S.D. Human Development, Research & Training Center | न्यायसूत्र न्यायसूत्र | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

न्यायसूत्र

अथ प्रथमः अध्यायः

प्रथमम् आह्निकम्

अनुबन्धचतुष्टयप्रकरणम्

१.१.१ > प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः

{पदार्थोद्देशसूत्रम्}

१.१.२ > दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा पायात् अपवर्गः

{पदार्थोद्देशसूत्रम्}

[प्रमाणप्रकरणम्]

१.१.३ > प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि

{प्रमाण-उद्देश-सूत्रम्}

१.१.४ > इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम्

{प्रत्यक्षलक्षणम्}

१.१.५ > अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च

{अनुमानलक्षणम्}

१.१.६ > प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्

{उपमानलक्षणम्}

१.१.७ > आप्तोपदेशः शब्दः

{शब्दलक्षणम्}

१.१.८ > सः द्विविधः दृष्टादृष्टार्थत्वात्

{शब्दभेदः}

[प्रमेयप्रकरणम्]

१.१.९ > आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्

{प्रमेय-उद्देश-सूत्रम्}

१.१.१० > इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति

{आत्मलक्षणम्}

१.१.११ > चेष्टेन्द्रियार्थाश्रयः शरीरम्

{शरीरलक्षणम्}

१.१.१२ > घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः

{इन्द्रियलक्षणम्}

१.१.१३ > पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि

{भूतलक्षणम्}

१.१.१४ > गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः

{अर्थ(विषय)लक्षणम्}

१.१.१५ > बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम्

{बुद्धिलक्षणम्}

१.१.१६ > युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम्

{मनोलक्षणम्}

१.१.१७ > प्रवृत्तिः वाग्बुद्धिशरीरारम्भः

{प्रवृत्तिलक्षणम्}

१.१.१८ > प्रवर्त्तनालक्षणाः दोषाः

{दोषलक्षणम्}

१.१.१९ > पुनरुत्पत्तिः प्रेत्यभावः

{प्रेत्यभावलक्षणम्}

१.१.२० > प्रवृत्तिदोषजनितः अर्थः फलम्

{फललक्षणम्}

१.१.२१ > बाधनालक्षणम् दुःखम्

{दुःखलक्षणम्}

१.१.२२ > तदत्यन्तविमोक्षः अपवर्गः

{अपवर्गलक्षणम्}

[न्यायपूर्वाङ्गलक्षणप्रकरणम्]

१.१.२३ > समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः

{संशयलक्षणम्}

१.१.२४ > यम् अर्थम् अधिकृत्य प्रवर्तते तत् प्रयोजनम्

{प्रयोजनलक्षणम्}

१.१.२५ > लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः

{दृष्टान्तलक्षणम्}

[न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्]

१.१.२६ > तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः

{अभ्युपगमसिद्धान्तलक्षणम्}

१.१.२७ > सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्

{तन्त्रभेद-उद्देशसूत्रम्}

१.१.२८ > सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः

{सर्वतन्त्रसिद्धान्त-लक्षणम्}

१.१.२९ > समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः

{प्रतितन्त्रसिद्धान्त-लक्षणम्}

१.१.३० > यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः

{अधिकरणसिद्धान्त-लक्षणम्}

१.१.३१ > अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः

{अभ्युपगमसिद्धान्त-लक्षणम्}

[न्यायप्रकरणम्]

१.१.३२ > प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः

{अवयव-उद्देशसूत्रम्}

१.१.३३ > साध्यनिर्देशः प्रतिज्ञा

{प्रतिज्ञा-लक्षणम्}

१.१.३४ > उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः

{हेतु-लक्षणम्}

१.१.३५ > तथा वैधर्म्यात्

{हेतु-लक्षणम्}

१.१.३६ > साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम्

{उदाहरण-लक्षणम्}

१.१.३७ > तद्विपर्ययात् वा विपरीतम्

{उदाहरण-लक्षणम्}

१.१.३८ > उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः

{उपनय-लक्षणम्}

१.१.३९ > हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम् निगमनम्

{निगमन-लक्षणम्}

[न्यायोत्तराङ्गप्रकरणम्]

१.१.४० > अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः

{तर्क-लक्षणम्}

१.१.४१ > विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः

{निर्णय-लक्षणम्}

 

इति न्यायसूत्रे प्रथमाध्यायस्य प्रथमम् आह्निकम्

 

अथ द्वितीयम् आह्निकम्

कथालक्षणप्रकरणम्]

१.२.१ > प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः

{वाद-लक्षणम्}

१.२.२ > यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः

{जल्प-लक्षणम्}

१.२.३ > सः प्रतिपक्षस्थापनाहीनः वितण्डा

{वितण्डा-लक्षणम्}

[हेत्वाभासप्रकरणम्]

१.२.४ > सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः

{हेत्वाभास-उद्देश-सूत्रम्}

१.२.५ > अनैकान्तिकः सव्यभिचारः

{सव्यभिचार-लक्षणम्}

१.२.६ > सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः

{विरुद्ध-लक्षणम्}

१.२.७ > यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः

{प्रकरणसम-लक्षणम्}

१.२.८ > साध्याविशिष्टः साध्यत्वात् साध्यसमः

{साध्यसम-लक्षणम्}

१.२.९ > कालात्ययापदिष्टः कालातीतः

{कालातीत-लक्षणम्}

[छलप्रकरणम्]

१.२.१० > वचनविघातः अर्थविकल्पोपपत्त्या छलम्

{छल-लक्षणम्}

१.२.११ > तत् त्रिविधम् – वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति

{छल-भेद-उद्देश-सूत्रम्}

१.२.१२ > अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् अर्थान्तरकल्पना वाक्छलम्

{वाक्छल-लक्षणम्}

१.२.१३ > सम्भवतः अर्थस्य अतिसामान्ययोगात् असम्भूतार्थकल्पना सामान्यच्छलम्

{सामान्यच्छल-लक्षणम्}

१.२.१४ > धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम्

{उपचारच्छल-लक्षणम्}

१.२.१५ > वाक्छलम् एव उपचारच्छलम् तत् अविशेषात्

{उपचारच्छल-पूर्वपक्ष-लक्षणम्}

१.२.१६ > न तत् अर्थान्तरभावात्

{उपचारच्छल-लक्षणम्}

१.२.१७ > अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः

{उपचारच्छल-लक्षणम्}

[लिङ्गदोषसामान्यप्रकरणम्]

१.२.१८ > साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः

{जाति-लक्षणम्}

१.२.१९ > विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्

{निग्रहस्थान-लक्षणम्}

१.२.२० > तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम्

{निग्रहस्थानबहुत्व-सूत्रम्}

इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम् समाप्तः अयम् प्रथमः अध्यायः

 

 

 अथ द्वितीयः अध्याय  प्रथमम् आह्निकम्

संशयपरीक्षाप्रकरणम्]

२.१.१ > समानानेकधर्माध्यवसायात् अन्यतरधर्माध्यवसायात् वा न संशयः
{संशय-}

२.१.२ > विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च
{संशय-}

२.१.३ > विप्रत्तिपत्तौ च संप्रत्तिपत्तेः
{संशय-}

२.१.४ > अव्यवस्था आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः
{संशय-}

२.१.५ > तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः
{संशय-}

२.१.६ > यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः वा
{संशय-}

२.१.७ > यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः
{संशय-} [प्रमाणसामान्यपरीक्षाप्रकरणम्]

२.१.८ > प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः
{पूर्वपक्षसूत्रम्}

२.१.९ > पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः
{पूर्वपक्षसूत्रम्}

२.१.१० > पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}

२.१.११ > युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम्
{पूर्वपक्षसूत्रम्}

२.१.१२ > त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}

२.१.१३ > सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}

२.१.१४ > तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः
{पूर्वपक्षसूत्रम्}

२.१.१५ > त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः
{पूर्वपक्षसूत्रम्}

२.१.१६ > प्रमेया च तुलाप्रामाण्यवत्
{पूर्वपक्षसूत्रम्}

२.१.१७ > प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः
{पूर्वपक्षसूत्रम्}

२.१.१८ > तद्विनिवृत्तेः वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}

२.१.१९ > न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः
{सिद्धान्तलक्षणम्}

२.१.२० > क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः
{सिद्धान्तलक्षणम्} [प्रत्यक्षपरीक्षाप्रकरणाम्]

२.१.२१ > प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात्
{प्रत्यक्षलक्षण-}
{प्रत्यक्षलक्षणपरीक्षा}

२.१.२२ > न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो)

२.१.२३ > दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो)

२.१.२४ > ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्रम्}

२.१.२५ > तदयौगपद्यलिङ्गत्वात् च न मनसः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

२.१.२६ > प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

२.१.२७ > सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

२.१.२८ > तैः च अपदेशः ज्ञानविशेषाणाम्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

२.१.२९ > व्याहतत्वात् अहेतुः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

२.१.३० > न अर्थविशेषप्राबल्यात्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

[विषयपरीक्षा-प्रकरणाम्]

२.१.३१ > प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः
{पूर्वपक्ष-सूत्र}

२.१.३२ > न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात्
{सिद्धान्त-सूत्र}

२.१.३३ > न चैकदेशोपलब्धिरवयविसद्भावात्
{सिद्धान्त-सूत्र} [प्रसङ्गोपात्ता अवयविपरीक्षा]

२.१.३४ > साध्यत्वात् अवयविनि सन्देहः
{पूर्वपक्ष-सूत्र}

२.१.३५ > सर्वाग्रहणम् अवयव्यसिद्धेः
{सिद्धान्त-सूत्र}

२.१.३६ > धारणाकर्षणोपपत्तेः च
{सिद्धान्त-सूत्र}

२.१.३७ > सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम्
{सिद्धान्त-सूत्र}

[अनुमानपरीक्षाप्रकरणम्]

२.१.३८ > रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम्
{पूर्वपक्ष-सूत्र}

२.१.३९ > न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात्
{सिद्धान्त-सूत्र}
{वर्तमानकालपरीक्षा}

२.१.४० > वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः
{पूर्वपक्ष-सूत्र}

२.१.४१ > तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात्
{सिद्धान्त-सूत्र}

२.१.४२ > न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः
{सिद्धान्त-सूत्र}

२.१.४३ > वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः
{सिद्धान्त-सूत्र}

२.१.४४ > कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम्
{सिद्धान्त-सूत्र}

[उपमानपरीक्षाप्रकरणम्]

२.१.४५ > अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः
{सिद्धान्त-सूत्र}

२.१.४६ > प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः
{पूर्वपक्ष-सूत्र}

२.१.४७ > प्रत्यक्षेण अप्रत्यक्षसिद्धेः
{सिद्धान्त-सूत्र}

२.१.४८ > न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः
{सिद्धान्त-सूत्र}

२.१.४९ > तथा इति उपसंहारात् उपमानसिद्धेः न अविशेषः
{सिद्धान्त-सूत्र}

[शब्दसामान्यपरीक्षाप्रकरणम्]

२.१.५० > शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात्
{पूर्वपक्ष-सूत्र}

२.१.५१ > उपलब्धेः अद्विप्रवृत्तित्वात्
{पूर्वपक्ष-सूत्र}

२.१.५२ > सम्बन्धात् च
{पूर्वपक्ष-सूत्र}

२.१.५३ > आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः
{सिद्धान्त-सूत्र}

२.१.५४ > पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः
{सिद्धान्त-सूत्र}

२.१.५५ > शब्दार्थव्यवस्थानात् अप्रतिषेधः
{सिद्धान्त-सूत्र}

२.१.५६ > न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य
{सिद्धान्त-सूत्र}

२.१.५७ > जातिविशेषे च अनियमात्
{सिद्धान्त-सूत्र} [शब्दविशेषपरीक्षाप्रकरणम्]

२.१.५८ > तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः
{सिद्धान्त-सूत्र}

२.१.५९ > न, कर्मकर्तृसाधनवैगुण्यात्
{सिद्धान्त-सूत्र}

२.१.६० > अभ्युपेत्य कालभेदे दोषवचनात्
{सिद्धान्त-सूत्र}

२.१.६१ > अनुवादोपपत्तेः च
{सिद्धान्त-सूत्र}

२.१.६२ > वाक्यविभागस्य च अर्थग्रहणात्
{सिद्धान्त-सूत्र}

२.१.६३ > विध्यर्थवादानुवादवचनविनियोगात्
{सिद्धान्त-सूत्र}

२.१.६४ > विधिः विधायकः
{सिद्धान्त-सूत्र}

२.१.६५ > स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः
{सिद्धान्त-सूत्र}
{अर्थवाद-भेदः}

२.१.६६ > विधिविहितस्य अनुवचनम् अनुवादः
{अर्थवाद-}

२.१.६७ > न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः
{सिद्धान्त-सूत्र}

२.१.६८ > शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः
{सिद्धान्त-सूत्र}

२.१.६९ > मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात्
{सिद्धान्त-सूत्र}

इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम्

द्वितीयम् आह्निकम्

[प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्]

२.२.१ > न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्
{पूर्वपक्ष-सूत्र}

२.२.२ > शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः
{सिद्धान्त-सूत्र}

२.२.३ > अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात्
{अर्थापत्तिप्रामाण्यपरीक्षा}

२.२.४ > अनर्थापत्तौ अर्थापत्त्यभिमानात्
{नानैकान्तिकत्वमर्थापत्तेः}

२.२.५ > प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् (-)

२.२.६ > तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम्
{सिद्धान्त-सूत्र} [अभावप्रामाण्यसिद्धिः – अवान्तरप्रकरणम्]

२.२.७ > न अभावप्रामाण्यं प्रमेयासिद्धेः
{पूर्वपक्ष-सूत्र}

२.२.८ > लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः
{उदाहरण सूत्र}

२.२.९ > असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः
{सिद्धान्त-सूत्र}

२.२.१० > तत्सिद्धेः अलक्षितेषु अहेतुः
{पूर्वपक्ष-सूत्र}

२.२.११ > न, लक्षणावस्थितापेक्षसिद्धेः
{सिद्धान्त-सूत्र}

२.२.१२ > प्राक् उत्पत्तेः अभावोपपत्तेः च
{सिद्धान्त-सूत्र}

[शब्दानित्यत्वपरीक्षाप्रकरणम्(१३-३९)]

२.२.१३ > आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च
{शब्दानित्यत्व-प्रतिपादन-सूत्र}

२.२.१४ > न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च
{सिद्धान्त-सूत्र}

२.२.१५ > तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}

२.२.१६ > सन्तानानुमानविशेषणात्
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}

२.२.१७ > कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}

२.२.१८ > प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च
{शब्दानित्यत्व-प्रतिपादन-सूत्र}

२.२.१९ > तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः
{शब्दानित्यत्व-प्रतिपादन-सूत्र}

२.२.२० > अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात्
{सिद्धान्त-सूत्र}

२.२.२१ > अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}

२.२.२२ > अस्पर्शत्वात्
{सिद्धान्त-सूत्र}

२.२.२३ > न, कर्मानित्यत्वात्
{सिद्धान्त-सूत्र}

२.२.२४ > न, अणुनित्यत्वात्
{सिद्धान्त-सूत्र}

२.२.२५ > सम्प्रदानात्
{सिद्धान्त-सूत्र}

२.२.२६ > तदन्तरालानुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}

२.२.२७ > अध्यापनात् अप्रतिषेधः
{सिद्धान्त-सूत्र}

२.२.२८ > उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः
{सिद्धान्त-सूत्र}

२.२.२९ > अभ्यासात्
{सिद्धान्त-सूत्र}

२.२.३० > न अन्यत्वे अपि अभ्यासस्य उपचारात्
{सिद्धान्त-सूत्र}

२.२.३१ > अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः
{सिद्धान्त-सूत्र}

२.२.३२ > तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः
{सिद्धान्त-सूत्र}

२.२.३३ > विनाशकारणानुपलब्धेः
{सिद्धान्त-सूत्र}

२.२.३४ > अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः
{सिद्धान्त-सूत्र}

२.२.३५ > उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः
{सिद्धान्त-सूत्र}

२.२.३६ > पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः
{सिद्धान्त-सूत्र}

२.२.३७ > विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
{सिद्धान्त-सूत्र}

२.२.३८ > अस्पर्शत्वात् अप्रतिषेधः
{सिद्धान्त-सूत्र}

२.२.३९ > विभक्त्यन्तरोपपत्तेः च समासे
{सिद्धान्त-सूत्र}

[शब्दपरिणामपरीक्षाप्रकरणम्(४०-५६)]

२.२.४० > विकारादेशोपदेशात् संशयः
{पूर्वपक्ष-सूत्र}

२.२.४१ > प्रकृतिविवृद्धौ विकारविवृद्धेः
{सिद्धान्त-सूत्र}

२.२.४२ > न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः
{सिद्धान्त-सूत्र}

२.२.४३ > द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः
{उदाहरणसूत्र}

२.२.४४ > न, अतुल्यप्रकृतीनाम् विकारविकल्पात्
{सिद्धान्त-सूत्र}

२.२.४५ > द्रव्यविकारवैषम्यवत् वर्णविकारविकलः
{पूर्वपक्ष-सूत्र}

२.२.४६ > न, विकारधर्मानुपपत्तेः
{सिद्धान्त-सूत्र}

२.२.४७ > विकारप्राप्तानाम् अपुनरापत्तेः
{सिद्धान्त-सूत्र}

२.२.४८ > सुवर्णादीनां पुनरापत्तेः अहेतुः
{पूर्वपक्ष-सूत्र}

२.२.४९ > न, तद्विकाराणां सुवर्णभावाव्यतिरेकात्
{सिद्धान्त-सूत्र}

२.२.५० > वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}

२.२.५१ > सामान्यवतो धर्मयोगो न सामान्यस्य
{सिद्धान्त-सूत्र}

२.२.५२ > नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात्
{सिद्धान्त-सूत्र}

२.२.५३ > नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः
{पूर्वपक्ष-सूत्र}

२.२.५४ > अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः
{पूर्वपक्ष-सूत्र}

२.२.५५ > विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः
{सिद्धान्त-सूत्र}

२.२.५६ > प्रकृत्यनियमात्
{सिद्धान्त-सूत्र}

२.२.५७ > अनियमे नियमात् न अनियमः
{पूर्वपक्ष-सूत्र}

२.२.५८ > नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः
{सिद्धान्त-सूत्र}

२.२.५९ > गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः
{सिद्धान्त-सूत्र}

[शब्दशक्तिपरीक्षाप्रकरणम्]

२.२.६० > ते विभक्त्यन्ताः पदम्
{पद-लक्षण-सूत्रम्}

२.२.६१ > व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः
{पूर्वपक्ष-सूत्र}

[व्यक्तिवाद-अवान्तरप्रकरणम्]

२.२.६२ > याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः
{पूर्वपक्ष-सूत्र}

२.२.६३ > न, तत् अनवस्थानात्
{सिद्धान्त-सूत्र}

२.२.६४ > सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः
{सिद्धान्त-सूत्र}

[आकृतिवाद-अवान्तरप्रकरणम्]

२.२.६५ > आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः
{पूर्वपक्ष-सूत्र}

[जातिवाद-अवान्तरप्रकरणम्]

२.२.६६ > व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः
{पूर्वपक्ष-सूत्र}

२.२.६७ > न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः
{सिद्धान्त-सूत्र}

[सिद्धान्तवाद-अवान्तरप्रकरणम्]

२.२.६८ > व्यक्त्याकृतिजातयः तु पदार्थः
{सिद्धान्त-सूत्र}

२.२.६९ > व्यक्तिः गुणविशेषाश्रयः मूर्तिः
{सिद्धान्त-सूत्र}

२.२.७० > आकृतिः जातिलिङ्गाख्या
{सिद्धान्त-सूत्र}

२.२.७१ > समानप्रसवात्मिका जातिः
{सिद्धान्त-सूत्र}

इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयम् आह्निकम्समाप्तः अयम् द्वितीयाध्यायः

 

 

अथ तृतीयः अध्यायः

प्रथमम् आह्निकम्

इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं(१-३)]

३.१.१ > दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात्
{पूर्वपक्ष-सूत्र}

३.१.२ > न, विषयव्यवस्थानात्
{पूर्वपक्ष-सूत्र}

३.१.३ > तद्व्यवस्थानात् एव आत्मसद्भावात् अप्रतिषेधः
{सिद्धान्त-सूत्र} [शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्]

३.१.४ > शरीरदाहे पातकाभावात्
{सिद्धान्त-सूत्र}

३.१.५ > तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात्
{पूर्वपक्ष-सूत्र}

३.१.६ > न, कार्याश्रयकर्तृवधात्
{सिद्धान्त-सूत्र}

[प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम्(७-१४)]

३.१.७ > सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात्
{सिद्धान्त-सूत्र}

३.१.८ > न एकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात्
{पूर्वपक्ष-सूत्र}

३.१.९ > एकविनाशे द्वितीयाविनाशात् न एकत्वम्
{सिद्धान्त-सूत्र}

३.१.१० > अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः
{पूर्वपक्ष-सूत्र}

३.१.११ > दृष्टान्तविरोधात् अप्रतिषेधः
{सिद्धान्त-सूत्र}

३.१.१२ > इन्द्रियान्तरविकारात्
{सिद्धान्त-सूत्र}

३.१.१३ > न, स्मृतेः स्मर्त्तव्यविषयत्वात्
{पूर्वपक्ष-सूत्र}

३.१.१४ > तदात्मगुणसद्भावात् अप्रतिषेधः
{सिद्धान्त-सूत्र}

[आत्ममनोभेदपरीक्षाप्रकरणम्(१५-१७)]

३.१.१५ > न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात्
{पूर्वपक्ष-सूत्र}

३.१.१६ > ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम्
{सिद्धान्त-सूत्र}

३.१.१७ > नियमः च निरनुमानः
{सिद्धान्त-सूत्र}

[आत्मनित्यत्वपरीक्षाप्रकरणम्(१८-२६)]

३.१.१८ > पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः
{सिद्धान्त-सूत्र}

३.१.१९ > पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः
{पूर्वपक्ष-सूत्र}

३.१.२० > न, उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम्
{सिद्धान्त-सूत्र}

३.१.२१ > प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात्
{सिद्धान्त-सूत्र}

३.१.२२ > अयसः अयस्कान्ताभिगमनवत् तदुपसर्पणम्
{पूर्वपक्ष-सूत्र}

३.१.२३ > न, अन्यत्र प्रवृत्त्यभावात्
{सिद्धान्त-सूत्र}

३.१.२४ > वीतरागजन्मादर्शनात्
{सिद्धान्त-सूत्र}

३.१.२५ > सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः
{पूर्वपक्ष-सूत्र}

३.१.२६ > न, सङ्कल्पनिमित्तत्वात् रागादीनाम्
{सिद्धान्त-सूत्र}

[शरीरपरीक्षाप्रकरणम्(२७-३१)]

३.१.२७ > पार्थिवं गुणान्तरोपलब्धेः
{सिद्धान्त-सूत्र}

३.१.२८ > पार्थिवाप्यतैजसं तद्गुणोपलब्धेः
{सिद्धान्त-सूत्र}

३.१.२९ > निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम्
{पूर्वपक्ष-सूत्र}

३.१.३० > गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्
{पूर्वपक्ष-सूत्र}

३.१.३१ > श्रुतिप्रामाण्यात् च
{सिद्धान्त-सूत्र}

[इन्द्रियपरीक्षाप्रकरणम्(३२-५१)]

३.१.३२ > कृष्णसारे सति उपलम्भात् व्यतिरिच्य च उपलम्भात् संशयः
{सिद्धान्त-सूत्र}

३.१.३३ > महदणुग्रहणात्
{साङ्ख्यमतखण्डनम्}

३.१.३४ > रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम्
{सिद्धान्त-सूत्र}

३.१.३५ > तदनुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}

३.१.३६ > न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः
{सिद्धान्त-सूत्र}

३.१.३७ > द्रव्यगुणधर्मभेदात् च उपलब्धिनियमः
{सिद्धान्त-सूत्र}

३.१.३८ > अनेकद्रव्यसमवायात् रूपविशेषात् च रूपोपलब्धिः
{सिद्धान्त-सूत्र}

३.१.३९ > कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः
{सिद्धान्त-सूत्र}

३.१.४० > मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः
{सिद्धान्त-सूत्र}

३.१.४१ > न, रात्रौ अपि अनुपलब्धेः
{सिद्धान्त-सूत्र}

३.१.४२ > बाह्यप्रकाशानुग्रहात् विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः
{सिद्धान्त-सूत्र}

३.१.४३ > अभिव्यक्तौ च अभिभवात्
{सिद्धान्त-सूत्र}

३.१.४४ > नक्तञ्चरनयनरश्मिदर्शनात् च
{सिद्धान्त-सूत्र}

३.१.४५ > अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः
{पूर्वपक्ष-सूत्र}

३.१.४६ > कुड्यान्तरितानुपलब्धेः अप्रतिषेधः
{सिद्धान्त-सूत्र}

३.१.४७ > अप्रतीघातात् सन्निकर्षोपपत्तिः
{सिद्धान्त-सूत्र}

३.१.४८ > आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात्
{सिद्धान्त-सूत्र}

३.१.४९ > न इतरेतरधर्मप्रसङ्गात्
{पूर्वपक्ष-सूत्र}

३.१.५० > आदर्शोदकयोः प्रसादस्वाभाव्यात् रूपोपलब्धिः
{सिद्धान्त-सूत्र}

३.१.५१ > दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः
{सिद्धान्त-सूत्र}

[इन्द्रियनानात्वपरीक्षाप्रकरणम्(५२-६२)]

३.१.५२ > स्थानान्यत्वे नानात्वात् अवयविनानास्थानत्वात् च संशयः

{सिद्धान्त-सूत्र}

३.१.५३ > त्वक् अव्यतिरेकात्
{पूर्वपक्ष-सूत्र}

३.१.५४ > न युगपत् अर्थानुपलब्धेः
{सिद्धान्त-सूत्र}

३.१.५५ > विप्रतिषेधात् च न त्वक् एका
{सिद्धान्त-सूत्र}

३.१.५६ > इन्द्रियार्थपञ्चत्वात्
{सिद्धान्त-सूत्र}

३.१.५७ > न, तदर्थबहुत्वात्
{पूर्वपक्ष-सूत्र}

३.१.५८ > गन्धत्वाद्यव्यतिरेकात् गन्धादीनामप्रतिषेधः
{सिद्धान्त-सूत्र}

३.१.५९ > विषयत्वाव्यतिरेकात् एकत्वम्
{सिद्धान्त-सूत्र}

३.१.६० > न, बुद्धिलक्षणाधिष्ठान-गत्याकृति-जातिपञ्चत्वेभ्यः
{सिद्धान्त-सूत्र}

३.१.६१ > भूतगुणविशेषोपलब्धेः तादात्म्यम्
{सिद्धान्त-सूत्र}

[अर्थपरीक्षाप्रकरणम्(६२-७४)]

३.१.६२ > गन्ध-रस-रूप-स्पर्श-शब्दानां स्पर्शपर्यन्ताः पृथिव्याः
{सिद्धान्त-सूत्र}

३.१.६३ > अप्-तेजो-वायूनां पूर्वं पूर्वम् अपोह्य आकाशस्य उत्तरः
{पूर्वपक्ष-सूत्र}

३.१.६४ > न, सर्वगुणानुपलब्धेः
{सिद्धान्त-सूत्र}

३.१.६५ > एकैकश्येन उत्तरगुणासद्भावात् उत्तरोत्तराणां तदनुपलब्धिः
{पूर्वपक्ष-सूत्र}

३.१.६६ > विष्टं हि अपरं परेण
{पूर्वपक्ष-सूत्र}

३.१.६७ > न, पार्थिवाप्ययोः प्रत्यक्षत्वात्
{सिद्धान्त-सूत्र}

३.१.६८ > पूर्वपूर्वगुणोत्कर्षात् तत्तत् प्रधानम्
{सिद्धान्त-सूत्र}

३.१.६९ > तद्ध्यवस्थानं तु भूयस्त्वात्
{सिद्धान्त-सूत्र}

३.१.७० > सगुणानाम् इन्द्रियभावात्
{सिद्धान्त-सूत्र}

३.१.७१ > तेन एव तस्य अग्रहणात् च
{सिद्धान्त-सूत्र}

३.१.७२ > न, शब्दगुणोपलब्धेः
{पूर्वपक्ष-सूत्र}

३.१.७३ > तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात्
{सिद्धान्त-सूत्र}

इति न्यायसूत्रे तृतीयाध्यायस्य प्रथमम् आह्निकम्

 

द्वितीयम् आह्निकम्

 बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(१-९)]

३.२.१ > कर्माकाशसाधर्म्यात् संशयः
{सिद्धान्त-सूत्र}

३.२.२ > विषयप्रत्यभिज्ञानात्
{सिद्धान्त-सूत्र}

३.२.३ > साध्यसमत्वात् अहेतुः
{सिद्धान्त-सूत्र}

३.२.४ > न, युगपत् अग्रहणात्
{सिद्धान्त-सूत्र}

३.२.५ > अप्रत्यभिज्ञाने च विनाशप्रसङ्गः
{सिद्धान्त-सूत्र}

३.२.६ > क्रमवृत्तित्वात् अयुगपत् ग्रहणम्
{सिद्धान्त-सूत्र}

३.२.७ > अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात्
{सिद्धान्त-सूत्र}

३.२.८ > न, गत्यभावात्
{सिद्धान्त-सूत्र}

३.२.९ > स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः
{सिद्धान्त-सूत्र}

[क्षणभङ्गपरीक्षाप्रकरणम्(१०-१७)]

३.२.१० > स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात् व्यक्तीनाम् अहेतुः
{सिद्धान्त-सूत्र}

३.२.११ > नियमहेत्वभावात् यथादर्शनम् अभ्यनुज्ञा
{सिद्धान्त-सूत्र}

३.२.१२ > न, उत्पत्तिविनाशकारणोपलब्धेः
{सिद्धान्त-सूत्र}

३.२.१३ > क्षीरविनाशे कारणानुपलब्धिवत् दध्युत्पत्तिवत् च तदुत्पत्तिः
{पूर्वपक्ष-सूत्र}

३.२.१४ > लिङ्गतः ग्रहणात् न अनुपलब्धिः
{सिद्धान्त-सूत्र}

३.२.१५ > न पयसः परिणाम-गुणान्तरप्रादुर्भावात्
{सिद्धान्त-सूत्र}

३.२.१६ > व्यूहान्तरात् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम्
{सिद्धान्त-सूत्र}

३.२.१७ > क्वचित् विनाशकारणानुपलब्धेः क्वचित् च उपलब्धेः अनेकान्तः
{सिद्धान्त-सूत्र}

[बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम्(१८-४१)]

३.२.१८ > न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात्
{सिद्धान्त-सूत्र}

३.२.१९ > युगपत् ज्ञानानुपलब्धेः च न मनसः
{सिद्धान्त-सूत्र}

३.२.२० > तत् आत्मगुणत्वे अपि तुल्यम्
{पूर्वपक्ष-सूत्र}

३.२.२१ > इन्द्रियैः मनसः सन्निकर्षाभावात् तदनुत्पत्तिः
{पूर्वपक्ष-सूत्र}

३.२.२२ > न, उत्पत्तिकारणानपदेशात्
{सिद्धान्त-सूत्र}

३.२.२३ > विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
{पूर्वपक्ष-सूत्र}

३.२.२४ > अनित्यत्वग्रहात् बुद्धेः बुद्ध्यन्तरात् विनाशः शब्दवत्
{सिद्धान्त-सूत्र}

३.२.२५ > ज्ञानसमवेतात्मप्रदेशसन्निकर्षात् मनसः स्मृत्युत्पत्तेः न युगपत् उत्पत्तिः
{पूर्वपक्ष-सूत्र}

३.२.२६ > न, अन्तः-शरीरवृत्तित्वात् मनसः
{सिद्धान्त-सूत्र}

३.२.२७ > साध्यत्वात् अहेतुः
{पूर्वपक्ष-सूत्र}

३.२.२८ > स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः
{सिद्धान्त-सूत्र}

३.२.२९ > न, तदाशुगतित्वान्मनसः
{पूर्वपक्ष-सूत्र}

३.२.३० > न, स्मरणकालानियमात्
{सिद्धान्त-सूत्र}

३.२.३१ > आत्मप्रेरण-यदृच्छा-ज्ञताभिः च न संयोगविशेषः
{पूर्वपक्ष-सूत्र}

३.२.३२ > व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम्
{सिद्धान्त-सूत्र}

३.२.३३ > प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावात् अयुगपत्स्मरणम्
{सिद्धान्त-सूत्र}

३.२.३४ > ज्ञस्य इच्छाद्वेषनिमित्तत्वात् आरम्भनिवृत्त्योः
{सिद्धान्त-सूत्र}

३.२.३५ > तल्लिङ्गत्वात् इच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः
{पूर्वपक्ष-सूत्र}

३.२.३६ > परश्वादिषु आरम्भनिवृत्तिदर्शनात्
{सिद्धान्त-सूत्र}

३.२.३७ > नियमानियमौ तु तद्विशेषकौ
{सिद्धान्त-सूत्र}

३.२.३८ > यथोक्तहेतुत्वात् पारतन्त्र्यात् अकृताभ्यागमात् च न मनसः
{सिद्धान्त-सूत्र}

३.२.३९ > परिशेषात् यथोक्तहेतूपपत्तेः च
{सिद्धान्त-सूत्र}

३.२.४० > स्मरणं तु आत्मनः ज्ञस्वाभाव्यात्
{सिद्धान्त-सूत्र}

३.२.४१ > प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षण-सादृश्य-परिग्रहाश्रयाश्रित सम्बन्धानन्तर्य-वियोगैककार्य-विरोधातिशय-प्राप्ति-व्यवधान-सुख-दुःखेच्छा द्वेष-भयार्थित्व-क्रियाराग-धर्माधर्मनिमित्तेभ्यः
{सिद्धान्त-सूत्र}

[बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम्(४२-४५)]

३.२.४२ > कर्मानवस्थायिग्रहणात्
{सिद्धान्त-सूत्र}

३.२.४३ > अव्यक्तग्रहणम् अनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत्
{सिद्धान्त-सूत्र}

३.२.४४ > हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा
{सिद्धान्त-सूत्र}

३.२.४५ > न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम्
{सिद्धान्त-सूत्र} [बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम्(४६-५५)]

३.२.४६ > द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः
{सिद्धान्त-सूत्र}

३.२.४७ > यावच्छरीरभावित्वात् रूपादीनाम्
{सिद्धान्त-सूत्र}

३.२.४८ > न, पाकजगुणान्तरोत्पत्तेः
{सिद्धान्त-सूत्र}

३.२.४९ > प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}

३.२.५० > शरीरव्यापित्वात्
{सिद्धान्त-सूत्र}

३.२.५१ > न, केशनखादिषु अनुपलब्धेः
{पूर्वपक्ष-सूत्र}

३.२.५२ > त्वक्पर्यन्तत्वात् शरीरस्य केशनखादिषु अप्रसङ्गः
{सिद्धान्त-सूत्र}

३.२.५३ > शरीरगुणवैधर्म्यात्
{सिद्धान्त-सूत्र}

३.२.५४ > न, रूपादीनाम् इतरेतरवैधर्म्यात्
{पूर्वपक्ष-सूत्र}

३.२.५५ > ऐन्द्रियकत्वात् रूपादीनाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}

[मनःपरीक्षाप्रकरणम्(५६-५९)]

३.२.५६ > ज्ञानायौगपद्यात् एकम् मनः
{सिद्धान्त-सूत्र}

३.२.५७ > न, युगपत् अनेकक्रियोपलब्धेः
{पूर्वपक्ष-सूत्र}

३.२.५८ > अलातचक्रदर्शनवत् तदुपलब्धिः आशुसञ्चारात्
{सिद्धान्त-सूत्र}

३.२.५९ > यथोक्तहेतुत्वात् च अणु
{सिद्धान्त-सूत्र}

[अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम्(६०-७२)]

३.२.६० > पूर्वकृतफलानुबन्धात् तदुत्पत्तिः
{सिद्धान्त-सूत्र}

३.२.६१ > भूतेभ्यः मूर्त्युपादानवत् तदुपादानम्
{पूर्वपक्ष-सूत्र}

३.२.६२ > न, साध्यसमत्वात्
{सिद्धान्त-सूत्र}

३.२.६३ > न, उत्पत्तिनिमित्तत्वात् मातापित्रोः
{सिद्धान्त-सूत्र}

३.२.६४ > तथा आहारस्य
{सिद्धान्त-सूत्र}

३.२.६५ > प्राप्तौ च अनियमात्
{सिद्धान्त-सूत्र}

३.२.६६ > शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म
{सिद्धान्त-सूत्र}

३.२.६७ > एतेन अनियमः प्रत्युक्तः
{सिद्धान्त-सूत्र}

३.२.६८ > तत् अदृष्टकारितम् इति चेत् पुनः तत्प्रसङ्गः अपवर्गे
{सिद्धान्त-सूत्र}

३.२.६९ > मनःकर्मनिमित्तत्वात् च संयोगाव्युच्छेदः
{सिद्धान्त-सूत्र}

३.२.७० > नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः
{सिद्धान्त-सूत्र}

३.२.७१ > अणुश्यामतानित्यत्ववत् एतत् स्यात्
{पूर्वपक्ष-सूत्र}

३.२.७२ > न, अकृताभ्यागमप्रसङ्गात्
{सिद्धान्त-सूत्र}

इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयम् आह्निकम्समाप्तः अयम् तृतीयः अध्यायः

 

 अथ चतुर्थः अध्यायः

प्रथमम् आह्निकम्

प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(१-२)]

४.१.१ > प्रवृत्तिर्यथोक्ता
{सिद्धान्त-सूत्र}

४.१.२ > तथा दोषाः
{सिद्धान्त-सूत्र}

[दोषत्रैराश्यपरीक्षाप्रकरणम्(३-८)]

४.१.३ > त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात्
{सिद्धान्त-सूत्र}

४.१.४ > न, एकप्रत्यनीकभावात्
{पूर्वपक्ष-सूत्र}

४.१.५ > व्यभिचारादहेतुः
{सिद्धान्त-सूत्र}

४.१.६ > तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः
{सिद्धान्त-सूत्र}

४.१.७ > निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः
{पूर्वपक्ष-सूत्र}

४.१.८ > न दोषलक्षणावरोधान्मोहस्य
{सिद्धान्त-सूत्र}

४.१.९ > निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः
{सिद्धान्त-सूत्र}

[प्रेत्यभावपरीक्षाप्रकरणम्(१०-१३)]

४.१.१० > आत्मनित्यत्वे प्रेत्यभावसिद्धिः
{सिद्धान्त-सूत्र}

४.१.११ > व्यक्ताद् व्यक्तानाम्, प्रत्यक्षप्रामाण्यात्
{सिद्धान्त-सूत्र}

४.१.१२ > न, घटाद् घटनिष्पत्तेः
{पूर्वपक्ष-सूत्र}

४.१.१३ > व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः
{सिद्धान्त-सूत्र}

[शून्यतोपादाननिराकरणप्रकरणम्(१४-१८)]

४.१.१४ > अभावाद् भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात्
{पूर्वपक्ष-सूत्र}

४.१.१५ > व्याघातादप्रयोगः
{सिद्धान्त-सूत्र}

४.१.१६ > न, अतीतानागतयोः कारकशब्दप्रयोगात्
{पूर्वपक्ष-सूत्र}

४.१.१७ > न, विनष्टेभ्यो ऽनिष्पत्तेः
{सिद्धान्त-सूत्र}

४.१.१८ > क्रमनिर्देशादप्रतिषेधः
{सिद्धान्त-सूत्र}

[ईश्वरोपादानाताप्रकरणम्(१९-२१)]

४.१.१९ > ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात्
{सिद्धान्त-सूत्र}

४.१.२० > न, पुरुषकर्माभावे फ्लानिष्पत्तेः
{पूर्वपक्ष-सूत्र}

४.१.२१ > तत्कारितत्वाद् अहेतुः
{सिद्धान्त-सूत्र} [आकस्मिकत्वनिराकरणप्रकरणम्(२२-२४)]

४.१.२२ > अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात्
{पूर्वपक्ष-सूत्र}

४.१.२३ > अनिमित्तनिमित्तत्वान्ननिमित्ततः
{सिद्धान्त-सूत्र}

४.१.२४ > निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः
{सिद्धान्त-सूत्र}

[सर्वानित्यत्वनिराकरणप्रकरणम्(२५-२८)]

४.१.२५ > सर्वम् अनित्यम्, उत्पत्तिविनाशधर्मकत्वात्
{पूर्वपक्ष-सूत्र}

४.१.२६ > न, अनित्यतानित्यत्वात्
{सिद्धान्त-सूत्र}

४.१.२७ > तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत्
{सिद्धान्त-सूत्र}

४.१.२८ > नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात्
{सिद्धान्त-सूत्र}

[सर्वनित्यत्वनिराकरणम्(२९-३३)]

४.१.२९ > सर्वं नित्यम्, पञ्चभूतनित्यत्वात्
{पूर्वपक्ष-सूत्र}

४.१.३० > न, उत्पत्तिविनाशकारणोपलब्धेः
{सिद्धान्त-सूत्र}

४.१.३१ > तल्लक्षणावरोधादप्रतिषेधः
{पूर्वपक्ष-सूत्र}

४.१.३२ > न, उत्पत्तितत्कारणोपलब्धेः
{सिद्धान्त-सूत्र}

४.१.३३ > न, व्यवस्थानुपपत्तेः
{सिद्धान्त-सूत्र}

[सर्वपृथक्त्वनिराकरणप्रकरणम्(३४-३६)]

४.१.३४ > सर्वं पृथग्, भावलक्षणपृथक्त्वात्
{पूर्वपक्ष-सूत्र}

४.१.३५ > न, अनेकलक्षणैरेकभावनिष्पत्तेः
{सिद्धान्त-सूत्र}

४.१.३६ > लक्षणव्यवस्थानादेवाप्रतिषेधः
{सिद्धान्त-सूत्र}

[सर्वशून्यतानिराकरणप्रकरणम्(३७-४०)]

४.१.३७ > सर्वम् अभावो भावेष्वितरेतराभावसिद्धेः
{पूर्वपक्ष-सूत्र}

४.१.३८ > न, स्वभावसिद्धेर्भावानाम्
{सिद्धान्त-सूत्र}

४.१.३९ > न स्वभावसिद्धिः, आपेक्षिकत्वात्
{पूर्वपक्ष-सूत्र}

४.१.४० > व्याहतत्वादयुक्तम्
{सिद्धान्त-सूत्र}

[संख्यैकान्तवादप्रकरणम्(४१-४३)]

४.१.४१ > संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम्
{सिद्धान्त-सूत्र}

४.१.४२ > न, कारणवयवाभावात्
{पूर्वपक्ष-सूत्र}

४.१.४३ > निरवयवत्वादहेतुः
{सिद्धान्त-सूत्र}

[फलपरीक्षाप्रकरणम्(४४-५४)]

४.१.४४ > सद्यः कालान्तरे च फलनिष्पत्तेः संशयः
{सिद्धान्त-सूत्र}

४.१.४५ > न सद्यः, कालान्तरोपभोग्यत्वात्
{सिद्धान्त-सूत्र}

४.१.४६ > कालान्तरेणानिष्पत्तिहेतुर्विनाशात्
{पूर्वपक्ष-सूत्र}

४.१.४७ > प्राङ्निष्पत्तेर्वृक्षफलवत् तत्स्यात्
{सिद्धान्त-सूत्र}

४.१.४८ > नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात्
{पूर्वपक्ष-सूत्र}

४.१.४९ > उत्पादव्ययदर्शनात्
{सिद्धान्त-सूत्र}

४.१.५० > बुद्धिसिद्धं तु तदसत्
{सिद्धान्त-सूत्र}

४.१.५१ > आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्यहेतुः
{पूर्वपक्ष-सूत्र}

४.१.५२ > प्रीतेरात्माश्रयत्वादप्रतिषेधः
{सिद्धान्त-सूत्र}

४.१.५३ > न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात्
{पूर्वपक्ष-सूत्र}

४.१.५४ > तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः
{सिद्धान्त-सूत्र}

[दुःखपरीक्षाप्रकरणम्(५५-५८)]

४.१.५५ > विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः
{सिद्धान्त-सूत्र}

४.१.५६ > न, सुखस्याप्यन्तरालनिष्पत्तेः
{सिद्धान्त-सूत्र}

४.१.५७ > भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः
{सिद्धान्त-सूत्र}

४.१.५८ > दुःखविकल्पे सुखाभिमानाच्च
{सिद्धान्त-सूत्र} [अपवर्गपरीक्षाप्रकरणम्(५९-६८)]

४.१.५९ > ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः
{पूर्वपक्ष-सूत्र}

४.१.६० > प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः
{सिद्धान्त-सूत्र}

४.१.६१ > समारोपणादात्मन्यप्रतिषेधः
{सिद्धान्त-सूत्र}

४.१.६२ > पात्रचयान्तानुपपत्तेश्च फलाभावः
{सिद्धान्त-सूत्र}

४.१.६३ > सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः
{सिद्धान्त-सूत्र}

४.१.६४ > न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य
{सिद्धान्त-सूत्र}

४.१.६५ > न, क्लेशसन्ततेः स्वाभाविकत्वात्
{पूर्वपक्ष-सूत्र}

४.१.६६ > प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविके ऽप्यनित्यत्वम्
{सिद्धान्त-सूत्र}

४.१.६७ > अणुश्यामतानित्यत्ववद् वा
{सिद्धान्त-सूत्र}

४.१.६८ > न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम्
{सिद्धान्त-सूत्र}

इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथमम् आह्निकम्

 

 द्वितीयम् आह्निकम्

 तत्त्वज्ञानोत्पत्तिप्रकरणम्(१-३)]

४.२.१ > दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः
{सिद्धान्त-सूत्र}

४.२.२ > दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः
{सिद्धान्त-सूत्र}

४.२.३ > तन्निमित्तं त्ववयव्यभिमानः
{सिद्धान्त-सूत्र}

[प्रासङ्गिकम् अवयविप्रकरणम्(४-१७)]

४.२.४ > विद्याविद्याद्वैविध्यात् संशयः
{पूर्वपक्ष-सूत्र}

४.२.५ > तदसंशयः, पूर्वहेतुप्रसिद्धत्वात्
{सिद्धान्त-सूत्र}

४.२.६ > वृत्त्यनुपपत्तेरपि तर्हि न संशयः
{पूर्वपक्ष-सूत्र}

४.२.७ > कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः
{पूर्वपक्ष-सूत्र}

४.२.८ > तेषु चावृत्तेरवयव्यभावः
{पूर्वपक्ष-सूत्र}

४.२.९ > पृथक् चावयवेभ्यो ऽवृत्तेः
{सिद्धान्त-सूत्र}

४.२.१० > न चावयव्यवयवाः
{पूर्वपक्ष-सूत्र}

४.२.११ > एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः
{सिद्धान्त-सूत्र}

४.२.१२ > अवयवान्तरभावे ऽप्यवृत्तेरहेतुः
{सिद्धान्त-सूत्र}

४.२.१३ > केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः
{पूर्वपक्ष-सूत्र}

४.२.१४ > स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः
{सिद्धान्त-सूत्र}

४.२.१५ > अवयवावयविप्रसङ्गश्चैवमाप्रलयात्
{सिद्धान्त-सूत्र}

४.२.१६ > न प्रलयो ऽणुसद्भावात्
{सिद्धान्त-सूत्र}

४.२.१७ > परं वा त्रुटेः
{सिद्धान्त-सूत्र}

[औपोद्घातिकं निरवयवप्रकरणम्(१८-२५)]

४.२.१८ > आकाशव्यतिभेदात् तदनुपपत्तिः
{सिद्धान्त-सूत्र}

४.२.१९ > आकाशासर्वगतत्वं वा
{पूर्वपक्ष-सूत्र}

४.२.२० > अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः
{सिद्धान्त-सूत्र}

४.२.२१ > शब्दसंयोगविभावाच्च सर्वगतम्
{सिद्धान्त-सूत्र}

४.२.२२ > अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः
{सिद्धान्त-सूत्र}

४.२.२३ > मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः
{पूर्वपक्ष-सूत्र}

४.२.२४ > संयोगोपपत्तेश्च
{पूर्वपक्ष-सूत्र}

४.२.२५ > अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः
{सिद्धान्त-सूत्र} [बाह्यार्थभङ्गनिराकरणप्रकरणम्(२६-३७)]

४.२.२६ > बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः
{पूर्वपक्ष-सूत्र}

४.२.२७ > व्याहतत्वादहेतुः
{सिद्धान्त-सूत्र}

४.२.२८ > तदाश्रयत्वादपृथग्ग्रहणम्
{सिद्धान्त-सूत्र}

४.२.२९ > प्रमाणतश्चार्थप्रतिपत्तेः
{सिद्धान्त-सूत्र}

४.२.३० > प्रमाणानुपपत्त्युपपत्तिभ्याम्
{सिद्धान्त-सूत्र}

४.२.३१ > स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः
{पूर्वपक्ष-सूत्र}

४.२.३२ > मायागन्धर्वनगरमृगतृष्णिकावद्वा
{पूर्वपक्ष-सूत्र}

४.२.३३ > हेत्वभावादसिद्धिः
{सिद्धान्त-सूत्र}

४.२.३४ > स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः
{सिद्धान्त-सूत्र}

४.२.३५ > मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे
{सिद्धान्त-सूत्र}

४.२.३६ > बुद्धेश्चैवं निमित्तसद्भावोपलम्भात्
{सिद्धान्त-सूत्र}

४.२.३७ > तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः
{सिद्धान्त-सूत्र}

[तत्त्वज्ञानविवृद्धिप्रकरणम्(३८-४९)]

४.२.३८ > समाधिविशेषाभ्यासात्
{सिद्धान्त-सूत्र}

४.२.३९ > न, अर्थविशेषप्रावल्यात्
{पूर्वपक्ष-सूत्र}

४.२.४० > क्षुदादिभिः प्रवर्तनाच्च
{पूर्वपक्ष-सूत्र}

४.२.४१ > पूर्वकृतफलानुबन्धात् तदुत्पत्तिः
{सिद्धान्त-सूत्र}

४.२.४२ > अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः
{सिद्धान्त-सूत्र}

४.२.४३ > अपवर्गे ऽप्येवं प्रसङ्गः
{पूर्वपक्ष-सूत्र}

४.२.४४ > न, निष्पन्नावश्यम्भावित्वात्
{सिद्धान्त-सूत्र}

४.२.४५ > तदभावश्चापवर्गे
{सिद्धान्त-सूत्र}

४.२.४६ > तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः
{सिद्धान्त-सूत्र}

४.२.४७ > ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः
{सिद्धान्त-सूत्र}

४.२.४८ > तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयो ऽर्थिभिरनसूयिभिरभ्युपेयात्
{सिद्धान्त-सूत्र}

४.२.४९ > प्रतिपक्षहीनम् अपि वा प्रयोजनार्थमर्थित्वे

[तत्त्वज्ञानपरिपालनप्रकरणम्(५०-५१)]

४.२.५० > तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत्
{सिद्धान्त-सूत्र}

४.२.५१ > ताभ्यां विगृह्यकथनम्
{सिद्धान्त-सूत्र}

इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयम् आह्निकम्समाप्तश्च चतुर्थः अध्यायः

 

अथ पञ्चमः अध्यायः

प्रथमम् आह्निकम्

सत्प्रतिपक्षदेशनाभासप्रकर्णम्(१-३)]

५.१.१ > साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य् अप्राप्तिप्रषङ्गप्रतिदृऋष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः

{सिद्धान्त-सूत्र}

५.१.२ > साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ
{सिद्धान्त-सूत्र}

५.१.३ > गोत्वाद् गोसिद्धिवत् तत्सिद्धिः
{सिद्धान्त-सूत्र}

[उत्कर्षसमादिजातिषट्कप्रकरणम्(४-६)]

५.१.४ > साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः
{सिद्धान्त-सूत्र}

५.१.५ > किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः
{सिद्धान्त-सूत्र}

५.१.६ > साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः
{सिद्धान्त-सूत्र} [प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(७-८)]

५.१.७ > प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ
{सिद्धान्त-सूत्र}

५.१.८ > घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः
{सिद्धान्त-सूत्र}

[प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(९-११)]

५.१.९ > दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ
{सिद्धान्त-सूत्र}

५.१.१० > प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः
{सिद्धान्त-सूत्र}

५.१.११ > प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः
{सिद्धान्त-सूत्र}

[अनुत्पत्तिसमप्रकरणम्(१२-१३)]

५.१.१२ > प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः
{सिद्धान्त-सूत्र}

५.१.१३ > तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः
{सिद्धान्त-सूत्र}

[संशयसमप्रकरणम्(१४-१५)]

५.१.१४ > सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः
{सिद्धान्त-सूत्र}

५.१.१५ > साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः
{सिद्धान्त-सूत्र}

[प्रकरणसमप्रकरणम्(१६-१७)]

५.१.१६ > उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः
{सिद्धान्त-सूत्र}

५.१.१७ > प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः
{सिद्धान्त-सूत्र}

[अहेतुसमप्रकरणम्(१८-२०)]

५.१.१८ > त्रैकाल्यासिद्धेर्हेतोरहेतुसमः
{सिद्धान्त-सूत्र}

५.१.१९ > न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः
{सिद्धान्त-सूत्र}

५.१.२० > प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः
{सिद्धान्त-सूत्र}

[अर्थापत्तिसमप्रकरणम्(२१-२२)]

५.१.२१ > अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः
{सिद्धान्त-सूत्र}

५.१.२२ > अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः
{सिद्धान्त-सूत्र}

[अविशेषसमप्रकरणम्(२३-२४)]

५.१.२३ > एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्- अविशेषसमः

{सिद्धान्त-सूत्र}

५.१.२४ > क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः
{सिद्धान्त-सूत्र}

[उअपपत्तिसमप्रकरणम्(२५-२६)]

५.१.२५ > उभयोकारणोपपत्तेरुपपत्तिसमः
{सिद्धान्त-सूत्र}

५.१.२६ > उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः
{सिद्धान्त-सूत्र}

[उपलब्धिसमप्रकरणम्(२७-२८)]

५.१.२७ > निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः
{सिद्धान्त-सूत्र}

५.१.२८ > कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः
{सिद्धान्त-सूत्र} [अनुपलब्धिसमप्रकरणम्(२९-३१)]

५.१.२९ > तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः
{सिद्धान्त-सूत्र}

५.१.३० > अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः
{सिद्धान्त-सूत्र}

५.१.३१ > ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम्
{सिद्धान्त-सूत्र}

[अनित्यसमप्रकरणम्(३२-३४)

५.१.३२ > साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः
{सिद्धान्त-सूत्र}

५.१.३३ > साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च
{सिद्धान्त-सूत्र}

५.१.३४ > दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः
{सिद्धान्त-सूत्र}

[अनित्यसमप्रकरणम्(३५-३६)]

५.१.३५ > नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः
{सिद्धान्त-सूत्र}

५.१.३६ > प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः
{सिद्धान्त-सूत्र}

[कार्यसमप्रकरणम्(३७-३८)]

५.१.३७ > प्रयत्नकार्यानेकत्वात् कार्यसमः
{सिद्धान्त-सूत्र}

५.१.३८ > कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः
{सिद्धान्त-सूत्र}

[षट्पक्षीप्रकरणम्(३९-४०)]

५.१.३९ > प्रतिषेधे ऽपि समानदोषः
{सिद्धान्त-सूत्र}

५.१.४० > सर्वत्रैवम्
{सिद्धान्त-सूत्र}

५.१.४१ > प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः
{सिद्धान्त-सूत्र}

५.१.४२ > प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा
{सिद्धान्त-सूत्र}

५.१.४३ > स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति
{सिद्धान्त-सूत्र}

इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम्

 

द्वितीयम् आह्निकम्

५.२.१ > प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्त कालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वा भासाश्च निग्रहस्थानानि

{निग्रहस्थान-उद्देश-सूत्रम्}

[निग्रहस्थानपञ्चकप्रकरणम्(२-६)]

५.२.२ > प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः
{प्रतिज्ञाहानिः लक्षण-सूत्रम्}

५.२.३ > प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर.
{प्रतिज्ञान्तर-लक्षण-सूत्रम्}

५.२.४ > प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः
{प्रतिज्ञाविरोधः लक्षण-सूत्रम्}

५.२.५ > पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः
{प्रतिज्ञासन्न्यासः लक्षण-सूत्रम्}

५.२.६ > अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्
{हेत्वन्तरम् लक्षण-सूत्रम्}

[निग्रहस्थानचतुष्कप्रकरणम्(७-१०)]

५.२.७ > प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम्
{अर्थान्तरम् लक्षण-सूत्रम्}

५.२.८ > वर्णक्रमनिर्देशवन्निरर्थकम्
{निरर्थकम् लक्षण-सूत्रम्}

५.२.९ > परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्
{अविज्ञातार्थम् लक्षण-सूत्रम्}

५.२.१० > पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्
{अपार्थकम् लक्षण-सूत्रम्}

[निग्रहस्थानत्रिकप्रकरणम्(११-१३)]

५.२.११ > अवयवविपर्यासवचनमप्राप्तकालम्
{अप्राप्तकालम् लक्षण-सूत्रम्}

५.२.१२ > हीनमन्यतमेनाप्यवयवेन न्यूनम्
{न्यूनम् लक्षण-सूत्रम्}

५.२.१३ > हेतूदाहरणाधिकम् अधिकम्
{अधिकम् लक्षण-सूत्रम्}

[पुनरुक्तिनिग्रहस्थानप्रकरणम्(१४-१६)]

५.२.१४ > शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात्
{पुनरुक्तम् लक्षण-सूत्रम्}

५.२.१५ > अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः
{पुनरुक्तम् लक्षणापवादसूत्रम्}

५.२.१६ > अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम्
{पुनरुक्तम् लक्षणापवादसूत्रम्}

[उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(१७-२०)]

५.२.१७ > विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् अननुभाषणम्
{अननुभाषणम् लक्षण-सूत्रम्}

५.२.१८ > अविज्ञातम् च अज्ञानम्
{अज्ञानम् लक्षण-सूत्रम्}

५.२.१९ > उत्तरस्य अप्रतिपत्तिः अप्रतिभा
{अप्रतिभा लक्षण-सूत्रम्}

५.२.२० > कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः
{विक्षेपः लक्षण-सूत्रम्}

[मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(२१-२३)]

५.२.२१ > स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा
{मतानुज्ञा लक्षण-सूत्रम्}

५.२.२२ > निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम्
{पर्यनुयोज्योपेक्षणम् लक्षण-सूत्रम्}

५.२.२३ > अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः
{निरनुयोज्यानुयोग लक्षण-सूत्रम्}

[कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्(२४-२५)]

५.२.२४ > सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः
{अपसिद्धान्त लक्षण-सूत्रम्}

५.२.२५ > हेत्वाभासाः च यथोक्ताः
{हेत्वाभास निरूपणम्}

 

इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्समाप्तश्चायम् पञ्चमाध्यायः

न्यायदर्शनं समाप्तम्