S.D. Human Development, Research & Training Center | विवेकचूडामणि ( शंकराचार्य) विवेकचूडामणि ( शंकराचार्य) | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

विवेकचूडामणि ( शंकराचार्य)

सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् .

गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् .. १..

जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता

तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् .

आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः

मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते .. २..

दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् .

मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः .. ३..

लब्ध्वा कथचिन्नरजन्म दुर्लभं

    तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् .

यस्त्वात्ममुक्तौ न यतेत मूढधीः

    स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् .. ४..

इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति .

दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् .. ५..

वदन्तु शास्त्राणि यजन्तु देवान्

    कुर्वन्तु कर्माणि भजन्तु देवताः .

आत्मैक्यबोधेन विनापि मुक्तिः

    न सिध्यति ब्रह्मशतान्तरेऽपि .. ६..

अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः .

ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः .. ७..

अतो विमुक्त्यै प्रयतेत् विद्वान्

    संन्यस्तबाह्यार्थसुखस्पृहः सन् .

सन्तं महान्तं समुपेत्य देशिकं

    तेनोपदिष्टार्थसमाहितात्मा .. ८..

उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ .

योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया .. ९..

संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये .

यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः .. १०..

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये .

वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभिः .. ११..

सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा .

भ्रान्तोदितमहासर्पभयदुःखविनाशिनी .. १२..

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः .

न स्नानेन न दानेन प्राणायमशतेन वा .. १३..

अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः .

उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः .. १४..

अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ..

समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् .. १५..

मेधावी पुरुषो विद्वानुहापोहविचक्षणः .

अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः .. १६..

विवेकिनो विरक्तस्य शमादिगुणशालिनः .

मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता .. १७..

साधनान्यत्र चत्वारि कथितानि मनीषिभिः .

येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति .. १८..

आदौ नित्यानित्यवस्तुविवेकः परिगण्यते .

इहामुत्रफलभोगविरागस्तदनन्तरम् .

शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् .. १९..

ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः .

सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः .. २०..

तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः .

देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि .. २१..

विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः .

स्वलक्ष्ये नियतावस्था मनसः शम उच्यते .. २२..

विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके .

उभयेषामिन्द्रियाणां स दमः परिकीर्तितः .

बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा .. २३..

सहनं सर्वदुःखानामप्रतीकारपूर्वकम् .

चिन्ताविलापरहितं सा तितिक्षा निगद्यते .. २४..

शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् .

सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते .. २५..

सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा .

तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् .. २६..

अहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान् .

स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता .. २७..

मन्दमध्यमरूपापि वैराग्येण शमादिना .

प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् .. २८..

वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते .

तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः .. २९..

एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः .

मरौ सलीलवत्तत्र शमादेर्भानमात्रता .. ३०..

मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी .

स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते .. ३१..

स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः .

उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः .

उपसीदेद्गुरुं प्राज्ञ्यं यस्माद्बन्धविमोक्षणम् .. ३२..

श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः .

ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः .

अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् .. ३३..

तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः .

प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः .. ३४..

स्वामिन्नमस्ते नतलोकबन्धो

    कारुण्यसिन्धो पतितं भवाब्धौ .

मामुद्धरात्मीयकटाक्षदृष्ट्या

    ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या .. ३५..

दुर्वारसंसारदवाग्नितप्तं

    दोधूयमानं दुरदृष्टवातैः .

भीतं प्रपन्नं परिपाहि मृत्योः

    शरण्यमन्यद्यदहं न जाने .. ३६..

शान्ता महान्तो निवसन्ति सन्तो

    वसन्तवल्लोकहितं चरन्तः .

तीर्णाः स्वयं भीमभवार्णवं जना-

    नहेतुनान्यानपि तारयन्तः .. ३७..

अयं स्वभावः स्वत एव यत्पर-

    श्रमापनोदप्रवणं महात्मनाम् .

सुधांशुरेष स्वयमर्ककर्कश-

    प्रभाभितप्तामवति क्षितिं किल .. ३८..

ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर्युतैः

युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय .

संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो

धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः .. ३९..

कथं तरेयं भवसिन्धुमेतं

    का वा गतिर्मे कतमोऽस्त्युपायः .

जाने न किञ्चित्कृपयाऽव मां प्रभो

    संसारदुःखक्षतिमातनुष्व .. ४०..

तथा वदन्तं शरणागतं स्वं

    संसारदावानलतापतप्तम् .

निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या

    दद्यादभीतिं सहसा महात्मा .. ४१..

विद्वान् स तस्मा उपसत्तिमीयुषे

    मुमुक्षवे साधु यथोक्तकारिणे .

प्रशान्तचित्ताय शमान्विताय

    तत्त्वोपदेशं कृपयैव कुर्यात् .. ४२..

मा भैष्ट विद्वंस्तव नास्त्यपायः

    संसारसिन्धोस्तरणेऽस्त्युपायः .

येनैव याता यतयोऽस्य पारं

    तमेव मार्गं तव निर्दिशामि .. ४३..

अस्त्युपायो महान्कश्चित्संसारभयनाशनः .

तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि .. ४४..

वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् .

तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु .. ४५..

श्रद्धाभक्तिध्यानयोगाम्मुमुक्षोः

    मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः .

यो वा एतेष्वेव तिष्ठत्यमुष्य

    मोक्षोऽविद्याकल्पिताद्देहबन्धात् .. ४६..

अज्ञानयोगात्परमात्मनस्तव

    ह्यनात्मबन्धस्तत एव संसृतिः .

तयोर्विवेकोदितबोधवह्निः

    अज्ञानकार्यं प्रदहेत्समूलम् .. ४७..

          शिष्य उवाच .

कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया .

यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् .. ४८..

को नाम बन्धः कथमेष आगतः

    कथं प्रतिष्ठास्य कथं विमोक्षः .

कोऽसावनात्मा परमः क आत्मा

    तयोर्विवेकः कथमेतदुच्यताम् .. ४९..

          श्रीगुरुवाच .

धन्योऽसि कृतकृत्योऽसि पावित ते कुलं त्वया .

यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि .. ५०..

ऋणमोचनकर्तारः पितुः सन्ति सुतादयः .

बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन .. ५१..

मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते .

क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् .. ५२..

पथ्यमौषधसेवा च क्रियते येन रोगिणा .

आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा .. ५३..

वस्तुस्वरूपं स्फुटबोधचक्षुषा

    स्वेनैव वेद्यं न तु पण्डितेन .

चन्द्रस्वरूपं निजचक्षुषैव

    ज्ञातव्यमन्यैरवगम्यते किम् .. ५४..

अविद्याकामकर्मादिपाशबन्धं विमोचितुम् .

कः शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि .. ५५..

न योगेन न सांख्येन कर्मणा नो न विद्यया .

ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा .. ५६..

वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् .

प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते .. ५७..

वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् .

वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये .. ५८..

अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला .

विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला .. ५९..

शब्दजालं महारण्यं चित्तभ्रमणकारणम् .

अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः .. ६०..

अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना .

किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः .. ६१..

न गच्छति विना पानं व्याधिरौषधशब्दतः .

विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते .. ६२..

अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः .

ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् .. ६३..

अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् .

राजाहमिति शब्दान्नो राजा भवितुमर्हति .. ६४..

आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं

निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति .

तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते

मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः .. ६५..

तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये .

स्वैरेव यत्नः कर्तव्यो रोगादाविव पण्डितैः .. ६६..

यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः .

सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः .. ६७..

शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते .

तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे .. ६८..

मोक्षस्य हेतुः प्रथमो निगद्यते

    वैराग्यमत्यन्तमनित्यवस्तुषु .

ततः शमश्चापि दमस्तितिक्षा

    न्यासः प्रसक्ताखिलकर्मणां भृशम् .. ६९..

ततः शृतिस्तन्मननं सतत्त्व-

    ध्यानं चिरं नित्यनिरन्तरं मुनेः .

ततोऽविकल्पं परमेत्य विद्वान्

    इहैव निर्वाणसुखं समृच्छति .. ७०..

यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् .

तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय .. ७१..

मज्जास्थिमेदःपलरक्तचर्म-

    त्वगाह्वयैर्धातुभिरेभिरन्वितम् .

पादोरुवक्षोभुजपृष्ठमस्तकैः

    अङ्गैरुपाङ्गैरुपयुक्तमेतत् .. ७२..

अहंममेतिप्रथितं शरीरं

    मोहास्पदं स्थूलमितीर्यते बुधैः .

नभोनभस्वद्दहनाम्बुभूमयः

    सूक्ष्माणि भूतानि भवन्ति तानि .. ७३..

परस्परांशैर्मिलितानि भूत्वा

    स्थूलानि च स्थूलशरीरहेतवः .

मात्रास्तदीया विषया भवन्ति

    शब्दादयः पञ्च सुखाय भोक्तुः .. ७४..

य एषु मूढा विषयेषु बद्धा

    रागोरुपाशेन सुदुर्दमेन .

आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः

    स्वकर्मदूतेन जवेन नीताः .. ७५..

शब्दादिभिः पञ्चभिरेव पञ्च

    पञ्चत्वमापुः स्वगुणेन बद्धाः .

कुरङ्गमातङ्गपतङ्गमीन-

    भृङ्गा नरः पञ्चभिरञ्चितः किम् .. ७६..

दोषेण तीव्रो विषयः कृष्णसर्पविषादपि .

विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् .. ७७..

विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् .

स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि .. ७८..

आपातवैराग्यवतो मुमुक्षून्

    भवाब्धिपारं प्रतियातुमुद्यतान् .

आशाग्रहो मज्जयतेऽन्तराले

    निगृह्य कण्ठे विनिवर्त्य वेगात् .. ७९..

विषयाख्यग्रहो येन सुविरक्त्यसिना हतः .

स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः .. ८०..

विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः

    प्रतिपदमभियातो मृत्युरप्येष विद्धि .

हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या

    प्रभवति फलसिद्धिः सत्यमित्येव विद्धि .. ८१..

मोक्षस्य कांक्षा यदि वै तवास्ति

    त्यजातिदूराद्विषयान्विषं यथा .

पीयूषवत्तोषदयाक्षमार्जव-

    प्रशान्तिदान्तीर्भज नित्यमादरात् .. ८२..

अनुक्षणं यत्परिहृत्य कृत्यं

    अनाद्यविद्याकृतबन्धमोक्षणम् .

देहः परार्थोऽयममुष्य पोषणे

    यः सज्जते स स्वमनेन हन्ति .. ८३..

शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति .

ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्छति .. ८४..

मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु .

मोहो विनिर्जितो येन स मुक्तिपदमर्हति .. ८५..

मोहं जहि महामृत्युं देहदारसुतादिषु .

यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् .. ८६..

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् .

पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः .. ८७..

पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा .

समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः .

अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः .. ८८..

बाह्येन्द्रियैः स्थूलपदार्थसेवां

    स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् .

करोति जीवः स्वयमेतदात्मना

    तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे .. ८९..

सर्वाऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः .

विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः .. ९०..

स्थूलस्य सम्भवजरामरणानि धर्माः

    स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः .

वर्णाश्रमादिनियमा बहुधाऽमयाः स्युः

    पूजावमानबहुमानमुखा विशेषाः .. ९१..

बुद्धीन्द्रियाणि श्रवणं त्वगक्षि

    घ्राणं च जिव्हा विषयावबोधनात् .

वाक्पाणिपादा गुदमप्युपस्थः

    कर्मेन्द्रियाणि प्रवणेन कर्मसु .. ९२..

निगद्यतेऽन्तःकरणं मनोधीः

    अहंकृतिश्चित्तमिति स्ववृत्तिभिः .

मनस्तु संकल्पविकल्पनादिभिः

    बुद्धिः पदार्थाध्यवसायधर्मतः .. ९३..

अत्राभिमानादहमित्यहंकृतिः .

    स्वार्थानुसन्धानगुणेन चित्तम् .. ९४..

प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः .

स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् .. ९५..

वागादि पञ्च श्रवणादि पञ्च

    प्राणादि पञ्चाभ्रमुखानि पञ्च .

बुद्ध्याद्यविद्यापि च कामकर्मणी

    पुर्यष्टकं सूक्ष्मशरीरमाहुः .. ९६..

इदं शरीरं शृणु सूक्ष्मसंज्ञितं

    लिङ्गं त्वपञ्चीकृतसम्भवम् .

सवासनं कर्मफलानुभावकं

    स्वाज्ञानतोऽनादिरुपाधिरात्मनः .. ९७..

स्वप्नो भवत्यस्य विभक्त्यवस्था

    स्वमात्रशेषेण विभाति यत्र .

स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्

    कालीननानाविधवासनाभिः .. ९८..

कर्त्रादिभावं प्रतिपद्य राजते

    यत्र स्वयं भाति ह्ययं परात्मा .

धीमात्रकोपाधिरशेषसाक्षी

    न लिप्यते तत्कृतकर्मलेशैः .

यस्मादसङ्गस्तत एव कर्मभिः

    न लिप्यते किञ्चिदुपाधिना कृतैः .. ९९..

सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः .

वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम् .. १००..

अन्धत्वमन्दत्वपटुत्वधर्माः

    सौगुण्यवैगुण्यवशाद्धि चक्षुषः .

बाधिर्यमूकत्वमुखास्तथैव

    श्रोत्रादिधर्मा न तु वेत्तुरात्मनः .. १०१..

उच्छ्वासनिःश्वासविजृम्भणक्षुत्

    प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः .

प्राणादिकर्माणि वदन्ति तज्ञाः

    प्राणस्य धर्मावशनापिपासे .. १०२..

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि .

अहमित्यभिमानेन तिष्ठत्याभासतेजसा .. १०३..

अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् .

सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते .. १०४..

विषयाणामानुकूल्ये सुखी दुःखी विपर्यये .

सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः .. १०५..

आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः .

स्वत एव हि सर्वेषामात्मा प्रियतमो यतः

तत आत्मा सदानन्दो नास्य दुःखं कदाचन .. १०६..

यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते .

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति .. १०७..

अव्यक्तनाम्नी परमेशशक्तिः

    अनाद्यविद्या त्रिगुणात्मिका परा .

कार्यानुमेया सुधियैव माया

    यया जगत्सर्वमिदं प्रसूयते .. १०८..

सन्नाप्यसन्नाप्युभयात्मिका नो

    भिन्नाप्यभिन्नाप्युभयात्मिका नो .

साङ्गाप्यनङ्गा ह्युभयात्मिका नो

    महाद्भुताऽनिर्वचनीयरूपा .. १०९..

शुद्धाद्वयब्रह्मविभोधनाश्या

    सर्पभ्रमो रज्जुविवेकतो यथा .

रजस्तमःसत्त्वमिति प्रसिद्धा

    गुणास्तदीयाः प्रथितैः स्वकार्यैः .. ११०..

विक्षेपशक्ती रजसः क्रियात्मिका

    यतः प्रवृत्तिः प्रसृता पुराणी .

रागादयोऽस्याः प्रभवन्ति नित्यं

    दुःखादयो ये मनसो विकाराः .. १११..

कामः क्रोधो लोभदम्भाद्यसूया

    अहंकारेर्ष्यामत्सराद्यास्तु घोराः .

धर्मा एते राजसाः पुम्प्रवृत्तिः

    यस्मादेषा तद्रजो बन्धहेतुः .. ११२..

एषाऽऽवृतिर्नाम तमोगुणस्य

    शक्तिर्मया वस्त्ववभासतेऽन्यथा .

सैषा निदानं पुरुषस्य संसृतेः

    विक्षेपशक्तेः प्रवणस्य हेतुः .. ११३..

प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग्-

व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् .

भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्

हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः .. ११४..

अभावना वा विपरीतभावना

    असंभावना विप्रतिपत्तिरस्याः .

संसर्गयुक्तं न विमुञ्चति ध्रुवं

    विक्षेपशक्तिः क्षपयत्यजस्रम् .. ११५..

अज्ञानमालस्यजडत्वनिद्रा-

    प्रमादमूढत्वमुखास्तमोगुणाः .

एतैः प्रयुक्तो नहि वेत्ति किंचिन्

    निद्रालुवत्स्तम्भवदेव तिष्ठति .. ११६..

सत्त्वं विशुद्धं जलवत्तथापि

    ताभ्यां मिलित्वा सरणाय कल्पते .

यत्रात्मबिम्बः प्रतिबिम्बितः सन्

    प्रकाशयत्यर्क इवाखिलं जडम् .. ११७..

मिश्रस्य सत्त्वस्य भवन्ति धर्माः

    त्वमानिताद्या नियमा यमाद्याः .

श्रद्धा च भक्तिश्च मुमुक्षता च

    दैवी च सम्पत्तिरसन्निवृत्तिः .. ११८..

विशुद्धसत्त्वस्य गुणाः प्रसादः

    स्वात्मानुभूतिः परमा प्रशान्तिः .

तृप्तिः प्रहर्षः परमात्मनिष्ठा

    यया सदानन्दरसं समृच्छति .. ११९..

अव्यक्तमेतत्त्रिगुणैर्निरुक्तं

    तत्कारणं नाम शरीरमात्मनः .

सुषुप्तिरेतस्य विभक्त्यवस्था

    प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः .. १२०..

सर्वप्रकारप्रमितिप्रशान्तिः

    बीजात्मनावस्थितिरेव बुद्धेः .

सुषुप्तिरेतस्य किल प्रतीतिः

    किंचिन्न वेद्मीति जगत्प्रसिद्धेः .. १२१..

देहेन्द्रियप्राणमनोऽहमादयः

    सर्वे विकारा विषयाः सुखादयः .

व्योमादिभूतान्यखिलं न विश्वं

    अव्यक्तपर्यन्तमिदं ह्यनात्मा .. १२२..

माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् .

असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् .. १२३..

अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः .

यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते .. १२४..

अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः .

अवस्थात्रयसाक्षी सन्पञ्चकोशविलक्षणः .. १२५..

यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु .

बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् .. १२६..

यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन .

यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् .. १२७..

येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन .

अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम् .. १२८..

यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः .

विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव .. १२९..

अहङ्कारादिदेहान्ता विषयाश्च सुखादयः .

वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा .. १३०..

एषोऽन्तरात्मा पुरुषः पुराणो

    निरन्तराखण्डसुखानुभूतिः .

सदैकरूपः प्रतिबोधमात्रो

    येनेषिता वागसवश्चरन्ति .. १३१..

अत्रैव सत्त्वात्मनि धीगुहायां

    अव्याकृताकाश उशत्प्रकाशः .

आकाश उच्चै रविवत्प्रकाशते

    स्वतेजसा विश्वमिदं प्रकाशयन् .. १३२..

ज्ञाता मनोऽहंकृतिविक्रियाणां

    देहेन्द्रियप्राणकृतक्रियाणाम् .

अयोऽग्निवत्ताननुवर्तमानो

    न चेष्टते नो विकरोति किञ्चन .. १३३..

न जायते नो म्रियते न वर्धते

    न क्षीयते नो विकरोति नित्यः .

विलीयमानेऽपि वपुष्यमुष्मि-

    न्न लीयते कुम्भ इवाम्बरं स्वयम् .. १३४..

प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः

    सदसदिदमशेषं भासयन्निर्विशेषः .

विलसति परमात्मा जाग्रदादिष्ववस्था-

    स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः .. १३५..

नियमितमनसामुं त्वं स्वमात्मानमात्मन्

    ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् .

जनिमरणतरंगापारसंसारसिन्धुं

    प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः .. १३६..

अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः

    प्राप्तोऽज्ञानाज्जननमरणक्लेशसंपातहेतुः .

येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या

    पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् .. १३७..

अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा

विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा .

ततोऽनर्थव्रातो निपतति समादातुरधिकः

ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे .. १३८..

अखण्डनित्याद्वयबोधशक्त्या

    स्फुरन्तमात्मानमनन्तवैभवम् .

समावृणोत्यावृतिशक्तिरेषा

    तमोमयी राहुरिवार्कबिम्बम् .. १३९..

तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्

    अनात्मानं मोहादहमिति शरीरं कलयति .

ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः

    परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति .. १४०..

महामोहग्राहग्रसनगलितात्मावगमनो

    धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया .

अपारे संसरे विषयविषपूरे जलनिधौ

    निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः .. १४१..

भानुप्रभासंजनिताभ्रपङ्क्तिः

    भानुं तिरोधाय विजृम्भते यथा .

आत्मोदिताहंकृतिरात्मतत्त्वं

    तथा तिरोधाय विजृम्भते स्वयम् .. १४२..

कवलितदिननार्थे दुर्दिने सान्द्रमेघैः

    व्यथयति हिमझंझावायुरुग्रो यथैतान् .

अविरततमसात्मन्यावृते मूढबुद्धिं

    क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः .. १४३..

एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः .

याभ्यां विमोहितो देहं मत्वाऽत्मानं भ्रमत्ययम् .. १४४..

बीजं  संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो

रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोओऽसवः शाखिकाः .

अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं

नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः .. १४५..

अज्ञानमूलोऽयमनात्मबन्धो

    नैसर्गिकोऽनादिरनन्त ईरितः .

जन्माप्ययव्याधिजरादिदुःख-

    प्रवाहपातं जनयत्यमुष्य .. १४६..

नास्त्रैर्न शस्त्रैरनिलेन वह्निना

    छेत्तुं न शक्यो न च कर्मकोटिभिः .

विवेकविज्ञानमहासिना विना

    धातुः प्रसादेन शितेन मञ्जुना .. १४७..

श्रुतिप्रमाणैकमतेः स्वधर्म

    निष्ठा तयैवात्मविशुद्धिरस्य .

विशुद्धबुद्धेः परमात्मवेदनं

    तेनैव संसारसमूलनाशः .. १४८..

कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति .

निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् .. १४९..

तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् .

तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः .. १५०..

पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः .

नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः .. १५१..

आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा .

तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् .. १५२..

मुञ्जादिषीकामिव दृश्यवर्गात्

    प्रत्यञ्चमात्मानमसङ्गमक्रियम् .

विविच्य तत्र प्रविलाप्य सर्वं

    तदात्मना तिष्ठति यः स मुक्तः .. १५३..

देहोऽयमन्नभवनोऽन्नमयस्तु कोशः

    चान्नेन जीवति विनश्यति तद्विहीनः .

त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः

    नायं स्वयं भवितुमर्हति नित्यशुद्धः .. १५४..

पूर्वं जनेरधिमृतेरपि नायमस्ति

    जातक्षणः क्षणगुणोऽनियतस्वभावः .

नैको जडश्च घटवत्परिदृश्यमानः

स्वात्मा कथं भवति भावविकारवेत्ता .. १५५..

पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् .

तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः .. १५६..

देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः .

सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः .. १५७..

शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः .

कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः .. १५८..

त्वङ्मांसमेदोऽस्थिपुरीषराशा-

    वहंमतिं मूढजनः करोति .

विलक्षणं वेत्ति विचारशीलो

    निजस्वरूपं परमार्थ भूतम् .. १५९..

देहोऽहमित्येव जडस्य बुद्धिः

    देहे च जीवे विदुषस्त्वहंधीः .

विवेकविज्ञानवतो महात्मनो

    ब्रह्माहमित्येव मतिः सदात्मनि .. १६०..

अत्रात्मबुद्धिं त्यज मूढबुद्धे

    त्वङ्मांसमेदोऽस्थिपुरीषराशौ .

सर्वात्मनि ब्रह्मणि निर्विकल्पे

    कुरुष्व शान्तिं परमां भजस्व .. १६१..

देहेन्द्रियादावसति भ्रमोदितां

    विद्वानहंतां न जहाति यावत् .

तावन्न तस्यास्ति विमुक्तिवार्ता-

    प्यस्त्वेष वेदान्तनयान्तदर्शी .. १६२..

छायाशरीरे प्रतिबिम्बगात्रे

    यत्स्वप्नदेहे हृदि कल्पिताङ्गे .

यथात्मबुद्धिस्तव नास्ति काचि-

    ज्जीवच्छरीरे च तथैव माऽस्तु .. १६३..

देहात्मधीरेव नृणामसद्धियां

    जन्मादिदुःखप्रभवस्य बीजम् .

यतस्ततस्त्वं जहि तां प्रयत्नात्

    त्यक्ते तु चित्ते न पुनर्भवाशा .. १६४..

कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं

    प्राणो भवेत्प्राणमयस्तु कोशः ..

येनात्मवानन्नमयोऽनुपूर्णः

    प्रवर्ततेऽसौ सकलक्रियासु .. १६५..

नैवात्मापि प्राणमयो वायुविकारो

    गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः .

यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं

    स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः .. १६६..

ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्

    कोशो ममाहमिति वस्तुविकल्पहेतुः .

संज्ञादिभेदकलनाकलितो बलीयां-

    स्तत्पूर्वकोशमभिपूर्य विजृम्भते यः .. १६७..

पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः

    प्रचीयमानो विषयाज्यधारया .

जाज्वल्यमानो बहुवासनेन्धनैः

    मनोमयाग्निर्दहति प्रपञ्चम् .. १६८..

न ह्यस्त्यविद्या मनसोऽतिरिक्ता

    मनो ह्यविद्या भवबन्धहेतुः .

तस्मिन्विनष्टे सकलं विनष्टं

    विजृम्भितेऽस्मिन्सकलं विजृम्भते .. १६९..

स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या

    भोक्त्रादिविश्वं मन एव सर्वम् .

तथैव जाग्रत्यपि नो विशेषः

    तत्सर्वमेतन्मनसो विजृम्भणम् .. १७०..

सुषुप्तिकाले मनसि प्रलीने

    नैवास्ति किञ्चित्सकलप्रसिद्धेः .

अतो मनःकल्पित् एव पुंसः

    संसार एतस्य न वस्तुतोऽस्ति .. १७१..

वायुनाऽऽनीयते मेधः पुनस्तेनैव नीयते .

मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते .. १७२..

देहादिसर्वविषये परिकल्प्य रागं

    बध्नाति तेन पुरुषं पशुवद्गुणेन .

वैरस्यमत्र विषवत् सुवुधाय पश्चाद्

    एनं विमोचयति तन्मन एव बन्धात् .. १७३..

तस्मान्मनः कारणमस्य जन्तोः

    बन्धस्य मोक्षस्य च वा विधाने .

बन्धस्य हेतुर्मलिनं रजोगुणैः

    मोक्षस्य शुद्धं विरजस्तमस्कम् .. १७४..

विवेकवैराग्यगुणातिरेका-

    च्छुद्धत्वमासाद्य मनो विमुक्त्यै .

भवत्यतो बुद्धिमतो मुमुक्षो-

    स्ताभ्यां दृढाभ्यां भवितव्यमग्रे .. १७५..

मनो नाम महाव्याघ्रो विषयारण्यभूमिषु .

चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः .. १७६..

मनः प्रसूते विषयानशेषान्

    स्थूलात्मना सूक्ष्मतया च भोक्तुः .

शरीरवर्णाश्रमजातिभेदान्

    गुणक्रियाहेतुफलानि नित्यम् .. १७७..

असंगचिद्रूपममुं विमोह्य

    देहेन्द्रियप्राणगुणैर्निबद्ध्य .

अहंममेति भ्रमयत्यजस्रं

    मनः स्वकृत्येषु फलोपभुक्तिषु .. १७८..

अध्यासदोषात्पुरुषस्य संसृतिः

    अध्यासबन्धस्त्वमुनैव कल्पितः .

रजस्तमोदोषवतोऽविवेकिनो

    जन्मादिदुःखस्य निदानमेतत् .. १७९..

अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः .

येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् .. १८०..

तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा .

विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते .. १८१..

मोक्षैकसक्त्या विषयेषु रागं

    निर्मूल्य संन्यस्य च सर्वकर्म .

सच्छ्रद्धया यः श्रवणादिनिष्ठो

    रजःस्वभावं स धुनोति बुद्धेः .. १८२..

मनोमयो नापि भवेत्परात्मा

    ह्याद्यन्तवत्त्वात्परिणामिभावात् .

दुःखात्मकत्वाद्विषयत्वहेतोः

    द्रष्टा हि दृश्यात्मतया न दृष्टः .. १८३..

बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः .

विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् .. १८४..

अनुव्रजच्चित्प्रतिबिम्बशक्तिः

    विज्ञानसंज्ञः प्रकृतेर्विकारः .

ज्ञानक्रियावानहमित्यजस्रं

    देहेन्द्रियादिष्वभिमन्यते भृशम् .. १८५..

अनादिकालोऽयमहंस्वभावो

    जीवः समस्तव्यवहारवोढा .

करोति कर्माण्यपि पूर्ववासनः

    पुण्यान्यपुण्यानि च तत्फलानि .. १८६..

भुङ्क्ते विचित्रास्वपि योनिषु व्रज-

    न्नायाति निर्यात्यध ऊर्ध्वमेषः .

अस्यैव विज्ञानमयस्य जाग्रत्-

    स्वप्नाद्यवस्थाः सुखदुःखभोगः .. १८७..

देहादिनिष्ठाश्रमधर्मकर्म-

    गुणाभिमानः सततं ममेति .

विज्ञानकोशोऽयमतिप्रकाशः

    प्रकृष्टसान्निध्यवशात्परात्मनः .

अतो भवत्येष उपाधिरस्य

    यदात्मधीः संसरति भ्रमेण .. १८८..

योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः .

कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः .. १८९..

स्वयं परिच्छेदमुपेत्य बुद्धेः

    तादात्म्यदोषेण परं मृषात्मनः .

सर्वात्मकः सन्नपि वीक्षते स्वयं

    स्वतः पृथक्त्वेन मृदो घटानिव .. १९०..

उपाधिसम्बन्धवशात्परात्मा

    ह्युपाधिधर्माननुभाति तद्गुणः .

अयोविकारानविकारिवन्हिवत्

    सदैकरूपोऽपि परः स्वभावात् .. १९१..

          शिष्य उवाच .

भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः .

तदुपाधेरनादित्वान्नानादेर्नाश इष्यते .. १९२..

अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः .

न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद .. १९३..

          श्रीगुरुरुवाच .

सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु .

प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना .. १९४..

भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः .

न घटेतार्थसम्बन्धो नभसो नीलतादिवत् .. १९५..

स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य

    प्रत्यग्बोधानन्दरूपस्य बुद्धेः .

भ्रान्त्या प्राप्तो जीवभावो न सत्यो

    मोहापाये नास्त्यवस्तुस्वभावात् .. १९६..

यावद्भ्रान्तिस्तावदेवास्य सत्ता

    मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् .

रज्ज्वां सर्पो भ्रान्तिकालीन एव

    भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत् .. १९७..

अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते .

उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि .. १९८..

प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति .

अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् .. १९९..

अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः .

यद्बुद्ध्युपाधिसम्बम्धात्परिकल्पितमात्मनि .. २००..

जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः .

सम्बन्धस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः .. २०१..

विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा .

ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् .. २०२..

तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति .

ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः .. २०३..

जलं पंकवदत्यन्तं पंकापाये जलं स्फुटम् .

यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः .. २०४..

असन्निवृत्तौ तु सदात्मना स्फुटं

    प्रतीतिरेतस्य भवेत्प्रतीचः .

ततो निरासः करणीय एव

    सदात्मनः साध्वहमादिवस्तुनः .. २०५..

अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् .

विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः .

दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते .. २०६..

आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता

स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः .

पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं

सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना .. २०७..

आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा .

स्वप्नजागरयोरीषदिष्टसंदर्शनाविना .. २०८..

नैवायमानन्दमयः परात्मा

    सोपाधिकत्वात्प्रकृतेर्विकारात् .

कार्यत्वहेतोः सुकृतक्रियाया

    विकारसंघातसमाहितत्वात् .. २०९..

पञ्चानामपि कोशानां निषेधे युक्तितः श्रुतेः .

तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते .. २१०..

योऽयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः .

अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः .

सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता .. २११..

          शिष्य उवाच .

मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु .

सर्वाभावं विना किञ्चिन्न पश्याम्यत्र हे गुरो .

विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता .. २१२..

          श्रीगुरुरुवाच .

सत्यमुक्तं त्वया विदन्निपुणोऽसि विचारणे .

अहमादिविकारास्ते तदभावोऽयमप्यनु .. २१३..

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते .

तमात्मानं वेदितारं विद्दि बुद्ध्या सुसूक्ष्मया .. २१४..

तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते .

कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते .. २१५..

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते .

अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः .. २१६..

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते

प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा .

नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान्

नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि .. २१७..

घटोदके बिम्बितमर्कबिम्ब-

    मालोक्य मूढो रविमेव मन्यते .

तथा चिदाभासमुपाधिसंस्थं

    भ्रान्त्याहमित्येव जडोऽभिमन्यते .. २१८..

घटं जलं तद्गतमर्कबिम्बं

    विहाय सर्वं विनिरीक्ष्यतेऽर्कः .

तटस्थ एतत्त्रितयावभासकः

    स्वयंप्रकाशो विदुषा यथा तथा .. २१९..

देहं धियं चित्प्रतिबिम्बमेवं

    विसृज्य बुद्धौ निहितं गुहायाम् .

द्रष्टारमात्मानमखण्डबोधं

    सर्वप्रकाशं सदसद्विलक्षणम् .. २२०..

नित्यं विभुं सर्वगतं सुसूक्ष्मं

    अन्तर्बहिःशून्यमनन्यमात्मनः .

विज्ञाय सम्यङ्निजरूपमेतत्

    पुमान् विपाप्मा विरजो विमृत्युः .. २२१..

विशोक आनन्दघनो विपश्चित्

    स्वयं कुतश्चिन्न बिभेति कश्चित् .

नान्योऽस्ति पन्था भवबन्धमुक्तेः

    विना स्वतत्त्वावगमं मुमुक्षोः .. २२२..

ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् .

येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः .. २२३..

ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः .

विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः .. २२४..

सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् .

नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति .. २२५..

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् .

न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् .. २२६..

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् .

तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् .. २२७..

मृत्कार्यभूतोऽपि मृदो न भिन्नः

    कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् .

न कुम्भरूपं पृथगस्ति कुम्भः

    कुतो मृषा कल्पितनाममात्रः .. २२८..

केनापि मृद्भिन्नतया स्वरूपं

    घटस्य संदर्शयितुं न शक्यते .

अतो घटः कल्पित एव मोहा-

    न्मृदेव सत्यं परमार्थभूतम् .. २२९..

सद्ब्रह्मकार्यं सकलं सदेवं

    तन्मात्रमेतन्न ततोऽन्यदस्ति .

अस्तीति यो वक्ति न तस्य मोहो

    विनिर्गतो निद्रितवत्प्रजल्पः .. २३०..

ब्रह्मैवेदं विश्वमित्येव वाणी

    श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा .

तस्मादेतद्ब्रह्ममात्रं हि विश्वं

    नाधिष्ठानाद्भिन्नताऽऽरोपितस्य .. २३१..

सत्यं यदि स्याज्जगदेतदात्मनोऽ

    न तत्त्वहानिर्निगमाप्रमाणता .

असत्यवादित्वमपीशितुः स्या-

    न्नैतत्त्रयं साधु हितं महात्मनाम् .. २३२..

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः .

न च मत्स्थानि भूतानीत्येवमेव व्यचीक्लृपत् .. २३३..

यदि सत्यं भवेद्विश्वं सुषुप्तामुपलभ्यताम् .

यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा .. २३४..

अतः पृथङ्नास्ति जगत्परात्मनः

    पृथक्प्रतीतिस्तु मृषा गुणादिवत् .

आरोपितस्यास्ति किमर्थवत्ताऽ-

    धिष्ठानमाभाति तथा भ्रमेण .. २३५..

भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं

    ब्रह्मैव तत्तद्रजतं हि शुक्तिः .

इदंतया ब्रह्म सदैव रूप्यते

    त्वारोपितं ब्रह्मणि नाममात्रम् .. २३६..

अतः परं ब्रह्म सदद्वितीयं

    विशुद्धविज्ञानघनं निरञ्जनम् .

प्राशान्तमाद्यन्तविहीनमक्रियं

    निरन्तरानन्दरसस्वरूपम् .. २३७..

निरस्तमायाकृतसर्वभेदं

    नित्यं सुखं निष्कलमप्रमेयम् .

अरूपमव्यक्तमनाख्यमव्ययं

    ज्योतिः स्वयं किञ्चिदिदं चकास्ति .. २३८..

ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् .

केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः .. २३९..

अहेयमनुपादेयं मनोवाचामगोचरम् .

अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः .. २४०..

तत्त्वंपदाभ्यामभिधीयमानयोः

    ब्रह्मात्मनोः शोधितयोर्यदीत्थम् .

श्रुत्या तयोस्तत्त्वमसीति सम्यग्

    एकत्वमेव प्रतिपाद्यते मुहुः .. २४१-

एक्यं तयोर्लक्षितयोर्न वाच्ययोः

    निगद्यतेऽन्योन्यविरुद्धधर्मिणोः .

खद्योतभान्वोरिव राजभृत्ययोः

    कूपाम्बुराश्योः परमाणुमेर्वोः .. २४२..

तयोर्विरोधोऽयमुपाधिकल्पितो

    न वास्तवः कश्चिदुपाधिरेषः .

ईशस्य माया महदादिकारणं

    जीवस्य कार्यं शृणु पञ्चकोशम् .. २४३..

एतावुपाधी परजीवयोस्तयोः

    सम्यङ्निरासे न परो न जीवः .

राज्यं नरेन्द्रस्य भटस्य खेटकः

    तयोरपोहे न भटो न राजा .. २४४..

अथात आदेश इति श्रुतिः स्वयं

    निषेधति ब्रह्मणि कल्पितं द्वयम् .

श्रुतिप्रमाणानुगृहीतबोधा-

    त्तयोर्निरासः करणीय एव .. २४५..

नेदं नेदं कल्पितत्वान्न सत्यं

    रज्जुदृष्टव्यालवत्स्वप्नवच्च .

इत्थं दृश्यं साधुयुक्त्या व्यपोह्य

    ज्ञेयः पश्चादेकभावस्तयोर्यः .. २४६..

ततस्तु तौ लक्षणया सुलक्ष्यौ

    तयोरखण्डैकरसत्वसिद्धये .

नालं जहत्या न तथाऽजहत्या

    किन्तूभयार्थात्मिकयैव भाव्यम् .. २४७..

स देवदत्तोऽयमितीह चैकता

    विरुद्धधर्मांशमपास्य कथ्यते .

यथा तथा तत्त्वमसीतिवाक्ये

    विरुद्धधर्मानुभयत्र हित्वा .. २४८..

संलक्ष्य चिन्मात्रतया सदात्मनोः

    अखण्डभावः परिचीयते बुधैः .

एवं महावाक्यशतेन कथ्यते

    ब्रह्मात्मनोरैक्यमखण्डभावः .. २४९..

अस्थूलमित्येतदसन्निरस्य

    सिद्धं स्वतो व्योमवदप्रतर्क्यम् .

अतो मृषामात्रमिदं प्रतीतं

    जहीहि यत्स्वात्मतया गृहीतम् .

ब्रह्माहमित्येव विशुद्धबुद्ध्या

    विद्धि स्वमात्मानमखण्डबोधम् .. २५०..

मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं

तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् .

यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं

तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् .. २५१..

निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा

मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः .

यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्

तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् .. २५२..

यत्र भ्रान्त्या कल्पित तद्विवेके

    तत्तन्मात्रं नैव तस्माद्विभिन्नम् .

स्वप्ने नष्टं स्वप्नविश्वं विचित्रं

    स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे .. २५३..

जातिनीतिकुलगोत्रदूरगं

    नामरूपगुणदोषवर्जितम् .

देशकालविषयातिवर्ति यद्

    ब्रह्म तत्त्वमसि भावयात्मनि .. २५४..

यत्परं सकलवागगोचरं

    गोचरं विमलबोधचक्षुषः .

शुद्धचिद्घनमनादि वस्तु यद्

    ब्रह्म तत्त्वमसि भावयात्मनि .. २५५..

षड्भिरूर्मिभिरयोगि योगिहृद्-

    भावितं न करणैर्विभावितम् .

बुद्ध्यवेद्यमनवद्यमस्ति यद्

    ब्रह्म तत्त्वमसि भावयात्मनि .. २५६..

भ्रान्तिकल्पितजगत्कलाश्रयं

    स्वाश्रयं च सदसद्विलक्षणम् .

निष्कलं निरुपमानवद्धि यद्

    ब्रह्म तत्त्वमसि भावयात्मनि .. २५७..

जन्मवृद्धिपरिणत्यपक्षय-

    व्याधिनाशनविहीनमव्ययम् .

विश्वसृष्ट्यवविघातकारणं

    ब्रह्म तत्त्वमसि भावयात्मनि .. २५८..

अस्तभेदमनपास्तलक्षणं

    निस्तरङ्गजलराशिनिश्चलम् .

नित्यमुक्तमविभक्तमूर्ति यद्

    ब्रह्म तत्त्वमसि भावयात्मनि .. २५९..

एकमेव सदनेककारणं

    कारणान्तरनिरास्यकारणम् .

कार्यकारणविलक्षणं स्वयं

    ब्रह्म तत्त्वमसि भावयात्मनि .. २६०..

निर्विकल्पकमनल्पमक्षरं

    यत्क्षराक्षरविलक्षणं परम् .

नित्यमव्ययसुखं निरञ्जनं

    ब्रह्म तत्त्वमसि भावयात्मनि .. २६१..

यद्विभाति सदनेकधा भ्रमा-

    न्नामरूपगुणविक्रियात्मना .

हेमवत्स्वयमविक्रियं सदा

    ब्रह्म तत्त्वमसि भावयात्मनि .. २६२..

यच्चकास्त्यनपरं परात्परं

    प्रत्यगेकरसमात्मलक्षणम् .

सत्यचित्सुखमनन्तमव्ययं

    ब्रह्म तत्त्वमसि भावयात्मनि .. २६३..

उक्तमर्थमिममात्मनि स्वयं

    भावयेत्प्रथितयुक्तिभिर्धिया .

संशयादिरहितं कराम्बुवत्

    तेन तत्त्वनिगमो भविष्यति .. २६४..

सम्बोधमात्रं परिशुद्धतत्त्वं

    विज्ञाय संघे नृपवच्च सैन्ये .

तदाश्रयः स्वात्मनि सर्वदा स्थितो

    विलापय ब्रह्मणि विश्वजातम् .. २६५..

बुद्धौ गुहायां सदसद्विलक्षणं

    ब्रह्मास्ति सत्यं परमद्वितीयम् .

तदात्मना योऽत्र वसेद्गुहायां

    पुनर्न तस्याङ्गगुहाप्रवेशः .. २६६..

ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा

कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः .

प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्ना-

न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् .. २६७..

अहं ममेति यो भावो देहाक्षादावनात्मनि .

अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया .. २६८..

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् .

सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि .. २६९..

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् .

शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु .. २७०..

लोकवासनया जन्तोः शास्त्रवासनयापि च .

देहवासनया ज्ञानं यथावन्नैव जायते .. २७१

संसारकारागृहमोक्षमिच्छो-

    रयोमयं पादनिबन्धशृंखलम् .

वदन्ति तज्ज्ञाः पटु वासनात्रयं

    योऽस्माद्विमुक्तः समुपैति मुक्तिम् .. २७२..

जलादिसंसर्गवशात्प्रभूत-

    दुर्गन्धधूताऽगरुदिव्यवासना .

संघर्षणेनैव विभाति सम्य-

    ग्विधूयमाने सति बाह्यगन्धे .. २७३..

अन्तःश्रितानन्तदूरन्तवासना-

    धूलीविलिप्ता परमात्मवासना .

प्रज्ञातिसंघर्षणतो विशुद्धा

    प्रतीयते चन्दनगन्धवत् स्फुटम् .. २७४..

अनात्मवासनाजालैस्तिरोभूतात्मवासना .

नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् .. २७५..

यथा यथा प्रत्यगवस्थितं मनः

    तथा तथा मुञ्चति बाह्यवासनाम् .

निःशेषमोक्षे सति वासनानां

    आत्मानुभूतिः प्रतिबन्धशून्या .. २७६..

स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः .

वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु .. २७७..

तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति .

तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु .. २७८..

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः .

धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु .. २७९..

नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् .

वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु .. २८०..

श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः .

क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु .. २८१..

अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः .

तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु .. २८२..

तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः .

ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु .. २८३..

अहंभावस्य देहेऽस्मिन्निःशेषविलयावधि .

सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु .. २८४..

प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता .

तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु .. २८५..

निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः .

क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि .. २८६..

मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः .

त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव .. २८७..

घटाकाशं महाकाश इवात्मानं परात्मनि .

विलाप्याखण्डभावेन तूष्णी भव सदा मुने .. २८८..

स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना .

ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् .. २८९..

चिदात्मनि सदानन्दे देहारूढामहंधियम् .

निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा .. २९०..

यत्रैष जगदाभासो दर्पणान्तः पुरं यथा .

तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि .. २९१..

यत्सत्यभूतं निजरूपमाद्यं

    चिदद्वयानन्दमरूपमक्रियम् .

तदेत्य मिथ्यावपुरुत्सृजेत

    शैलूषवद्वेषमुपात्तमात्मनः .. २९२..

सर्वात्मना दृश्यमिदं मृषैव

    नैवाहमर्थः क्षणिकत्वदर्शनात् .

जानाम्यहं सर्वमिति प्रतीतिः

    कुतोऽहमादेः क्षणिकस्य सिध्येत् .. २९३..

अहंपदार्थस्त्वहमादिसाक्षी

    नित्यं सुषुप्तावपि भावदर्शनात् .

ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं

    तत्प्रत्यगात्मा सदसद्विलक्षणः .. २९४..

विकारिणां सर्वविकारवेत्ता

    नित्याविकारो भवितुं समर्हति .

मनोरथस्वप्नसुषुप्तिषु स्फुटं

    पुनः पुनर्दृष्टमसत्त्वमेतयोः .. २९५..

अतोऽभिमानं त्यज मांसपिण्डे

    पिण्डाभिमानिन्यपि बुद्धिकल्पिते .

कालत्रयाबाध्यमखण्डबोधं

    ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् .. २९६..

त्यजाभिमानं कुलगोत्रनाम-

    रूपाश्रमेष्वार्द्रशवाश्रितेषु .

लिङ्गस्य धर्मानपि कर्तृतादिं-

    स्त्यक्ता भवाखण्डसुखस्वरूपः .. २९७..

सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः .

तेषामेवं मूलं प्रथमविकारो भवत्यहंकारः .. २९८..

यावत्स्यात्स्वस्य सम्बन्धोऽहंकारेण दुरात्मना .

तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा .. २९९..

अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते .

चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः .. ३००..

यो वा पुरे सोऽहमिति प्रतीतो

    बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया .

तस्यैव निःशेषतया विनाशे

    ब्रह्मात्मभावः प्रतिबन्धशून्यः .. ३०१..

ब्रह्मानन्दनिधिर्महाबलवताऽहंकारघोराहिना

संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः

विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं

निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुंक्षमः .. ३०२..

यावद्वा यत्किञ्चिद्विषदोषस्फूर्तिरस्ति चेद्देहे .

कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै .. ३०३..

अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या .

प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम् .. ३०४..

अहंकारे कर्तर्यहमिति मतिं मुञ्च सहसा

विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि .

यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला

प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् .. ३०५..

सदैकरूपस्य चिदात्मनो विभो-

    रानन्दमूर्तेरनवद्यकीर्तेः .

नैवान्यथा क्वाप्यविकारिणस्ते

    विनाहमध्यासममुष्य संसृतिः .. ३०६..

तस्मादहंकारमिमं स्वशत्रुं

    भोक्तुर्गले कण्टकवत्प्रतीतम् .

विच्छिद्य विज्ञानमहासिना स्फुटं

    भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् .. ३०७..

ततोऽहमादेर्विनिवर्त्य वृत्तिं

    संत्यक्तरागः परमार्थलाभात् .

तूष्णीं समास्स्वात्मसुखानुभूत्या

    पूर्णात्मना ब्रह्मणि निर्विकल्पः .. ३०८..

समूलकृत्तोऽपि महानहं पुनः

    व्युल्लेखितः स्याद्यदि चेतसा क्षणम् .

संजीव्य विक्षेपशतं करोति

    नभस्वता प्रावृषि वारिदो यथा .. ३०९..

निगृह्य शत्रोरहमोऽवकाशः

    क्वचिन्न देयो विषयानुचिन्तया .

स एव संजीवनहेतुरस्य

    प्रक्षीणजम्बीरतरोरिवाम्बु .. ३१०..

देहात्मना संस्थित एव कामी

    विलक्षणः कामयिता कथं स्यात् .

अतोऽर्थसन्धानपरत्वमेव

    भेदप्रसक्त्या भवबन्धहेतुः .. ३११..

कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते .

कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् .. ३१२..

वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना .

वर्धते सर्वथा पुंसः संसारो न निवर्तते .. ३१३..

संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः .

वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः .. ३१४..

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः .

त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा .. ३१५..

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः .

सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते .. ३१६..

क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः .

वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते .. ३१७..

सद्वासनास्फूर्तिविजृम्भणे सति

    ह्यसौ विलीनाप्यहमादिवासना .

अतिप्रकृष्टाप्यरुणप्रभायां

    विलीयते साधु यथा तमिस्रा .. ३१८..

तमस्तमःकार्यमनर्थजालं

    न दृश्यते सत्युदिते दिनेशे .

तथाऽद्वयानन्दरसानुभूतौ

    नैवास्ति बन्धो न च दुःखगन्धः .. ३१९..

दृश्यं प्रतीतं प्रविलापयन्सन्

    सन्मात्रमानन्दघनं विभावयन् .

समाहितः सन्बहिरन्तरं वा

    कालं नयेथाः सति कर्मबन्धे .. ३२०..

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन .

प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः .. ३२१..

न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः .

ततो मोहस्ततोऽहंधीस्ततो बन्धस्ततो व्यथा .. ३२२..

विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः .

विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् .. ३२३..

यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति .

आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् .. ३२४..

लक्ष्यच्युतं चेद्यदि चित्तमीषद्

    बहिर्मुखं सन्निपतेत्ततस्ततः .

प्रमादतः प्रच्युतकेलिकन्दुकः

    सोपानपङ्क्तौ पतितो यथा तथा .. ३२५..

विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् .

सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम् .. ३२६..

अतः प्रमादान्न परोऽस्ति मृत्युः

    विवेकिनो ब्रह्मविदः समाधौ .

समाहितः सिद्धिमुपैति सम्यक्

    समाहितात्मा भव सावधानः .. ३२७..

ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः .

पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते .. ३२८..

संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् .

जीवतो यस्य कैवल्यं विदेहे स च केवलः .

यत्किञ्चित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः .. ३२९..

यदा कदा वापि विपश्चिदेष

    ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् .

पश्यत्यथामुष्य भयं तदैव

    यद्वीक्षितं भिन्नतया प्रमादात् .. ३३०..

श्रुतिस्मृतिन्यायशतैर्निषिद्धे

    दृश्येऽत्र यः स्वात्ममतिं करोति .

उपैति दुःखोपरि दुःखजातं

    निषिद्धकर्ता स मलिम्लुचो यथा .. ३३१..

सत्याभिसंधानरतो विमुक्तो

    महत्त्वमात्मीयमुपैति नित्यम् .

मिथ्याभिसन्धानरतस्तु नश्येद्

    दृष्टं तदेतद्यदचौरचौरयोः .. ३३२..

यतिरसदनुसन्धिं बन्धहेतुं विहाय

    स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत्

सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या

    हरति परमविद्याकार्यदुःखं प्रतीतम् .. ३३३..

बाह्यानुसन्धिः परिवर्धयेत्फलं

    दुर्वासनामेव ततस्ततोऽधिकाम् .

ज्ञात्वा विवेकैः परिहृत्य बाह्यं

    स्वात्मानुसन्धिं विदधीत नित्यम् .. ३३४..

बाह्ये निरुद्धे मनसः प्रसन्नता

    मनःप्रसादे परमात्मदर्शनम् .

तस्मिन्सुदृष्टे भवबन्धनाशो

    बहिर्निरोधः पदवी विमुक्तेः .. ३३५..

कः पण्डितः सन्सदसद्विवेकी

    श्रुतिप्रमाणः परमार्थदर्शी .

जानन्हि कुर्यादसतोऽवलम्बं

    स्वपातहेतोः शिशुवन्मुमुक्षुः .. ३३६..

देहादिसंसक्तिमतो न मुक्तिः

    मुक्तस्य देहाद्यभिमत्यभावः .

सुप्तस्य नो जागरणं न जाग्रतः

    स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् .. ३३७..

अन्तर्बहिः स्वं स्थिरजङ्गमेषु

    ज्ञात्वाऽऽत्मनाधारतया विलोक्य .

त्यक्ताखिलोपाधिरखण्डरूपः

    पूर्णात्मना यः स्थित एष मुक्तः .. ३३८..

सर्वात्मना बन्धविमुक्तिहेतुः

    सर्वात्मभावान्न परोऽस्ति कश्चित् .

दृश्याग्रहे सत्युपपद्यतेऽसौ

    सर्वात्मभावोऽस्य सदात्मनिष्ठया .. ३३९..

दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो

बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः .

संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः

तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः .. ३४०..

सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः .

समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः .. ३४१..

आरूढशक्तेरहमो विनाशः

    कर्तुन्न शक्य सहसापि पण्डितैः .

ये निर्विकल्पाख्यसमाधिनिश्चलाः

    तानन्तराऽनन्तभवा हि वासनाः .. ३४२..

अहंबुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् .

विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः .. ३४३..

विक्षेपशक्तिविजयो विषमो विधातुं

    निःशेषमावरणशक्तिनिवृत्त्यभावे .

दृग्दृश्ययोः स्फुटपयोजलवद्विभागे

    नश्येत्तदावरणमात्मनि च स्वभावात् .

निःसंशयेन भवति प्रतिबन्धशून्यो

    विक्षेपणं न हि तदा यदि चेन्मृषार्थे .. ३४४..

सम्यग्विवेकः स्फुटबोधजन्यो

    विभज्य दृग्दृश्यपदार्थतत्त्वम् .

छिनत्ति मायाकृतमोहबन्धं

    यस्माद्विमुक्तस्तु पुनर्न संसृतिः .. ३४५..

परावरैकत्वविवेकवन्हिः

    दहत्यविद्यागहनं ह्यशेषम् .

किं स्यात्पुनः संसरणस्य बीजं

    अद्वैतभावं समुपेयुषोऽस्य .. ३४६..

आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः .

मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः .. ३४७..

एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् .

तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा .. ३४८..

अयोऽग्नियोगादिव सत्समन्वयान्

    मात्रादिरूपेण विजृम्भते धीः .

तत्कार्यमेतद्द्वितयं यतो मृषा

    दृष्टं भ्रमस्वप्नमनोरथेषु .. ३४९..

ततो विकाराः प्रकृतेरहंमुखा

    देहावसाना विषयाश्च सर्वे .

क्षणेऽन्यथाभावितया ह्यमीषा-

    मसत्त्वमात्मा तु कदापि नान्यथा .. ३५०..

नित्याद्वयाखण्डचिदेकरूपो

    बुद्ध्यादिसाक्षी सदसद्विलक्षणः .

अहंपदप्रत्ययलक्षितार्थः

    प्रत्यक् सदानन्दघनः परात्मा .. ३५१..

इत्थं विपश्चित्सदसद्विभज्य

    निश्चित्य तत्त्वं निजबोधदृष्ट्या .

ज्ञात्वा स्वमात्मानमखण्डबोधं

    तेभ्यो विमुक्तः स्वयमेव शाम्यति .. ३५२..

अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा .

समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् .. ३५३..

त्वमहमिदमितीयं कल्पना बुद्धिदोषात्

    प्रभवति परमात्मन्यद्वये निर्विशेषे .

प्रविलसति समाधावस्य सर्वो विकल्पो

    विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या .. ३५४..

शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं

कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् .

तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान्

ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः .. ३५५..

समाहिता ये प्रविलाप्य बाह्यं

    श्रोत्रादि चेतः स्वमहं चिदात्मनि .

त एव मुक्ता भवपाशबन्धैः

    नान्ये तु पारोक्ष्यकथाभिधायिनः .. ३५६..

उपाधिभेदात्स्वयमेव भिद्यते

    चोपाध्यपोहे स्वयमेव केवलः .

तस्मादुपाधेर्विलयाय विद्वान्

    वसेत्सदाऽकल्पसमाधिनिष्ठया .. ३५७..

सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया .

कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते .. ३५८..

क्रियान्तरासक्तिमपास्य कीटको

    ध्यायन्नलित्वं ह्यलिभावमृच्छति .

तथैव योगी परमात्मतत्त्वं

    ध्यात्वा समायाति तदेकनिष्ठया .. ३५९..

अतीव सूक्ष्मं परमात्मतत्त्वं

    न स्थूलदृष्ट्या प्रतिपत्तुमर्हति .

समाधिनात्यन्तसुसूक्ष्मवृत्या

    ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः .. ३६०..

यथा सुवर्णं पुटपाकशोधितं

    त्यक्त्वा मलं स्वात्मगुणं समृच्छति .

तथा मनः सत्त्वरजस्तमोमलं

    ध्यानेन सन्त्यज्य समेति तत्त्वम् .. ३६१..

निरन्तराभ्यासवशात्तदित्थं

    पक्वं मनो ब्रह्मणि लीयते यदा .

तदा समाधिः सविकल्पवर्जितः

    स्वतोऽद्वयानन्दरसानुभावकः .. ३६२..

समाधिनाऽनेन समस्तवासना-

    ग्रन्थेर्विनाशोऽखिलकर्मनाशः .

अन्तर्बहिः सर्वत एव सर्वदा

    स्वरूपविस्फूर्तिरयत्नतः स्यात् .. ३६३..

श्रुतेः  शतगुणं विद्यान्मननं मननादपि .

निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् .. ३६४..

निर्विकल्पकसमाधिना स्फुटं

    ब्रह्मतत्त्वमवगम्यते ध्रुवम् .

नान्यथा चलतया मनोगतेः

    प्रत्ययान्तरविमिश्रितं भवेत् .. ३६५..

अतः समाधत्स्व यतेन्द्रियः सन्

    निरन्तरं शान्तमनाः प्रतीचि .

विध्वंसय ध्वान्तमनाद्यविद्यया

    कृतं सदेकत्वविलोकनेन .. ३६६..

योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः .

निराशा च निरीहा च नित्यमेकान्तशीलता .. ३६७..

एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः

संरोधे करणं शमेन विलयं यायादहंवासना .

तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः

तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः .. ३६८..

वाचं नियच्छात्मनि तं नियच्छ

    बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि .

तं चापि पूर्णात्मनि निर्विकल्पे

    विलाप्य शान्तिं परमां भजस्व .. ३६९..

देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः .

यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः .. ३७०..

तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् .

संदृश्यते सदानन्दरसानुभवविप्लवः .. ३७१..

अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते .

त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया .. ३७२..

बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः .

विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः .. ३७३..

वैराग्यबोधौ पुरुषस्य पक्षिवत्

    पक्षौ विजानीहि विचक्षण त्वम् .

विमुक्तिसौधाग्रलताधिरोहणं

    ताभ्यां विना नान्यतरेण सिध्यति .. ३७४..

अत्यन्तवैराग्यवतः समाधिः

    समाहितस्यैव दृढप्रबोधः .

प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः

    मुक्तात्मनो नित्यसुखानुभूतिः .. ३७५..

वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः

तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् .

एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं

सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे .. ३७६..

आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृति-

स्त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः .

देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि

त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः .. ३७७..

लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं

स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् .

ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं

ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम् .. ३७८..

अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् .

चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् .. ३७९..

एष स्वयंज्योतिरशेषसाक्षी

    विज्ञानकोशो विलसत्यजस्रम् .

लक्ष्यं विधायैनमसद्विलक्षण-

    मखण्डवृत्त्याऽऽत्मतयाऽनुभावय .. ३८०..

एतमच्छीन्नया वृत्त्या प्रत्ययान्तरशून्यया .

उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् .. ३८१..

अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् .

उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् .. ३८२..

विशुद्धमन्तःकरणं स्वरूपे

    निवेश्य साक्षिण्यवबोधमात्रे .

शनैः शनैर्निश्चलतामुपानयन्

    पूर्णं स्वमेवानुविलोकयेत्ततः .. ३८३..

देहेन्द्रियप्राणमनोऽहमादिभिः

    स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः .

विमुक्तमात्मानमखण्डरूपं

    पूर्णं महाकाशमिवावलोकयेत् .. ३८४..

घटकलशकुसूलसूचिमुख्यैः

    गगनमुपाधिशतैर्विमुक्तमेकम् .

भवति न विविधं तथैव शुद्धं

    परमहमादिविमुक्तमेकमेव .. ३८५..

ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः .

ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् .. ३८६..

यत्र भ्रान्त्या कल्पितं तद्विवेके

    तत्तन्मात्रं नैव तस्माद्विभिन्नम् .

भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं

    रज्जुस्तद्वद्विश्वमात्मस्वरूपम् .. ३८७..

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः .

स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन .. ३८८..

अन्तः स्वयं चापि बहिः स्वयं च

    स्वयं पुरस्तात् स्वयमेव पश्चात् .

स्वयं ह्यावाच्यां स्वयमप्युदीच्यां

    तथोपरिष्टात्स्वयमप्यधस्तात् .. ३८९..

तरङ्गफेनभ्रमबुद्बुदादि

    सर्वं स्वरूपेण जलं यथा तथा .

चिदेव देहाद्यहमन्तमेतत्

    सर्वं चिदेवैकरसं विशुद्धम् .. ३९०..

सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः

सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः .

पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं

वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया .. ३९१..

क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः .

ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये .. ३९२..

आकाशवन्निर्मलनिर्विकल्पं

    निःसीमनिःस्पन्दननिर्विकारम् .

अन्तर्बहिःशून्यमनन्यमद्वयं

    स्वयं परं ब्रह्म किमस्ति बोध्यम् .. ३९३..

वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं

ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः .

ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं

ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम् .. ३९४..

जहि मलमयकोशेऽहंधियोत्थापिताशां

    प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् .

निगमगदितकीर्तिं नित्यमानन्दमूर्तिं

    स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ .. ३९५..

शवाकारं यावद्भजति मनुजस्तावदशुचिः

परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः .

यदात्मानं शुद्धं कलयति शिवाकारमचलम्

तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि .. ३९६..

स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः .

स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् .. ३९७..

समाहितायां सति चित्तवृत्तौ

    परात्मनि ब्रह्मणि निर्विकल्पे .

न दृश्यते कश्चिदयं विकल्पः

    प्रजल्पमात्रः परिशिष्यते यतः .. ३९८..

असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि .

निर्विकारे निराकारे निर्विशेषे भिदा कुतः .. ३९९..

द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि .

निर्विकारे निराकारे निर्विशेषे भिदा कुतः .. ४००..

कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि .

निर्विकारे निराकारे निर्विशेषे भिदा कुतः .. ४०१..

तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् .

अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः .. ४०२..

एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् .

सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः .. ४०३..

न ह्यस्ति विश्वं परतत्त्वबोधात्

    सदात्मनि ब्रह्मणि निर्विकल्पे .

कालत्रये नाप्यहिरीक्षितो गुणे

    न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् .. ४०४..

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः .

इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते .. ४०५..

अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् .

पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः .. ४०६..

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन .

अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि .. ४०७..

किमपि सततबोधं केवलानन्दरूपं

    निरुपममतिवेलं नित्यमुक्तं निरीहम् .

निरवधिगगनाभं निष्कलं निर्विकल्पं

    हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ .. ४०८..

प्रकृतिविकृतिशून्यं भावनातीतभावं

    समरसमसमानं मानसम्बन्धदूरम् .

निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं

    हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ .. ४०९..

अजरममरमस्ताभाववस्तुस्वरूपं

    स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् .

शमितगुणविकारं शाश्वतं शान्तमेकं

    हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ .. ४१०..

समाहितान्तःकरणः स्वरूपे

    विलोकयात्मानमखण्डवैभवम् .

विच्छिन्द्धि बन्धं भवगन्धगन्धितं

    यत्नेन पुंस्त्वं सफलीकुरुष्व .. ४११-

सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् .

भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने .. ४१२..

छायेव पुंसः परिदृश्यमान्-

    माभासरूपेण फलानुभूत्या .

शरीरमाराच्छववन्निरस्तं

    पुनर्न संधत्त इदं महात्मा .. ४१३..

सततविमलबोधानन्दरूपं समेत्य

    त्यज जडमलरूपोपाधिमेतं सुदूरे .

अथ पुनरपि नैष स्मर्यतां वान्तवस्तु

    स्मरणविषयभूतं कल्पते कुत्सनाय .. ४१४..

समूलमेतत्परिदाह्य वह्नौ

    सदात्मनि ब्रह्मणि निर्विकल्पे .

ततः स्वयं नित्यविशुद्धबोधा-

    नन्दात्मना तिष्ठति विद्वरिष्ठः .. ४१५..

प्रारब्धसूत्रग्रथितं शरीरं

    प्रयातु वा तिष्ठतु गोरिव स्रक् .

न तत्पुनः पश्यति तत्त्ववेत्ता-

    . अऽनन्दात्मनि ब्रह्मणि लीनवृत्तिः .. ४१६..

अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः .

किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् .. ४१७..

संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः .

बहिरन्तः सदानन्दरसास्वादनमात्मनि .. ४१८..

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् .

स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् .. ४१९..

यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् .

निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः .. ४२०..

दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् .

यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् .

पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति .. ४२१..

विद्याफलं स्यादसतो निवृत्तिः

    प्रवृत्तिरज्ञानफलं तदीक्षितम् .

तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ

    नोचेद्विदां दृष्टफलं किमस्मात् .. ४२२..

अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः .

अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः .. ४२३..

वासनानुदयो भोग्ये वैरागस्य तदावधिः .

अहंभावोदयाभावो बोधस्य परमावधिः .

लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा .. ४२४..

ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी-

रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् .

स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी-

रास्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि .. ४२५..

स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते .

ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः .. ४२६..

ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी .

निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते .

सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते .. ४२७..

यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः .

प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते .. ४२८..

लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः .

बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते .. ४२९..

शान्तसंसारकलनः कलावानपि निष्कलः .

यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते .. ४३०..

वर्तमानेऽपि देहेऽस्मिञ्छायावदनुवर्तिनि .

अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् .. ४३१..

अतीताननुसन्धानं भविष्यदविचारणम् .

औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् .. ४३२..

गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे .

सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् .. ४३३..

इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि .

उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् .. ४३४..

ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः .

अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् .. ४३५..

देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः .

औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः .. ४३६..

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् .

भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः .. ४३७..

देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके .

यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते .. ४३८..

न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः .

प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः .. ४३९..

साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः .

समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः .. ४४०..

यत्र प्रविष्टा विषयाः परेरिता

    नदीप्रवाहा इव वारिराशौ .

लिनन्ति सन्मात्रतया न विक्रियां

    उत्पादयन्त्येष यतिर्विमुक्तः .. ४४१..

विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः .

अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः .. ४४२..

प्राचीनवासनावेगादसौ संसरतीति चेत् .

न सदेकत्वविज्ञानान्मन्दी भवति वासना .. ४४३..

अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि .

तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः .. ४४४..

निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते .

ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् .. ४४५..

सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते .

फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् .. ४४६..

अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् .

सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् .. ४४७..

यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् .

सुप्तोत्थितस्य किन्तत्स्यात्स्वर्गाय नरकाय वा .. ४४८..

स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा .

न श्लिष्यति च यक्किञ्चित्कदाचिद्भाविकर्मभिः .. ४४९..

न नभो घटयोगेन सुरागन्धेन लिप्यते .

तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते .. ४५०..

ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति .

अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् .. ४५१..

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ .

न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् .. ४५२..

प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः

सम्यग्ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम् .

ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः

तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् .. ४५३..

उपाधितादात्म्यविहीनकेवल-

    ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः .

प्रारब्धसद्भावकथा न युक्ता

    स्वप्नार्थसंबन्धकथेव जाग्रतः .. ४५४..

न हि प्रबुद्धः प्रतिभासदेहे

    देहोपयोगिन्यपि च प्रपञ्चे .

करोत्यहन्तां ममतानिदन्तां

    किन्तु स्वयं तिष्ठति जागरेण .. ४५५..

न तस्य मिथ्यार्थसमर्थनेच्छा

    न संग्रहस्तज्जगतोऽपि दृष्टः .

तत्रानुवृत्तिर्यदि चेन्मृषार्थे

    न निद्रया मुक्त इतीष्यते ध्रुवम् .. ४५६..

तद्वत्परे ब्रह्मणि वर्तमानः

    सदात्मना तिष्ठति नान्यदीक्षते .

स्मृतिर्यथा स्वप्नविलोकितार्थे

    तथा विदः प्राशनमोचनादौ .. ४५७..

कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् .

नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः .. ४५८..

अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् .

तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना .. ४५९..

प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः .

देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः .. ४६०..

शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि .

अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः .

अजातस्य कुतो नाशः प्रारब्धमसतः कुतः .. ४६१..

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि .

तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् .. ४६२..

समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः .

न तु देहादिसत्यत्वबोधनाय विपश्चिताम् .. ४६३..

परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् .

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन .. ४६४..

सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् .

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन .. ४६५..

प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् .

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन .. ४६६..

अहेयमनुपादेयमनादेयमनाश्रयम् .

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन .. ४६७..

निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् .

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन .. ४६८..

अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् .

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन .. ४६९..

सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् .

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन .. ४७०..

निरस्तरागा विनिरस्तभोगाः

    शान्ताः सुदान्ता यतयो महान्तः .

विज्ञाय तत्त्वं परमेतदन्ते

    प्राप्ताः परां निर्वृतिमात्मयोगात् .. ४७१..

भवानपीदं परतत्त्वमात्मनः

    स्वरूपमानन्दघनं विचार्य .

विधूय मोहं स्वमनःप्रकल्पितं

    मुक्तः कृतार्थो भवतु प्रबुद्धः .. ४७२..

समाधिना साधुविनिश्चलात्मना

    पश्यात्मतत्त्वं स्फुटबोधचक्षुषा .

निःसंशयं सम्यगवेक्षितश्चे-

    च्छ्रुतः पदार्थो न पुनर्विकल्प्यते .. ४७३..

स्वस्याविद्याबन्धसम्बन्धमोक्षा-

    त्सत्यज्ञानानन्दरूपात्मलब्धौ .

शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं

    चान्तःसिद्धा स्वानुभूतिः प्रमाणम् .. ४७४..

बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः .

स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् .. ४७५..

तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा .

प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया .. ४७६..

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् .

संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि .. ४७७..

वेदान्तसिद्धान्तनिरुक्तिरेषा

    ब्रह्मैव जीवः सकलं जगच्च .

अखण्डरूपस्थितिरेव मोक्षो

    ब्रह्माद्वितीये श्रुतयः प्रमाणम् .. ४७८..

इति गुरुवचनाच्छ्रुतिप्रमाणात्

    परमवगम्य सतत्त्वमात्मयुक्त्या .

प्रशमितकरणः समाहितात्मा

    क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत् .. ४७९..

किञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् .

उत्थाय परमानन्दादिदं वचनमब्रवीत् .. ४८०..

बुद्धिर्विनष्टा गलिता प्रवृत्तिः

    ब्रह्मात्मनोरेकतयाऽधिगत्या .

इदं न जानेऽप्यनिदं न जाने

    किं वा कियद्वा सुखमस्त्यपारम् .. ४८१..

वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते

स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् .

अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो

यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् .. ४८२..

क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् .

अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् .. ४८३..

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् .

अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे .. ४८४..

न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् .

स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः .. ४८५..

नमो नमस्ते गुरवे महात्मने

    विमुक्तसङ्गाय सदुत्तमाय .

नित्याद्वयानन्दरसस्वरूपिणे

    भूम्ने सदाऽपारदयाम्बुधाम्ने .. ४८६..

यत्कटाक्षशशिसान्द्रचन्द्रिका-

    पातधूतभवतापजश्रमः .

प्राप्तवानहमखण्डवैभवा-

    नन्दमात्मपदमक्षयं क्षणात् .. ४८७..

धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् .

नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् .. ४८८..

असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः .

प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः .. ४८९..

अकर्ताहमभोक्ताहमविकारोऽहमक्रियः .

शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः .. ४९०..

द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् .

नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा .. ४९१..

नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् .

बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् .. ४९२..

निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् .

नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् .. ४९३..

नारायणोऽहं नरकान्तकोऽहं

    पुरान्तकोऽहं पुरुषोऽहमीशः .

अखण्डबोधोऽहमशेषसाक्षी

    निरीश्वरोऽहं निरहं च निर्ममः .. ४९४..

सर्वेषु भूतेष्वहमेव संस्थितो

    ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् .

भोक्ता च भोग्यं स्वयमेव सर्वं

    यद्यत्पृथग्दृष्टमिदन्तया पुरा .. ४९५..

मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः .

उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् .. ४९६..

स्थुलादिभावा मयि कल्पिता भ्रमा-

    दारोपितानुस्फुरणेन लोकैः .

काले यथा कल्पकवत्सराय-

    णर्त्वा दयो निष्कलनिर्विकल्पे .. ४९७..

आरोपितं नाश्रयदूषकं भवेत्

    कदापि मूढैरतिदोषदूषितैः .

नार्द्रिकरोत्यूषरभूमिभागं

    मरीचिकावारि महाप्रवाहः .. ४९८..

आकाशवल्लेपविदूरगोऽहं

    आदित्यवद्भास्यविलक्षणोऽहम् .

अहार्यवन्नित्यविनिश्चलोऽहं

    अम्भोधिवत्पारविवर्जितोऽहम् .. ४९९..

न मे देहेन सम्बन्धो मेघेनेव विहायसः .

अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः .. ५००..

उपाधिरायाति स एव गच्छति

    स एव कर्माणि करोति भुङ्क्ते .

स एव जीर्यन् म्रियते सदाहं

    कुलाद्रिवन्निश्चल एव संस्थितः .. ५०१..

न मे  प्रवृत्तिर्न च मे निवृत्तिः

    सदैकरूपस्य निरंशकस्य .

एकात्मको यो निविडो निरन्तरो

    व्योमेव पूर्णः स कथं नु चेष्टते .. ५०२..

पुण्यानि पापानि निरिन्द्रियस्य

    निश्चेतसो निर्विकृतेर्निराकृतेः .

कुतो ममाखण्डसुखानुभूतेः

    ब्रूते ह्यनन्वागतमित्यपि श्रुतिः .. ५०३..

छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा .

न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् .. ५०४..

न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् .

अविकारमुदासीनं गृहधर्माः प्रदीपवत् .. ५०५..

रवेर्यथा कर्मणि साक्षिभावो

    वह्नेर्यथा दाहनियामकत्वम् .

रज्जोर्यथाऽऽरोपितवस्तुसङ्गः

    तथैव कूटस्थचिदात्मनो मे .. ५०६..

कर्तापि वा कारयितापि नाहं

    भोक्तापि वा भोजयितापि नाहम् .

द्रष्टापि वा दर्शयितापि नाहं

    सोऽहं स्वयंज्योतिरनीदृगात्मा .. ५०७..

चलत्युपाधौ प्रतिबिम्बलौल्य-

    मौपाधिकं मूढधियो नयन्ति .

स्वबिम्बभूतं रविवद्विनिष्क्रियं

    कर्तास्मि भोक्तास्मि हतोऽस्मि हेति .. ५०८..

जले वापि स्थले वापि लुठत्वेष जडात्मकः .

नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा .. ५०९..

कर्तृत्वभोक्तृत्वखलत्वमत्तता-

    जडत्वबद्धत्वविमुक्ततादयः .

बुद्धेर्विकल्पा न तु सन्ति वस्तुतः

    स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये .. ५१०..

सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि .

किं मेऽसङ्गचितस्तैर्न घनः क्वचिदम्बरं स्पृशति .. ५११..

अव्यक्तादिस्थूलपर्यन्तमेतत्

    विश्वं यत्राभासमात्रं प्रतीतम् .

व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं

    ब्रह्माद्वैतं यत्तदेवाहमस्मि .. ५१२..

सर्वाधारं सर्ववस्तुप्रकाशं

    सर्वाकारं सर्वगं सर्वशून्यम् .

नित्यं शुद्धं निश्चलं निर्विकल्पं

    ब्रह्माद्वैतं यत्तदेवाहमस्मि .. ५१३..

यत्प्रत्यस्ताशेषमायाविशेषं

    प्रत्यग्रूपं प्रत्ययागम्यमानम् .

सत्यज्ञानानन्तमानन्दरूपं

    ब्रह्माद्वैतं यत्तदेवाहमस्मि .. ५१४..

निष्क्रियोऽस्म्यविकारोऽस्मि

    निष्कलोऽस्मि निराकृतिः .

निर्विकल्पोऽस्मि नित्योऽस्मि

    निरालम्बोऽस्मि निर्द्वयः .. ५१५..

सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः .

केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरः .. ५१६..

स्वाराज्यसाम्राज्यविभूतिरेषा

    भवत्कृपाश्रीमहिमप्रसादात् .

प्राप्ता मया श्रीगुरवे महात्मने

    नमो नमस्तेऽस्तु पुनर्नमोऽस्तु .. ५१७..

महास्वप्ने मायाकृतजनिजरामृत्युगहने

भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् .

अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया

प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो .. ५१८..

नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः .

यदेतद्विश्वरूपेण राजते गुरुराज ते .. ५१९..

इति नतमवलोक्य शिष्यवर्यं

    समधिगतात्मसुखं प्रबुद्धतत्त्वम् .

प्रमुदितहृदयं स देशिकेन्द्रः

    पुनरिदमाह वचः परं महात्मा .. ५२०..

ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः

पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि .

रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते

तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् .. ५२१..

कस्तां परानन्दरसानुभूति-

    मृत्सृज्य शून्येषु रमेत विद्वान् .

चन्द्रे महाह्लादिनि दीप्यमाने

    चित्रेन्दुमालोकयितुं क इच्छेत् .. ५२२..

असत्पदार्थानुभवेन किञ्चिन्

    न ह्यस्ति तृप्तिर्न च दुःखहानिः .

तदद्वयानन्दरसानुभूत्या

    तृप्तः सुखं तिष्ठ सदात्मनिष्ठया .. ५२३..

स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् .

स्वानन्दमनुभुञ्जानः कालं नय महामते .. ५२४..

अखण्डबोधात्मनि निर्विकल्पे

    विकल्पनं व्योम्नि पुरप्रकल्पनम् .

तदद्वयानन्दमयात्मना सदा

    शान्तिं परामेत्य भजस्व मौनम् .. ५२५..

तूष्णीमवस्था परमोपशान्तिः

    बुद्धेरसत्कल्पविकल्पहेतोः .

ब्रह्मात्मनो ब्रह्मविदो महात्मनो

    यत्राद्वयानन्दसुखं निरन्तरम् .. ५२६..

नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् .

विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः .. ५२७..

गच्छंस्तिष्ठन्नुपविशञ्छयानो वाऽन्यथापि वा .

यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः .. ५२८..

न देशकालासनदिग्यमादि-

    लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः .

संसिद्धतत्त्वस्य महात्मनोऽस्ति

    स्ववेदने का नियमाद्यवस्था .. ५२९..

घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते .

विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः .. ५३०..

अयमात्मा नित्यसिद्धः प्रमाणे सति भासते .

न देशं नापि कालं न शुद्धिं वाप्यपेक्षते .. ५३१..

देवदत्तोऽहमोत्येतद्विज्ञानं निरपेक्षकम् .

तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् .. ५३२..

भानुनेव जगत्सर्वं भासते यस्य तेजसा .

अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् .. ५३३..

वेदशास्त्रपुराणानि भूतानि सकलान्यपि .

येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत् .. ५३४..

एष स्वयंज्योतिरनन्तशक्तिः

    आत्माऽप्रमेयः सकलानुभूतिः .

यमेव विज्ञाय विमुक्तबन्धो

    जयत्ययं ब्रह्मविदुत्तमोत्तमः .. ५३५..

न खिद्यते नो विषयैः प्रमोदते

    न सज्जते नापि विरज्यते च .

स्वस्मिन्सदा क्रीडति नन्दति स्वयं

    निरन्तरानन्दरसेन तृप्तः .. ५३६..

क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः .

तथैव विद्वान् रमते निर्ममो निरहं सुखी .. ५३७..

चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु

स्वातन्त्र्येण निरंकुशा स्थितिरभीर्निद्रा श्मशाने वने .

वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही

संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि .. ५३८..

विमानमालम्ब्य शरीरमेतद्

    भुनक्त्यशेषान्विषयानुपस्थितान् .

परेच्छया बालवदात्मवेत्ता

    योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः .. ५३९..

दिगम्बरो वापि च साम्बरो वा

    त्वगम्बरो वापि चिदम्बरस्थः .

उन्मत्तवद्वापि च बालवद्वा

    पिशाचवद्वापि चरत्यवन्याम् .. ५४०..

कामान्निष्कामरूपी संश्चरत्येकचारो मुनिः .

स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः .. ५४१..

क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः

क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः .

क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः

चरत्येवं प्राज्ञः सततपरमानन्दसुखितः .. ५४२..

निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः .

नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः .. ५४३..

अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि .

शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः .. ५४४..

अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् .

प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे .. ५४५..

स्थूलादिसम्बन्धवतोऽभिमानिनः

    सुखं च दुःखं च शुभाशुभे च .

विध्वस्तबन्धस्य सदात्मनो मुनेः

    कुतः शुभं वाऽप्यशुभं फलं वा .. ५४६..

तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः .

ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम् .. ५४७..

तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् .

पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् .. ५४८..

अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति .

इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना .. ५४९..

स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् .

दैवेन नीयते देहो यथाकालोपभुक्तिषु .. ५५०..

प्रारब्धकर्मपरिकल्पितवासनाभिः

    संसारिवच्चरति भुक्तिषु मुक्तदेहः .

सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं

    चक्रस्य मूलमिव कल्पविकल्पशून्यः .. ५५१..

नैवेन्द्रियाणि विषयेषु नियुंक्त एष

    नैवापयुंक्त उपदर्शनलक्षणस्थः .

नैव क्रियाफलमपीषदवेक्षते स

    स्वानन्दसान्द्ररसपानसुमत्तचित्तः .. ५५२..

लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना .

शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः .. ५५३..

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः .

उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् .. ५५४..

शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् .

तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः .. ५५५..

यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् .

ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् .. ५५६..

सदात्मनि ब्रह्मणि तिष्ठतो मुनेः

    पूर्णाऽद्वयानन्दमयात्मना सदा .

न देशकालाद्युचितप्रतीक्षा

    त्वङ्मांसविट्पिण्डविसर्जनाय .. ५५७..

देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः .

अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः .. ५५८..

कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे .

पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् .. ५५९..

पत्रस्य पुष्पस्य फलस्य नाशवद्-

    देहेन्द्रियप्राणधियां विनाशः .

नैवात्मनः स्वस्य सदात्मकस्या-

    नन्दाकृतेर्वृक्षवदस्ति चैषः .. ५६०..

प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् .

अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् .. ५६१..

अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः .

प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु .. ५६२..

पाषाणवृक्षतृणधान्यकडङ्कराद्या

    दग्धा भवन्ति हि मृदेव यथा तथैव .

देहेन्द्रियासुमन आदि समस्तदृश्यं

    ज्ञानाग्निदग्धमुपयाति परात्मभावम् .. ५६३..

विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि .

तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते .. ५६४..

घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् .

तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् .. ५६५..

क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले .

संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः .. ५६६..

एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् .

ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः .. ५६७..

सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः .

अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः .. ५६८..

मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः .

यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ .. ५६९..

आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे .

नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् .

यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः .. ५७०..

बन्धञ्च मोक्षञ्च मृषैव मूढा

    बुद्धेर्गुणं वस्तुनि कल्पयन्ति .

दृगावृतिं मेघकृतां यथा रवौ

    यतोऽद्वयाऽसङ्गचिदेतदक्षरम् .. ५७१..

अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि .

बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः .. ५७२..

अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि .

निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने .

अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः .. ५७३..

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः .

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. ५७४..

सकलनिगमचूडास्वान्तसिद्धान्तरूपं

    परमिदमतिगुह्यं दर्शितं ते मयाद्य .

अपगतकलिदोषं कामनिर्मुक्तबुद्धिं

    स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्षुम् .. ५७५..

इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः .

स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः .. ५७६..

गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः .

पावयन्वसुधां सर्वां विचचार निरन्तरः .. ५७७..

इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् .

निरूपितं मुमुक्षूणां सुखबोधोपपत्तये .. ५७८..

हितमिदमुपदेशमाद्रियन्तां

    विहितनिरस्तसमस्तचित्तदोषाः .

भवसुखविरताः प्रशान्तचित्ताः

    श्रुतिरसिका यतयो मुमुक्षवो ये .. ५७९..

संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-

खिन्नानां जलकांक्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् .

अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय-

त्येषा शङ्करभारती विजयते निर्वाणसंदायिनी .. ५८०..

    .. इति शंकराचार्यविरचितं विवेकचूडामणि ..

              .. ॐ तत्सत् ..