S.D. Human Development, Research & Training Center | तत्त्व बोध तत्त्व बोध | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

तत्त्व बोध

आदिशंकराचार्येण विरचितः

वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् |

मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ||

साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं

तत्त्वविवेकप्रकारं वक्ष्यामः |

साधनचतुष्टय किम् ?

नित्यानित्यवस्तुविवेकः |

इहामुत्रार्थफलभोगविरागः |

शमादिषट्कसम्पत्तिः |

मुमुक्षुत्वं चेति |

नित्यानित्यवस्तुविवेकः कः ?

नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् |

अयमेव नित्यानित्यवस्तुविवेकः |

विरागः कः ?

इहस्वर्गभोगेषु इच्छाराहित्यम् |

शमादिसाधनसम्पत्तिः का ?

शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति |

शमः कः ?

मनो निग्रहः |

दमः कः ?

चक्षुरादिबाह्येन्द्रियनिग्रहः |

उपरमः कः ?

स्वधर्मानुष्ठानमेव |

तितिक्षा का ?

शीतोष्णसुखदुःखादिसहिष्णुत्वम् |

श्रद्धा कीदृशी ?

गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा |

समाधानं किम् ?

चित्तैकाग्रता |

मुमुक्षुत्वं किम् ?

मोक्षो भूयाद् इति इच्छा |

एतत् साधनचतुष्टयम् |

ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति |

तत्त्वविवेकः कः ?

आत्मा सत्यं तदन्यत् सर्वं मिथ्येति |

आत्मा कः ?

स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन्

अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन्

यस्तिष्ठति स आत्मा |

स्थूलशरीरं किम् ?

पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं

सुखदुःखादिभोगायतमं शरीरम्

अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति

षड्विकारवदेतत्स्थूलशरीरम् |

सूक्ष्मशरीरं किम् ?

अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं

सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि

पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका

एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् |

श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि |

श्रोत्रस्य दिग्देवता |

त्वचो वायुः |

चक्षुषः सूर्यः |

रसनाया वरुणः |

घ्राणस्य अश्विनौ |

इति ज्ञानेन्द्रियदेवताः |

श्रोत्रस्य विषयः शब्दग्रहणम् |

त्वचो विषयः स्पर्शग्रहणम् |

चक्षुषो विषयः रूपग्रहणम् |

रसनाया विषयः रसग्रहणम् |

घ्राणस्य विषयः गन्धग्रहणम् इति |

वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि |

वाचो देवता वह्निः |

हस्तयोरिन्द्रः |

पादयोर्विष्णुः |

पायोर्मृत्युः |

उपस्थस्य प्रजापतिः |

इति कर्मेन्द्रियदेवताः |

वाचो विषयः भाषणम् |

पाण्योर्विषयः वस्तुग्रहणम् |

पादयोर्विषयः गमनम् |

पायोर्विषयः मलत्यागः |

उपस्थस्य विषयः आनन्द इति |

कारणशरीरं किम् ?

अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं

सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् |

अवस्थात्रयं किम् ?

जाग्रत्स्वप्नसुषुप्त्यवस्थाः |

जाग्रदवस्था का ?

श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति

यत् सा जाग्रदावस्था |

स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते |

स्वप्नावस्था केति चेत् जाग्रदवस्थायां यद्दृष्टं यद्

श्रुतम् तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते

सा स्वप्नावस्था |  सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते |

अतः सुषुप्तवस्था का  ?

अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत

इति सुषुप्त्यवस्था |

कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते |

पञ्च कोशाः के ?

अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति |

अन्नमयः कः ?

अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां

यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् |

प्राणमयः कः ?

प्राणाद्याः पञ्चवायवः वागादीन्द्रियप~चकं प्राणमयः कोशः |

मनोमयः कोशः कः ?

मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः |

विज्ञानमयः कः ?

बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः |

आनन्दमयः कः ?

एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं

प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः |

एतत्कोशपञ्चकम् |

मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च

मदीया बुद्धिर्मदीयं ज्ञानमिति स्वेनैव ज्ञायते

तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं

स्वस्माद्रिन्नंतथा पञ्चकोशादिकं स्वस्माद्रिन्नं

मदीयत्वेन ज्ञातमात्मा न भवति ||

आत्मा तर्हि कः ?

सच्चिदानन्दस्वरूपः |

सत्किम् ?

कालत्रयेऽपि तिष्ठतीति सत् |

चित्किम् ?

ज्ञानस्वरूपः |

आनन्दः कः ?

सुखस्वरूपः |

एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् |

अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः |

ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति |

ततः आकाशः सम्भूतः |

आकाशाद् वायुः |

वायोस्तेजः |

तेजस आपः |

अभ्धयः पृथिवी |

एतेषां पञ्चतत्त्वानां मध्ये

आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् |

वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् |

अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् |

जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् |

पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् |

एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात्

मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि |

सङ्कल्पविकल्पात्मकं मनः |

निश्चयात्मिका बुद्धिः |

अहंकर्ता अहंकारः |

चिन्तनकर्तृ चित्तम् |

मनसो देवता चन्द्रमाः |

बुद्धे ब्रह्मा |

अहंकारस्य रुद्रः |

चित्तस्य वासुदेवः |

एतेषां पञ्चतत्त्वानां मध्ये

आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् |

वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् |

वन्हेः राजसांशात् पादेन्द्रियं सम्भूतम् |

जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् |

पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् |

एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः |

एतेषां पञ्चतत्त्वानां तामसांशात्

पञ्चीकृतपञ्चतत्त्वानि भवन्ति |

पञ्चीकरणं कथम् इति चेत् |

एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम्

एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्

तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां  विभज्य

स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् |

तदा पञ्चीकरणं भवति |

एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति |

एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् |

स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति |

स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति |

अविद्योपाधिः सन् आत्मा जीव इत्युच्यते |

मायोपाधिः सन् ईश्वर इत्युच्यते |

एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति

तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते |

तस्मात्कारणान्न जीवेश्वरयोर्भेदबिद्धिः स्वीकार्या |

ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य

ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः

विरुद्धधर्माक्रान्तत्वात् |

इति चेन्न | स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः |

उपाधिविनिर्मुक्तं समाधिदशासंपन्नं शुद्धं

चैतन्यं त्वंपदलक्ष्यार्थः |

एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः |

उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः |

एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः |

एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां

ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः |

ननु जीवन्मुक्तः कः ?

यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति

दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः

किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी

चिदाकाशरूपोऽस्मीति दृढनिश्चय

रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ||

ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् |

कर्माणि कतिविधानि सन्तीति चेत् आगामिसञ्चितप्रारब्धभेदेन

त्रिविधानि सन्ति |

ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म

यदस्ति तदागामीत्यभिधीयते |

सञ्चितं कर्म किम् ?

अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं

तिष्ठति तत् सञ्चितं ज्ञेयम् |

प्रारब्धं कर्म किमिति चेत् |

इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं

यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति

प्रारब्धकर्मणां भोगादेव क्षय इति |

सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति |

आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति |

किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति ज्ञानिकृतं आगामि पुण्यं गच्छति |

ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म

पापात्मकं तद्गच्छति |

तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति |

तरति शोकमात्मवित् इति श्रुतेः |

तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा |

ज्ञानसंप्राप्तिसमये मुक्ताऽसौ विगताशयः | इति स्मृतेश्च |

इति तत्त्वबोधप्रकरणं समाप्तम् |