S.D. Human Development, Research & Training Center | योगसूत्रम् योगसूत्रम् | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

योगसूत्रम्

महर्षिपतञ्जलेः योगसूत्रम्  ॥

प्रथमः समाधिपादः ।

अथ योगानुशासनम् ॥ १ ॥

योगश्चित्तवृत्तिनिरोधः ॥ २ ॥

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥

वृत्तिसारूप्यम् इतरत्र ॥ ४ ॥

वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥ ५ ॥

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६ ॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥

विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥ ८ ॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥

अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १० ॥

अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥

तत्र स्थितौ यत्नोऽभ्यासः ॥ १३ ॥

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥

वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥ १७ ॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥

तीव्रसंवेगानाम् आसन्नः ॥ २१ ॥

मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ २२ ॥

ईश्वरप्रणिधानाद् वा ॥ २३ ॥

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥

तत्र निरतिशयं सर्वज्ञ्त्वबीजम् ॥ २५ ॥

स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥

तस्य वाचकः प्रणवः ॥ २७ ॥

तज्जपस्तदर्थभावनम् ॥ २८ ॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥

व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभू-

मिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ ३० ॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥

तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः ॥ ३२ ॥

मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३ ॥

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५ ॥

विशोका वा ज्योतिष्मती ॥ ३६ ॥

वीतरागविषयं वा चित्तम् ॥ ३७ ॥

स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥

यथाभिमतध्यानाद् वा ॥ ३९ ॥

परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु

तत्स्थतदञ्जनतासमापत्तिः ॥ ४१ ॥

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥

ता एव सबीजः समाधिः ॥ ४६ ॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥

र्तंभरा तत्र प्रज्ञा ॥ ४८ ॥

श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् ॥ ४९ ॥

तज्जः संस्कारो न्यसंस्कारप्रतिबन्धी ॥ ५० ॥

तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः ॥ ५१ ॥

इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः ।

द्वितीयः साधनपादः ।

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥

अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥

सुखानुशयी रागः ॥ ७ ॥

दुःखानुशयी द्वेषः ॥ ८ ॥

स्वरसवाही विदुषोऽपि तथारूढो भिनिवेशः ॥ ९ ॥

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥

ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥

सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच् च दुःखम्

एव सर्वं विवेकिनः ॥ १५ ॥

हेयं दुःखम् अनागतम् ॥ १६ ॥

द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं

दृश्यम् ॥ १८ ॥

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥

तदर्थ एव दृश्यस्यात्मा ॥ २१ ॥

कृतार्थं प्रति नष्टम् अप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥

तस्य हेतुरविद्या ॥ २४ ॥

तदभावात् संयोगाभावो हानं । तद्दृशेः कैवल्यम् ॥ २५ ॥

विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥

योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिरा

विवेकख्यातेः ॥ २८ ॥

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाव

अङ्गानि ॥ २९ ॥

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥

शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥

वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका

मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति

प्रतिपक्षभावनम् ॥ ३४ ॥

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५ ॥

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥

अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ ३९ ॥

शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥

संतोषाद् अनुत्तमः सुखलाभः ॥ ४२ ॥

कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ ४३ ॥

स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥ ४४ ॥

समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥

स्थिरसुखम् आसनम् ॥ ४६ ॥

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥

ततो द्वन्द्वानभिघातः ॥ ४८ ॥

तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥

बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः

परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥

ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥

धारणासु च योग्यता मनसः ॥ ५३ ॥

स्वस्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां

प्रत्याहारः ॥ ५४ ॥

ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥

इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः ।

तृतीयः विभूतिपादः ।

देशबन्धश्चित्तस्य धारणा ॥ १ ॥

तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥

तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ॥ ३ ॥

त्रयम् एकत्र संयमः ॥ ४ ॥

तज्जयात् प्रज्ञाऽऽलोकः ॥ ५ ॥

तस्य भूमिषु विनियोगः ॥ ६ ॥

त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ ७ ॥

तद् अपि बहिरङ्गं निर्बीजस्य ॥ ८ ॥

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ

निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ९ ॥

तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ

चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः

॥ १३ ॥

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥

क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥

परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ १६ ॥

शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरः।

तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ १७ ॥

संस्कारसाक्षत्करणात् पूर्वजातिज्ञानम् ॥ १८ ॥

प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥

न च तत् सालम्बनं,तस्याविषयीभूतत्वात् ॥ २० ॥

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे

चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम् ॥ २१ ॥

एतेन शब्दाद्यन्तर्धानमुक्तम्

सोपक्रमं निरुपक्रमं च कर्म । तत्संयमाद् अपरान्तज्ञानम्,

अरिष्टेभ्यो वा ॥ २२ ॥

मैत्र्यादिषु बलानि ॥ २३ ॥

बलेषु हस्तिबलादीनि ॥ २४ ॥

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५ ॥

भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥

चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥

ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥

नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥

कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥

प्रातिभाद् वा सर्वम् ॥ ३३ ॥

हृदये चित्तसंवित् ॥ ३४ ॥

सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः

परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥ ३५ ॥

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥

ते समाधाव् उपसर्गा । व्युत्थाने सिद्धयः ॥ ३७ ॥

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य

परशरीरावेशः ॥ ३८ ॥

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥

समानजयात् प्रज्वलनम् ॥ ४० ॥

श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् ॥ ४१ ॥

कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश्चाकाशगमनम् ॥ ४२ ॥

बहिरकल्पिता वृत्तिर्महाविदेहा । ततः प्रकाशावरणक्षयः ॥ ४३ ॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥

ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश्च ॥ ४५ ॥

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥ ४६ ॥

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥ ४७ ॥

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८ ॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं

सर्वज्ञातृत्वं च ॥ ४९ ॥

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः

अनिष्टप्रसङ्गात् ॥ ५१ ॥

क्षणतत्क्रमयोः संयमादविवेकजं ज्ञानम् ॥ ५२ ॥

जातिलक्षणदेशैरन्यताऽनवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥

तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं

ज्ञानम् ॥ ५४ ॥

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति ॥ ५५ ॥

इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः

चतुर्थः कैवल्यपादः ।

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥

निमित्तम् अप्रयोजकं प्रकृतीनां । वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥

निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥

प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥ ५ ॥

तत्र ध्यानजम् अनाशयम् ॥ ६ ॥

कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ॥ ७ ॥

ततस्तद्विपाकानुगुणानाम् एवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥

जातिदेशकालव्यवहितानाम् अप्यानन्तर्यं,

स्मृतिसंस्कारयोः एकरूपत्वात् ॥ ९ ॥

तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥ १० ॥

हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ॥ ११ ॥

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् ॥ १२ ॥

ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥

परिणामैकत्वाद् वस्तुतत्त्वम् ॥ १४ ॥

वस्तुसाम्ये चित्तभेदात् तयोर्विभक्तः पन्थाः ॥ १५ ॥

न चैकचित्ततन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥ १६ ॥

तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥

सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥

न तत् स्वाभासंदृश्यत्वात् ॥ १९ ॥

एकसमये चोभयानवधारणम् ॥ २० ॥

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥

चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥

तदसंख्येयवासनाचित्रम् अपि परार्थं संहत्यकारित्वात् ॥ २४ ॥

विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५ ॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥

हानम् एषां क्लेशवदुक्तम् ॥ २८ ॥

प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः ॥ २९ ॥

ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥

तदा सर्वावरणमलापेतस्य ज्ञानस्याऽनन्त्याज्ज्ञेयम् अल्पम् ॥ ३१ ॥

ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् ॥ ३२ ॥

क्षणप्रतियोगी परिणामापरान्तनिग्रार्ह्यः क्रमः ॥ ३३ ॥

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूपप्रतिष्ठा वा चितिशक्तिरेति ॥ ३४ ॥

इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ।

॥ इति पातञ्जलयोगसूत्राणि ॥