S.D. Human Development, Research & Training Center | योगकुण्डल्युपनिषत् योगकुण्डल्युपनिषत् | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

योगकुण्डल्युपनिषत्

योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् .

निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये ..

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .

तेजस्विनावधीतमस्तु मा विद्विषावहै ..

ॐ शान्तिः शान्तिः शान्तिः ..

हरिः ॐ .. हेतुद्वयं हि चित्तस्य वासना च समीरणः .

तयोर्विनष्ट एकस्मिंस्तद्द्वावपि विनश्यतः .. १..

तयोरादौ समीरस्य जयं कुर्यानरः सदा .

मिताहारश्चासनं च शक्तिश्चालस्तृतीयकः .. २..

एतेषां लक्षणं वक्ष्ये शृणु गौतम सादरम् .

सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः .. ३..

भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते .

आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा .. ४..

ऊर्वोरुपरि चेद्धत्ते उभे पादतले यथा .

पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् .. ५..

वामाङ्घ्रिमूलकन्दाधो ह्यन्यं तदुपरि क्षिपेत् .

समग्रीवशिरःकायो वज्रासनमितीरितम् .. ६..

कुण्डल्येव भवेच्छक्तिस्तां तु संचालयेद्बुध .

स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते .. ७..

तत्साधने द्वयं मुख्यं सरस्वत्यास्तु चालनम् .

प्राणरोधमथाभ्यासादृज्वी कुण्डलिनी भवेत् .. ८..

तयोरादौ सरस्वत्याश्चालनं कथयामि ते .

अरुन्धत्येव कथिता पुराविद्भिः सरस्वती .. ९..

यस्याः संचालनेनैव स्वयं चलति कुण्डली .

इडायां वहति प्राणे बद्ध्वा पद्मासनं दृढम् .. १०..

द्वादशाङ्गुलदैर्घ्यं च अम्बरं चतुरङ्गुलम् .

विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः .. ११..

अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद्धृढम् .

स्वशक्त्या चालयेद्वामे दक्षिणेन पुनःपुनः .. १२..

मुहूर्तद्वयपर्यन्तं निर्भयाच्चालयेत्सुधीः .

ऊर्ध्वमाकर्षयेत्किंचित्सुषुम्नां कुण्डलीगताम् .. १३..

तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं व्रजेत् .

जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति स्वतः .. १४..

तुन्दे तु ताणं कुर्याच्च कण्ठसंकोचने कृते .

सरस्वत्यां चालनेन वक्षसश्चोर्ध्वगो मरुत् .. १५..

सूर्येण रेचयेद्वायुं सरवत्यास्तु चालने .

कण्ठसंकोचनं कृत्वा वक्षसश्चोर्ध्वगो मरुत् .. १६..

तस्मात्संचालयेन्नित्यं शब्दगर्भां सरस्वतीम् .

यस्याः संचालनानेनैव योगी रोगैः प्रमुच्यते .. १७..

गुल्मं जलोदरः प्लीहा ये चान्ये तुन्दमध्यगाः .

सर्वे ते शक्तिचालेन रोगा नश्यन्ति निश्चयम् .. १८..

प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः .

प्राणश्च दहनो वायुरायामः कुम्भकः स्मृतः .. १९..

स एव द्विविधः प्रोक्तः सहितः केवलस्तथा .

यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् .. २०..

सूर्योज्जायी शीतली च भस्त्री चैव चतुर्थिका .

भेदैरेव समं कुम्भो यः स्यात्सहितकुम्भकः .. २१..

पवित्रे निर्जने देशे शर्करादिविवर्जिते .

धनुःप्रमाणपर्यन्ते शीताग्निजलवर्जिते .. २२..

पवित्रे नात्युच्चनीचे ह्यासने सुखदे सुखे .

बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम् .. २३..

दक्षनाड्या समाकृष्य बहिष्ठं पवनं शनैः .

यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः .. २४..

कपालशोधने वापि रेचयेत्पवनं शनैः .

चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च .. २५..

पुनः पुनरिदं कार्यं सूर्यभेदमुदाहृतम् .

मुखं संयम्य नाडिभ्यामाकृष्य पवनं शनैः .. २६..

यथा लगति कण्ठात्तु हृदयावधि सस्वनम् .

पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः .. २७..

शीर्षोदितानलहरं गलश्लेष्महरं परम् .

सर्वरोगहरं पुण्यं देहानलविवर्धनम् .. २८..

नाडीजलोदरं धातुगतदोषविनाशनम् .

गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् .. २९..

जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु .

शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः .. ३०..

गुल्मप्लीहादिकान्दोषान्क्षयं पित्तं ज्वरं तृषाम् .

विषाणि शीतली नाम कुम्भकोऽयं निहन्ति च .. ३१..

ततः पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः .

मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् .. ३२..

यथा लगति कण्ठात्तु कपाले सस्वनं ततः .

वेगेन पूरयेत्किंचिद्हृत्पद्मावधि मारुतम् .. ३३..

पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः .

यथैव लोहकाराणां भस्त्रा वेगेन चाल्यते .. ३४..

तथैव स्वशरीरस्थं चालयेत्पवनं शनैः .

यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् .. ३५..

यथोदरं भवेत्पूर्णं पवनेन तथा लघु .

धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् .. ३६..

कुम्भकं पूर्ववत्कृत्वा रेचेयेदिडयानिलम् .

कण्ठोत्थितानलहरं शरीराग्निविवर्ध्नम् .. ३७..

कुण्डलीबोधकं पुण्यं पापघ्नं शुभदं सुखम् .

ब्रह्मनाडीमुखान्तस्थ कफाद्यर्गलनाशनम् .. ३८..

गुणत्रयसमुद्भूतग्रन्थित्रयविभेदकम् .

विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् .. ३९..

चतुर्णामपि भेदानां कुम्भके समुपस्थिते .

बन्धत्रयमिदं कार्यं योगिभिर्वीतकल्मषैः .. ४०..

प्रथमो मूलबन्धस्तु द्वितीयोड्डीयणाभिधः .

जालन्धरस्तृतीयस्तु तेषां लक्षणमुच्यते .. ४१..

अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् .

आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते .. ४२..

अपाने चोर्ध्वगे याते संप्राप्ते वह्निमण्डले .

ततोऽनलशिखा दीर्घा वर्धते वायुनाहता .. ४३..

ततो यातौ वह्न्यमानौ प्राणमुष्णस्वरूपकम् .

तेनात्यन्तप्रदीप्तेन ज्वलनो देहजस्तथा .. ४४..

तेन कुण्डलिनी सुप्ता संतप्ता संप्रबुध्यते .

दण्डाहतभुजङ्गीव निःश्वस्य ऋजुतां व्रजेत् .. ४५..

बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं व्रजेत् .

तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा .. ४६..

कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः .

बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः .. ४७..

तस्मादुड्डीयणाख्योऽयं योगिभिः समुदाहृतः .

सति वज्रासने पादौ कराभ्यां धारयेधृढम् .. ४८..

गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् .

पश्चिमं ताणमुदरे धारयेद्हृदये गले .. ४९..

शनैः शनैर्यदा प्राणस्तुन्दसन्धिं निगच्छति .

तुन्ददोषं विनिर्धूय कर्तव्यं सततं शनैः .. ५०..

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः .

कण्ठसंकोचरूपोऽसौ वायुमार्गनिरोधकः .. ५१..

अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते .

मध्ये पश्चिमताणेन स्यात्प्राणो ब्रह्मनाडिगः .. ५२..

पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः .

चालनं तु सरस्वत्याः कृत्वा प्राणं निरोधयेत् .. ५३..

प्रथमे दिवसे कार्यं कुम्भकानां चतुष्टयम् .

प्रत्येकं दशसंख्यांकं द्वितीये पञ्चभिस्तथा .. ५४..

विशत्यलं तृतीयेह्नि पञ्चवृद्ध्या दिनेदिने .

कर्तव्यः कुम्भको नित्यं बन्धत्रयसमन्वितः .. ५५..

दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् .

बहुसंक्रमणं नित्यं रोधान्मूत्रपुरीषयोः .. ५६..

विषमाशनदोषाच्च प्रयासप्राणचिन्तनात् .

शीघ्रमुत्पद्यते रोगः स्तम्भयेद्यदि संयमी .. ५७..

योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते .

ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्नाच्यते .. ५८..

द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता .

आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् .. ५९..

षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् .

विषमं चाष्टमं चैव अनाख्यं नवमं स्मृतम् .. ६०..

अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः .

इत्येतद्विघ्नदशकं विचारेण त्यजेद्बुधः .. ६१..

प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्वस्थया धिया .

सुषुम्ना लीयते चित्तं तथा वायुः प्रधावति .. ६२..

शुष्के मले तु योगी च स्याद्गतिश्चलिता ततः .

अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् .. ६३..

आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते .

अपानश्चोर्ध्वगोभूत्वा वह्निना सह गच्छति .. ६४..

प्राणस्थानं ततो वह्निः प्राणापानौ च सत्वरम् .

मिलित्वा कुण्डलीं याति प्रसुप्ता कुण्डलाकृतिः .. ६५..

तेनाग्निना च संतप्ता पवनेनैव चालिता .

प्रसार्य स्वशरीरं तु सुषुम्ना वदनान्तरे .. ६६..

ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुणसमुद्भवम् .

सुषुम्ना वदने शीघ्रं विद्युल्लेखेव संस्फुरेत् .. ६७..

विष्णुग्रन्थिं प्रयात्युच्चैः सत्वरं हृदि संस्थिता .

ऊर्ध्वं गच्छति यच्चास्ते रुद्रग्रन्थिं तदुद्भवम् .. ६८..

भ्रुवोर्मध्ये तु संभिद्य याति शीतांशुमण्डलम् .

अनाहताख्यं यच्चक्रं दलैः षोडशभिर्युतम् .. ६९..

तत्र शीतांशुसंजातं द्रवं शोषयति स्वयम् .

चलिते प्राण वेगेन रक्तं पीतं रवेर्ग्रहात् .. ७०..

यातेन्दुचक्रं यत्रास्ते शुद्धश्लेष्मद्रवात्मकम् .

तत्र सिक्तं ग्रसत्युष्णं कथं शीतस्वभावकम् .. ७१..

तथैव रभसा शुक्लं चन्द्ररूपं हि तप्यते .

ऊर्ध्वं प्रवहति क्षुब्धा तदैवं भ्रमतेतराम् .. ७२..

तस्यास्वादवशाच्चित्तं बहिष्ठं विषयेषु यत् .

तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा .. ७३..

प्रकृत्यष्टकरूपं च स्थानं गच्छति कुण्डली .

क्रोडीकृत्य शिवं याति क्रोडीकृत्य विलीयते .. ७४..

इत्यधोर्ध्वरजः शुक्लं शिवे तदनु मारुतः .

प्राणापानौ समौ याति सदा जातौ तथैव च .. ७५..

भूतेऽल्पे चाप्यनल्पे वा वाचके त्वतिवर्धते .

धवयत्यखिला वाता अग्निमूषाहिरण्यवत् .. ७६..

आधिभौतिकदेहं तु आधिदैविकविग्रहे .

देहोऽतिविमलं याति चातिवाहिकतामियात् .. ७७..

जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् .

तस्यातिवाहिकं मुख्यं सर्वेषां तु मदात्मकम् .. ७८..

जायाभवविनिर्मुक्तिः कालरूपस्य विभ्रमः .

इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् .. ७९..

मृषैवोदेति सकलं मृषैव प्रविलीयते .

रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसोर्भ्रमतो यथा .. ८०..

पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरपि .

स्वापाव्याकृतयोरैक्यं स्वप्रकाशचिदात्मनोः .. ८१..

शक्तिः कुण्डलिनी नाम बिसतन्तुनिभा शुभा .

मूलकन्दं फणाग्रेण दृष्ट्वा कमलकन्दवत् .. ८२..

मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रसमन्विता .

पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः .. ८३..

वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः .

वाय्वाघातवशादग्निः स्वाधिष्ठानगतो ज्वलन् .. ८४..

ज्वलनाघातपवनाघातोरून्निद्रितोऽहिराट् .

ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः .. ८५..

रुद्रग्रन्थिं च भित्त्वैव कमलानि भिनत्ति षट् .

सहस्रकमले शक्तिः शिवेन सह मोदते .. ८६..

सैवावस्था परा ज्ञेया सैव निर्वृतिकारिणी इति ..

इति प्रथमोऽध्यायः .. १..

अथाहं संप्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् .

यथा विज्ञानवानस्या लोकेऽस्मिन्नजरोऽमरः .. १..

मृत्युव्याधिजराग्रस्तो दृष्ट्वा विद्यामिमां मुने .

बुद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् .. २..

जरामृत्युगदघ्नो यः खेचरीं वेत्ति भूतले .

ग्रन्थतश्चार्थतश्चैव तदभ्यासप्रयोगतः .. ३..

तं मुने सर्वभावेन गुरुं मत्वा समाश्रयेत् .

दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः .. ४..

अभ्यासं मेलनं चैव युगपन्नैव सिध्यति .

अभ्यासमात्रनिरता न विन्दन्ते ह मेलनम् .. ५..

अभ्यासं लभते ब्रह्मञ्जन्मजन्मान्तरे क्वचित् .

मेलनं तु जन्मनां शतान्तेऽपि न लभ्यते .. ६..

अभ्यासं बहुजन्मान्ते कृत्वा तद्भावसाधितम् .

मेलनं लभते कश्चिद्योगी जन्मान्तरे क्वचित् .. ७..

यदा तु मेलनं योगी लभते गुरुवक्त्रतः .

तदा तत्सिद्धिमाप्नोति यदुक्ता शास्त्रसन्ततौ .. ८..

ग्रन्थतश्चार्थतश्चैव मेलनं लभते यदा .

तदा शिवत्वमाप्नोति निर्मुक्तः सर्वसंसृतेः .. ९..

शास्त्रं विनापि संबोद्धुं गुरवोऽपि न शक्नयुः .

तस्मात्सुदुर्लभतरं लभ्यं शास्त्रमिदं मुने .. १०..

यावन्न लभ्यते शास्त्रं तावद्गां पर्यटेद्यतिः .

यदा संलभ्यते शास्त्रं तदा सिद्धिः करे स्थिता .. ११..

न शास्त्रेण विना सिद्धिर्दृष्टा चैव जगत्त्रये .

तस्मान्मेलनदातारं शास्त्रदातारमच्युतम् .. १२..

तदभ्यासप्रदातारं शिवं मत्वा समाश्रयेत् .

लब्ध्वा शास्त्रमिदं मह्यमन्येषां न प्रकाशयेत् .. १३..

तस्मात्सर्वप्रयत्नेन गोपनीयं विजानता .

यत्रास्ते च गुरुर्ब्रह्मन्दिव्ययोगप्रदायकः .. १४..

तत्र गत्वा च तेनोक्तविद्यां संगृह्य खेचरीम् .

तेनोक्तः सम्यगभ्यासं कुर्यादादावतन्द्रितः .. १५..

अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् .

खेचर्या खेचरीं युञ्जन्खेचरीबीजपूरया .. १६..

खेचराधिपतिर्भूत्वा खेचरेषु सदा वसेत् .

खेचरावसथं वह्निमम्बुमण्डलभूषितम् .. १७..

आख्यातं खेचरीबीजं तेन योगः प्रसिध्यति .

सोमांशनवकं वर्णं प्रतिलोमेन चोद्धरेत् .. १८..

तस्मात्त्र्यंशकमाख्यातमक्षरं चन्द्ररूपकम् .

तस्मादप्यष्टमं वर्णं विलोमेन परं मुने .. १९..

तथा तत्परमं विद्धि तदादिरपि पञ्चमी .

इन्दोश्च बहुभिन्ने च कूटोऽयं परिकीर्तितः .. २०..

गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् .

यत्तस्य देहजा माया निरुद्धकरणाश्रया .. २१..

स्वप्नेऽपि न लभेत्तस्य नित्यं द्वादशजप्यतः .

य इमां पञ्च लक्षाणि जपेदपि सुयन्त्रितः .. २२..

तस्य श्रीखेचरीसिद्धिः स्वयमेव प्रवर्तते .

नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः .. २३..

वलीपलितनाशश्च भविष्यति न संशयः .

एवं लब्ध्वा महाविद्यामभ्यासं कारयेत्ततः .. २४..

अन्यथा क्लिश्यते ब्रह्मन्न सिद्धिः खेचरीपथे .

यदभ्यासविधौ विद्यां न लभेद्यः सुधामयीम् .. २५..

ततः संमेलकादौ च लब्ध्वा विद्यां सदा जपेत् .

नान्यथा रहितो ब्रह्मन्न किंचित्सिद्धिभाग्भवेत् .. २६..

यदिदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् .

ततस्तदोदितां सिद्धिमाशु तां लभते मुनिः .. २७..

तालुमूलं समुत्कृष्य सप्तवासरमात्मवित् .

स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् .. २८..

स्नुहिपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् .

समादाय ततस्तेन रोममात्रं समुच्छिनेत् .. २९..

हित्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् .

पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् .. ३०..

एवं क्रमेण षण्मासं नित्योद्युक्तः समाचरेत् .

षण्मासाद्रसनामूलं सिराबद्धं प्रणश्यति .. ३१..

अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्टयेत् .

शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् .. ३२..

पुनः षण्मासमात्रेण नित्यं संघर्षणान्मुने .

भ्रूमध्यावधि चाप्येति तिर्यक्कणबिलावधिः .. ३३..

अधश्च चुबुकं मूलं प्रयाति क्रमचारिता .

पुनः संवत्सराणां तु तृतीयादेव लीलया .. ३४..

केशान्तमूर्ध्वं क्रमति तिर्यक् शाखावधिर्मुने .

अधस्तात्कण्ठकूपान्तं पुनर्वर्षत्रयेण तु .. ३५..

ब्रह्मरन्ध्रं समावृत्य तिष्ठेदेव न संशयः .

तिर्यक् चूलितलं याति अधः कण्ठबिलावधि .. ३६..

शनैः शनैर्मस्तकाच्च महावज्रकपाटभित् .

पूर्वं बीजयुता विद्या ह्याख्याता यतिदुर्लभा .. ३७..

तस्याः षडङ्गं कुर्वीत तया षट्स्वरभिन्नया .

कुर्यादेवं करन्यासं सर्वसिद्ध्यादिहेतवे .. ३८..

शनैरेवं प्रकर्तव्यमभ्यासं युगपन्नहि .

युगपद्वर्तते यस्य शरीरं विलयं व्रजेत् .. ३९..

तस्माच्छनैः शनैः कार्यमभ्यासं मुनिपुङ्गव .

यदा च बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् .. ४०..

तदा ब्रह्मार्गलं ब्रह्मन्दुर्भेद्यं त्रिदशैरपि .

अङ्गुल्यग्रेण संघृष्य जिह्वामात्रं निवेशयेत् .. ४१..

एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं प्रविश्यति .

ब्रह्मद्वारे प्रविष्टे तु सम्यङ्मथनमाचरेत् .. ४२..

मथनेन विना केचित्साधयन्ति विपश्चितः .

खेचरीमन्त्रसिद्धस्य सिध्यते मथनं विना .. ४३..

जपं च मथनं चैव कृत्वा शीघ्रं फलं लभेत् .

स्वर्णजां रौप्यजां वापि लोहजां वा शलाकिकाम् .. ४४..

नियोज्य नासिकारन्ध्रं दुग्धसिक्तेन तन्तुना .

प्राणान्निरुध्य हृदये सुखमासनमात्मनः .. ४५..

शनैः सुमथनं कुर्याद्भ्रूमध्ये न्यस्य चक्षुषी .

षण्मासं मथनावस्था भावेनैव प्रजायते .. ४६..

यथा सुषुप्तिर्बालानां यथा भावस्तथा भवेत् .

न सदा मथनं शस्तं मासे मासे समाचरेत् .. ४७..

सदा रसनया योगी मार्गं न परिसंक्रमेत् .

एवं द्वादशवर्षान्ते संसिद्धिर्भवति ध्रुवा .. ४८..

शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः .

ब्रह्माण्डोऽयं महामार्गो राजदन्तोर्ध्वकुण्डली .. ४९.. इति..

इति द्वितीयोऽध्यायः .. २..

मेलनमनुः . ह्रीं भं सं पं फं सं क्षम् . पद्मज उवाच .

अमावास्या च प्रतिपत्पौर्णमासी च शंकर .

अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः .. १..

प्रतिपद्दिनतोऽकाले अमावास्या तथैव च .

पौर्णमास्यां स्थिरीकुर्यात्स च पन्था हि नान्यथा .. २..

कामेन विषयाकाङ्क्षी विषयात्काममोहितः .

द्वावेव संत्यजेन्नित्यं निरञ्जनमुपाश्रयेत् .. ३..

अपरं संत्यजेत्सर्वं यदिच्छेदात्मनो हितम् .

शक्तिमध्ये मनः कृत्वा मनः शक्तेश्च मध्यगम् .. ४..

मनसा मन आलोक्य तत्त्यजेत्परमं पदम् .

मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् .. ५..

मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् .

न च बन्धनमध्यस्थं तद्वै कारणमानसम् .. ६..

चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्धनम् .

ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा वायुं च मध्यगम् .. ७..

स्थित्वासौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् .

वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतिमेव च .. ८..

षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् .

मूलाधारं स्वाधिष्ठानं मणिपूरं तृतीयकम् .. ९..

अनाहतं विशुद्धं च आज्ञाचक्रं च षष्ठकम् .

आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्गिकम् .. १०..

मणिपूरं नभिदेशं हृदयस्थमनाहतम् .

विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् .. ११..

षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डले .

प्रविशेद्वायुमाकृष्य तयैवोर्ध्वं नियोजयेत् .. १२..

एवं समभ्यसेद्वायुं स ब्रह्माण्डमयो भवेत् .

वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् .. १३..

समाधिमेकेन समममृतं यान्ति योगिनः .

यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना .. १४..

विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि .

घटमध्यगतो दीपो बाह्ये नैव प्रकाशते .. १५..

भिन्ने तस्मिन्घटे चैव दीपज्वाला च भासते .

स्वकायं घटमित्युक्तं यथा दीपो हि तत्पदम् .. १६..

गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् .

कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च .. १७..

अभ्यासवासनाशक्त्या तरन्ति भवसागरम् .

परायामङ्कुरीभूय पश्यन्तां द्विदलीकृता .. १८..

मध्यमायां मुकुलिता वैखर्यां विकसीकृता .

पूर्वं यथोदिता या वाग्विलोमेनास्तगा भवेत् .. १९..

तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः .

सोहमस्मीति निश्चित्य यः सदा वर्तते पुमान् .. २०..

शब्दैरुच्चावचैर्नीचैर्भाषितोऽपि न लिप्यते .

विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयः .. २१..

विराड्ढिरण्यगर्भश्च ईश्वरश्चेति ते त्रयः .

ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् .. २२..

स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि .

अण्डं ज्ञानाग्निना तप्तं लीयते कारणैः सह .. २३..

परमात्मनि लीनं तत्परं ब्रह्मैव जायते .

ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् .. २४..

अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते .

ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् .. २५..

अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् .

प्रकाशयन्तमन्तस्थं ध्यायेत्कूटस्थमव्ययम् .. २६..

विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः .

मायया मोहितः पश्चाद्बहुजन्मान्तरे पुनः .. २७..

सत्कर्मपरिपाकात्तु स्वविकारं चिकीर्षति .

कोऽहं कथमयं दोषः संसाराख्य उपागतः .. २८..

जाग्रत्स्वप्ने व्यवहरन्त्सुषुप्तौ क्व गतिर्मम .

इति चिन्तापरो भूत्वा स्वभासा च विशेषतः .. २९..

अज्ञानात्तु चिदाभासो बहिस्तापेन तापितः .

दग्धं भवत्येव तदा तूलपिण्डमिवाग्निना .. ३०..

दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् .

विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु .. ३१..

मनोमयज्ञानमयान्त्सम्यग्दग्ध्वा क्रमेण तु .

घटस्थदीपवच्छश्वदन्तरेव प्रकाशते .. ३२..

ध्यायन्नास्ते मुनिश्चैवमासुप्तेरामृतेस्तु यः .

जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् .. ३३..

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते .

विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव .. ३४..

अशब्दमस्पर्शमरूपमव्ययं

तथारसं नित्यमगन्धवच्च यत् .

अनाद्यनन्तं महतः परं ध्रुवं

तदेव शिष्यत्यमलं निरामयम् .. ३५..

इत्युपनिषत् ..

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .

तेजस्विनावधीतमस्तु मा विद्विषावहै ..

ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..

इति योगकुण्डल्युपनिषत्समाप्ता ..