते ऽपि च &
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थो ऽभिधीयते // वाप ३,१२.७ //

संविधानं पचादिनां $ क्व चिद् अर्थः प्रतीयते &
तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका // वाप ३,१२.८ //

कर्त्रभिप्रायता सूत्रे $ क्रियाभेदोपलक्षणम् &
तथाभूता क्रिया या हि तत्कर्ता फलभाग् यतः // वाप ३,१२.९ //

यथोपलक्ष्यते कालस् $ तारकादर्शनादिभिः &
तथा फलविशेषेण क्रियाभेदो निदर्श्यते // वाप ३,१२.१० //

क्रियाविशेषवचने $ सामर्थ्यम् उपरुध्यते &
केसां चिद् अन्ये तु कृताः स्वरितेतो ञितस् तथा // वाप ३,१२.११ //

अनुबन्धश् च सिद्धे ऽर्थे $ स्मृत्यर्थम् अनुषज्यते &
तुल्यार्थेष्व् अपि चावश्यं न सर्वेष्व् एकधर्मता // वाप ३,१२.१२ //

दृशीक्ष्योः सदृशे ऽप्य् अर्थे $ नाभेदः प्रतिपूर्वयोः &
ण्यर्थोपादायिनस् तस्मान् न तुल्यार्थाः पचादिभिः // वाप ३,१२.१३ //

उम्भ्यर्थे वर्तमानस्य $ करोतेर् भिन्नधर्मणः &
ण्यर्थोपादायिता तस्मान् नियताः शब्दशक्तयः // वाप ३,१२.१४ //

तथा ह्य् अनुप्रयोगस्य $ करोतेर् आत्मनेपदे &
पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् // वाप ३,१२.१५ //

एकत्वे ऽपि क्रियाख्याते $ साधनाश्रयसंख्यया &
भिद्यते न तु लिङ्गाख्यो भेदस् तत्र तदाश्रितः // वाप ३,१२.१६ //

तस्माद् अवस्थिते ऽप्य् अर्थे $ कस्य चित् प्रतिबध्यते &
शब्दस्य शक्तिः स त्व् एष शास्त्रे ऽन्वाख्यायते विधिः // वाप ३,१२.१७ //

यस्यार्थस्य प्रसिद्ध्यर्थम् $ आरभ्यन्ते पचादयः &
तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् // वाप ३,१२.१८ //

यत्रोभौ स्वामिदासौ तु $ प्रारभेते सह क्रियाम् &
युगपद् धर्मभेदेन धातुस् तत्र न वर्तते // वाप ३,१२.१९ //

यत्र प्रतिविधानार्थः $ पचिस् तत्रात्मनेपदम् &
परस्मैपदम् अन्यत्र संस्काराद्यभिधायिनि // वाप ३,१२.२० //

संविधातुश् च सांनिध्याद् $ दासे धर्मो ऽनुसज्यते &
प्लक्षशब्दस्य सांनिध्यान् न्यग्रोधे प्लक्षता यथा // वाप ३,१२.२१ //

पुरोडाशाभिधानं च $ धानादिषु यथा स्थितम् &
छत्त्रिणा चाभिसंबन्धाच् छत्त्रिशब्दाभिधेयता // वाप ३,१२.२२ //

अर्थात् प्रतीतम् अन्योन्यं $ पारार्थ्यम् अविवक्षितम् &
इत्य् अयं शेषविषयः कैश् चिद् अत्रानुवर्ण्यते // वाप ३,१२.२३ //

अथ प्रतिविधाता यो $ हलैः कृषति पञ्चभिः &
भाष्ये नोदाहृतं कस्मात् प्राप्तं तत्रात्मनेपदम् // वाप ३,१२.२४ //

प्रतीतत्वात् तदर्थस्य $ शेषत्वं यदि कल्प्यते &
न स्यात् प्राप्तविभाषासौ स्वरितेतां निवर्तिका // वाप ३,१२.२५ //

शुद्धे तु संविधानार्थे $ कैश् चिद् अत्रेष्यते कृषिः &
तद्धर्मा यजिर् इत्य् एवं न स्यात् तत्रात्मनेपदम् // वाप ३,१२.२६ //

अत्र तूपपदेनायम् $ अर्थभेदः प्रतीयते &
प्राप्ते विभाषा क्रियते तस्मान् नात्रात्मनेपदम् // वाप ३,१२.२७ //

३,१३ लिङ्गसमुद्देश

स्तनकेशादिसंबन्धो $ विशिष्टा वा स्तनादयः &
तदुपव्यञ्जना जातिर् गुणावस्था गुणास् तथा // वाप ३,१३.१ //

शब्दोपजनितो ऽर्थात्मा $ शब्दसंस्कार इत्य् अपि &
लिङ्गानां लिङ्गतत्त्वज्ञैर् विकल्पाः सप्त दर्शिताः // वाप ३,१३.२ //

उपादानविकल्पाश् च $ लिङ्गानां सप्त वर्णिताः &
विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः // वाप ३,१३.३ //

तिस्रो जातय एवैताः $ केसां चित् समवस्थिताः &
अविरुद्धा, विरुद्धाभिर् गोमहिष्यादिजातिभिः // वाप ३,१३.४ //

हस्तिन्यां वडवायां च $ स्त्रीति बुद्धेः समन्वयः &
अतस् तां जातिम् इच्छन्ति द्रव्यादिसमवायिनीम् // वाप ३,१३.५ //

परतन्त्रस्य यल् लिङ्गम् $ अपोद्धारे विवक्षिते &
तत्रासौ शब्दसंस्कारः शब्दैर् एव व्यपाश्रितः // वाप ३,१३.६ //

बुद्ध्या कल्पितरूपेषु $ लिङ्गेष्व् अपि च संभवः &
स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर् व्यपदिश्यते // वाप ३,१३.७ //

यथा सलिलनिर्भासा $ मृगतृष्णासु जायते &
जलोपलब्ध्यनुगुणाद् बीजाद् बुद्धिर् जले ऽसति // वाप ३,१३.८ //

तथैवाव्यपदेश्येभ्यो $ हेतुभ्यस् तारकादिषु &
मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः // वाप ३,१३.९ //

व्यक्तेषु व्यक्तरूपाणां $ स्तनादीनां तु दर्शनात् &
अव्यक्तव्यञ्जनाव्यक्तेर् जातिर् न परिकल्प्यते // वाप ३,१३.१० //

अस्तित्वं च प्रतिज्ञाय $ सदादर्शनम् इच्छतः &
अत्यन्तादर्शने न स्याद् असत्त्वं प्रति निश्चयः // वाप ३,१३.११ //

न चालम् अनुमानाय $ शब्दो ऽदर्शनपूर्वकः &
सिद्धे हि दर्शने किं स्याद् अनुमानप्रयोजनम् // वाप ३,१३.१२ //

आविर्भावस् तिरोभावः $ स्थितिश् चेत्य् अनपायिनः &
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः // वाप ३,१३.१३ //

सर्वमूर्त्यात्मभूतानां $ शब्दादिनां गुणे गुणे &
त्रयः सत्त्वादिधर्मास् ते सर्वत्र समवस्थिताः // वाप ३,१३.१४ //

रूपस्य चात्ममात्रानां $ शुक्लादिनां प्रतिक्षणम् &
का चित् प्रलीयते का चित् कथं चिद् अभिवर्धते // वाप ३,१३.१५ //

क्वथितोदकवच् चैषाम् $ अनवस्थितवृत्तिता &
अजस्रं सर्वभावानां भाष्य एवोपवर्णिता // वाप ३,१३.१६ //

प्रवृत्तेर् एकरूपत्वं $ साम्यं वा स्थितिर् उच्यते &
अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते // वाप ३,१३.१७ //

गुणा इत्य् एव बुद्धेर् वा $ निमित्तत्वं स्थितिर् मता &
स्थितेश् च सर्वलिङ्गानां सर्वनामत्वम् उच्यते // वाप ३,१३.१८ //

स्थितेषु सर्वलिङ्गेषु $ विवक्षानियमाश्रयः &
कस्य चिच् छब्दसंस्कारे व्यापारः क्व चिद् इष्यते // वाप ३,१३.१९ //

संनिधाने निमित्तानां $ किं चिद् एव प्रवर्तकम् &
यथा तक्षादिशब्दानां लिन्गेषु नियमस् तथा // वाप ३,१३.२० //

भावतत्त्वदृशः शिष्टाः $ शब्दार्थेषु व्यवस्थिताः &
यद् यद् धर्मे ऽङ्गताम् एति लिङ्गं तत् तत् प्रचक्षते // वाप ३,१३.२१ //

स्वरभेदाद् यथा शब्दाः $ साधवो विषयान्तरे &
लिङ्गभेदात् तथा सिद्धात् साधुत्वम् अनुगम्यते // वाप ३,१३.२२ //

प्रयोगो विप्रयोगश् च $ लोके यत्रोपलभ्यते &
शास्त्रम् आरभ्यते तत्र न प्रयोगाविपर्यये // वाप ३,१३.२३ //

उपाधिभेदाद् अर्थेषु $ गुणधर्मस्य कस्य चित् &
निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता // वाप ३,१३.२४ //

हिमारण्ये महत्त्वेन $ युक्ते स्त्रीत्वम् अवस्थितम् &
ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता // वाप ३,१३.२५ //

शब्दान्तरानां भिन्ने ऽर्थ $ उपायाः प्रतिपत्तये &
एकताम् इव निश्चित्य लघ्वर्थम् उपदर्शिताः // वाप ३,१३.२६ //

उत्पत्तिः प्रसवो ऽन्येषां $ नाशः संस्त्यानम् इत्य् अपि &
आत्मरूपं तु भावानां स्थितिर् इत्य् अपदिश्यते // वाप ३,१३.२७ //

दृष्टं निमित्तं केसां चिज् $ जात्यादिवद् अवस्थितम् &
दृष्टवच् छब्दसंस्कार- मात्रं तु परिकल्पितम् // वाप ३,१३.२८ //

यथा प्रसिद्धे ऽप्य् एकत्वे $ नानात्वाभिनिवेशिनः &
नानात्वं जनयन्तीव शब्दा लिङ्गे ऽपि स क्रमः // वाप ३,१३.२९ //

इदं वेयम् अयं वेति $ शब्दसंस्कारमात्रकम् &
निमित्तदर्शनाद् अर्थे कैश् चित् सर्वत्र वर्ण्यते // वाप ३,१३.३० //

नावश्यं विषयत्वेन $ निमित्तं व्यवतिष्ठते &
इन्द्रियादि यथादृष्टं भेदहेतुस् तद् इष्यते // वाप ३,१३.३१ //

३,१४ वृत्तिसमुद्देश

कुत्साप्रशंसातिशयैः $ समाप्तार्थं तु युज्यते &
पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः // वाप ३,१४.१ //

देवदत्तादिकुत्सायां $ वर्तते कुत्सितश्रुतिः &
कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते // वाप ३,१४.२ //

प्रकृष्ट इति शुक्लादि- $ प्रकर्षस्याभिधायकः &
प्रकृष्टस्य प्रकर्षे तु तरबादिर् विधीयते // वाप ३,१४.३ //

कुत्सितत्वेन कुत्स्यो वा $ न सम्यग् वापि कुत्सितः &
स्वशब्दाभिहिते केन विशिष्टो ऽर्थः प्रतीयते // वाप ३,१४.४ //

न च सांप्रतिकी कुत्सा $ भेदाभावात् प्रतीयते &
पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते // वाप ३,१४.५ //

विशेषणविशेष्यत्वं $ पदयोर् उपजायते &
न प्रातिपदिकार्थश् च तत्रैव व्यतिरिच्यते // वाप ३,१४.६ //

विशेष्यं स्याद् अनिर्ज्ञातं $ निर्ज्ञातो ऽर्थो विशेषणम् &
परार्थत्वेन शेषत्वं सर्वेषाम् उपकारिणाम् // वाप ३,१४.७ //

विभक्तिभेदो नियमाद् $ गुणगुण्यभिधायिनोः &
सामानाधिकरण्यस्य प्रसिद्धिर् द्रव्यशब्दयोः // वाप ३,१४.८ //

द्रव्ये ऽनिर्ज्ञातजातीये $ कृष्णशब्दः प्रयुज्यते &
अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते // वाप ३,१४.९ //

सामान्यानाम् असंबन्धात् $ तौ विशेषे व्यवस्थितौ &
रूपाभेदाद् विशेषं तम् अभिव्यङ्क्तुं न शक्नुतः // वाप ३,१४.१० //

ताव् एव संनिपतितौ $ भेदेन प्रतिपादने &
अवच्छेदम् इवाधाय संशयं व्यपकर्षतः // वाप ३,१४.११ //

द्रव्यात्मा गुणसंसर्ग- $ भेदाद् आश्रीयते पृथक् &
जातिसंबन्धभेदाच् च द्वितीय इव गृह्यते // वाप ३,१४.१२ //

निमित्तैर् अभिसंबन्धाद् $ या निमित्तसरूपता &
तयैकस्यापि नानात्वं रूपभेदात् प्रकल्पते // वाप ३,१४.१३ //

द्रव्यावस्था तृतीया तु $ यस्यां संसृज्यते द्वयम् &
तयोर् अवस्थयोर् भेदाद् आश्रयत्वे नियुज्यते // वाप ३,१४.१४ //

बुद्ध्यैकं भिद्यते भिन्नम् $ एकत्वं चोपगच्छति &
बुद्ध्यावस्था विभज्यन्ते सा ह्य् अर्थस्य विधायिका // वाप ३,१४.१५ //

व्यपदेशिवद् एकस्मिन् $ बुद्ध्या नानात्वकल्पना &
तया कल्पितभेदः सन्न् अर्थात्मा व्यपदिश्यते // वाप ३,१४.१६ //

क्रियाभेदेन दृष्टानाम् $ अश्मादीनां पुनः पुनः &
किं चिद् दर्शनम् अन्येन दर्शनेनापदिश्यते // वाप ३,१४.१७ //

प्रयोगभेदाद् धातूनां $ प्रकल्प्य बहुरूपताम् &
भेदाभेदाव् उपादाय क्व चिद् एकाच्त्वम् उच्यते // वाप ३,१४.१८ //

अन्वयव्यतिरेकाभ्याम् $ अर्थवान् परिकल्पितः &
एको धात्वर्थविगमाद् वर्णत्वेनोपचर्यते // वाप ३,१४.१९ //

द्रव्यात्मानस् त्रयस् तस्माद् $ बुद्धौ नाना व्यवस्थिताः &
आश्रयाश्रयिधर्मेणेत्य् अयं पूर्वेभ्य आगमः // वाप ३,१४.२० //

सामानाधिकरण्यं च $ शब्दयोः कैश् चिद् इष्यते &
विशेषणविशेष्यत्वं संज्ञासंज्ञित्वम् एव च // वाप ३,१४.२१ //

केषां चिज् जातिगुणयोर् $ एकार्थसमवेतयोः &
वृत्तिः कृष्णतिलेष्व् इष्टा शब्दे द्रव्याभिधायिनि // वाप ३,१४.२२ //

संस् तु रूपरसादिनाम् $ आश्रयो नाभिधीयते &
द्रव्याभिधानेन विना ततस् ते द्वन्द्वभाविनः // वाप ३,१४.२३ //

द्रव्याभिधायी कृष्णादिर् $ आकाङ्क्षावान् प्रवर्तते &
निमित्तानुविधायित्वात् तत् तिलादौ न विद्यते // वाप ३,१४.२४ //

एवं जातिमति द्रव्ये $ प्रत्यासन्ने क्रियां प्रति &
गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते // वाप ३,१४.२५ //

गुणमात्राभिधायित्वं $ के चिद् इच्छन्ति वृत्तिषु &
अजाश्वादिषु संबन्धाद् रूढीनाम् इव रूढिभिः // वाप ३,१४.२६ //

तिले पूर्वम् उपात्ते वा $ तत्रैव मतुब् इष्यते &
स च धर्मः समासेषु गुणस् तस्माद् विशेषणम् // वाप ३,१४.२७ //

[पट्वीमृद्व्योः समासे तु $ यद्य् अप्य् एकार्थवृत्तिता &
भिन्नम् अत्राधिकरणं प्राग् वृत्तेस् तच् च गृह्यते // वाप ३,१४.२८ *//

अनुस्यूतेव भेदाभ्याम् $ एका प्रख्योपजायते &
यदा सहविवक्षां ताम् आहुर् द्वन्द्वैकशेषयोः // वाप ३,१४.२९ //

इतरेतरयोगस् तु $ भिन्नसङ्घाभिधायिनाम् &
प्रत्येकं च समूहो ऽसौ समूहिषु समाप्यते // वाप ३,१४.३० //

व्यापारसमुदायस्य $ यथाधिश्रयणादिषु &
प्रत्येकं जातिवद् वृत्तिस् तथा द्वन्द्वपदेष्व् अपि // वाप ३,१४.३१ //

शौण्डार्धर्चपुरोडाश- $ च्छत्त्रिणो ऽत्र निदर्शनम् &
ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु // वाप ३,१४.३२ //

अर्थान्तराभिधायित्वं $ तथार्थान्तरवर्तिनाम् &
याभ्यां चैकम् अनेकार्थं ताभ्याम् एवापरं पदम् // वाप ३,१४.३३ //

समुदायान्तरत्वाच् च $ तादृशो ऽर्थो न लौकिकः &
अन्वयव्यतिरेकाभ्यां शास्त्रार्थो ऽपि न दृश्यते // वाप ३,१४.३४ //

दुःखा दुरुपपादा च $ तस्माद् भाष्ये ऽप्य् उदाहृता &
युगपद्वाचिता सा तु व्यवहारार्थम् आश्रिता // वाप ३,१४.३५ //

समुदायम् उपक्रम्य $ पदं तस्यां प्रयुज्यते &
विभागेन समाख्याने ततस् तद् द्व्यर्थम् उच्यते // वाप ३,१४.३६ //

वाक्ये ऽपि नियता धर्माः $ के चिद् वृत्तौ द्वयोस् तथा &
ते त्व् अभेदेन सामर्थ्य- मात्र एवोपवर्णिताः // वाप ३,१४.३७ //

वृत्तौ विशेषवृत्तित्वाद् $ भेदे सामान्यवाचिता &
उपमानसमासादौ श्यामादीनाम् उदाहृता // वाप ३,१४.३८ //

वृत्तिर् अन्यपदार्थे या $ तस्या वाक्येष्व् असंभवः &
चार्थे द्वन्द्वपदानां च भेदे वृत्तिर् न विद्यते // वाप ३,१४.३९ //

भेदे सति निरादीनां $ क्रान्ताद्यर्थेष्व् असंभवः &
प्राग् वृत्तेर् जातिवाचित्वं न च गौरखरादिषु // वाप ३,१४.४० //

क्रीडाया, जीविकायाश् च $ वाक्येनावचनात् तथा &
न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा // वाप ३,१४.४१ //

निर्धारणादिविषये $ व्यपेक्षैव यतः स्थिता &
समासप्रतिषेधानां ततो नास्ति प्रयोजनम् // वाप ३,१४.४२ //

विधिभिः प्रतिषेधैश् च $ भेदाभेदनिदर्शनम् &
कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् // वाप ३,१४.४३ //

सामर्थ्यम् अविशेषोक्तम् $ अपि लोकव्यवस्थया &
वृत्त्यवृत्त्योः प्रयोगज्ञैर् विभक्तं प्रतिपत्तृभिः // वाप ३,१४.४४ //

अर्थस्य विनिवृत्तत्वाल् $ लुगादि न विरुध्यते &
एकार्थीभाव एवातः समासाख्या विधीयते // वाप ३,१४.४५ //

व्यवस्थितविभाषा च $ सामान्ये कैश् चिद् इष्यते &
तथा वाक्यं व्यपेक्षायां समासो ऽन्यत्र शिष्यते // वाप ३,१४.४६ //

तुल्यश्रुतित्वात् तत्त्वे ऽपि $ राजादीनाम् उपाश्रिते &
वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान् निवर्तते // वाप ३,१४.४७ //

संबन्धिशब्दः सापेक्षो $ नित्यं सर्वः प्रयुज्यते &
स्वार्थवत् सा व्यपेक्षास्य वृत्ताव् अपि न हीयते // वाप ३,१४.४८ //

समुदायेन संबन्धो $ येसां गुरुकुलादिना &
संस्पृश्यावयवांस् ते ऽपि युज्यन्ते तद्वता सह // वाप ३,१४.४९ //

अबुधान् प्रत्य् उपायाश् च $ विचित्राः प्रतिपत्तये &
शब्दान्तरत्वाद् अत्यन्त- भेदो वाक्यसमासयोः // वाप ३,१४.५० //

असमासे समासे च $ गोरथादिष्व् अदर्शनात् &
युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः // वाप ३,१४.५१ //

शब्दान्तरत्वाद् युक्तादिः $ क्व चिद् वाक्ये प्रयुज्यते &
प्रपर्णप्रपलाशादौ गतशब्दश् च वृत्तिषु // वाप ३,१४.५२ //

विशेषणविशेस्यत्वं $ कैश् चिद् एकस् तथाश्रयः &
उपाये तत्त्वदर्शित्वाद् इष्यते वृत्तिवाक्ययोः // वाप ३,१४.५३ //

पदं यथैव वृक्षादि $ विशिष्टे ऽर्थे व्यवस्थितम् &
नीलोत्पलाद्य् अपि तथा भागाभ्यां वर्तते विना // वाप ३,१४.५४ //

श्रोत्रियक्षेत्रियादिनां $ न च वासिष्ठगार्ग्यवत् &
भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् // वाप ३,१४.५५ //

सप्तपर्णादिवद् भेदो $ न वृत्तौ विद्यते क्व चित् &
रूढ्यरूढिविभागो ऽपि क्रियते प्रतिपत्तये // वाप ३,१४.५६ //

या सामान्याश्रया संज्ञा $ विशेषविषया च या &
बहुलग्रहणान् नास्ति प्रवृत्तिर् उभयोस् तयोः // वाप ३,१४.५७ //

सुसूक्ष्मजटकेशादौ $ समासो ऽवयवे यदि &
स्यात् स्यात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः // वाप ३,१४.५८ //

समुदायस्य वृत्तौ च $ नैकदेशो विभाष्यते &
भेद एव विभाषाया नियतो विषयो यतः // वाप ३,१४.५९ //

यतश् चाविषयः सो ऽस्यास् $ तस्मान् नास्त्य् अकृतार्थता &
अभेदप्रक्रमे ऽत्यन्तं भेदानाम् अपसारणात् // वाप ३,१४.६० //

महाकष्टश्रितेत्य् एवं $ न स्याद् भेदः पदत्रये &
वृत्ताव् अवयवस्यात्त्वं यस्मान् न प्रतिषिध्यते // वाप ३,१४.६१ //

महारण्यम् अतीते तु $ त्रिपदाद् भिद्यते स्वरः &
यस्मात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः // वाप ३,१४.६२ //

सतिशिष्टबलियस्त्वात् $ थाथादिस्वर एव तु &
द्विपदे तेन यगपत् त्रितयं न समस्यते // वाप ३,१४.६३ //

येषाम् अपूज्यमानत्वं $ परार्थानुगमात्मके &
विशेषणविशेष्यत्वम् अपि तेषां न कल्पते // वाप ३,१४.६४ //

विशेषः श्रूयमाणो ऽपि $ प्रधानेषु गुणेषु वा &
शब्दान्तरत्वाद् वाक्ये तु वृत्तौ नित्यं न विद्यते // वाप ३,१४.६५ //

विशेषकर्मसंबन्धे $ निर्भुक्ते ऽपि कृतादिभिः &
विशेषनिरपेक्षो ऽन्यः कृतशब्दः प्रवर्तते // वाप ३,१४.६६ //

अकर्मकत्वे सत्य् एवं $ क्तान्तं भावाभिधायि तत् &
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् // वाप ३,१४.६७ //

अविग्रहा गतादिस्था $ यथा ग्रामादिकर्मभिः &
संबध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता // वाप ३,१४.६८ //

मुण्डिसूत्र्वादयो ऽसद्भिर् $ भागैर् अनुगता इव &
विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् // वाप ३,१४.६९ //

पुत्रीयतौ न पुत्रो ऽस्ति $ विशेषेच्छा तु तादृशी &
विनैव पुत्रानुगमाद् या पुत्रे व्यवतिष्ठते // वाप ३,१४.७० //

प्राणैर् विना यथा धारिर् $ जीवतौ प्राणकर्मकः &
न चात्र धारिर् न प्राणा जीवतिस् तु क्रियान्तरम् // वाप ३,१४.७१ //

तथा विनेषिपुत्राभ्यां $ पुत्रीयायां क्रियान्तरम् &
अन्वाख्यानाय भेदास् तु सदृशाः प्रतिपादकाः // वाप ३,१४.७२ //

आक्षेपाच् च प्रयोगे.न $ विषयान्तरवर्तिना &
सद् अपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते // वाप ३,१४.७३ //

प्रसिद्धेन हृतः शब्दो $ भावगर्हाभिधायिना &
अभ्यासे तुल्यरूपत्वान् न यङन्तः प्रयुज्यते // वाप ३,१४.७४ //

शब्दा यथा विभज्यन्ते $ भागैर् इव विकल्पितैः &
अन्वाख्येयास् तथा शास्त्रम् अतिदूरे व्यवस्थितम् // वाप ३,१४.७५ //

अर्थस्यानुगमं कं चिद् $ दृष्ट्वैव परिकल्पितम् &
पदं वाक्ये पदे धातुर् धातौ भागश् च मुण्डिवत् // वाप ३,१४.७६ //

अविप्रयोगः साधुत्वे $ व्युत्पत्तिर् अनवस्थिता &
उपायान् प्रतिपत्तीनां नाभिमन्येत सत्यतः // वाप ३,१४.७७ //

यथैव डित्थे दवतिः $ पाचके पचतिस् तथा &
डयतिश् च पचिश् चैव द्वाव् अप्य् एताव् अलौकिकौ // वाप ३,१४.७८ //

प्रकृतिप्रत्ययाव् ऊह्यौ $ पदात् ताभ्यां पदं तथा &
अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति // वाप ३,१४.७९ //

शास्त्रदृष्टिस् तु शास्त्रस्य $ प्राप्तिमात्रे ऽप्य् अनिश्चिते &
युज्यते प्रत्यवायेन शास्त्रं चक्षुर् अपश्यताम् // वाप ३,१४.८० //

अर्थान्तराभिधानाच् च $ पौर्वापर्यं न भिद्यते &
राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा // वाप ३,१४.८१ //

विनैव प्रत्ययैर् वृत्तौ $ ये भिन्नार्थाभिधायिनः &
गर्गादयो लुका तेषां साधुत्वम् अनुगम्यते // वाप ३,१४.८२ //

[सो ऽयम् इत्य् अभिसंबन्धात् $ प्रत्ययेन विना यदि &
भृग्वादयः प्रयुज्येरन् नापत्ये नियमो भवेत् // वाप ३,१४.८३ *//

सो ऽयम् इत्य् अभिसंबन्धे $ लिङ्गोपव्यञ्जनाद् ऋते &
प्रष्ठादिषु न जायैव नियमेन प्रतीयते // वाप ३,१४.८४ //

मानमेयाभिसंबन्ध- $ विशेषे ऽङ्गीकृते तथा &
प्रस्थादीनाम् असाधुत्वं तद्धितेन विना भवेत् // वाप ३,१४.८५ //

तद्धितो योगभेदेन $ वाक्यं वा स्याद् विभाषितम् &
परिमाणाधिके तत्र प्रथमा शिष्यते पुनः // वाप ३,१४.८६ //

व्यतिरिक्तस्य साधुत्वे $ तद् एव च निदर्शनम् &
युज्यते ऽङ्गीकृताधिक्यं तत् सर्वाभिर् विभक्तिभिः // वाप ३,१४.८७ //

शुक्लादिषु मतुब्लोपो $ व्यतिरेकस्य दर्शनात् &
असाधुत्वनिवृत्त्यर्थं साधवस् ते बिदादिवत् // वाप ३,१४.८८ //

विशेषणाद् विशेष्ये ऽर्थे $ तद्भावाभ्युच्चये सति &
पुनश् च प्रतिसंहारे वृत्तिम् एके प्रचक्षते // वाप ३,१४.८९ //

निमित्ते प्रत्ययः पूर्वो $ नानुप्राप्तो निमित्तिना &
निमित्तवति बुद्धेश् च न निमित्तसरूपता // वाप ३,१४.९० //

संस्कारसहिताज् ज्ञानान् $ नोपश्लेसः स्मृतेर् अपि &
व्यापारे तन्निमित्तानां न ग्राह्यं स्यात् तथा स्थितम् // वाप ३,१४.९१ //

अन्तःकरणवृत्तौ च $ व्यर्था बाह्यार्थकल्पना &
तस्माद् अनुपकारे वा ग्राह्यं वा न तथा स्थितम् // वाप ३,१४.९२ //

अनुस्यूतेव संसृष्टैर् $ अर्थे बुद्धिः प्रवर्तते &
व्याख्यातारो विभज्यार्थांस् तान् भेदेन प्रचक्षते // वाप ३,१४.९३ //

तदात्मन्य् अविभक्ते च $ बुद्ध्यन्तरम् उपाश्रिताः &
विभागम् इव मन्यन्ते विशेषणविशेष्ययोः // वाप ३,१४.९४ //

अबुधान् प्रति वृत्तिं च $ वर्तयन्तः प्रकल्पिताम् &
आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् // वाप ३,१४.९५ //

अन्वयाद् गम्यते सो ऽर्थो $ विरोधी वा निवर्तते &
द्व्यर्थम् अर्थान्तरे वापि तत्राहुर् उपसर्जनम् // वाप ३,१४.९६ //

उपायमात्रं नानात्वं $ समूहस् त्व् एक एव सः &
विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना // वाप ३,१४.९७ //

वृत्तिं वर्तयताम् एवम् $ अबुधप्रतिपत्तये &
भिन्नाः संबोधनोपायाः पुरुषेष्व् अनवस्थिताः // वाप ३,१४.९८ //

वाचिका द्योतिका वापि $ संख्यानां वा विभक्तयः &
तद्रूपे ऽवयवे वृत्तौ संख्याभेदो निवर्तते // वाप ३,१४.९९ //

अभेदैकत्वसंख्या वा $ तत्रान्यैवोपजायते &
संसर्गरुपं सैंख्यानाम् अविभक्तं तद् उच्यते // वाप ३,१४.१०० //

यथौषधिरसाः सर्वे $ मधुन्य् आहितशक्तयः &
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः // वाप ३,१४.१०१ //

भेदानां वा परित्यागात् $ संख्यात्मा स तथाविधः &
व्यापाराज् जातिभागस्य भेदापोहेन वर्तते // वाप ३,१४.१०२ //

अगृहीतविशेषेण $ यथा रूपेण रूपवान् &
प्रख्यायते न शुक्लादि- भेदरूपस् तु गृह्यते // वाप ३,१४.१०३ //

भेदरूपसमावेशे $ तथा सत्य् अविवक्षिते &
भागः प्रकाशितः कश् चिच् छास्त्रे ऽङ्गत्वेन गृह्यते // वाप ३,१४.१०४ //

संक्ःयासामान्यरूपेण $ तदा सो ऽम्शः प्रतीयते &
अर्थस्यानेकशक्तित्वे शब्दैर् नियतशक्तिभिः // वाप ३,१४.१०५ //

अव्ययानां च यो धर्मो $ यश् च भेदवतां क्रमः &
अभिन्नव्यपदेशार्हम् अन्तरालं तद् एतयोः // वाप ३,१४.१०६ //

अलुकश् चैकवद्भावस् $ तस्मिन् सति न शिष्यते &
स च गोषुचरादीनां धर्मो ऽस्ति वचनान्तरे // वाप ३,१४.१०७ //

जातौ द्विवचनाभावात् $ तद् वृत्तिषु न विद्यते &
प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः // वाप ३,१४.१०८ //

आश्रयाद् भेदवत्तायाः $ सर्वभेदसमन्वयः &
द्रव्याभिधानपक्षो ऽपि जात्याख्यायां न विद्यते // वाप ३,१४.१०९ //

सर्वद्रव्यगतिश् चैवम् $ एकशेषश् च नोच्यते &
प्रत्याख्याते ऽन्यथा सूत्रे भिन्नद्रव्यगतिर् भवेत् // वाप ३,१४.११० //

वृत्तौ यो युक्तवद्भावो $ वरणादिषु शिष्यते &
अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति // वाप ३,१४.१११ //

प्राग् वृत्तेर् युक्तवद्भावे $ षष्ठी भेदाश्रया भवेत् &
वृत्तौ संख्याविशेषाणां त्यागाद् भेदो निवर्तते // वाप ३,१४.११२ //

विद्यमानासु संख्यासु $ के चित् संख्यान्तरं विदुः &
अभेदाख्यम् उपग्राहि वृत्तौ तच् चोपजायते // वाप ३,१४.११३ //

व्यापारं याति भेदाख्यैस् $ तत् स्वैर् अवयवैः क्व चित् &
आत्मा भेदानपेक्षो ऽस्य क्व चिद् एति निमित्तताम् // वाप ३,१४.११४ //

दास्याः पतिर् इति व्यक्तो $ गोदाव् इति च दृश्यते &
व्यापारभेदः संख्यायास् तस्माद् एव व्यवस्थितः // वाप ३,१४.११५ //

द्व्यादिनां च द्विपुत्रादौ $ बाह्यो भेदो निवर्तते &
विभक्तिवाच्यः स्वार्थत्वान् निमित्तं त्व् अवतिष्ठते // वाप ३,१४.११६ //

द्वित्वोपसर्जने सङ्घे $ द्विशब्दस् तत्र वर्तते &
सो ऽयम् इत्य् अभिसंबन्धाद् उभशब्दे न तत् तथा // वाप ३,१४.११७ //

उभयस् तत्र तुल्यार्थो $ वृत्तौ नित्यं प्रयुज्यते &
सूत्रे ऽपि नित्यग्रहणं तदर्थम् अभिधीयते // वाप ३,१४.११८ //

आपि के चापरार्थत्वान् $ नाभेद उपजायते &
उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते // वाप ३,१४.११९ //

स्त्रीत्वाभिधानपक्षे ऽपि $ गुणभावविपर्ययः &
स्वभावाद् अपरार्थत्वात् तत्र भेदो न हीयते // वाप ३,१४.१२० //

तस्माद् द्विवचनाट् टापश् $ चोभयो ऽन्यत्र दृश्यते &
प्रत्ययं तयपं हित्वा नास्त्य् उत्तरपदे पुनः // वाप ३,१४.१२१ //

प्राप्तिः प्रगृह्यसंज्ञाया $ न स्यात् प्रत्ययलक्षणात् &
कुमार्यगारे न ह्य् अस्ति समासो वचनान्तरे // वाप ३,१४.१२२ //

एकद्वयोर् यञादिनां $ विभाषा लुङ् न कल्पते &
यौष्माकस् तावकश् चेति भेदाभावान् न सिध्यति // वाप ३,१४.१२३ //

दृष्टो गार्ग्यतरे भेदस् $ तथा गर्गतरा इति &
युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ // वाप ३,१४.१२४ //

उपाधिभूता या संख्या $ प्रकृतौ समवस्थिता &
आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना // वाप ३,१४.१२५ //

शौर्पिके मासजाते च $ परिमाणं स्वभावतः &
उपाधिभूताम् आश्रित्य संख्यां भेदेन वर्तते // वाप ३,१४.१.२६ //

वयस्विनि परिच्छेदः $ क्रीते चापि न गम्यते &
इष्टो ऽभेदाद् ऋते तत्र पतिमाणम् अनर्थकम् // वाप ३,१४.१२७ //

भिन्नस्याभेदवचनात् $ प्रस्थादिभ्यः शसो विधिः &
तद्धर्मत्वाद् अभेदात् तु घटादिभ्यो न दृश्यते // वाप ३,१४.१२८ //

श्रूयते वचनं यत्र $ भावस् तत्र विशिष्यते &
निवर्तते यद् वचनं तस्य भावो न विद्यते // वाप ३,१४.१२९ //

कार्यं सत्ताश्रयं शास्त्राद् $ अप्रवृत्तिर् अदर्शनम् &
वाक्ये दृष्टं यद् अत्यन्तम् अभावस् तस्य वृत्तिषु // वाप ३,१४.१३० //

सम्ज्ञाविषयभेदार्थं $ प्रसक्तादर्शनं स्मृतम् &
श्रूयमानं तु वचनं विशिष्टम् उपलभ्यते // वाप ३,१४.१३१ //

अभावो वा लुको यत्र $ रूपवान् वा विधीयते &
व्यभिचारान् निमित्तस्य तत्रासाधुः प्रसज्यते // वाप ३,१४.१३२ //

भेदः संख्याविशेषो वा $ व्याख्यातो वृत्तिवाक्ययोः &
सर्वत्रैव विशेषस् तु नावश्यं तादृशो भवेत् // वाप ३,१४.१३३ //

आतेश् च भेदहेतुत्वान् $ न लिङ्गेन विशेष्यते &
प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः // वाप ३,१४.१३४ //

अभेदे लिङ्गसंख्याभ्यां $ योगाच् छुक्लं पटा इति &
प्रसक्ते शास्त्रम् आरब्धं सिद्धये लिङ्गसंख्ययोः // वाप ३,१४.१३५ //

परार्थं शेषभावं यो $ वृत्तिषु प्रतिपद्यते &
गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते // वाप ३,१४.१३६ //

शब्दान्तरत्वाद् वाक्येषु $ विशेषा यद्य् अपि श्रुताः &
वृत्तेर् अभिन्नरूपत्वात् तेषु वृत्तिर् न विद्यते // वाप ३,१४.१३७ //

रूपाच् च शब्दसंस्कारः $ सामान्यविषयो यतः &
तस्मात् तदाश्रयं लिङ्गं वचनं च प्रसज्यते // वाप ३,१४.१३८ //

सलिङ्गं च ससंख्यं च $ ततो द्रव्याभिधायिना &
संबध्यते पदं तत्र तयोर् भिन्ना श्रुतिर् भवेत् // वाप ३,१४.१३९ //

भाविनो बहिरङ्गस्य $ वचनाद् आश्रयस्य ये &
लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते // वाप ३,१४.१४० //

विशेषवृत्तेर् अपि च $ रूपाभेदाद् अलक्षितः &
यस्माद् विशेषस् तेनात्र भेदकार्यं न कल्पते // वाप ३,१४.१४१ //

विशेष एव सामान्यं $ विशेसाद् भिद्यते यतः &
अभेदो हि विशेषाणाम् आश्रितो विनिवर्तकः // वाप ३,१४.१४२ //

यद् यद् आश्रीयते तत् तद् $ अन्यस्य विनिवर्तकम् &
भेदाभेदविभागस् तु सामान्ये न निरूप्यते // वाप ३,१४.१४३ //

अपोद्धारश् च सामान्यम् $ इति तस्योपकारिनः &
निमित्तावस्थम् एवातस् तत् स्वधर्मेण गृह्यते // वाप ३,१४.१४४ //

अनिर्धारितधर्मत्वाद् $ भेदा एव विकल्पिताः &
निमित्तैर् व्यपदिश्यन्ते सामान्याख्याविशेसिताः // वाप ३,१४.१४५ //

यदा तु व्यपदिश्येते $ लिङ्गसंख्ये स्वभावतः &
प्रयोगेष्व् एव साधुत्वं वाक्ये प्रक्रम्यते तदा // वाप ३,१४.१४६ //

तत्र प्रयोगो ऽनियतो $ गुणानाम् आश्रयैः सह &
सामान्यं यत् तद् अत्यन्तं तत्रैव समवस्थितम् // वाप ३,१४.१४७ //

न गोत्वं शाबलेयस्य $ गौर् इति व्यपदिश्यते &
शुक्लत्वं बाहुलेयस्य शुक्ल इत्य् अपदिश्यते // वाप ३,१४.१४८ //

व्यतिरेके च सत्य् एवं $ मतुपः श्रवनं भवेत् &
लुग् अन्वाख्यायते तस्माद् रसादिभ्यश् च नास्ति सः // वाप ३,१४.१४९ //

यत् सो ऽयम् इति संबन्धाद् $ रूपाभेदेन वर्तते &
शुक्लादिवत् ततो लोपस् तद् रसादौ न विद्यते // वाप ३,१४.१५० //

आवेशो लिङ्गसंख्याभ्यां $ क्व चिन् मञ्चादिवत् स्थितह् &
सो ऽयम् इत्य् अभिसंबन्धे स प्रस्थादौ न विद्यते // वाप ३,१४.१५१ //

लिङ्गम् लिङ्गपरित्यागे $ सूत्रं प्रत्ययशासनम् &
सो ऽयम् इत्य् अभिसंबन्धात् पुंशब्दे स्त्र्यभिधायिनि // वाप ३,१४.१५२ //

आश्रये लिङ्गसंख्याभ्याम् $ आश्रितं व्यपदिश्यते &
विशेषणानां चाजातेर् इति शास्त्रव्यवस्थया // वाप ३,१४.१५३ //

निमित्तानुविधायित्वाद् $ ये धर्मा भेदहेतुषु &
त आश्रये ऽपि विद्यन्त इति बुद्धिर् निवर्त्यते // वाप ३,१४.१५४ //

आख्यायते च शास्त्रेण $ लोकरूढा स्वभावतः &
निमित्ततुल्या गोदादौ प्रवृत्तिर् लिङ्गसंख्ययोः // वाप ३,१४.१५५ //

हरितक्यादिषु व्यक्तिः $ संख्या खलतिकादिषु &
मनुष्यलुब्विशेषाणाम् अभिधेयाश्रयं द्वयम् // वाप ३,१४.१५६ //

जातिप्रयोगे जात्या चेत् $ संबन्धम् उपगच्छति &
विशेषणं ततो धर्माञ् जातेस् तत् प्रतिपद्यते // वाप ३,१४.१५७ //

लुबन्ते संनिपतितं $ जातेर् अन्यद् विशेषणम् &
लुबन्तस्य प्रधानत्वात् तद्धर्मैर् व्यपदिश्यते // वाप ३,१४.१५८ //

नञ्समासबहुव्रीहि- $ द्वन्द्वस्त्र्यतिशयेषु ये &
भेदा भाष्यानुसारेण वाच्यास् ते लिङ्गसंख्ययोः // वाप ३,१४.१५९ //

यदि षष्ठीद्वितीयान्तान् $ निकृष्टात् तमबादयः &
न्यक्कारिणि स्युर् उत्कृष्टे प्रकृतेः स्याद् विलिङ्गता // वाप ३,१४.१६० //

काल्यां कालाद् द्वितीयान्तात् $ काले काल्यास् तरब् भवेत् &
न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् // वाप ३,१४.१६१ //

न्यक्कर्तृषु च गर्गेषु $ गार्ग्यात् स्यात् तच् च नेष्यते &
कुमार्याः स्वार्थिके ङीप् स्यात् प्रकृत्यर्थो हि नाधिकः // वाप ३,१४.१६२ //

षष्ठ्यन्ताद् अधिके तस्माद् $ गुणे स्वाश्रयवर्तिनि &
उत्कृष्टसमवेतायां क्रियायां वा विधीयते // वाप ३,१४.१६३ //

उपात्तं च प्रकृत्यर्थो $ द्रव्यम् एवाश्रयस् तयोः &
सो ऽयम् इत्य् अभिसंबन्धाद् अभेदेन प्रतीयते // वाप ३,१४.१६४ //

रूपाभेदाच् च तद् द्रव्यम् $ आकाङ्क्षावत् प्रतीयते &
विशेषैर् भिन्नरूपैस् तद् आश्रयैर् इव युज्यते // वाप ३,१४.१६५ //

भिन्नरूपेसु यल् लिङ्गं $ विशेषेसु व्यवस्थितम् &
संख्या च ताभ्याम् द्रव्यात्मा सो ऽभिन्नो व्यपदिश्यते // वाप ३,१४.१६६ //

आश्रयः समवायि च $ निमित्तं लिङ्गसंख्ययोः &
कर्तृस्थभावकः शेतिर् अतो भाष्य उदाहृतः // वाप ३,१४.१६७ //

निमित्तम् आश्रयत्वेन $ गृह्येत यदि साधनम् &
कर्मापदिष्टयोः प्राप्तिस् तत्र स्याल् लिङ्गसंख्ययोः // वाप ३,१४.१६८ //

शास्त्रे निमित्तभावेन $ समुदायाद् अपोद्धृतः &
स्त्र्यर्थस् तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा // वाप ३,१४.१६९ //

स्त्रीशब्दो गुणशब्दत्वात् $ तुल्यधर्मा सितादिभिः &
गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये // वाप ३,१४.१७० //

स्त्र्यर्थः संस्त्यानवद् द्रव्यं $ प्रकृत्यर्थश् च यद्य् असौ &
द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति // वाप ३,१४.१७१ //

संस्त्यानेन क्व चिद् द्रव्यं $ दृष्टं यद्य् उपलक्षितम् &
अनङ्गीकृतसंस्त्यानात् तद्वृत्तेः प्रत्ययो भवेत् // वाप ३,१४.१७२ //

भूतादयः षडाख्याश् च $ संस्त्यानेनोपलक्षिते &
ब्राह्मण्यादौ यदा वृत्तास् तेभ्यः स्युः प्रत्ययास् तदा // वाप ३,१४.१७३ //

तद्वन्तो हि प्रधानत्वात् $ प्रत्ययाणाम् प्रयोजकाः &
सामानाधिकरैण्ये ऽपि तस्माट् टाबादिसंभवः // वाप ३,१४.१७४ //

गुणमात्राभिधायित्वं $ स्त्रीशब्दे वर्ण्यते यदा &
प्रकृत्यर्थश् च संस्त्यानं स्वार्थिकाः प्रत्ययास् तदा // वाप ३,१४.१७५ //

संस्त्याने केवले वृत्तिः $ प्रकृतीनाम् न विद्यते &
तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः // वाप ३,१४.१७६ //

उपकारि च संस्त्यानं $ येषु शब्देष्व् अपेक्षितम् &
तेभ्यष् टाबादयस् तच् च भूतादिष्व् अविवक्षितम् // वाप ३,१४.१७७ //

संस्त्यानं प्रत्ययस्यार्थः $ शुद्धम् आश्रीयते यदा &
तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति // वाप ३,१४.१७८ //

जातिश् चेत् स्त्रीत्वम् एवासौ $ भेदो ऽन्यत्राविवक्षितः &
यस्माद् भिन्नैर् अपि द्रव्यैस् तद् एकं सद् विशिष्यते // वाप ३,१४.१७९ //

मात्राणाम् हि तिरोभावे $ परिमाणम् न विद्यते &
कुमार्य इति तेन स्यात् कुमार्यां भेदसंभवात् // वाप ३,१४.१८० //

जातिसंख्यासमाहारैर् $ यथैव सहचारिणि &
द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते // वाप ३,१४.१८१ //

मूर्तिभ्यो मूर्तिधर्माणाम् $ तथाभेदस्य दर्शनात् &
सामानाधिकरण्यं च क्रियायोगश् च कल्पते // वाप ३,१४.१८२ //

सामानाधिकरण्ये तु $ मतुब्लोपाद् अपेक्षिते &
लुक् तद्धितलुकीति स्याल् लुक् तत्राप्य् उपलक्षणम् // वाप ३,१४.१८३ //

केसां चित् त्यक्तभेदेषु $ द्रव्येष्व् एव विधीयते &
संस्त्यानवत्सु टाबादिर् अभेदेन समन्वयात् // वाप ३,१४.१८४ //

सामान्यभूतो द्रव्यात्मा $ परिच्छिन्नपरिग्रहः &
क्रियाभिर् युज्यते भेदैर् भागशश् चावतिष्ठते // वाप ३,१४.१८५ //

शुक्लादिष्व् आश्रयद्रव्यं $ प्राधान्येनाभिधीयते &
स्त्रीत्वं तु प्रत्ययार्थत्वाद् अभिधाविषयो यतः // वाप ३,१४.१८६ //

सो ऽयम् इत्य् अभिसंबन्धाद् $ आश्रयं प्रतिपद्यते &
स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः // वाप ३,१४.१८७ //

साकाङ्क्षत्वाद् गुणत्वेन $ सामान्यं वोपदिश्यते &
व्यक्तीनाम् आत्मधर्मो ऽसाव् एकप्रख्यानिबन्धनः // वाप ३,१४.१८८ //

एवम्भूता च सावस्था $ भागभेदपरिग्रहे &
कृते बुद्ध्यैव भेदानाम् आश्रयत्वे च कल्पिते // वाप ३,१४.१८९ //

निस्कृष्टेष्व् अपि भेदेषु $ व्यक्तिरूपाश्रये ततः &
लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते // वाप ३,१४.१९० //

अन्तरेन चशब्दस्य $ प्रयोगं द्वन्द्वभाविनाम् &
अविशिष्टार्थवृत्तित्वं रूपाभेदात् प्रतीयते // वाप ३,१४.१९१ //

विकल्पवति वा वृत्तिर् $ निवर्त्ये ऽथ समुच्चिते &
तेषाम् अज्ञातशक्तीनां द्योतकेन नियम्यते // वाप ३,१४.१९२ //

वृत्तौ विशिष्टरूपत्वाच् $ चशब्दो विनिवर्तते &
अर्थभेदे ऽपि सारूप्यात् तच् चार्थेनापदिश्यते // वाप ३,१४.१९३ //

चस्य चासत्त्वभूतो ऽर्थः $ स एवाश्रियते यदि &
तद्धर्मत्वं ततो द्वन्द्वे चादिष्व् अर्थकृतं हि तत् // वाप ३,१४.१९४ //

चार्थः शब्दे क्व चिद् भेदात् $ कथं चित् समवस्थितः &
द्योतकाश् चादयस् तस्य वक्ता द्वन्द्वस् तु तद्वताम् // वाप ३,१४.१९५ //

विकल्पाद्यभिधेयस्य $ चार्थस्यान्यपदार्थता &
द्योतकत्वान् न कल्पेत तस्मात् सद् उपलक्ष्यते // वाप ३,१४.१९६ //

तत्र स्वाभाविकं लिङ्गं $ शब्दधर्मे व्यपेक्षिते &
शब्दः कश् चित् तम् एवार्थं कथं चित् प्रतिपद्यते // वाप ३,१४.१९७ //

शब्दाद् अर्थाः प्रतायन्ते $ स भेदानां विधायकः &
अनुमानं विवक्षायाः शब्दाद् अन्यन् न विद्यते // वाप ३,१४.१९८ //

समुच्चितः स्याद् द्वन्द्वार्थो $ गुणभूतसमुच्चयः &
समुच्चयो वापि भवेद् गुणभूतसमुच्चितः // वाप ३,१४.१९९ //

समुच्चितस्य प्राधान्ये $ लिङ्गसंख्ये स्वभावतः &
समुच्चयस्य प्राधान्ये शास्त्रं स्यात् प्रतिपादकम् // वाप ३,१४.२०० //

समुच्चयवतो ऽर्थस्य $ प्राधान्ये ऽप्य् अपरे विदुः &
निमित्तानुविधायित्वाद् असिद्धिम् लिङ्गसंख्ययोः // वाप ३,१४.२०१ //

समुच्चयो निमित्तं चेत् $ स्यान् निमित्तानुवर्तनम् &
अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः // वाप ३,१४.२०२ //

समुच्चितनिमित्तत्वे $ चार्थस्यापगमे ऽपि वा &
स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते // वाप ३,१४.२०३ //

पदान्तरस्थस्यार्थस्य $ द्योतकत्वान् न युज्यते &
निपातो लिङ्गसंख्याभ्यां द्वन्द्वस् त्व् अर्थस्य वाचकः // वाप ३,१४.२०४ //

निमित्तानुविधाने च $ द्रव्यधर्मानपेक्षणात् &
गुणप्रधानभावेन क्रियायोगो न कल्पते // वाप ३,१४.२०५ //

यस्य नास्ति क्रियायोगः $ स्वतन्त्रो ऽसौ न विद्यते &
अर्थो द्वन्द्वस्य तत्र स्याद् उपादानम् अनर्थकम् // वाप ३,१४.२०६ //

समुच्चयवतो ऽर्थस्य $ वाचको नानुवर्तते &
निमित्तम् अपि चास्यार्थः स्वधर्मैर् युज्यते ततः // वाप ३,१४.२०७ //

बाह्यो नास्त्य् आश्रयो द्वन्द्वे $ विशेषौ तत्र हि श्रुतौ &
समुच्चयस् तदाधारस् तद्धर्मैर् व्यपदिश्यते // वाप ३,१४.२०८ //

यो वावयवभेदाभ्यां $ भेदवद्भ्याम् इवान्वितः &
एकः समूहो धर्मान् स भागयोः प्रतिपद्यते // वाप ३,१४.२०९ //

एकश् च द्व्यात्मको ऽर्थो ऽसौ $ भेदाभेदसमन्वितः &
यौ भेदाव् आश्रितस् तत्स्थे लिङ्गसंख्ये प्रपद्यते // वाप ३,१४.२१० //

यथा स्वशब्दाभिहिते $ चैत्रार्थे न प्रयुज्यते &
चैत्रशब्दो बहुव्रिहाव् अप्रयोगस् तथा भवेत् // वाप ३,१४.२११ //

यथा गौर् इति शुक्लादेर् $ अभिधानं न विद्यते &
एवं यस्याभिसंबन्धो गोभिस् तावत् प्रतीयते // वाप ३,१४.२१२ //

संबन्धी नियतो रूढश् $ चित्राणां न च विद्यते &
गवां यथा वज्रपाणिस् त्र्यक्षे वा ऽपि व्यवस्थितः // वाप ३,१४.२१३ //

शब्दान्तरत्वाद् वाक्येषु $ विशेषा यद्य् अपि श्रुताः &
वृत्तिशब्दो ऽन्य एवायं सामान्यस्याभिधायकः // वाप ३,१४.२१४ //

अगोर् अचित्रगोश् चैव $ रूपभेदान् निवर्तकः &
न चित्रगुर् विशेषाणां रूपाभेदात् तु वाचकः // वाप ३,१४.२१५ //

यथा चित्रगुर् इत्य् एतत् $ प्रयुक्ते न प्रयुज्यते &
एवं यदि स्यात् सामान्यं तस्य न स्यात् प्रतिश्रुतिः // वाप ३,१४.२१६ //

सर्वादयो विशेषास् तु $ प्रदेशानां निवर्तकाः &
यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः // वाप ३,१४.२१७ //

विभक्त्यर्थाभिधानाद् वा $ षष्ठी नानुप्रयुज्यते &
द्रव्यस्यानभिधानात् तु तच्छब्दो ऽनुप्रयुज्यते // वाप ३,१४.२१८ //

सामानाधिकरण्यं चेन् $ मतुब्लोपात् प्रकल्पते &
मतुपो ऽपि तदर्थत्वाद् अनवस्था प्रसज्यते // वाप ३,१४.२१९ //

संबन्धस्य च संबन्दी $ संबन्धो ऽन्यः प्रसज्यते &
विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते // वाप ३,१४.२२० //

विभक्त्यर्थप्रधानत्वात् $ ततस् तत्रेति न क्रिया &
दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते // वाप ३,१४.२२१ //

अन्तर्भवेच् च संबन्धः $ प्राधान्याभिहितः कथम् &
स प्रातिपदिकार्थश् च तथाभूतः कथं भत्वेत् // वाप ३,१४.२२२ //

असंभवात् तु संबन्धे $ संबन्धसहचारिणि &
जातिसंख्यासमाहार- कार्याणाम् इव संभवः // वाप ३,१४.२२३ //

सो ऽयम् इत्य् अभिसंबन्धाद् $ विशिष्टाश्रयवाचिनाम् &
शुक्लादिवल् लिङ्गसंख्ये शास्त्रारम्भाद् भविष्यतः // वाप ३,१४.२२४ //

भेदेन तु विवक्षायां $ सामान्ये वा विवक्षिते &
सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर् भवेत् // वाप ३,१४.२२५ //

साधुत्वं न विभक्त्यर्थ- $ मात्रे वृत्तस्य दृश्यते &
कृत्स्नार्थवृत्तेः साधुत्वम् इत्य् अर्थग्रहणं कृतम् // वाप ३,१४.२२६ //

सो ऽयम् इत्य् अभिसंबन्धाद् $ द्रव्यवृत्तिर् अयं यदा &
सलिङ्गस्य ससंख्यस्य तदा साधुत्वम् उच्यते // वाप ३,१४.२२७ //

अन्तर्भूतविभक्त्यर्थे $ षष्ठी न श्रूयते यथा &
तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् // वाप ३,१४.२२८ //

साधर्म्यम् अव्ययेन स्याद् $ बहुव्रीहेस् तथा सति &
लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् // वाप ३,१४.२२९ //

प्रयुक्तेन च संबन्धाच् $ चैत्रादिश्रवनं भवेत् &
विना विभक्त्या संबन्धो विभक्त्या विद्यते विना // वाप ३,१४.२३० //

अभिधाने ऽपि संख्यायाः $ संख्यात्वं न निवर्तते &
षष्ठ्यर्थस्याभिधाने तु स्यात् प्रातिपदिकार्थता // वाप ३,१४.२३१ //

अनुप्रयोगसिद्ध्यर्थं $ न विभक्त्यर्थकल्पना &
वस्त्वन्तरम् उपक्षिप्तम् इति के चित् प्रचक्षते // वाप ३,१४.२३२ //

संबन्दिभिर् विशिष्टानाम् $ संबन्धानां निमित्तता &
संबन्धैर् वा विशिष्टानां तद्वतां स्यान् निमित्तता // वाप ३,१४.२३३ //

के चित् संयोगिनो दण्डाद् $ विषाणात् समवायिनः &
तद्वति प्रत्ययान् आहुर् बहुव्रीहिं तथैव च // वाप ३,१४.२३४ //

भिन्नं संबन्धिभेदेन $ संबन्धम् अपरे विदुः &
निमित्तं स विभक्त्यर्थः समासेनाभिधीयते // वाप ३,१४.२३५ //

प्रधानम् अन्यार्थतया $ भिन्नं स्वैर् उपसर्जनैः &
निमित्तम् अब्बिधेयं वा सर्वपश्चाद् अपेक्ष्यते // वाप ३,१४.२३६ //

स्वामिनि व्यतिरेकश् च $ वाक्ये यद्य् अपि दृश्यते &
प्राधान्य एव तस्येष्टो बहुव्रीहिर् विवक्षिते // वाप ३,१४.२३७ //

गवां विशेषणत्वेन $ यदा तद्वान् प्रवर्तते &
अस्यैता इति तत्रार्थे बहुव्रीहिर् न विद्यते // वाप ३,१४.२३८ //

यदा प्रत्यवमर्शस् तु $ तासां स्वामी गवाम् इति &
गोभिस् तदाभिसंबन्धो निमित्तत्वाय कल्पते // वाप ३,१४.२३९ //

अपेक्षमानः संबन्धं $ रूढित्वस्य निवृत्तये &
निमित्तानुविधायित्वात् तद्धर्मार्थः प्रसज्यते // वाप ३,१४.२४० //

नाना चित्रा इति यथा $ निमित्तम् अनुरुध्यते &
नानाभूते ऽपि वृत्तः सन् बहुव्रीहिस् तथा भवेत् // वाप ३,१४.२४१ //

संबन्धिनि निमित्ते तु $ द्रव्यधर्मो न हीयते &
लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते // वाप ३,१४.२४२ //

संख्वावांल् लिङ्गवाम्श् चार्थो $ ऽभिन्नधर्मा, निमित्ततः &
आसन्न एव द्रव्यत्वात् तद्धर्मैर् न विरुध्यते // वाप ३,१४.२४३ //

विभक्त्यर्थेन चाविष्टं $ शुद्धं चेति द्विधा स्थितम् &
द्रव्यं शुद्धस्य यो धर्मः स न स्याद् अन्यधर्मणः // वाप ३,१४.२४४ //

द्रव्यमात्रस्य निर्देशे $ भेदो ऽयम् अविवक्षितः &
ग्रन्थे पूर्वत्र भेदस् तु द्वितीये ऽनुप्रदर्शितः // वाप ३,१४.२४५ //

द्रव्यस्य ग्रहणं चात्र $ लिङ्गसंख्याविशेषणम् &
द्रव्याश्रितत्वं हि तयोस् ततो ऽन्यस्य न सिध्यतः // वाप ३,१४.२४६ //

संबन्धिभिन्नसंबन्ध- $ परिछिन्ने प्रवर्तते &
समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि // वाप ३,१४.२४७ //

द्रव्यधर्मानतिक्रान्तो $ भेदधर्मेष्व् अवस्थितः &
भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते // वाप ३,१४.२४८ //

शास्त्रप्रवृत्तिभेदे ऽपि $ लौकिको ऽर्थो न भिद्यते &
नञ्समसे यतस् तत्र त्रयः पक्षा विचारिताः // वाप ३,१४.२४९ //

शब्दान्तरे ऽपि चैकत्वम् $ आश्रित्यैवं विचारणा &
अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते // वाप ३,१४.२५० //

प्राक् समासात् पदार्थानां $ निवृत्तिर् द्योत्यते नञा &
स्वभावतो निवृत्तानां रूपाभेदाद् अलक्षिता // वाप ३,१४.२५१ //

ब्राह्मणादिस्थया वाक्येष्व् $ आख्यातपदवाच्यया &
क्रियया यस्य संबन्धो वृत्तिस् तस्य न विद्यते // वाप ३,१४.२५२ //

पाचकादिपदस्था चेन् $ नञा संबध्यते क्रिया &
तत्र सत्तानुपादानात् त्रिपक्षी नोपपद्यते // वाप ३,१४.२५३ //

सत्तयैवाभिसंबन्धो $ यदि सर्वत्र कल्प्यते &
असन्न् इति समासे ऽस्मिन् सत्तान्या परिकल्प्यताम् // वाप ३,१४.२५४ //

क्त्वान्ते च तुमुनन्ते च $ नञ्समासे न दृश्यते &
विशेषणविशेष्यत्वं नञासत्ताभिधायिना // वाप ३,१४.२५५ //

क्रियायाः साधनाधार- $ सामान्ये नञ् व्यवस्थितः &
ततो विशिष्टैर् आधारैर् युज्यते ब्राह्मणादिभिः // वाप ३,१४.२५६ //

वृत्तौ यथा गताद्यर्थम् $ उपादाय निरादयः &
युज्यन्ते साधनाधारैर् नञ्समासे ऽपि स क्रमः // वाप ३,१४.२५७ //

तत्रासति नञो वृत्तेर् $ ब्राह्मणक्षत्रियादिभिः &
विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् // वाप ३,१४.२५८ //

कामचारे च सत्य् एवम् $ असतः स्यात् प्रधानता, &
गुणत्वम् इतरेषां च तेषां वा स्यात् प्रधानता // वाप ३,१४.२५९ //

प्राधान्येनाश्रिताः पूर्वं $ श्रुतेः सामान्यवृत्तयः &
विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः // वाप ३,१४.२६० //

यथा गौरादिभिस् तेषाम् $ अवच्छेदो विधीयते &
असताप्य् अनभिव्यक्तं तादात्म्यं व्यज्यते तथा // वाप ३,१४.२६१ //

यथा सत्ताभिधानाय $ सन्न् अर्थः परिकल्प्यते &
तथासत्ताभिधानाय निरुपाख्यो ऽपि कल्पते // वाप ३,१४.२६२ //

क्षत्रियादौ पदं कृत्वा $ बुद्धिः सत्तान्तराश्रया &
जात्या भिन्नां ततः सत्तां प्रसक्ताम् अपकर्षति // वाप ३,१४.२६३ //

अभाव इति भावस्य $ प्रतिषेधे विवक्षिते &
सोपाख्यत्वम् अनाश्रित्य प्रतिषेधो न कल्पते // वाप ३,१४.२६४ //

अनेकधर्मवचनाः $ शब्दाः सङ्घाभिधायिनः &
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः // वाप ३,१४.२६५ //

यथैकदेशकरणात् $ कृत इत्व् अभिधीयते &
अकृतश् चेति संघातः स एवाब्राह्मणे क्रमः // वाप ३,१४.२६६ //

ब्राह्मणो ऽब्राह्मणस् तस्माद् $ उपन्यासात् प्रसज्यते &
अकृते वा कृतासङ्गाद् अविशिष्टं कृताकृतात् // वाप ३,१४.२६७ //

अमुख्यसंभवे तत्र $ मुख्यस्य विनिवृत्तये &
शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः // वाप ३,१४.२६८ //

पदार्थानुपघातेन $ दृश्यते ऽन्यविशेषणम् &
अथ जातिमतो ऽर्थस्य कश् चिद् धर्मो निवर्तितः // वाप ३,१४.२६९ //

अवश्यं ब्राह्मणे कश् चित् $ क्व चिद् धर्मो न विद्यते &
विशेषावचनात् तत्र नञः श्रुतिर् अनर्थिका // वाप ३,१४.२७० //

अविशिष्टस्य पर्यायो $ नञ्विशिष्टः प्रसज्यते &
अन्वाख्यानाद् धि साधुत्वम् एवंभूते प्रतीयते // वाप ३,१४.२७१ //

पदार्थानुपघातेन $ यद्य् अप्य् अत्र विशेषणम् &
उपचारसतो ऽर्थस्य सावस्था द्योत्यते नञा // वाप ३,१४.२७२ //

विशेष्येषु यथाभूतः $ पदार्थः समवस्थितः &
तथाभूते तथाभावो गम्यते भेदहेतुभिः // वाप ३,१४.२७३ //

निवृत्ते ऽवयवस् तस्मिन् $ पदार्थे वर्तते कथम् &
नानिमित्ता हि शब्दस्य प्रवृत्तिर् उपपद्यते // वाप ३,१४.२७४ //

आराच् छब्दवद् एकस्य $ विरुद्धे ऽर्थे स्वभावतः &
शब्दस्य वृत्तिर् यद्य् अस्ति नञः श्रुतिर् अनर्थिका // वाप ३,१४.२७५ //

अथ स्वभावो वचनाद् $ अन्वाख्येयत्वम् अर्हति &
तद् वाच्यम् अप्रसिद्धत्वान् नञार्थो विनिवर्त्यते // वाप ३,१४.२७६ //

यद्य् अप्य् उभयवृत्तित्वं $ प्रधानं तु प्रतीयते &
प्रस्थानं गम्यते शुद्धे तदर्थे ऽपि न तिष्ठतौ // वाप ३,१४.२७७ //

किमर्थम् अतथाभूते $ ऽसति मुख्यार्थसंभवे &
भेदे ब्राह्मणशब्दस्य वृत्तिर् अभ्युपगम्यते // वाप ३,१४.२७८ //

अयं पदार्थ एतस्मिन् $ क्षत्रियादौ न विद्यते &
इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते // वाप ३,१४.२७९ //

बुद्धेर् विषयतां प्राप्ते $ शब्दाद् अर्थे प्रतीयते &
प्रवृत्तिर् वा निवृत्तिर् वा ग्रुत्या ह्य् अर्थो ऽनुसज्यते // वाप ३,१४.२८० //

असम्यगुपदेशाद् वा $ निमित्तात् संशयस्य वा &
शब्दप्रवृत्तिर् न त्व् अस्ति लोष्टादिषु विपर्ययात् // वाप ३,१४.२८१ //

अनेकस्माद् अस इति $ प्राधान्ये सति सिध्यति &
सापेक्षत्वं प्रधानानाम् एवं युक्तं त्वतल्विधौ // वाप ३,१४.२८२ //

एकस्य च प्रधानत्वात् $ तद्विशेषणसंनिधौ &
प्रधानधर्माव्यावृत्तिर् अतो न वचनान्तरम् // वाप ३,१४.२८३ //

प्रधानम् अत्र भेद्यत्वाद् $ एकार्थो विकृतो नञा &
हित्वा स्वधर्मान् वर्तन्ते द्व्यादयो ऽप्य् एकतां गताः // वाप ३,१४.२८४ //

ब्राह्मणत्वं यथापन्ना $ नञ्युक्ताः क्षत्रियादयः &
द्वित्वादिषु तथैकत्वं नञ्योगाद् उपचर्यते // वाप ३,१४.२८५ //

एकत्वयोगम् आसाद्य $ स धर्मः प्रतिषिध्यते &
द्व्यादिभ्यस् तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् // वाप ३,१४.२८६ //

आविष्टसंख्यो वाक्ये ऽसौ $ यथा द्व्यादौ प्रयुज्यते &
वृत्तौ तस्य प्रधानत्वात् सा संख्या न निवर्तते // वाप ३,१४.२८७ //

प्रतिषेध्यो यथाभूतस् $ तथाभूतो ऽनुषज्यते &
वचनान्तरयोगे हि न सो ऽर्थः प्रतिषिध्यते // वाप ३,१४.२८८ //

अशुक्ल इति कृष्णादिर् $ यथार्थः संप्रतीयते &
संख्यान्तरं तथानेक इत्य् अत्राप्य् अभिधीयते // वाप ३,१४.२८९ //

क्रियाप्रसङ्गात् सर्वेषु $ कर्मस्व् अङ्गीकृतेषु च &
एकस्मिन् प्रतिषिद्धे ऽपि प्राप्तम् अन्यत् प्रतीयते // वाप ३,१४.२९० //

क्रियाश्रुतिश् च प्रक्रान्ते $ प्रसज्यप्रतिषेधने &
पर्युदासे तु नियतं संख्येयान्तरम् उच्यते // वाप ३,१४.२९१ //

धात्वर्थः कर्मविषयो $ व्यपदिष्टः स्वसाधनैः &
अर्थात् सर्वाणि कर्माणि प्राग् आक्षिप्यावतिष्ठते // वाप ३,१४.२९२ //

निर्ज्ञातसाधनाधारे $ यत्राख्याते प्रयुज्यते &
अनेक इति पश्चाच् च तिष्ठतीत्य् अनुषज्यते // वाप ३,१४.२९३ //

साध्यत्वात् तत्र सिद्धेन $ क्रिया द्रव्येण लक्ष्यते &
प्राग् एवाङ्गीकृतं द्रव्यम् अतः पूर्वेण भिद्यते // वाप ३,१४.२९४ //

संख्यैव प्रतिषेधेन $ संख्यान्तरम् अपेक्षते &
वाक्ये ऽपि तेन नैकत्व- मात्रम् एव निवर्त्यते // वाप ३,१४.२९५ //

स्नेहान्तराद् अवच्छेदस् $ तथासत्तेः प्रतीयते &
तैलेन भोजने ऽप्राप्ते न त्व् अन्यद् उपसेचनम् // वाप ३,१४.२९६ //

एकार्थे वर्तमानाभ्याम् $ असता ब्राह्मणेन च &
यदा जात्यन्तरं बाह्यं क्षत्रियाद्य् अपदिश्यते // वाप ३,१४.२९७ //

श्यामेव शस्त्री कन्येति $ यथान्यद् व्यपदिश्यते &
असन् ब्राह्मण इत्य् आभ्यां तथान्ये क्षत्रियादयः // वाप ३,१४.२९८ //

असास्नो गौर् इति यथा, $ गवयो व्यपदिश्यते &
जात्यन्तरं न गोर् एव सस्नाभावः प्रतीयते // वाप ३,१४.२९९ //

तुल्यरूपं यथाख्यातं $ कण्टकैर् भेदहेतुभिः &
खदिरं जातिभेदेन खर्जूरात् प्रतिपद्यते // वाप ३,१४.३०० //

अविद्यमानब्राह्मण्यो $ यादृशो ब्राह्मणो भवेत् &
अङ्गीकृतोपमानेन तथान्यो ऽर्थो ऽभिधीयते // वाप ३,१४.३०१ //

अवृष्टयो यथा वर्सा $ नीहाराभ्रसमावृताः &
तद्रूपत्वात् स हेमन्त इत्य् अभिन्नः प्रतीयते // वाप ३,१४.३०२ //

अपरे ब्राह्मणादीनां $ सर्वेषां जातिवाचिनाम् &
द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते // वाप ३,१४.३०३ //

न चैवंविषयः कश् चिद् $ बहुव्रीहिः प्रकल्पते &
अगुर् अश्व इति व्याप्तिर् नञ्समासेन यस्य न // वाप ३,१४.३०४ //

द्वन्द्वैकदेशिनोर् उक्ता $ परवल्लिङ्गता यतः &
अवर्षासु ततो ऽसिद्धिर् इष्टयोर् लिङ्गसंख्ययोः // वाप ३,१४.३०५ //

विशेषणं ब्राह्मणादि $ क्रियासंबन्धिनो ऽसतः &
यदा विषयभिन्नं तत् तदासत्त्वम् प्रतीयते // वाप ३,१४.३०६ //

ब्राह्मणत्वेन चासत्त्वाद् $ उच्यते सत् तद् अन्यथा &
असद् इत्य् अपि सत्त्वेन सतः सत्ता निवर्त्यते // वाप ३,१४.३०७ //

समन्यद्रव्यवृत्तित्वान् $ निमित्तानुविधायिनः &
अयोगो लिङ्गसंख्याभ्यां स्याद् वा सामान्यधर्मता // वाप ३,१४.३०८ //

प्राग् असत्त्वाभिधायित्वं $ समासे द्रव्यवाचिता &
निमित्तानुविधानं च न सर्वत्र स्वभावतः // वाप ३,१४.३०९ //

निमित्तानुविधाने च $ क्रियायोगो न कल्पते &
तथा चाव्यपदेश्यत्वाद् उपादानम् अनर्थकम् // वाप ३,१४.३१० //

असत्सामान्यवृत्तिर् वा $ विशेषैः क्षत्रियादिभिः &
प्रयुक्तैर् आश्रयैर् भिन्नो याति तल्लिङ्गसंख्यताम् // वाप ३,१४.३११ //

प्राग् आश्रयो हि भेदाय $ प्रधाने ऽभ्यन्तरीकृतः &
पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते // वाप ३,१४.३१२ //

समासे श्रूयते स्वार्थो $ येन तद्वांस् तदाश्रयः &
द्रव्यं तु लिङ्गसंख्यावद् असताभ्यन्तरीकृतम् // वाप ३,१४.३१३ //

एकार्थविषयौ शब्दौ $ तस्मिन्न् अन्यार्थवर्तिनौ &
असतैव तु भेदानां सर्वेषाम् उपसंग्रहः // वाप ३,१४.३१४ //

ते क्षत्रियादिभिर् वाच्या $ वाच्या वा सर्वनामभिः &
यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् // वाप ३,१४.३१५ //

विशेषस्याप्रयोगे तु $ लिङ्गसंख्ये न सिध्यतः &
अवर्षादिषु दोसश् च हेमन्तो ऽन्याश्रयो यतः // वाप ३,१४.३१६ //

आकृतिः सर्वशब्दानां $ यदा वाच्या प्रतीयते &
एकत्वाद् एकशब्दत्वं न्याय्यं तस्याश् च वर्ण्यते // वाप ३,१४.३१७ //

आविष्टलिङ्गता तस्यां $ स्याद् ग्राम्यपगुसङ्घवत् &
द्रव्यभेदे ऽपि चैकत्वात् तत्रैकवचनं भवेत् // वाप ३,१४.३१८ //

आश्रयाणां हि लिङ्गैः सा $ नियतैर् एव युज्यते &
तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः // वाप ३,१४.३१९ //

सर्वत्राविष्टलिङ्गत्वं $ लोकलिङ्गपरिग्रहे &
विरोधित्वात् प्रसज्येत नाश्रितं तच् च लौकिकम् // वाप ३,१४.३२० //

सामान्यम् आकृतिर् भावो $ जातिर् इत्य् अत्र लौकिकम् &
लिङ्गं न संभवत्य् एव तेनान्यत् परिगृह्यते // वाप ३,१४.३२१ //

प्रवृत्तिर् इति सामान्यं $ लक्षणं तस्य कथ्यते &
आविर्भावस् तिरोभावः स्थितिश् चेत्य् अथ भिद्यते // वाप ३,१४.३२२ //

प्रवृत्तिमन्तः सर्वे ऽर्थास् $ तिसृभिश् च प्रवृत्तिभिः &
सततं न वियुज्यन्ते वाचश् चैवात्र संभवः // वाप ३,१४.३२३ //

यश् चाप्रवृत्तिधर्मार्थश् $ चितिरूपेण गृह्यते &
अनुयातीव सो ऽन्येषां प्रवृत्तीर् विश्वगाश्रयाः // वाप ३,१४.३२४ //

तेनास्य चितिरूपं च $ चितिकालश् च भिद्यते &
तस्य स्वरूपभेदस् तु न कश् चिद् अपि विद्यते // वाप ३,१४.३२५ //

अचेतनेषु चैतन्यं $ संक्रान्तम् इव दृश्यते &
प्रतिबिम्बकधर्मेण यत् तच् छब्दनिबन्धनम् // वाप ३,१४.३२६ //

अवस्था तादृशी नास्ति $ या लिङ्गेन न युज्यते &
क्व चित् तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति // वाप ३,१४.३२७ //

कृत्तद्धिताभिधेयानां $ भावानां न विरुध्यते &
शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिर् इष्यते // वाप ३,१४.३२८ //

लिङ्गं प्रति न भेदो ऽस्ति $ द्रव्यपक्षे ऽपि कश् चन &
तस्मात् सप्त विकल्पा ये सैवात्राविष्टलिङ्गता // वाप ३,१४.३२९ //

वचने नियमः शास्त्राद् $ द्रव्यस्याभ्युपगम्यते &
यतस् तद् आकृतौ शास्त्रम् अन्यथैव समर्थ्यते // वाप ३,१४.३३० //

वर्तते यो बहुष्व् अर्थो $ ऽभेदे तस्य विवक्षिते &
स्वाश्रयैर् व्यपदिष्टस्य शास्त्रे वचनम् उच्यते // वाप ३,१४.३३१ //

यदा त्व् आश्रयभेदेन $ भेद एव प्रतीयते &
आकृतेर् द्रव्यपक्षेन तदा भेदो न विद्यते // वाप ३,१४.३३२ //

अभेदे त्व् एकशब्दत्वाच् $ छास्त्राच् च वचने सति &
एकशेषो न वक्तव्यो वचनानां च संभवः // वाप ३,१४.३३३ //

ननु चानभिधेयत्वे $ द्रव्यस्य तदपाश्रयः &
आकृतेर् उपकारो ऽयं द्रव्याभावान् न कल्पते // वाप ३,१४.३३४ //

व्यपदेशो ऽभिधेयेन $ न शास्त्रे कश् चिद् आश्रितः &
द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते // वाप ३,१४.३३५ //

गुणभावो ऽभिधेयत्वं $ प्रति द्रव्यस्य नाश्रितः &
उपकारि गुणः शेषः परार्थ इति कल्पना // वाप ३,१४.३३६ //

द्रव्ये न गुणभावो ऽस्ति $ विनाद्रव्याभिधायिताम् &
आकृतौ वा प्रधानत्वम् अत एवं समर्थ्यते // वाप ३,१४.३३७ //

कैश् चिद् गुणप्रधानत्वं $ नामाख्यातवद् इष्यते &
न वृत्तिवत् परार्थस्य गुणभावस् तु वर्ण्यते // वाप ३,१४.३३८ //

गुणभूतस्य नानात्वाद् $ आकृतेर् एकशब्दता &
सिद्धो वचनभेदश् च द्रव्यभेदसमन्वयात् // वाप ३,१४.३३९ //

साधनं गुणभावेन $ क्रियाया भेदकं यथा &
आख्यातेष्व् एकशब्दाया जातेर् द्रव्यं तथोच्यते // वाप ३,१४.३४० //

एकत्वे तुल्यरूपत्वाच् $ छब्दानां प्रतिपादने &
निमित्तात् तद्वतो ऽर्थस्य विशिष्टग्रहणे सति // वाप ३,१४.३४१ //

सो ऽयम् इत्य् अभिसंबन्धाद् $ आश्रयैर् आकृतेः सह &
प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः // वाप ३,१४.३४२ //

प्राक् च जात्यभिसंबन्धात् $ सर्वनामाभिधेयता &
वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः // वाप ३,१४.३४३ //

पाकौ पाका इति यथा $ भेदकः कैश् चिद् आश्रयः &
इष्यते चानुपादानो धर्मो ऽसौ गुणवाचिनाम् // वाप ३,१४.३४४ //

आश्रयस्यानुपादाने $ केवलं लभते यदि &
आधारधर्मान् सामान्यं पुरस्तात् तद् विचारितम् // वाप ३,१४.३४५ //

जातौ पूर्वं प्रवृत्तानां $ शब्दानां जातिवाचिनाम् &
अशब्दवाच्यात् संबन्धाद् व्यक्तिर् अप्य् उपजायते // वाप ३,१४.३४६ //

सो ऽयम् इत्य् अभिसंबन्धाज् $ जातिधर्मोपचर्यते &
द्रव्यं तदाश्रयो भेदो जातेश् चाभ्युपगम्यते // वाप ३,१४.३४७ //

मञ्चशब्दो यथाधेयं $ मञ्चेष्व् एव व्यवस्थितः &
तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते // वाप ३,१४.३४८ //

तत्र जातिपदार्थत्वं $ तथैवाभ्युपगम्यते &
जातिर् उत्सृष्टसंख्या तु द्रव्यात्मन्य् अनुषज्यते // वाप ३,१४.३४९ //

अस्येदम् इति वा यत्र $ सो ऽयम् इत्य् अपि वा श्रुतिः &
वर्तते परधर्मेण तद् अन्यद् अभिधीयते // वाप ३,१४.३५० //

यत् प्रधानं न तस्यास्ति $ स्वरूपम् अनिरूपनात् &
गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते // वाप ३,१४.३५१ //

गुणस्य भेदकाले तु $ प्राधान्यम् उपजायते &
संसर्गश्रुतिर् अर्थेषु साक्षाद् एव न वर्तते // वाप ३,१४.३५२ //

जातौ वृत्तो यदा द्रव्ये $ स शब्दो वर्तते पुनः &
जातेर् एव पदार्थत्वं न तदाभ्युपगम्यते // वाप ३,१४.३५३ //

प्रवृत्तानां पुनर् वृत्तिर् $ एकत्वेनोपवर्ण्यते &
प्रतिपत्तेर् उपायेषु न तत्त्वम् अनुगम्यते // वाप ३,१४.३५४ //

अपृथक्शब्दवाच्यस्य $ जातिर् आश्रीयते यदा &
द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता // वाप ३,१४.३५५ //

द्रव्यस्य सति संस्पर्शे $ द्रव्यम् आश्रीयते यदा &
वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता // वाप ३,१४.३५६ //

अपृथक्शब्दवाच्यापि $ भेदमात्रे प्रवर्तते &
यदा संबन्धवज् जातिः सापि द्रव्यपदार्थता // वाप ३,१४.३५७ //

अत्यन्तभिन्नयोर् एव $ जातिद्रव्याभिधायिनोः &
अवाच्यस्योपकारित्व आश्रिते तूभयार्थता // वाप ३,१४.३५८ //

आश्रिते त्व् आश्रयकृतं $ भेदम् अभ्युपगच्छता &
पुनश् चाप्य् एकशब्दत्वं जातिशब्दे ऽनुवर्णितम् // वाप ३,१४.३५९ //

अनिर्जातस्य निर्ज्ञानं $ येन तन् मानम् उच्यते &
प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते // वाप ३,१४.३६० //

अनिर्ज्ञातं प्रसिद्धेन $ येन तद्धर्म गम्यते &
साकल्येनापरिज्ञानाद् उपमानं तद् उच्यते // वाप ३,१४.३६१ //

द्वयोः समानयोर् धर्म $ उपमानोपमेययोः &
समास उपमानानां शब्दैस् तदभिधायिभिः // वाप ३,१४.३६२ //

आधारभेदाद् भेदो यः $ श्यामत्वे सो ऽविवक्षितः &
गुणो ऽसाव् आश्रितैकत्वो भिन्नाधारः प्रतीयते // वाप ३,१४.३६३ //

गुणयोर् नियतो भेदो $ गुणजातेस् तथैकता &
एकत्वे ऽत्यन्तभेदे वा, नोपमानस्य संभवः // वाप ३,१४.३६४ //

जातिमात्रव्यपेक्षायाम् $ उपमार्थो न कश् चन &
श्यामत्वम् एकं गुणयोर् उभयोर् अपि वर्तते // वाप ३,१४.३६५ //

येनैव हेतुना श्यामा $ शस्त्री तत्र प्रतीयते &
स हेतुर् देवदत्तायाः प्रत्यये न विशिष्यते // वाप ३,१४.३६६ //

आश्रयाद् यो गुणे भेदो $ जातेर् या चाविशिष्टता &
ताभ्याम् उभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते // वाप ३,१४.३६७ //

सो ऽयम् एकत्वनानात्वे $ व्यवहारः समाश्रितः &
भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते // वाप ३,१४.३६८ //

श्यामेत्य् एवाभिधियेत $ जातिमात्रे विवक्षिते &
शस्त्र्यादिनाम् उपादाने तत्र नास्ति प्रयोजनम् // वाप ३,१४.३६९ //

अशब्दवाच्यो यो भेदः $ श्याममात्रे न वर्तते &
श्यामेषु केषु चिद् वृत्तिर् यस्य सो ऽत्र व्यपेक्ष्यते // वाप ३,१४.३७० //

श्यामेषु केषु चित् किं चित् $ किं चित् सर्वत्र वर्तते &
सामान्यं कश् चिद् एकस्मिञ् छ्यामे भेदो व्यवस्थितः // वाप ३,१४.३७१ //

तथा हि सति सौरभ्ये $ भेदो जात्युत्पलादिषु &
गन्धानां सति भेदे तु सादृश्यम् उपलभ्यते // वाप ३,१४.३७२ //

गुणानाम् आश्रयाद् भेदः $ स्वतो वाप्य् अनुगम्यते &
अनिर्देश्याद् विशेषाद् वा संकराद् वा गुणान्तरैः // वाप ३,१४.३७३ //

उपमानं प्रसिद्धत्वात् $ सर्वत्र व्यतिरिच्यते &
उपमेयत्वम् आधिक्ये साम्ये वा न निवर्तते // वाप ३,१४.३७४ //

अन्यैस् तु मानं जात्यादि $ भेद्यस्यार्थस्य वर्ण्यते &
अनिर्ज्ञातस्वरूपो हि ज्ञेयो ऽर्थस् तेन मीयते // वाप ३,१४.३७५ //

मितस् तु स्वेन मानेन $ प्रसिद्धो यो गुणाश्रयः &
आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते // वाप ३,१४.३७६ //

रूपान्तरेण संस्पर्शो $ रूपान्तरवतां सताम् &
भिन्नेन यस्य भेद्यानाम् उपमानं तद् उच्यते // वाप ३,१४.३७७ //

धर्मः समानः श्यामादिर् $ उपमानोपमेययोः &
आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते // वाप ३,१४.३७८ //

शस्त्रीकुमार्योः सदृशः $ श्याम इत्य् एवम् आश्रिते &
व्यपदेश्यम् अनेनेति निमित्तं गुणयोः स्थितम् // वाप ३,१४.३७९ //

यदा निमित्तैस् तद्वन्तो $ गच्छन्तीव तदात्मताम् &
भेदाश्रयं तदाख्यानम् उपमानोपमेययोः // वाप ३,१४.३८० //

तत्त्वासङ्गविवक्षायां $ येषु भेदो निवर्तते &
लुप्तोपमानि तान्य् आहुस् तद्धर्मेण समाश्रयात् // वाप ३,१४.३८१ //

शस्त्र्यां प्रसिद्धं श्यामत्वं $ मानं सा तेन मीयते &
अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते // वाप ३,१४.३८२ //

शस्त्रिं स्वेन गुणेनातो $ मिमानाम् आश्रयान्तरम् &
असमाप्तगुणं सिद्धेर् उपमानं प्रचक्षते // वाप ३,१४.३८३ //

उपमेये स्थितो धर्मः $ श्रुतो ऽन्यत्रानुमीयते &
श्रुतो ऽथ वोपमानस्थ उपमेये ऽनुमियते // वाप ३,१४.३८४ //

अधीयते ब्राह्मणवत् $ क्षत्रिया इति दृश्यते &
उपमेयस्य भिन्नत्वाद् वचनं क्षत्रियाश्रयम् // वाप ३,१४.३८५ //

साधारणं ब्रुवन् धर्म $ क्व चिद् एव व्यवस्थितम् &
सामान्यवचनः शब्द इति सूत्रे ऽपदिश्यते // वाप ३,१४.३८६ //

नाभेदेन न भेदेन $ गुणो द्विष्ठो ऽभिधीयते &
भिन्नयोर् धर्मयोर् एकः श्रूयते ऽन्यः प्रतीयते // वाप ३,१४.३८७ //

नात्यन्ताय मिमीते यत् $ सामान्ये समवस्थितम् &
सादृश्याद् उपमेयार्थ- समीपे परिकल्प्यते // वाप ३,१४.३८८ //

मानं प्रति समीपं वा $ सादृश्येन प्रतीयते &
परिच्छेदाद् धि सादृश्यम् इह मानोपमानयोः // वाप ३,१४.३८९ //

एकजातिव्यपेक्षायां $ तद् एवेत्य् अवसीयते &
भेदस्यैव व्यपेक्षायाम् अन्यद् एवेति गम्यते // वाप ३,१४.३९० //

कर्मत्वं करणत्वं च $ भेदेनैवाश्रितं यतः &
अत्यन्तैकत्वविषयो न स्यात् तेनात्र सम्शयः // वाप ३,१४.३९१ //

भेदे ऽपि तुल्यरूपत्वाच् $ छालीम्ं तान् इति दृश्यते &
जात्यभेदात् स एवायम् इति भिन्नो ऽभिधीयते // वाप ३,१४.३९२ //

कथं ह्य् अवयवो ऽन्यस्य $ स्याद् अन्य इति चोच्यते &
अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते // वाप ३,१४.३९३ //

अभेदस्य विवक्षायाम् $ एकत्वं सङ्घसङ्घिनोः &
सङ्घिनोर् न त्व् अभेदो ऽस्ति तथान्यत्वम् उदाहृतम् // वाप ३,१४.३९४ //

तत्राभिन्नव्यपेक्षायाम् $ उपमार्थो न विद्यते &
यो हि गौर् इति विज्ञाने हेतुः सो ऽस्ति गवान्तरे // वाप ३,१४.३९५ //

व्यावृत्तानां विशेषाणां $ व्यापारे तु विवक्षिते &
न कश् चिद् उपकारो ऽस्ति बुद्धेर् बुद्ध्यन्तरं प्रति // वाप ३,१४.३९६ //

किं चिद् यत्रास्ति सामान्यं $ यदि भेदाश् च के चन &
गोत्वं गोष्व् अस्ति सामान्यं भेदाश् च शबलादयः // वाप ३,१४.३९७ //

सामान्यं श्यामतान्यैव $ तद् धि साधारणं द्वयोः &
तद् एव सिद्ध्यसिद्धिभ्यां भेद इत्य् अपदिश्यते // वाप ३,१४.३९८ //

श्यामत्वम् एव सामान्यम् $ अन्येषाम् उभयोः स्थितम् &
संपूर्नत्वात् तद् अन्यस्माद् विशेष इति गम्यते // वाप ३,१४.३९९ //

आकृतौ वापि सामान्ये $ क्व चिद् एव व्यवस्थिताः &
श्यामादौ ये ऽवसीयन्ते विशेषास् त इहाश्रिताः // वाप ३,१४.४०० //

जातेर् अभेदे भेदे वा $ सादृश्यं तत् प्रचक्षते &
कश् चित् कदा चित् अर्थात्मा तथाभूतो ऽपदिश्यते // वाप ३,१४.४०१ //

यत्रार्थे प्रत्ययाभेदो $ न कदा चिद् विकल्पते &
अविद्यमानभेदत्वात् स एक इति गम्यते // वाप ३,१४.४०२ //

यो ऽर्थ आश्रितनानात्वः $ स एवेत्य् अपदिश्यते &
व्यापारं जातिभागस्य तत्रापि प्रतिजानते // वाप ३,१४.४०३ //

जातिभागाश्रया प्रख्या $ तत्राभिन्ना प्रवर्तते &
व्यक्तिभागाश्रया बुद्धिस् तत्र भेदेन जायते // वाप ३,१४.४०४ //

अन्यत्र वर्तमानं सद् $ भेदाभेदसमन्वितम् &
निमित्तं पुनर् अन्यत्र नानात्वेनेव गृह्यते // वाप ३,१४.४०५ //

आधारेषु पदन्यासं $ कृत्वोपैति तदाश्रयम् &
स सादृश्यस्य विषय इत्य् अन्यैर् अपदिश्यते // वाप ३,१४.४०६ //

परापेक्षे यथा भावे $ कारणाख्या प्रवर्तते &
तथान्याधिगमापेक्षम् उपमानं प्रचक्षते // वाप ३,१४.४०७ //

गुरुगिश्यपितापुत्र- $ क्रियाकालादयो यथा &
व्यवहारास् तथौपम्यम् अप्य् अपेक्षानिबन्धनम् // वाप ३,१४.४०८ //

श्यामत्वम् उपमाने चेद् $ वृत्तं वृत्तौ प्रयुज्यते &
उपमेयं समासेन बाह्यं तत्राभिधीयते // वाप ३,१४.४०९ //

टाबन्त एव चैत्रादौ $ श्यामाशब्दस् तथा भवेत् &
सूत्रे च प्रथमाभावान् न श्यामाद्युपसर्जनम् // वाप ३,१४.४१० //

अथ त्व् एकविभक्तित्वाद् $ गुणत्वाद् वोपसर्जनम् &
नैवं तित्तिरिकल्माष्याम् इष्टः स्त्रीप्रत्ययो भवेत् // वाप ३,१४.४११ //

सतिशिष्टबलीयस्त्वाद् $ बाह्ये ङिषि च सत्य् अपि &
उपमानस्वरो न स्यात् तस्मात् स्त्र्यन्तः समस्यते // वाप ३,१४.४१२ //

गुणे न चोपमानस्थे $ सापेक्षत्वं प्रकल्पते &
प्रधानस्य तथा न स्याद् व्याघ्रादौ लिङ्गदर्शनम् // वाप ३,१४.४१३ //

तस्मात् सति गुणत्वे ऽपि $ प्राधान्यं विग्रहान्तरे &
नैवंजातीयकं शास्त्रे संभवत्य् उपसर्जनम् // वाप ३,१४.४१४ //

उपमेयात्मनि श्यामो $ वर्तमानो ऽभिधीयते &
उपमानेष्व् अनिर्दिष्टः सामर्थ्यात् स प्रतीयते // वाप ३,१४.४१५ //

द्रव्यमात्रे ऽपि निर्दिष्टे $ चन्द्रवक्त्रे ऽनुगम्यते &
विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः // वाप ३,१४.४१६ //

भेदभावनयैतच् च $ समासे ऽप्य् उपवर्ण्यते &
विशिष्टगुणभिन्ने ऽर्थे पदम् अन्यत् प्रयुज्यते // वाप ३,१४.४१७ //

यदि भिन्नाधिकरणो $ वचनाद् अनुगम्यते &
मृगीव चपलेत्य् अत्र पुंवद्भावो न सिध्यति // वाप ३,१४.४१८ //

अस्त्रीपूर्वपदत्वात् तु $ पुंवद्भावो भविष्यति &
यथैव मृगदुग्धादौ न चेत् स्त्र्यर्थो विवक्ष्यते // वाप ३,१४.४१९ //

शस्त्रीव शस्त्रीश्यामेति $ देवदत्तैव कथ्यते &
तस्याम् एवोभयं तस्माद् उच्यते शास्त्रविग्रहे // वाप ३,१४.४२० //

पुंवद्भावस्य सिद्ध्यर्थं $ पक्षे स्त्रीप्रत्ययस्य च &
बह्व् अपेक्ष्यम् अतस् तस्याम् उभयप्रतिपादनम् // वाप ३,१४.४२१ //

श्यामा शस्त्री यथा श्यामा $ शस्त्रीकल्पेति चोच्यते &
तत्रोपमानेतरयोः श्यामेत्य् एतद् अपेक्ष्यते // वाप ३,१४.४२२ //

अथ श्यामेव शस्त्रीयं $ श्यामेत्य् एवं प्रयुज्यते &
शस्त्री यथेयम् श्यामेति तावद् एव प्रतीयते // वाप ३,१४.४२३ //

उपलक्षणमात्रार्था $ गुणस्यास्य यदि श्रुतिः &
पृथग् द्वयोः श्रुतो ऽप्य् एष नेष्टस्वार्थस्य वाचकः // वाप ३,१४.४२४ //

उपमेयं तु यद् वाच्यं $ तस्य चेत् प्रतिपादने &
सव्यापारा गुणास् तत्र सर्वस्योक्तिः सकृच्छ्रुतौ // वाप ३,१४.४२५ //

प्रकाराधारभेदेन $ विशेषे समवस्थितः &
शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् // वाप ३,१४.४२६ //

सादृश्यमात्रं सामान्यं $ द्विष्ठं कैश् चित् प्रतीयते &
गुणो भेदे ऽप्य् अभेदेन द्विवृत्तिर् वा विवक्षितः // वाप ३,१४.४२७ //

व्यापारो जातिभागस्य $ द्रव्ययोर् वाभिधित्सितः &
रूपात् सामान्यवाचित्वं प्राग् वा वृत्तेर् उदाहृतम् // वाप ३,१४.४२८ //

व्याघ्रशब्दो यदा शौर्यात् $ पुरुषार्थे ऽवतिष्ठते &
तदाधिकरणाभेदात् समासस्यास्ति संभवः // वाप ३,१४.४२९ //

शूरशब्दप्रयोगे तु $ व्याघ्रशब्दो मृगे स्थितः &
भिन्ने ऽधिकरणे वृत्तेस् तत्र नैवास्ति संभवः // वाप ३,१४.४३० //

सामानाधिकरण्ये ऽपि $ गुणभेदस्य संभवात् &
प्रयोगः शूरशब्दस्य समासे ऽप्य् अनुषज्यते // वाप ३,१४.४३१ //

पूजोपाधिश् च यो दृष्टः $ कुत्सनोपाधयश् च ये &
तेषां भिन्ननिमित्तत्वान् नियमार्था पुनः श्रुतिः // वाप ३,१४.४३२ //

असंभवे ऽपि वा वृत्तेः $ स्याद् एतल् लिङ्गदर्शनम् &
अच्वेर् इति यथा लिङ्गम् अभावे ऽपि भृशादिषु // वाप ३,१४.४३३ //

वत्यन्तावयवे वाक्ये $ यद् औपम्यं प्रतीयते &
तत्प्रत्ययविधौ सूत्रे निर्देशो ऽयं विचार्यते // वाप ३,१४.४३४ //

क्रियेत्य् उपाधिः प्राथम्यात् $ प्रकृत्यर्थस्य यद्य् अपि &
न प्रातिपदिकं तत्र क्रियावाच्य् उपपद्यते // वाप ३,१४.४३५ //

सत्त्ववृत्तस्य शेषे वा $ तृतीया साधने ऽपि वा &
तिङाम् असत्त्ववाचित्वाद् उभयं तन् न विद्यते // वाप ३,१४.४३६ //

पाकादयस् तृतीयान्ताः $ सत्त्वधर्मसमन्वयात् &
न क्रियेत्य् अपदिश्यन्ते कृत्वो ऽर्थप्रत्यये यथा // वाप ३,१४.४३७ //

ये चाव्ययकृतः के चित् $ क्रियाधर्मसमन्विताः &
तेषाम् असत्त्ववाचित्वं तिङन्तैर् न विशिष्यते // वाप ३,१४.४३८ //

कृत्वसुज्विषया यापि $ शयितव्यादिषु क्रिया &
उपमानोपमेयत्वं तत्रात्यन्तम् असंभवि // वाप ३,१४.४३९ //

न केवलौ द्रव्यगुणौ $ तद्वान् वाप्य् उपमीयते &
शयितव्यादिभिस् तेषु नोपमार्थो ऽस्ति कश् चन // वाप ३,१४.४४० //

उपमानोपमेयत्वे $ द्रव्ये चानुक्तधर्मिणि &
निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः // वाप ३,१४.४४१ //

होतव्यसदृशो होतेत्य् $ अत्राप्य् अर्थो न विद्यते &
विरोधात् क्रियया तस्मात् क्रियावान् नोपमीयते // वाप ३,१४.४४२ //

क्रिया समानजातिया $ तद्भावान् नोपमीयते &
जातिभेदे ऽपि पाकेन भिन्नाः पाकादयः क्रियाः // वाप ३,१४.४४३ //

आधारभेदाद् भिन्नायाम् $ उपमानस्य संभवः &
अध्येतव्येन विप्राणां तुल्यम् अध्ययनं विशाम् // वाप ३,१४.४४४ //

अर्थात् प्रकरणाद् वापि $ यत्रापेक्ष्यं प्रतीयते &
सामर्थ्याद् अनपेक्षस्य तस्य वृत्तिः प्रसज्यते // वाप ३,१४.४४५ //

तैलपाकेन तुल्ये च $ घृतपाके विवक्षिते &
क्रियावद् अपि कार्याणां दर्शनात् प्रत्ययो भवेत् // वाप ३,१४.४४६ //

अतिङ्ग्रहणम् एवं तु $ समासस्य निवर्तकम् &
गमनं कारकस्येति ण्वुल्य् अन्यस्मिन् न संभवेत् // वाप ३,१४.४४७ //

सर्वस्य परिहारार्थं $ समुदायत्वम् आश्रितम् &
शुद्धायाः संभवान् न स्यात् क्रियाया ब्राह्मणादिषु // वाप ३,१४.४४८ //

उपमानविवक्षायां $ स्वधर्मश् च निवर्तते &
क्रियाया न श्रुताद् यस्माद् उपमानं समाप्यते // वाप ३,१४.४४९ //

तृतीयो ऽप्य् आश्रितो भेदो $ धर्मः साधारणो द्वयोः &
व्यापारवान् न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते // वाप ३,१४.४५० //

द्रव्ये वापि क्रियायां वा $ निमित्तात् तत् प्रकल्पते &
क्रियाणां विद्यमानत्वाद् वृत्तिर् न स्याद् गवादिषु // वाप ३,१४.४५१ //

अभावात् केवलायास् तु $ तद्वान् अर्थः प्रतीयते &
प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः // वाप ३,१४.४५२ //

क्रियान्तरेषु सापेक्षाः $ क्रियाशब्दाः क्रियान्तरे &
उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः // वाप ३,१४.४५३ //

यथा प्रकर्षः सर्वत्र $ निमित्तान्तरहेतुकः &
द्रव्यवद् गुणशब्दे ऽपि स निमित्तम् अपेक्षते // वाप ३,१४.४५४ //

यो य उच्चार्यते शब्दः $ स स्वरूपनिबन्धनः &
यथा तथोपमानेषु व्यपेक्ष न निवर्तते // वाप ३,१४.४५५ //

क्रियावृत्तेस् तृतीयान्तस्य्- $ ऐवं चासंभवे सति &
प्रसिद्धन्यायकरणो भाष्ये युजिर् उदाहृतः // वाप ३,१४.४५६ //

अन्तर्भूते तु करणे $ प्रयोगो न पुनर् भवेत् &
न्यायेनायुक्तम् इत्य् अत्र जीवतौ प्राणकर्मवत् // वाप ३,१४.४५७ //

शास्त्राभ्यासाच् च भेदो ऽयम् $ अयुक्तम् इति वर्ण्यते &
अशोभनम् असंबद्धम् इति रूढिर् व्यवस्थिता // वाप ३,१४.४५८ //

विविभक्तिः प्रकृत्यर्थं $ प्रत्य् उपाधिः कथं भवेत् &
विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् // वाप ३,१४.४५९ //

विभक्त्यन्तरयोगो हि $ यस्य तद् विषयान्तरे &
विभक्त्यन्तरसंबन्धः सामर्थ्याद् अनुमीयते // वाप ३,१४.४६० //

सारूप्यात् तु तद् एवेदम् $ इति तत्रोपचर्यते &
शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तद् अश्रुतम् // वाप ३,१४.४६१ //

प्रकृतिश् चेत् तृतीयान्ता $ तेनेत्य् अस्मात् प्रतीयते &
क्रियेति प्रथमान्ता सा कथं भवितुम् अर्हति // वाप ३,१४.४६२ //

क्रिययेति तृतीया च $ प्रयोगे कस्य कल्प्यताम् &
तेनेत्य् अस्य हि संबन्धः सूत्रस्थेन न विद्यते // वाप ३,१४.४६३ //

सोपस्कारेषु सूत्रेषु $ वाक्यशेषः समर्थ्यते &
तेन यत् तत् तृतीयान्तं क्रिया चेत् सेति गम्यते // वाप ३,१४.४६४ //

उपाधेः कस्य चिद् वाक्ये $ प्रयोग उपलभ्यते &
प्रतीयमानधर्मान्यो न कदा चित् प्रयुज्यते // वाप ३,१४.४६५ //

नीलम् उत्पलम् इत्य् अत्र $ न विशेष्ये न भेदके &
कश् चित् तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते // वाप ३,१४.४६६ //

अत्यन्तानुगमात् तत्र $ न सूत्रे न च विग्रहे &
विभक्तिपरिणामेन किं चिद् अस्ति प्रयोजनम् // वाप ३,१४.४६७ //

तृतीयान्तं क्रियेत्य् एतद् $ विग्रहे न प्रयुज्यते &
यथा दण्डः प्रहरणं क्रीडायाम् इति दृश्यते // वाप ३,१४.४६८ //

घविधौ यच् च संज्ञायाम् $ इति सूत्र उदाहृतम् &
उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते // वाप ३,१४.४६९ //

यैर् अप्रयुक्तैः संस्कारः $ प्रधानेषु प्रतीयते &
ते भेदे ऽपि विभक्तीनां निर्दिश्यन्त उपाधयः // वाप ३,१४.४७० //

समुदायेषु वर्तन्ते $ भावानां सहचारिणाम् &
शब्दास् तत् त्व् अविवक्षायां समुच्चयविकल्पयोः // वाप ३,१४.४७१ //

समुच्चयस् तु क्रियते $ येषु प्रत्यर्थवृत्तिषु &
भेदाधिष्ठानया योगस् तेसां भवति संख्यया // वाप ३,१४.४७२ //

सर्वैर् विशिष्टास् तैर् अर्थैर् $ जन्यन्ते सहचारिभिः &
बुद्धयः प्रतिपत्तॄणां शब्दार्थांस् तान् अतो विदुः // वाप ३,१४.४७३ //

संसृष्टाः प्रत्ययेष्व् अर्थाः $ सर्व एवोपकारिनः &
तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता // वाप ३,१४.४७४ //

केवलानां तु भावानां $ न रूपम् अवधार्यते &
अनिरूपितरूपेषु तेषु शब्दो न वर्तते // वाप ३,१४.४७५ //

पूर्वशब्दप्रयोगाच् च $ समूहान् न निवर्तते &
वर्तते ऽवयवे नापि नोपात्तं त्यजते क्व चित् // वाप ३,१४.४७६ //

समुदायाभिधायि च $ यदि भेदं विशेषयेत् &
तत्रातुल्यविभक्तित्वं पूर्वकायादिवद् भवेत् // वाप ३,१४.४७७ //

समूहे च प्रदेशे च $ पञ्चाला इति दृश्यते &
तथा विशेषणं सर्व इत्य् एतद् उपपद्यते // वाप ३,१४.४७८ //

तथार्धपिप्पलीत्य् अत्र $ जात्यन्तरनिवृत्तये &
अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते // वाप ३,१४.४७९ //

पञ्चालानां प्रदेशो ऽपि $ भिन्नो जनपदान्तरात् &
तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते // वाप ३,१४.४८० //

प्रसिद्धास् तु विशेषेण $ समुदाये व्यवस्थिताः &
प्रदेशे दर्शनं तेषाम् अर्थप्रकरणादिभिः // वाप ३,१४.४८१ //

यद् उपव्यञ्जनं जातेः $ सहचारि च कर्मसु &
तत्र वा रूढसंबन्धं यत् प्रायेणोपलक्षितम् // वाप ३,१४.४८२ //

समुदायः प्रदेशो वेत्य् $ एवं तस्मिन्न् अनाश्रिते &
अर्थात्मन्य् अविशेषेण वर्तन्ते ब्राह्मणादयः // वाप ३,१४.४८३ //

यश् च तुल्यश्रुतिर् दृष्टः $ समुदाये व्यवस्थितः &
तेनोपचरितैकत्वं प्रदेशे ऽप्य् उपलभ्यते // वाप ३,१४.४८४ //

संस्काराद् उपघाताद् वा $ वृत्तो ऽक्तपरिमाणके &
तैलादौ जातिशब्दो ऽत्र सामर्थ्याद् अवसीयते // वाप ३,१४.४८५ //

न जातिगुणशब्देषु $ मूर्तिभेदो विवक्षितः &
ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः // वाप ३,१४.४८६ //

कृष्णादिव्यपदेशश् च $ सर्वावयववृत्तिभिः &
गुणैस् ते ऽप्य् एकदेशस्थाः पटादीनां विशेषकाः // वाप ३,१४.४८७ //

पटावयववृत्तास् तु $ यदा तत्र पटादयः &
तदा तैलादिवत् तेषां जातिशब्दत्वम् उच्यते // वाप ३,१४.४८८ //

निवृत्त्यर्था श्रुतिर् येषां $ भेदस् तेष्व् अनपेक्षितः &
प्रदेशे समुदाये वा गुणो ऽन्येषां निवर्तकः // वाप ३,१४.४८९ //

ब्राह्मणाध्ययने तत्र $ वर्तते ब्राह्मणश्रुतिः &
सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः // वाप ३,१४.४९० //

ब्राह्मणाध्ययने वृत्तिर् $ यदि स्याद् ब्राह्मणश्रुतेः &
वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोर् इति // वाप ३,१४.४९१ //

अध्येतरि यदा वृत्तिर् $ उच्यते ब्राह्मणश्रुतेः &
निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता // वाप ३,१४.४९२ //

सिम्हशब्देन संबन्धे $ गौर्यमात्राभिधायिना &
चैत्रात् षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर् यथा // वाप ३,१४.४९३ //

ब्राह्मणायेव दातव्यं $ वैश्यायेत्य् एवमादिषु &
संप्रदानादियोगश् च क्रियामात्रे न कल्पते // वाप ३,१४.४९४ //

क्रियामात्राभिधायित्वाद् $ अव्ययेषु वतेर् न च &
पाठः कदा चित् कर्तव्यस् तुल्यौ पक्षाव् उभौ यतः // वाप ३,१४.४९५ //

जहाति जातिं द्रव्यं वा $ तस्मान् नावयवे स्थितः &
क्रियायास् तु श्रुतिर् यस्मात् तद्वत्य् अर्थे ऽवतिष्ठते // वाप ३,१४.४९६ //

अक्रियाणां निवृत्त्यर्था, $ यतश् चात्र क्रियाश्रुतिः &
क्रियोपलक्षिते तस्मात् क्रियाशब्दः प्रतीयते // वाप ३,१४.४९७ //

होतव्यादिषु यस्माच् च $ क्रियान्या ब्राह्मणादिवत् &
अपेक्षणीया शुद्धे ऽर्थे तस्माद् वृत्तिर् न कस्य चित् // वाप ३,१४.४९८ //

सर्वं वाप्य् एकदेशो वा $ यस्मिन्न् आश्रियते क्व चित् &
विशेषवृत्तिं तं सर्वम् आहुर् भेदे व्यवस्थितम् // वाप ३,१४.४९९ //

समुच्चयो विकल्पो वा $ प्रकाराः सर्व एव वा &
विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् // वाप ३,१४.५०० //

न हि ब्राह्मण इत्य् अत्र $ भेदः कश् चिद् अपाश्रितः &
अपाकृतो वा तेनायं समुदाये व्यवस्थितः // वाप ३,१४.५०१ //

क्रिया त्व् आश्रीयते यस्मिन् $ स भेदो ऽध्यवसीयते &
तथान्यथा सर्वथा चेत्य् अप्रयोगे न विद्यते // वाप ३,१४.५०२ //

उपमाने क्रियावृत्तिम् $ उपमेये क्रियाश्रुतिः &
प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् // वाप ३,१४.५०३ //

व्यापारेणैव सादृश्ये $ व्यापारस्य विवक्षिते &
क्रियावद्वचनाच् छब्दात् प्रत्ययः प्रतिपाद्यते // वाप ३,१४.५०४ //

क्रियावतो ऽपि सादृश्ये $ वक्तुम् इष्टे क्रियावता &
अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते // वाप ३,१४.५०५ //

अधीते तुल्य इत्य् एवं $ पुंल्लिङ्गेन विशेषणम् &
क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् // वाप ३,१४.५०६ //

प्रकृत्यर्थे विशिष्टे ऽपि $ प्रत्ययार्थाविशेषणात् &
पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते // वाप ३,१४.५०७ //

याः पुत्रे रूढसंबन्धाः $ क्रिया लोके विवक्षिताः &
ताभिः क्रियावतः पुत्राद् गुणतुल्ये वतिर् भवेत् // वाप ३,१४.५०८ //

अन्तर्भूतं निमित्तं च $ रूढिशब्देषु यद्य् अपि &
क्रियास् तु सहचारिण्यो रूढाः सन्ति पदार्थवत् // वाप ३,१४.५०९ //

क्रमं तु यदि बाधित्वा $ प्रत्ययार्थविशेषणम् &
प्रधानानुग्रहात् साम्याद् विभक्तेश् चावतिष्ठते // वाप ३,१४.५१० //

प्रकृतेर् अविशिष्टत्वात् $ क्रियातुल्ये प्रसज्यते &
पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये // वाप ३,१४.५११ //

स्थूलेन तुल्यो यातीति $ बहिरङ्गा क्रियाश्रुतिः &
अनिमित्तं वतेस् तुल्यं यातीत्य् अत्रेष्यते वतिः // वाप ३,१४.५१२ //

द्वयं विशेष्यते तेन $ यद् एकत्र विशेषणं &
तुल्यशब्दो हि तं धर्मम् उभयस्थम् अपेक्षते // वाप ३,१४.५१३ //

एकः समानो धर्मश् चेद् $ उपमानोपमेययोः &
तुलया संमितं तुल्यम् इति तत्रोपपद्यते // वाप ३,१४.५१४ //

सूत्रे श्रुतश् च द्विष्ठो ऽसाव् $ अभेदेन प्रतीयते &
न च सामान्यशब्दत्वाद् अश्रुता गम्यते क्रिया // वाप ३,१४.५१५ //

अश्रुताश् च प्रतीयन्ते $ निदेशस्थायितादयः &
ये धर्मा नियतास् तेषां पुत्रादिषु न विद्यते // वाप ३,१४.५१६ //

अनाश्रितक्रियस् तस्मान् $ न तुल्यो ऽस्ति क्रियावता &
क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते // वाप ३,१४.५१७ //

द्वयोः प्रतिविधानाच् च $ ज्यायस्त्वम् अभिधीयते &
नित्यासत्त्वाभिधायित्वात् प्रत्ययार्थविशेषणे // वाप ३,१४.५१८ //

असत्त्वभूतो व्यापारः $ केवलः प्रत्यये यतः &
विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः // वाप ३,१४.५१९ //

क्रियावतस् तु ग्रहणात् $ प्रकृत्यर्थविशेषणे &
क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता // वाप ३,१४.५२० //

यदा क्रियानिमित्तं तु $ सादृश्यं स्यात् क्रियावतोः &
क्रियावतो ऽभिधेयत्वात् तदा द्रव्याभिधायिता // वाप ३,१४.५२१ //

अव्ययेषु वतेः पाठः $ कार्यस् तत्र स्वरादिवत् &
ब्राह्मणेन समो ऽध्येतेत्य् अत्र च प्रत्ययो भवेत् // वाप ३,१४.५२२ //

सामानाधिकरण्यं च $ वत्यर्थेनापदिश्यते &
तुल्यम् इत्य् अन्यथा कल्प्यो वाक्यशेषो ऽश्रुतो भवेत् // वाप ३,१४.५२३ //

क्रियावतोश् च सादृश्ये $ प्रत्ययार्थविशेषणे &
अध्येत्रा सदृशो ऽध्येतेत्य् अत्र नास्ति वतेर् विधिः // वाप ३,१४.५२४ //

तुल्यार्थैर् इति या तस्यास् $ तृतीयाया न भिद्यते &
अर्थो भेदे ऽपि सर्वाभिर् इतराभिर् विभक्तिभिः // वाप ३,१४.५२५ //

भोज्यते ब्राह्मण इव $ तुल्यं भुक्तं द्विजातिना &
पश्यति ब्राह्मणम् इव तुल्यं विप्रेण पश्यति // वाप ३,१४.५२६ //

ब्राह्मणेनेव विज्ञातं $ तुल्यं ज्ञातं द्विजातिना &
दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् // वाप ३,१४.५२७ //

ब्राह्मणाद् इव वैश्यात् त्वम् $ अधीष्वाध्ययनं बहु &
इत्य् एवमादिभिर् भेदस् तृतीयाया न कश् चन // वाप ३,१४.५२८ //

तुल्यं मधुरयाधीये $ मात्रा तुल्यं स्मरामि ताम् &
मधुरायाश् च मातुश् च कथं सादृश्यकल्पना // वाप ३,१४.५२९ //

मधुराविषयः पाठः $ स्मरणं मातृकर्मकम् &
मधुरामातृशब्दाभ्याम् अभेदेनाभिधीयते // वाप ३,१४.५३० //

उष्ट्रावयवतुल्येषु $ मुखेषूष्ट्रश्रुतिर् यथा &
वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः // वाप ३,१४.५३१ //

यथाध्ययनयोः साम्यम् $ अध्येत्रोर् अपदिश्यते &
तथा क्रियागतैर् धर्मैर् उच्यन्ते साधनाश्रयाः // वाप ३,१४.५३२ //

इवार्थे यच् च वचनं $ पूर्वसूत्रे च यो विधिः &
क्रियाशब्दश्रुतौ भेदो न कश् चिद् विद्यते तयोः // वाप ३,१४.५३३ //

यद्य् अप्य् उपाधिर् अन्यत्र $ नियतो न प्रयुज्यते &
रूपाभेदात् त्व् अनिर्ज्ञाता क्रियात्र श्रूयते पुनः // वाप ३,१४.५३४ //

यथा व्युत्परयः पुच्छौ $ क्यङन्ते सुदुरादयः &
सत्य् अपि प्रत्ययार्थत्वे भेदाभावाद् उदाहृताः // वाप ३,१४.५३५ //

एवं च सति पूर्वेण $ सिद्धो ऽत्रापि वतेर् विधिः &
नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः // वाप ३,१४.५३६ //

इवे द्रव्यादिविषयः $ प्रत्ययः पुनर् उच्यते &
क्रियाणाम् एव सदृश्वे पूर्वसूत्रे विधीयते // वाप ३,१४.५३७ //

मधुरायाम् इव गृहा $ ब्राह्मणस्येव पाण्डुराः &
इत्य् अत्र द्रव्यगुणयोः पूर्वेण न वतिर् भवेत् // वाप ३,१४.५३८ //

आरम्भस्याक्रियार्थत्वे $ नार्थो योगेन विद्यते &
ऋते क्रियाया ग्रहणात् पूर्वयोगेन सिध्यति // वाप ३,१४.५३९ //

मधुरावयवे वृत्तिर् $ व्वाख्याता मधुराश्रुतेः &
ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः // वाप ३,१४.५४० //

न का चिद् इवयोगे $ तु बाह्यात् संबन्धिनो &
षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् // वाप ३,१४.५४१ //

आधिक्यं तुल्यशब्देन $ संबन्ध उपजायते &
षष्ठीतृतीये तत्र स्तस् तुल्यशब्दो हि वाचकः // वाप ३,१४.५४२ //

इवशब्दप्रयोगे तु $ बाह्यात् संबन्धिनो विना &
नाधिक्यम् उपमाने ऽस्ति द्योतकः स प्रयुज्यते // वाप ३,१४.५४३ //

इवे यो व्यतिरेको ऽत्र $ स प्रासादादिहेतुकः &
तुल्ये तद्विषयापेक्षम् आधिक्यम् उपजायते // वाप ३,१४.५४४ //

गवयेन समो ऽनद्वान् $ इति वृत्तिस् तथा भवेत् &
न त्व् अस्ति गौर् इवेत्य् अत्र व्यतिरेक इवाश्रयः // वाप ३,१४.५४५ //

उपमेयेन संबन्धात् $ प्राक् प्रासादादिहेतुके &
व्यतिरेके वतेर् भावो न तुल्यार्थत्वहेतुके // वाप ३,१४.५४६ //

इवशब्देन संबन्धे $ न तृतीया विधीयते &
प्रकृतां ताम् अतस् त्यक्त्वा विभक्त्यन्तरं आश्रितम् // वाप ३,१४.५४७ //

सप्तम्य् अपि न तत्रास्ति $ ज्ञापकार्था तु सा कृता &
इष्टा सा शेषविषये नियतासु विभक्तिषु // वाप ३,१४.५४८ //

यदि तु व्यतिरेकेण $ विषये ऽस्मिन् विभक्तयः &
प्रवर्तेरंस् तृतीयैव व्यभिचारं प्रदर्शयेत् // वाप ३,१४.५४९ //

व्यभिचारे तथा सिद्धे $ सप्तमीग्रहणाद् विना &
सप्तम्य् एवोच्यते सर्वा न सन्त्य् अन्या विभक्तयः // वाप ३,१४.५५० //

अत्यन्तम् अत्र विषये $ सप्तम्या ज्ञापकार्थया &
बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः // वाप ३,१४.५५१ //

पूर्वाभ्याम् एव योगाभ्यां $ विग्रहान्तरकल्पनात् &
अर्हार्थे ऽपि वतिः सिद्धः स त्व् एकेन निदर्श्यते // वाप ३,१४.५५२ //

तेन तुल्यम् इति प्राप्ते $ क्रियोपाधिः प्रसिध्यति &
राजवद् वर्तते राजेत्य् अत्र भेदे विवक्षिते // वाप ३,१४.५५३ //

राजत्वेन प्रसिद्धा ये $ पृथुप्रभृतयो नृपाः &
युधिष्ठिरान्तास् ते ऽन्येषाम् उपमानं महीक्षिताम् // वाप ३,१४.५५४ //

सिद्ध्यसिद्धिकृतो भेद $ उपमानोपमेययोः &
सर्वत्रैव यतो ऽसिद्धं प्रसिद्धेनोपमीयते // वाप ३,१४.५५५ //

राजवद् रूपम् अस्येति $ राजन्य् एव विवक्षिते &
अक्रियार्थेन योगेन द्वितीयेन भविष्यति // वाप ३,१४.५५६ //

उपमानाविवक्षायां $ नियमार्थो ऽयम् उच्यते &
धर्मो ऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः // वाप ३,१४.५५७ //

कृतहस्तवद् इत्य् एतत् $ प्रसिद्धेष्व् एव दृश्यते &
राजत्वेन प्रसिद्धे च राज्ञि राजवद् इत्य् अपि // वाप ३,१४.५५८ //

अराज्ञि येषां धर्माणां $ दृष्टो ऽत्यन्तम् असंभवः &
ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः // वाप ३,१४.५५९ //

अर्हतेश् च क्रिया कर्त्री $ या तस्यां वतिर् इष्यते &
राजानम् अर्हति च्छत्त्रम् इति न त्व् एवमादिषु // वाप ३,१४.५६० //

प्रयुक्तानां हि शब्दानां $ शास्त्रेणानुगमः सताम् &
छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् // वाप ३,१४.५६१ //

तदर्हम् इति नारब्धं $ सूत्रं व्याकरणान्तरे &
संभवत्य् उपमात्रापि भेदस्य परिकल्पनात् // वाप ३,१४.५६२ //

एकस्य कार्यनिर्ज्ञानात् $ सिद्धस्य विषयान्तरे &
तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते // वाप ३,१४.५६३ //

सूत्रारम्भान् न चैतस्माद् $ इवशब्दस्य विद्यते &
प्रयोगः सो ऽपि चैतस्य विषये विद्यते वतेः // वाप ३,१४.५६४ //

दस्युहेन्द्र इवेत्य् एतद् $ ऐन्द्रमन्त्रे प्रयुज्यते &
अन्यत्र दृष्टकर्मेन्द्रो यथेत्य् अस्मिन् विवक्षिते // वाप ३,१४.५६५ //

पूर्वाम् अवस्थाम् आश्रित्य $ यावस्था व्यपदिश्यते &
सदृशस् त्वं तवैवेति तत्रैवम् अभिधीयते // वाप ३,१४.५६६ //

प्रसिद्धभेदं यत्रान्यद् $ उपमानं न विद्यते &
उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते // वाप ३,१४.५६७ //

यो ऽपि स्वाभाविको भेदः $ सो ऽपि बुद्धिनिबन्धनः &
तेनास्मिन् विषये भिन्नम् अभिन्नं वा न विद्यते // वाप ३,१४.५६८ //

अङ्गदी कुण्डली चेति $ दर्शयन् भेदहेतुभिः &
चैत्रम् ईदृशम् इत्य् आह बुद्ध्यवस्थापरिग्रहात् // वाप ३,१४.५६९ //

एतैः शब्दैर् यथाभूतः $ प्रत्ययात्मोपजायते &
तत्प्रत्ययानुकारेण विषयो ऽप्य् उपपद्यते // वाप ३,१४.५७० //

बुद्ध्यवस्थाविभागेन $ भेदकार्यं प्रतीयते &
जन्यन्त इव शब्दानाम् अर्थाः सर्वे विवक्षया // वाप ३,१४.५७१ //

तथाविधे ऽपि बाह्ये ऽर्थे $ भिद्यन्ते यत्र बुद्धयः &
न तत्र कश् चित् सादृश्यं सद् अपि प्रतिपद्यते // वाप ३,१४.५७२ //

अत्यन्तं विषये भिन्ने $ यावत् प्रख्या न भिद्यते &
न तावत् प्रत्यभिज्ञानं कस्य चिद् विनिवर्तते // वाप ३,१४.५७३ //

अयम् एव तु सूत्रेण $ भेदो भेदेन दर्शितः &
प्रसिद्धम् अपि दुर्ज्ञानम् अबुधः प्रतिपद्यते // वाप ३,१४.५७४ //

वैयाकरणवद् ब्रूते $ न वैयाकरणः सदा &
वैयाकरणवद् ब्रूष्वेत्य् अतः सो ऽप्य् अभिधीयते // वाप ३,१४.५७५ //

के चित् पुमांसो भाषन्ते $ स्त्रीवत् पुंवच् च योषितः &
व्यभिचारे स्वधर्मो ऽपि पुनस् तेनोपदिश्यते // वाप ३,१४.५७६ //

सदृशस् त्वं तवैवेति $ लोके यद् अभिधीयते &
उपमानान्तरं तत्र प्रसक्तं विनिवर्तते // वाप ३,१४.५७७ //

युक्तम् औपयिकं राज्ञ $ इत्य् अर्थस्य निदर्शने &
उपमानाविवक्षायां तदर्हम् इति पठ्यते // वाप ३,१४.५७८ //

प्रसक्तानुप्रसक्तस् तु $ वतिशेषो ऽभिधीयते &
उपमानाभिसंबन्धाद् अस्मिन् वतिर् उदाहृतः // वाप ३,१४.५७९ //

प्रधानकल्पनाभावे $ गुणशब्दस्य दर्शनात् &
उपसर्गाद् वतौ सिद्धा धातौ धात्वर्थकल्पना // वाप ३,१४.५८० //

स्वं रूपम् इति चैतस्मिन्न् $ अर्थस्यापि परिग्रहः &
रूपवज् ज्ञापितस् तस्माद् आसन्नो ऽर्थो ग्रहीष्यते // वाप ३,१४.५८१ //

धात्वर्थेनोपजनितं $ साधनत्वेन साधनम् &
धातुना कृतम् इत्य् एवम् अस्मिन् सूत्रे प्रतीयते // वाप ३,१४.५८२ //

यः शब्दश् चरितार्थत्वाद् $ अत्यन्तं न प्रयुज्यते &
विषये ऽदर्शनात् तत्र लोपस् तस्याभिधीयते // वाप ३,१४.५८३ //

क्रियायां साधने द्रव्ये $ प्रादयो ये व्यवस्थिताः &
तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते // वाप ३,१४.५८४ //

प्रत्ययेन विना प्रादिस् $ तत्रार्थे न प्रयुज्यते &
भेदेन तु समाख्याने विभागः परिकल्पितः // वाप ३,१४.५८५ //

अनङ्गीकृतसत्त्वं तु $ यदि गृह्येत साधनम् &
विभक्तिभिर् नियोगः स्याद् यथैव तसिलादिषु // वाप ३,१४.५८६ //

पाठाद् यैर् अविभक्तित्वं $ वत्यन्तेष्व् अनुगम्यते &
तेषाम् उद्वत इत्य् अत्र वक्तव्या सविभक्तिता // वाप ३,१४.५८७ //

वत्यर्थं नावगाहेते $ पुंवद् इत्य् अस्य दर्शनात् &
नञ्स्नञाव् अपवादस्य बाधकं तन् निपातनम् // वाप ३,१४.५८८ //

एतम् उत्क्रामतो नूनं $ वत्यर्थं नञ्स्नञाव् इति &
तयोः प्रवृत्ताव् उत्सर्गो बाधनान् नोपपद्यते // वाप ३,१४.५८९ //

नञ्स्नञौ विहितौ येन $ स योगो नावगाहते &
वतिप्रकरणं तद् धि लिङ्गम् एवं समर्थ्यते // वाप ३,१४.५९० //

अभेदेनोपमानस्य $ भिन्नार्थोपनिपातिता &
ऊहस् तथोपमानानाम् अङ्गवन् नोपलभ्यते // वाप ३,१४.५९१ //

गावेधुके चरौ दृष्टा $ गोविकर्ताक्षवापयोः &
पशू रुद्र इव ह्य् एताव् इत्य् एकवचनश्रुतिः // वाप ३,१४.५९२ //

उपमानस्य भेदाच् च $ बहुषु स्याद् अञो विधिः &
काश्यपा इति लोपः स्यात् तथा प्रतिकृतिष्व् अपि // वाप ३,१४.५९३ //

एवं तु युक्तवद्भावाद् $ अत्रैकवचनं भवेत् &
लुम् मनुष्ये तथोक्तं स्याल् लिङ्गस्यैकस्य सिद्धये // वाप ३,१४.५९४ //

उपमेयेषु भिन्नेषु $ किं चिद् एकं प्रवर्तते &
प्रत्ययस्य विधौ तत्र नित्यं युक्तवद् इष्यते // वाप ३,१४.५९५ //

यदा प्रत्युपमेयं तु $ तद् एकैकम् अवस्थितम् &
तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते // वाप ३,१४.५९६ //

यथा समूहप्रचये $ द्विगूनां भिन्नसंख्यता &
पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् // वाप ३,१४.५९७ //

प्रचये भिद्यमाने तु $ संख्या पूलेषु भिद्यते &
अर्थभेदो लुबन्तेषु नैवं कश् चन दृश्यते // वाप ३,१४.५९८ //

येषूपमेयवचनः $ शब्दो ऽन्यो न प्रयुज्यते &
उपमानस्य तत्रान्यैः संख्याया भेद इष्यते // वाप ३,१४.५९९ //

यथा गुडतिलादीनां $ प्रयोगाद् एकसंख्यता &
पाकादेर् अप्रयोगे तु भिन्ना संख्याभिधीयते // वाप ३,१४.६०० //

यः संबन्धिगतो भेदः $ स प्रयोगे प्रतीयते &
संबन्धिनाम् अतो भेद उपमेये न गम्यते // वाप ३,१४.६०१ //

तस्मात् सामान्यशब्दत्व- $ प्रसङ्गविनिवृत्तये &
उपमेयगतो भेद उपमानेषु दृश्यते // वाप ३,१४.६०२ //

उपमानं समस्तानाम् $ अभिन्नम् श्रूयते क्व चित् &
भिन्नानाम् उपमेयनाम् एकैकम् वोपमीयते // वाप ३,१४.६०३ //

यथा गरुड इत्य् एतद् $ व्यूहापेक्षं प्रयुज्यते &
एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् // वाप ३,१४.६०४ //

एकस्यापि प्रतीयेत $ भिन्ना प्रतिकृतिः सह &
काश्यपस्येति तेनायं प्रत्येकम् अवतिष्ठते // वाप ३,१४.६०५ //

मेघाः शैल इवेत्य् उक्ते $ समस्तानां प्रतीयते &
सादृश्यम् गिरिणैकेन प्रत्येकं तेन भिद्यते // वाप ३,१४.६०६ //

छापेक्षा तद्विषयता $ विधेयत्वान् न गम्यते &
काकतालीयम् इत्य् अत्र प्रसिद्धम् ह्य् उपलक्षणम् // वाप ३,१४.६०७ //

राजाश्वादिश् च विषयः $ स्याद् अन्यो वेत्य् अनिश्चितम् &
तेन च्छस्य विधानात् प्राग् व्यपदेशो न विद्यते // वाप ३,१४.६०८ //

द्वयोर् इवार्थयोर् अत्र $ निमित्तत्वं प्रतीयते &
एकेनावयवो युक्तः प्रत्ययो ऽन्येन युज्यते // वाप ३,१४.६०९ //

चैत्रस्य तत्रागमनं $ काकस्यागमनं यथा &
दस्योर् अभिनिपातस् तु तालस्य पतनं यथा // वाप ३,१४.६१० //

संनिपाते तयोर् यान्या $ क्रिया तत्रोपजायते &
वधादिर् उपमेये ऽर्थे तया छविधिर् इष्यते // वाप ३,१४.६११ //

क्रियायां समवेतायां $ द्रव्यशब्दो ऽवतिष्ठते &
पातागमनयोः काक- तालशब्दौ तथा स्थितौ // वाप ३,१४.६१२ //

यद् अन्वाख्यायकं वाक्यं $ तद् एवं परिकल्प्यते &
प्रयोगवाक्वं यल् लोके तद् एवं न प्रयुज्यते // वाप ३,१४.६१३ //

ययोर् अतर्किता प्राप्तिर् $ दृश्यते काकतालवत् &
तयोः समासप्रकृतेर् वृत्तिर् अभ्युपगम्यते // वाप ३,१४.६१४ //

काकस्य तालेन यथा $ वधो यस्य तु दस्युना &
तत्र चित्रीकृते ऽन्यस्मिन्न् उपमेये छ इष्यते // वाप ३,१४.६१५ //

चञ्चत्प्रकारश् चञ्चत्को $ बृहत्क इति चापरे &
मणिमड्डूकखद्योतान् सादृश्वेन प्रचक्षते // वाप ३,१४.६१६ //

तत्रोन्मेषनिमेषाभ्यां $ खद्योत उपमीयते &
श्वासप्रबन्धैर् मण्डूकः स्पन्दमानप्रभो मणिः // वाप ३,१४.६१७ //

प्रविकासिप्रभो ऽल्पो ऽपि $ महान् य उपलभ्यते &
बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते // वाप ३,१४.६१८ //

सादृश्यम् एव सर्वत्र $ प्रकारः कैश् चिद् इष्यते &
भेदे ऽपि तु प्रकाराख्या कैश् चिद् अभ्युपगम्यते // वाप ३,१४.६१९ //

प्रकारवचनः कश् चित् $ प्रकारवति संस्थितः &
प्रकारमात्रे वर्तित्वा कश् चित् तद्वति वर्तते // वाप ३,१४.६२० //

सादृश्यग्रहणं सूत्रे $ सदृशस्योपलक्षणम् &
तुल्ययोर् अव्ययीभावे सहशब्दो ऽभिधायकः // वाप ३,१४.६२१ //

विप्सासादृश्ययोर् वृत्तिर् $ या यथार्थाभिधायिनः &
स चायम् अव्ययीभावे भेदो भेदेन दर्शितः // वाप ३,१४.६२२ //

सादृश्यं योग्यता कैश् चिद् $ अनाव् अभ्युपगम्यते &
यत् तु मूर्तिगतं साम्यं तत् सहेनाभिधीयते // वाप ३,१४.६२३ //

इत्थंभावे ऽपि सादृश्यं $ बुद्ध्यवस्थानिबन्धनम् &
ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते // वाप ३,१४.६२४ //

गौर् वाहीक इति द्वित्वे $ सादृश्यं प्रत्युदाहृतम् &
शुक्लादौ सति निष्पन्ने वाहीको न द्विर् उच्यते // वाप ३,१४.६२५ //

इति भर्तृहरिकृतं वाक्यपदीयम् समाप्तम्