S.D. Human Development, Research & Training Center | साहित्य दर्पण साहित्य दर्पण | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center

साहित्य दर्पण

प्रथमः परिच्छेदः

ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते–
शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी ।
अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ।। साद-१.१ ।।
अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह–
चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ।। साद-१.२ ।।
चतुर्वर्गफलप्राप्तिहि कोव्यतो “रामादिवत्प्रवतितव्यं न रावणादिवत्” इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव ।
उक्तं च (भामहेन)– “धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्” ।।

इति ।
किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति” इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।
अर्थप्राप्तिश्च प्रत्यक्षसिद्धा ।
कामप्राप्तिश्चार्थद्वारैव ।
मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च ।
चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।
परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव ।
ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् ।
कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् ? किञ्च काव्यस्योपादेयत्वमग्निपुराणे ऽप्युक्तम्– “नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा” ।।

इति ।
“त्रिवर्गसाधनं नाट्यम्” इति च ।
विष्णुपुराणे ऽपि– “काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः” ।।

इति ।
तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते ।
एतेनाभिधेयं च प्रदर्शितम् ।
तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह– “तददोषौ शब्दार्थौ सगुणावनवालंकृती पुनः क्वपि” इति ।
एतच्चिन्त्यम् ।
तथाहि– यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा– “न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” ।।

इति ।
अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् ।
प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः ।
ननु कश्चिदेवांशो ऽत्र दुष्टो न पुनः सर्वो ऽपीति चेत्, तर्हि यत्रांशे दोषः सो ऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् ।
न च कंचिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् ।
तथाहि– काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते ।
अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् ।
यदुक्तं धवनिकृता– “श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः” ।।

इति ।
किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसंभवात् ।
नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि “ईषद्दोषौ शब्दार्थौ काव्यम्” इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् ।
सति संभवे “ईषद्दोषौ” इति चेत् , एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् ।
नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् ।
तद्वदत्र श्रुतिदुष्टादयो ऽपि काव्यस्य ।
उक्तं च– “कीटानुविद्धरत्नादिसाधारण्येन काव्यता ।
दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः” ।।

इति ।
किञ्च ।
शब्दार्थयोः सगुणत्वविशेषणमुपपन्नम् ।
गुणानां रसैकधर्मत्वस्य “ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः” इत्यादिना तेनैव प्रतिपादितत्वात् ।
रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत् ? तथाप्ययुक्तम् ।
तथाहि– तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसो ऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् ।
अस्ति चेत् ? कथं नोक्तं रसवन्ताविति विशेषणम् ।
गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत् ? तर्हि सरसावित्येव वक्तुं युक्तम् , न सगुणाविति ।
नहि प्राणिमन्तो देशाइति केनाप्युच्यते ।
ननु “शब्दार्थौ सगुणौ” इत्यनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्यावित्यभिप्राय इति चेत् ? न, गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कषमात्राधायकत्वम् , न तु स्वरूपाधायकत्वम् ।
उक्तं हि– “काव्यस्य शब्दार्थौ शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणत्वादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्” इति ।
एतेन “अनलङ्कृती पुनः क्वापि” इति यदुक्तम्, तदपि परास्तम् ।
अस्यार्थः- सर्वत्र सालङ्कारौ क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति ।
तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षाधायकत्वात् ।
एतेन “वक्रोक्तिः काव्यजीवितम्” इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् ।
वक्रोक्तेरलङ्काररूपत्वात् ।
यर्च्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्– यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।।

इति ।
एतच्चिन्त्यम् ।
अत्र हि विभावनाविशेषोक्तमूलस्य संदेहसङ्करालङ्कारस्यस्फुटत्वम् ।
एतेन– “अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति” ।।

इत्यादीनामपि काव्यलक्षणत्वमपास्तम् ।
यत्तु ध्वनिकारेणोक्तम्– “काव्यस्यात्मा ध्वनिः”– इति तत्किं वस्त्वलङ्काररसादिलक्षणास्तिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,-प्रहेलिकादावतिव्याप्तेः ।
द्वितीयश्चेदोमिति ब्रूमः ।
ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा, तदा– अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि ।
मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ।।

इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यव्यवहार इति चेत् ? न,-अत्रापि रसाभासवत्तैवेति ब्रूमः, अन्यथा “देवदत्तो ग्रामं याति” इति वाक्ये तद्भृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् ।
अस्त्विति चेत् ? न, रसवत एव काव्यत्वाङ्गीकारात् ।
काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां “रामादिवत्प्रवर्तितव्यं न रावणादिवत्” इत्यादिकृकत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् ।
तथा चाग्नेयपुराणो ऽप्युक्तम्– “वाग्वैदग्ध्यप्रधाने ऽपि रस एवात्र जीवितम्” इति ।
व्यक्तिविवेककारेणाप्युक्तम्– “काव्यस्यात्मनि अङ्गिनि, रसादिरूपे न कस्यचिद्विमतिः” इति ।
ध्वनिकारेणाप्युक्तम्– “नहि कवेरितवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः” इत्यादि ।
ननु तर्हि प्रबन्धान्तर्वर्तिनां केषांचिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत् ? न, रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनेव तेषां रसवत्ताङ्गीकारात् ।
यत्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावद्दोषाभावादलङ्कारसद्भावाच्च काव्यव्यवहारः स रसादिमत्काव्यबन्धसामायाद्रौण एव ।
यत्तु वामनेनोक्तम्– “रीतिरात्मा काव्यस्य” इति, तन्न॑ रीतेः संघटनाविशेषत्वात् ।
संघटनायाश्चावयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात् ।
यच्च ध्वनिकारेणोक्तम्– “अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ” ।।

इति ।
अत्र वाच्यात्मत्वं “काव्यस्यात्माध्वनिः-” इति स्ववचनविरोधादेवापास्तम् ।
तत्किं पुनः काव्यमित्युच्यते–
वाक्यं रसात्मकं—
रसस्वरूपं निरूपयिष्यामः ।
रस एवात्मा साररूपतया जीवनाधायको यस्य ।
तेन विना तस्य काव्यत्वानङ्गीकारात् ।
“रस्यते इति रसः” इति व्युत्पत्तियोगाद्भावतदाभासादयो ऽपि गृह्यन्ते तत्र रसो यथा– शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण इसता बाला चिरं चुम्बिता ।।

अत्र हि संभोगश्र्टङ्गाराख्यो रसः ।
भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम्– यस्यालीयत शल्कसीम्नि जलधिः पटष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी ।
क्रोधे क्षअगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः ।।

अत्र भगवद्विषयारतिर्भावः ।
रसाभासो यथा– मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।।

अत्र स्म्बोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः ।
एवमन्यत् ।
दोषाः पुनः काव्ये किंस्वरूपा ? इत्युच्यन्ते–
—दोषास्तस्यापकर्षकाः ।
श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणोव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते ।
एषां विशेषोदाहरणानि वक्षयामःगुणादयः किस्वरूपा इत्युच्यन्ते–
उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ।। साद-१.३ ।।
गुणाः शौर्यादिवत्, अलङ्काराः कटककुण्डलादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, देहद्वारेणोव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते ।
इह यद्यपि गुणानां रसधर्मत्वं तथापिगुणशब्दो ऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते ।
अतश्च “गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः” इत्युक्तं भवतीति प्रागेवोक्तम् ।
एषामपि विशेषोदाहरणानि वक्षयामः ।
इति श्रीमन्नारायणचरणारबिन्धमधुव्रत- साहत्यार्णवकर्णधार-ध्वनिप्रस्थापन-परमाचार्यकविसूक्तिरत्नाकराष्टादशभाषा-वारविलासिनीभुजङ्ग-सान्धिविग्रहिक-महापात्र-श्रीविश्वनाथ-कविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः ।

पद्वितीयः परिच्छेदः

वाक्यस्वरूपमाह–
वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः ।
योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः ।
पदोच्चयस्यैतदभावे ऽपि वाक्यत्वे “वह्निना सिञ्चिति” इत्याद्यपि वाक्यं स्यात् ।
आकाङ्क्षा प्रतीतिपर्यवसानविरहः ।
स च श्रोतुर्जिज्ञासारूपः ।
निराकाङ्क्षस्य वाक्यत्वे “गौरश्वः पुरुषो इस्ती” इत्यादीनामप वाक्यत्वं स्यात् ।
आसत्तिर्बुद्ध्यविच्छेदः ।
बुद्धिविच्छेदे ऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनात्नरो च्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् ।
अत्राकाङ्क्षायोग्यतयोरात्मार्थधर्मत्वे ऽपि पदोच्चयधर्मत्वमपचारात् ।
वाक्योच्चयो महावाक्यम्
योग्यताकाङ्क्षासत्तियुक्त इत्येव ।
इत्थं वाक्यं द्विधा मतम् ।। साद-२.१ ।।
इत्थमिति वाक्यत्वेन महावाक्यत्वेन च ।
उक्तं च तन्त्रवार्तिके– “स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते” ।।

इति ।
तत्र वाक्यं यथा–“शून्यं वासगृहम्-ऽित्यादि (२२ पृ.) ।
महावाक्यं यथा– रामायण-महाभारत-रघुवंशादि ।
पदोच्चयो वाक्यमित्युक्तम् ।
तत्र किं पदलक्षणमित्यत आह–
वर्णाः पदं प्रयोगार्हानन्वितेकार्थबोधकाः ।
यथा–घट. ।
प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः ।
अनन्वितेति वाक्यमहावाक्ययोः ।
एकेति साकाङ्क्षानेकपदवाक्यानाम् ।
अर्थबोधका इति कचटतपेत्यादीनाम् ।
वर्णा इति बहुवचनमविवक्षितम् ।
अर्थो वाच्यश्व लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ।। साद-२.२ ।।
एषां स्वरूपमाह–
वाच्योर्ऽथो ऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः ।। साद-२.३ ।।
ता अभिधाद्याः ।
तत्र संकेतितार्थस्य बोधनादग्रिमाभिधा ।
उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य “गामानय” इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालो ऽस्य वाक्यस्य “सास्नादिमत्पिण्डानयनमर्थः” इति प्रथमं प्रतिपद्यते, अनन्तरं च “गां बधान” “अश्वमानय” इत्यादावावापोद्वापाभ्यां गोशब्दस्य “सास्नादिमानर्थः” आनयनपदस्य च “आहरणमर्थः” इति संकेतमवधारयति ।
क्वचिच्च प्रसीद्धपदसमभिव्याहरात्, यथा– “इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति” इत्यत्र ।
क्वचिदाप्तोपदेशात्, यथा– “अयमश्वशब्दवाच्यः” इत्यत्र ।
तं च सङ्केतितमर्थं बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता शक्तिरभिधा नाम ।
सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ।। साद-२.४ ।।
जातिर्गोपिण्डादिषु गोत्वादिका ।
गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः ।
शुक्लादयो हि गवादिरं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति ।
द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहर-डित्थडवित्थादयः ।
क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः ।
एषु हि अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः ।
एष्वेव हि व्यक्तेरुपाधिषु संकेतो गृह्यते, न व्यक्तौः आनन्त्यव्यभिचारदोषापातात् ।
अथ लक्षणा–
मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते ।
रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ।। साद-२.५ ।।

“कलिङ्गः साहसिकः” इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे ।
ञसंभवन् यया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च “गङ्गायां घोषः” इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृते ऽसंभवन् स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम ।
पूर्वत्र हेतू रूढिः प्रसिद्धिरेव ।
उत्तरत्र “गङ्गातटे घोषः” इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम् ।
हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणो ऽतिप्रसङ्गः स्यात्, इत्युक्तम्– “रूढेः प्रयोजनाद्वासौ” इति ।
केचित्तु “कर्मणि कुशलः” इति रूढावुदाहरन्ति ।
तेषामयमभिप्रायः– कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृते ऽसंभवन् विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति ।
तदन्ये न मन्यन्ते ।
कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वे ऽपि दक्षरूपस्यैव मुख्यार्थत्वात् ।
अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् ।
व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे “गौः शेते” इत्यत्रापि लक्षणा स्यात् ।
“गमेर्डेः” (उणादि–२-६७) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् ।
तद्भेदानाह–
मुख्यार्थस्येतराक्षेपो वाक्यार्थे ऽन्वयसिद्धये ।
स्यादात्मनो ऽप्युपादानादेषोपादानलक्षणा ।। साद-२.६ ।।
रूढावुपादानलक्षणा यथा– “श्वेतो धावति” ।
प्रयोजने यथा– “कुन्ताः प्रविशन्ति” ।
अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनो ऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते ।
पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम् ।
अत्र च मुख्यार्थस्यात्मनो ऽप्युपादानम् ।
लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः ।
इयमेवाजहत्स्वार्थेत्युच्यते ।
अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ।। साद-२.७ ।।
रूढिप्रयोजनयोर्लक्षणलक्षणा यथा– “कलिङ्गः साहसिकः” “गङ्गायां घोषः” इति च ।
अनयोर्हि पुरुषतटयोर्वाक्यार्थे ऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः ।
यथा वा– “अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम्” ।।

अत्रापकारादीनां वाक्यार्थे ऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति ।
अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः ।
इयमेव जहत्स्वार्थेत्युच्यते ।
आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।
ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः ।
विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ।। साद-२.८ ।।
सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका ।
विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा ।
इयमेव रूपकालङ्कारस्य बीजम् ।
रूढावुपादानलक्षणा सारोपा यथा– “अश्वः श्वेतो धावति” ।
अत्र हि श्वेतगुणवानश्वो ऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते ।
प्रयोजने यथा– “एते कुन्ताः प्रविशन्ति” ।
अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् ।
रूढौ लक्षणलक्षणा सारेपा यथा– “कलिङ्गः पुरुषो युध्यते” ।
अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः ।
प्रयोजने यथा– “आयुर्घृतम्” ।
अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते ।
अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् ।
यथा वा– राजकीये पुरुषे गच्छति “राजासौ गच्छति” इति ।
अत्र स्वस्वामिभावलक्षणः सम्बन्धः ।
यथा वा– अग्रमात्रे ऽवयवभागे “हस्तो ऽयम्” ।
अत्रावयवावयवि भावलक्षणसम्बन्धः ।
“ब्राह्मणो ऽपि तक्षासौ” ।
अत्र तात्कर्म्यलक्षणः ।
इन्द्रार्थासु स्थूणासु “अमी इन्द्राः” ।
अत्र तादर्थ्यलक्षणः सम्बन्धः ।
एवमन्यत्रापि ।
निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना ।
अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव ।
तदेवमष्टप्रकारा लक्षणा ।
सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ।। साद-२.९ ।।
सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।
ताः पूर्वोक्ता अष्टभेदा लक्षणाः ।
सादृश्येतरसंबन्धाः कार्यकारणभावादयः ।
अत्र शुद्धानां पूर्वोदाहरणान्येव ।
रूढावुपादानलक्षणा सारेपा गौणी यथा– एतानि तैलानि हेमन्ते सुखानि” ।
अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते ।
प्रयोजने यथा– राजकुमारेषु तत्सदृशेषु च गच्छत्सु”एते राजकुमारा गच्छन्ति” ।
रूढावुपादानलक्षणा साध्यवसाना गौणी यथा– “तैलानि हेमन्ते सुखानि” ।
प्रयोजने यथा– “राजकुमारा गच्छन्ति” रूढौ लक्षणलक्षणा सारेपा गौणी यथा– “राजा गौडेन्द्रं कण्टकं शोधयति” ।
प्रयोजने यथा– “गौर्वाहीकः” रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा– “राजा कण्टकं शोधयति” ।
प्रयोजने यथा–गौर्जल्पति” ।
अत्र केचिदाहुः–गौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते ।
ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति ।
तदयुक्तम्– गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद् गोशब्दार्थमात्रबोधनाच्च ।
अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात् ।
अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते ।
तदप्यन्ये न मन्यन्ते ।
तथाहि– अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद् ? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थे ऽस्यासङ्केतित्वात् ।
न द्वितीयः,– अविनाभावलभ्यस्यार्थस्य शाब्दे ऽन्वये प्रवेशासंभवात् ।
शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते ।
न द्वितीयः,– यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् ।
तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानो ऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थं लक्षयति ।
वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनम् ।
इयं च गुणयोगाद्रौणीत्युच्यते ।
पूर्वा तूपचारामिश्रणाच्छुद्धा ।
उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् ।
यथा–अग्रिमाणवकयोः” ।
शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा ।
व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ।। साद-२.१० ।।
प्रयोजने या अष्टभेदा लक्षणा दशितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोढश भेदाः ।
तत्र गूढः, काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यः ।
यथा– “उपकृतं बहु तत्र-” इति ।
अगूढः, अतिस्फुटतया सर्वजनसंवेद्यः ।
यथा– उपदिशतिं कामिनीनां यौवनमद एव ललितानि” ।।

अत्र”उपदिशति” इत्यनेन “आविष्करोति” इति लक्ष्यते ।
आविष्कारतिशयश्चाभिधेयवत्स्फुट प्रतीयते ।
धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा ।
एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येकं द्विधा भूत्वा द्वात्रिंशद्भेदाः ।
दिङ्भात्रं यथा– “स्त्रिग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव” ।।

अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् ।
“गङ्गायां घोषः” इत्यत्र तटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलम् ।
तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ।। साद-२.११ ।।
रूढावष्टौ फले द्वात्रिंशदिति चत्वारिशल्लक्षणाभेदाः ।
किञ्च–
पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।
ता अनन्तरोक्ताश्च त्वारिंशद्भेदाः ।
तत्र पदगतत्वे यथा– “गङ्गायां घोषः” ।
वाक्यगतत्वे यथा– “उपकृतं बहु तत्रऽइति ।
एवमशीतिप्रकारा लक्षणा ।
अथ व्यञ्जना–
विरतास्वभिधाद्यासु ययार्ऽथो बोध्यते परः ।। साद-२.१२ ।।
सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ।
“शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः” इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वोपक्षीणासु यथा अपरो ऽन्यो ऽन्योर्ऽथो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिर्व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम ।
तत्र–
अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ।। साद-२.१३ ।।
अभिधामूलामाह–
अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।
एकत्रार्थे ऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ।। साद-२.१४ ।।
आदिशब्दाद्विप्रयोगादयः ।
उक्तं हि– “संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य संनिधिः ।।

सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” ।।

इति ।
“सशङ्ख्चक्रो हरिः” इति शङ्ख्चक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते ।
“अशङ्खचक्रो हरिः” इति तद्वियोगेन तमेव ।
“भीमार्जुनौ” इति अर्जुनः पार्थः ।
“कर्णार्जुनौ” इति कर्णः सूतपुत्रः ।
“स्थाणुं वन्दे” इति स्थाणुः शिवः ।
“सर्वं जानाति देवः” इति देवो भवान् ।
“कुपितो मकरध्वजः” इति मकरध्वजः कामः ।
“देवः पुरारिः” इति पुरारिः शिवः ।
“मधुना मत्तः पिकः” इति मधुर्वसन्तः ।
“यातु वो दयितामुखम्” इति मुखं सांमुख्यम् ।
“विभाति गगने चन्द्रः, इति चन्द्रः शशी ।
“निशि चित्रभानुः” इति चित्रभानुर्वाह्निः ।
“भाति रथाङ्गम्” रथाङ्गम्” इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।
स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः ।
इदं च के ऽप्यसहमाना आहुः– स्वरो ऽपि काक्कादिरूपः काव्ये विशेषप्रतीतिकृदेव ।
उदात्तादिरूपो ऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदेव” इति एतद्विषये उदाहरणमुचितमेव इति, तन्न॑ तथाहि– स्वराः काक्कादयः उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्यायन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशेषम् ।
किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः॑ न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे– “काव्यमार्गे स्वरो न गण्यते” इतिच नयः, इत्यलमुपजीव्यानं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण ।
आदिशब्दात् “एतावन्मात्रस्तनी” इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् ।
एवमेकस्मिन्नर्थे ऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साभिधामूला व्यञ्जना ।
यथा मम तातपादान महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसंधिविग्रहिकाणाम्– “दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः ।
नक्षत्रेशकृ तेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः” ।।

अत्र प्रकरणोनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेर्ऽथे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽथो बोध्यते ।
एवमन्यत् ।
लक्षणामूलामाह–
लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।
यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ।। साद-२.१५ ।।
“गङ्गायां घोषः” इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना ।
एवं शब्दीं व्यञ्जनामु कत्वार्थोमाह–
वक्तृबोद्धव्यवाक्यानामन्यसंनिधिवाच्ययोः ।
प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ।। साद-२.१६ ।।
व्यञ्जनेति सम्बध्यते ।
तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा मम– “कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्- दूरे पतिः कथय किं करणीयमद्य” ।।

अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्व्यज्यते ।
बोद्धव्यवैशिष्ट्ये यथा– “निः शेषच्युतचन्दनं स्तनतटं निर्मृष्टरागो ऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिक्म्” ।।

अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम् ।
तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यं दूतीवैशिष्ट्याद्बोध्यते ।
अन्यसंनिधिवैशिष्ट्ये यथा– “उअ णिच्चल णिप्पन्दा, भिसिणीपत्तम्मि रेहै बलाआ ।
णिम्मलमरगअभाअणपरिट्ठिआ (दा) सङ्खसुत्ति व्व” ।।

अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुकं प्रत्युच्यते ।
अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् ।
भिन्नकण्ठध्वनिर्धोरैः काकुरित्यभिधीयते ।
इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः ।
एतद्वैशिष्ट्ये यथा– “गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमये ऽसौ” ।।

अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काक्का व्यज्यते– चेष्टावैशिष्ट्ये यथा– “संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापङ्मं निमीलितम्” ।।

अत्र संध्या संकेतकाल इति पङ्मनिमीलनादिचेष्टया कयाचिद्द्योत्यते ।
एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।
त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ।। साद-२.१७ ।।
“अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः ।
तत्र वाच्यार्थस्य व्यञ्जना यथा-“कालो मधुः-” इत्यादि ।
लक्ष्यार्थस्य यथा–“निः शेषच्युतचन्दनम्ऽ–इत्यादि ।
व्यङ्ग्यार्थस्य यथा–“उअ णिच्चल-” इत्यादि ।
प्रकृतिप्रत्ययादिव्यञ्जकत्वं तु प्रपञ्चयिष्यते ।
शब्दबोध्यो व्यनक्त्यर्थः शब्दो ऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ।। साद-२.१८ ।।
यतः शब्दो व्यञ्जकत्वे ऽप्यर्थान्तरमपेक्षते, अर्थो ऽपि शब्दम्, तदेकस्य व्यञ्जकत्वे ऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।
अभिधादित्रयोपाधिवैशिष्ट्यात्र्त्रिविधो मतः ।
शब्दो ऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ।। साद-२.१९ ।।
अभिधोपाधिको वाचकः ।
लक्षणोपाधिको लक्षकः ।
व्यञ्जनोपाधिको व्ययञ्जकः ।
किञ्च–
तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्वोधकं परे ।। साद-२.२० ।।
अभिधाया एकैकपदार्थबोधनविरामाद्वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पय नाम वृत्तिः ।
तदर्थश्च तात्पर्यार्थः ।
तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ।
इहि साहित्यार्पणो वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।

तृतीयः परिच्छेदः

अथ को ऽयं रस इत्युच्यते–
विभावेनानुभावेन व्यक्तः संचारिणा तथा ।
रसतामेति रत्यादिः स्थायीभावः सचेतसाम् ।। साद-३.१ ।।
विभावादयो वक्ष्यन्ते ।
सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः, व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते ।
तदुक्तं लोचनकारैः– “रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद् व्यवहारः” इति ।
अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थम् ।
ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव ।
तदुक्तम्– “रसावस्थः परम्भावः स्थायितां प्रतिपद्यते” इति ।
अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते–
सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः ।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ।। साद-३.२ ।।
लोकोत्तरचकत्कारप्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ।। साद-३.३ ।।
“रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते” इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् ।
तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः ।
अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनम् ।
अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः ।
स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या ।
चिन्मय इति स्वरूपार्थे मयट् ।
चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः ।
तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् ।
तदाह धर्मदत्तः स्वग्रन्थे– रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम्” ।।

इति ।
कैश्चिदिति प्राक्तनपुण्यशालिभिः ।
यदुक्तम्– “पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्” ।
इति ।
यद्यपि “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, तथापि “रसः स्वाद्यते” इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः ।
तदुक्तम्-“रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रसः” इति ।
एकमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः ।
नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेषत्वाद् द्वयोरैक्यमापतितम् ।
ततश्च– “स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः ।
यथा दीपो ऽन्यथाभावे को विशेषो ऽस्य कारकात्” ।।

इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तम् ।
अत एवाहुः– “विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः ।
अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः” इति ।
अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति ।
ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादत्युच्यते–
करुणादावपि रसे जायते यत्परं सुखम् ।
सचेतसामनुभवः प्रमाणं तत्र केवलम् ।। साद-३.४ ।।
आदिशब्दाद्बीभत्सभयानकादयः ।
तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते–
किञ्च तेषु यदा दुःखं न को ऽपि स्यात्तदुन्मुखः ।
नहि कश्चत् सचेता आत्मनो दुःखाय प्रवर्त्तते ।
करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात् सुखमयत्वमेव ।
अनुपपत्त्यन्तरमाह–
तथा रामायणादीनां भविता दुःखहेतुता ।। साद-३.५ ।।
करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् ।
ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह–
हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् ।
शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ।। साद-३.६ ।।
अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।
सुखं सञ्जायते तेभ्यः सर्वेभ्यो ऽपीति का क्षतिः ।। साद-३.७ ।।
ये खलु रामवनवासादयो लोके “दुःखारणानि” इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते ।
तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते ।
अतश्च “लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते” इति लोक एव प्रतिनियमः ।
काव्ये पुन) “सर्वेभ्यो ऽपि विभावादिभ्यः सुखमेव जायते” इति नियमान्न कश्चिद्दोषः ।
कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते–
अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः ।
तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह–
न जायते तदास्वादो विना रत्यादिवासनाम् ।। साद-३.८ ।।
वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् ।
यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् ।
उक्तञ्च धर्म्मदत्तेन– “सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।
निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः” ।।

इति ।
ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते–
व्यापारो ऽस्ति विभावादेर्नाम्ना साधारणीकृतिः ।
तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ।। साद-३.९ ।।
प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते ।
ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते–
उत्साहादिसमुद्वोधः साधारण्याभिमानतः ।। साद-३.१० ।।
नृणामपि समुद्रादिलङ्घनादौ न दुष्यति ।
रत्यादयो ऽपि साधारण्येनैव प्रतीयान्त इत्याह–
साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ।। साद-३.११ ।।
रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् ।
परगतत्वेन त्वरस्यतापातः ।
विभावादयो ऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह–
परस्य न परस्येति ममेति न ममेति च ।
तदास्वादे विभावादेः परिच्छेदो न विद्यते ।। साद-३.१२ ।।
ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते–
विभावनादिव्यापारमलौकिकमुपेयुषाम् ।
अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ।। साद-३.१३ ।।
आदिशब्दादनुभावसञ्चारणो ।
तत्र विभावनं रत्यादेविशेषणास्वादाङ्कुरणयौग्यतानयनम् ।
अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् ।
सञ्चारणं तथाभूतस्यैव तस्य सम्यक् चारणम् ।
विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते —
कारण-कार्य-सञ्चारिरूपा अपि हि लोकतः ।
रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ।। साद-३.१४ ।।
ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते–
प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते ।
ततः सम्बलितः सर्वो विभावादिः सचेतसाम् ।। साद-३.१५ ।।
प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् ।
यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः ।
ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत् कथं तेषामेकस्य द्वयोर्वा सद्भावे ऽपि स स्यादित्युच्यते–
सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ।। साद-३.१६ ।।
भ्क्तटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ।
अन्यसमाक्षेपश्च प्रकरणादिवशात् ।
यथा– “दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली धन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः” ।।

अत्र मालविकामभिलषतो ऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने ऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः ।
एकमन्याक्षेपे ऽप्यूह्यम् ।
“अनुकार्य्यगतो रसः” इति वदतः प्रत्याह–
पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ।। साद-३.१७ ।।
अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत् ।।
सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात् कथं रसरूपतामियात् ।
(क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् ।
अनुकर्त्तृगतत्वञ्चास्य निरस्यति–
शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ।। साद-३.१८ ।।
दर्शयन्नर्त्तको नैव रसस्यास्वादको भवेत् ।
किञ्च–
काव्यार्थभावनेनायमपि सभ्यपदास्पदम् ।। साद-३.१९ ।।
यदि पुनर्नटो ऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत् तदा सो ऽपि सभ्यमध्य एव गण्यते ।
नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः ।
यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा॑ प्रतीतिमन्तरेणाभावात् ।
यस्मादेष विभावादिसमूहालम्बनात्मकः ।। साद-३.२० ।।
तस्मान्न कार्यः–
यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् ।
ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्, कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् ।
नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति ।
रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः ।
— नो नित्यः पूर्वसंवेदनोज्झितः ।
असंवेदनकाले हि न भावो ऽष्यस्य विद्यते (क) ।। साद-३.२१ ।।
न खलु नित्यस्य वस्तुनो ऽसंवेदनकाले ऽसम्भवः ।
नापि भविप्यन् साक्षादानन्दमयस्वप्रकाशरूपत्वात् ।
कार्यक्षाप्यविलक्षणभावान्नो वर्त्तमानो ऽपि ।। साद-३.२२ ।।
विभावादिपरामर्शविषयत्वात् सचेतसाम् ।
परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ।। साद-३.२३ ।।
न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते ।
तथाभिलापसंसर्गयोग्यत्वविरहान्न च ।। साद-३.२४ ।।
सविकल्पकंसंवेद्यः–
सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा ।
–साक्षात्कारतया न च ।
परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात ।। साद-३.२५ ।।
तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह–
तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् ।
तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह–
प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ।। साद-३.२६ ।।
चर्वणा आस्वादनम् ।
तच्च “स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः” इत्युक्तप्रकारम् ।
ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः” इति लक्षणं कृतमित्युच्यते–
निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः ।
यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते ।
अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ।। साद-३.२७ ।।
तस्य रसस्य ।
आदिशब्दादलक्ष्यत्वादि ।
ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह–
रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् ।
अतो ऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ।। साद-३.२८ ।।
यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् ।
यदुक्तम्– “यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावे ऽपि व्यवहार इति भावः” इति ।
“सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः” इति च ।
“अभिन्नो ऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः” इति च ।
ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः ।
तादात्म्यादेवास्याखण्डत्वम् ।
रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वे ऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते ।
तदुक्तम् — “विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।
प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम्” ।।

इति ।
“परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः” इति च ।
अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह–
रत्याद्युद्वोधका लोके विभावाः काव्यनाट्ययोः ।
ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः “विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः” इति विभावा उच्यन्ते ।
तदुक्तं भर्त्तृहरिणा– “शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् ।
प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते” ।।

इति ।
तद्भेदावाह–
आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ।
स्पष्टम् ।
तत्र–
आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ।। साद-३.२९ ।।
आदिशब्दान्नायिकाप्रतिनायिकादयः ।
अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते ।
तत्र नायकः–
त्यागी कृती कुलीनः सुश्रीको रूपयोवनोत्साही ।
दक्षो ऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ।। साद-३.३० ।।
दक्षः क्षिप्रकारी ।
शीलं सद्वृतम् ।
एवमादिगुणसम्पन्नो नेता नायको भवति ।
तद्भेदानाह–
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ।। साद-३.३१ ।।
स्पष्टम् ।
तत्र धीरोदात्तः–
अविकत्थनः क्षमावानतिगम्भीरो माहसत्त्वः ।
स्थेयान्नगूढमानो धीरोदात्तो दृढव्रतः कथितः ।। साद-३.३२ ।।
अविकत्थनो ऽनात्मश्लाघाकरः ।
महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः ।
निगूढमानो विनयच्छन्नगर्वः ।
दृढव्रतो ऽङ्गीकृतनिर्वाहकः ।
यथा–रामयुधिष्टिरादिः ।
अथ धीरोद्धतः–
मायापरः प्रचण्डश्चपलो ऽहङ्कारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धोरोद्धतः कथितः ।। साद-३.३३ ।।
यथा–भीमसेनादिः. अथ धीरललितः–
निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।
कला नृत्यादिका ।
यथा–सत्नवाल्यादौ वत्सराजादिः ।
अथ धीरप्रशान्तः–
सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात् ।। साद-३.३४ ।।
यथा–मालतीमाधवादौ माधवादिः ।
एषां च शृङ्गारादिरूपत्वे भेदानाह–
एभिर्दक्षिणाधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।
तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः ।
एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ।। साद-३.३५ ।।
द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।
यथा– स्नाता तिष्ठति कुन्तलेश्वरसुता, वारो ऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च ।
इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ।।
कृतागा अपि निःशङ्कस्तर्जितो ऽपि न लज्जितः ।
दृष्टदोषो ऽपि मिथ्यावाक्कथितो धृष्टनायकः ।। साद-३.३६ ।।
यथा मम– शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।
किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ध्यातश्चेतसि कौतुकं वितनुते कोपो ऽपि वामभ्रुवः ।।
अनुकूल एकनिरतः–
एकस्यामेव नायिकायामासक्तो ऽनुकूलनायकः ।
यथा– अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गातिरुद्धतं न हसितं, नैवास्ति, कश्चिन्मदः ।
किन्त्वन्ये ऽपि जना वदन्ति सुभगो ऽप्यस्याः प्रियो नान्यतो दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ।।
शठो ऽयमेकत्र बद्धभावो यः ।
दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ।। साद-३.३७ ।।
यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागो ऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः ।
यथा– “शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो- विषेणाघूर्णन्ती किमपि न सखी मे गणयति” ।।
एषां च त्रैविध्यादुत्तममध्याधमत्वेन ।
उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ।। साद-३.३८ ।।
एषामुक्तषोडशभेदानाम् ।
अथ प्रसङ्गादेतेषां सहायानाह–
दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु ।
किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्द्दाख्यः ।। साद-३.३९ ।।
तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्ते ऽनन्तरोक्तैर्नायकसामान्यगुणैः किञ्चिदूनः पीठमर्द्दनामासहायो भवति ।
यथा-रामचन्द्रादीनां सुग्रीवादयः ।
अथ शृङ्गारसहायाः–
शृङ्गारे ऽस्य सहाया विटचेटविदूषकाद्याः स्युः ।
भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ।। साद-३.४० ।।
आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः ।
तत्र विटः–
संभोगहीनसंपद्विटस्तु धूर्त्तः कलैकदेशज्ञः ।
वेशोपचारकुशलो वाग्ग्मी मधुरो ऽथ बहुमतो गोष्ठ्याम् ।। साद-३.४१ ।।
चेटः प्रसिद्ध एव ।
कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।
हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ।। साद-३.४२ ।।
स्वकर्म हास्यादि ।
अर्थचिन्तने सहायमाह–
मन्त्रीस्यादर्थानां चिन्तायां–
अर्थास्तन्त्रावापादयः ।
यत्त्वत्र सहायकथनप्रस्तावे– “मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने” इति केनाचिल्लक्षणं कृतम्, तदपि राज्ञोर्ऽथचिन्तनोपायलक्षणप्रकरणो लक्षयितव्यम्, न तु सहायकथनप्रकरणो ।
“नायकस्यार्थचिन्तने मन्त्री सहायः” इत्युक्ते ऽपि नायकस्यार्थत एव सिद्धत्वात् ।
यदप्युक्तम्– “मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः” इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् ।
न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः॑ तस्यार्थचिन्तनाद्यभावात् ।
अथान्तः पुरसहायाः–
–तद्वदवरोधे ।
वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ।। साद-३.४३ ।।
मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सो ऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ।। साद-३.४४ ।।
आद्यशब्दान्मूकादयः ।
तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम्– नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ।।

शकारो मृच्छकटिकादिषु प्रसिद्धः ।
अन्ये ऽपि यथादर्शनं ज्ञातव्याः ।
अथ दण्डसहायाः–
दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।
दुष्टनिग्रहो दण्डः ।
स्पष्टम् ।
ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ।। साद-३.४५ ।।
ब्रह्मविदो वेदविदः, आत्मविदो वा ।
अत्र च–
उत्तमाः पीठमर्दाद्याः–
आद्यशब्दान्मन्त्रिपुरोहितादयः ।
–मध्यौ विटविदूषकौ ।
तथा शकारचेटाद्या अधमाः परिकीर्तिताः ।। साद-३.४६ ।।
आद्यशब्दात्ताम्बूलिकगान्धिकादयः ।
अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह–
निसृष्टार्थो मितार्थश्च तथा संदेशहारकः ।
कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ।। साद-३.४७ ।।
तत्र कार्यप्रेष्यो दूत इति लक्षणम् ।
तत्र–
उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः ।। साद-३.४८ ।।
उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च ।
मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः ।
यावद्भाषितसंदेशहारः संदेशहारकः ।। साद-३.४९ ।।
अथ सात्त्विकनायकगुणाः–
शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ।। साद-३.५० ।।
तत्र–
शूरता तक्षता सत्यं महोत्साहो ऽनुरागिता ।
नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ।। साद-३.५१ ।।
तत्रानुरागिता यथा– अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उपधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ।।

एवमन्यदपि ।
अथ विलासः–
धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।
यथा– दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारके ऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ।।
संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ।। साद-३.५२ ।।
ऊह्यमुदाहरणम् ।
भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।
यथा– आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पो ऽप्याकारविभ्रमः ।।
व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ।। साद-३.५३ ।।
यथा-श्रुताप्सरोगीतिरप क्षणो ऽस्मिन् हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ।।
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्यये ऽप्यसहनं तत्तेजः समुदाहृतम् ।। साद-३.५४ ।।
वाग्वेशयोर्मधुरता तद्वच्छङ्गारचेष्टितं ललितम् ।
दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता ।। साद-३.५५ ।।
एषामुदाहरणान्यूह्यानि ।
अथ नायिका त्रिभेदा स्वान्या साधारणा स्त्रीति ।
नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ।। साद-३.५६ ।।
नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति ।
सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा ।
तत्र स्वस्त्री–
विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।
यथा– “लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंइं ।
अविणअदुम्मेधाइं धण्णाण घरे कलत्ताइं ।।
सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ।। साद-३.५७ ।।
तत्र–
प्रथमावतीर्णयौवनमदनबिकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ।। साद-३.५८ ।।
तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम्– मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति ।
कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा- दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ।।

प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये– दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्, नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि, किंचिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते, सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ।।

रतौ वामा यथा– “दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता, शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया” ।।

माने मृदुर्यथा– “सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ।।

समधिकलज्जावती यथा– “दत्ते सालसमन्थरम्–ऽित्यत्र (११३ पृ-) श्लोके ।
अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् ।
अथ मध्या–
मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ।। साद-३.५९ ।।
विचित्रसुरता यथा– “कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः” ।।

प्ररूढस्मरा यथात्रैवोदाहरणो ।
प्ररूढयोवना यथा मम– “नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयं, वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः ।
कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा” ।।

एवमन्यत्रापि ।
अथ प्रगल्भा–
स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ।। साद-३.६० ।।
स्मरान्धा यथा– “धन्यासि या कथयसि प्रियसंगमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचदपि स्मरामि(क)” ।।

गाढतारुण्या यथा– “अत्युन्नतस्तनमुरो नयने सुदीर्घे, वक्रे भ्रुवावतितरां, वचनं ततो ऽपि ।
मध्यो ऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः” ।।

समस्तरतकोविदा यथा– “क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः” ।।

भावोन्नता यथा– “मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै- रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फाररैपाङ्गविलोकितै- स्भिभुवनजये सा पञ्चेषोः करोति सहायताम्” ।।

स्वल्पब्रीडा यथा– “धन्यासि या कथयसि”– इत्यत्रेव (११६ पृ दृ) आक्रान्तनायका यथा– स्वामिन् भङ्गुरयालकं, सतिलकं भालं विलासिन् कुरु, प्राणोश त्रुटितं पयोधरतटे हारं पुनर्योजय ।
इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना स्पृष्टा तेन तथैव जातमुलका प्राप्ता पुनर्मोहनम्” ।।

मध्याप्रगल्भयोर्भेदान्तराण्याह–
ते धीरा चाप्यधीरा च धीराधीरेति षङ्विधे ।
ते मध्याप्रगल्भे ।
तत्र–
प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेदुषा ।। साद-३.६१ ।।
धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ।
तत्र मध्या धीरा यथा– “तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाः कामिनां मण्डनश्रीर्- व्रजति हि सफलत्वं वल्लभालोकनेन” ।।

मध्यैव धीराधीरा यथा– “बाले ! नाथ ! विमुञ्च मानिनि ! रुषं, रोषान्मया किं कृतं, खेदो ऽस्मासु, न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि ।
तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते” ।।

इयमेवाधीरा यथा– “सार्धं मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या ।
अस्माकमस्ति नहिं कश्चिदिहावकाश- रस्तस्मात्कृतं चरणणतविडम्बनाभिः” ।।
प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ।। साद-३.६२ ।।
उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः ।
तत्र प्रिये ।
यथा– “एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद्दूरत- स्ताम्बूलानयनच्छलेन रभसाश्लेषो ऽपि संविघ्नितः ।
आलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः” ।।
धीराधीरा तु सोल्लुण्ठभाषैतैः खेदयत्यमुम् ।। साद-३.६३ ।।
अमुं नायकम् ।
यथा मम– “अनलङ्कृतो ऽपि सुन्दर ? हरसि मनो मे यतः प्रसभम् ।
किं पुनरलङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः” ।।
तर्जयेत्ताडयेदन्या–
अन्या अधीरा ।
यथा-“शोणं वीक्ष्य मुखं-” इत्यत्र ।
अत्र च सर्वत्र “रुषा” इत्यनुवर्तते ।
–प्रत्येकं ता अपि द्विधा ।
कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ।। साद-३.६४ ।।
ता अनन्तरोक्ताः षड्भेदा नायिकाः ।
यथा– “दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति” ।।
मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीतिंताः ।
मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ।। साद-३.६५ ।।
परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।
तत्र–
यात्रादिनिरतान्योढा कुलटा गलितत्रपा ।। साद-३.६६ ।।
यथा– “स्वामी निः श्वसिते ऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, श्वश्रूरिङ्गीतदैवतं नयनयोरीहालिहो यातरः ।
तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक ! व्यर्थो ऽयमत्र श्रमः” ।।

अत्र हि मम परिणोतान्नाच्छादनादिदातृतया स्वाम्येव न तु वल्लभः ।
त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभो ऽसीत्यादिव्यङ्ग्यार्थवशादस्याः परनायकविषया रतिः प्रतीयते ।
कन्या त्वजातोपयमा सलज्जानवयौवना ।
अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम् ।
यथा मालतीमाधवादौ मालत्यादिः ।
धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ।। साद-३.६७ ।।
निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि ।
वित्तमात्रं समालोक्य सा रागं दर्शयेद्वहिः ।। साद-३.६८ ।।
काममङ्गीकृतमपि परिक्षीणधनं नरम् ।
मात्रा निः सारयेदेषा पुनः संधानकाङ्क्षया ।। साद-३.६९ ।।
तस्कराः पण्डका मूर्खाः सुखप्राप्तधनस्तथा ।
लिङ्गिनश्छन्नकामाद्या अस्याः प्रायेण वल्लभाः ।। साद-३.७० ।।
एषापि मदनायत्ता क्वापि सत्यानुरागिणि ।
रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ।। साद-३.७१ ।।
पण्डको वातपाण्ड्वादिः ।
छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः ।
तत्ररागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः ।
रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः ।
पुनश्च–
अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ।
स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ।। साद-३.७२ ।।
कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।
अन्या वासकसञ्जा स्याद्विरहोत्कण्ठिता तथा ।। साद-३.७३ ।।
तत्र–
कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ।। साद-३.७४ ।।
यथा– “अस्माकं सखि वाससी–ऽित्यादि ।
पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ।। साद-३.७५ ।।
यथा– “तदवितथमवादीः–” इत्यादि ।
अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ।। साद-३.७६ ।।
क्रमाद्यथा– न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमभिगम्य वदेरभिदूति कचिदिति संदिदिशे ।।

“उत्क्षिप्तं करकङ्कणद्वयमिदं, बद्धा दृढं मेखला, यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता ।
आरब्धे रभसान्मया प्रियसखि ! क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः” ।।
संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ।। साद-३.७७ ।।
विचित्रोज्ज्वलवेषा तु रणन्नूपुकङ्कणा ।
प्रमोदस्मेरवदना स्याद्वेश्यभिसरेद्यदि ।। साद-३.७८ ।।
मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।
आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ।। साद-३.७९ ।।
तत्राद्ये “उत्क्षिप्तम्” इत्यादि ।
अन्ययोः ऊह्यमुदाहरणम् ।
प्रसङ्गादभिसारस्थानानि कथ्यन्ते–
क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
मालापञ्चः श्मशानं च नद्यादीनां तटी तथा ।। साद-३.८० ।।
एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।
स्थानान्यष्टौ तथा ध्वान्तच्छन्ने कुत्रचिदाश्रये ।। साद-३.८१ ।।
चाटुकारमपि प्राणनाथं राषादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ।। साद-३.८२ ।।
यथा मम तातपादानाम्– “नो चाटुश्रवणं कृतं, न च दृशा हारो ऽन्तिके वीक्षितः, कान्तस्य प्रियहेतवे निजसखीवाचो ऽपि दूरीकृताः ।
पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य इन्त ! सहसा कण्ठे कथं नार्पितः” ।।
प्रियः कृत्वापि संकेतं यस्या नायाति संनिधिम् ।
विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ।। साद-३.८३ ।।
यथा– “उत्तिष्ठ दूति, यामो यामो यातस्तथापि नायातः ।
यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः” ।।
नानाकार्यवशाद्यस्या दूरदेशं गतः पतिः ।।

सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तृका ।। साद-३.८४ ।।
यथा– “तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्” ।।
कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि ।
सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ।। साद-३.८५ ।।
यथा राघवानन्दानां नाटके– “विदूरे केयूरे कुरु, करयुगे रत्नवलयै- रलं, गुर्वो ग्रीवाभरणलतिकेयं किमनया ।
नवामेकामेकावलिमयि मयि त्वं विरचयेर्- न नेपथ्यं बहुतरमनङ्गोत्सवविधौ” ।।
आगन्तुं कृतचित्तो ऽपि दैवान्नायाति यत्प्रियः ।
तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ।। साद-३.८६ ।।
यथा– “किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोद्वेजितः, किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निः श्वसितं, चिरं च रुदितं, क्षिप्ताश्च पुष्पस्त्रजः” ।।
इति साष्टाविंशतिशतमुत्तममध्याधमस्वरूपेण ।
चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ।। साद-३.८७ ।।
इह च “परस्त्रियौ कन्यकान्योढे संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूष कादिना सहाभिसरन्तयावभिसारिके, कुतो ऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे, इति त्र्यवस्थैवानयोरस्वाधींनप्रिययोरवस्थान्तरायोगात्” ।
इति कश्चित् ।
क्वचिदन्योन्यसाङ्कर्यमासं लक्ष्येषु दृश्यते ।
यथा– “न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् ।
विट ! विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः ।
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्कर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम्” ।।

मुहुरुपदसिताविवालिनादैवितरसि नः कलिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाद्य दत्तः” ।।

“इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च” ।।

इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधीरमध्यताधीरप्रगल्भताभिः संकीर्णा ।
एकमन्यत्राप्यूह्यम् ।
इतरा अप्यसंख्यास्ता नोक्ता विस्तरश्ङ्कया ।। साद-३.८८ ।।
ता नायिकाः ।
अथासामलङ्काराः–
यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।
अलङ्कारास्तत्र भावहावहेलास्त्रयो ऽङ्गजाः ।। साद-३.८९ ।।
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्थं धैर्यमित्येते सप्तैव स्युरयत्नजाः ।। साद-३.९० ।।
लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ।। साद-३.९१ ।।
विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।
हसितं चकितं केलिरित्यष्टादशसंख्यकाः ।। साद-३.९२ ।।
स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि ।
पूर्वे भावादयो धैर्यान्ता दश नायकानामपि संभवन्ति ।
किंतु सर्वे ऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णान्ति ।
तत्र भावः–
निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ।। साद-३.९३ ।।
जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः ।
यथा– “स एव सुरभिः कालः स एव मलयानिलः ।
सैवेयमबला किंतु मनो ऽन्यदिव दृश्यते” ।।

अथ हावः–
भ्रूनेत्रादिविकारैस्तु संभोगेञ्छाप्रकाशकः ।
भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते ।। साद-३.९४ ।।
यथा– “विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन” ।।

अथ हेला–
हलात्यन्तसमालक्ष्यविकारः स्यात् स एव तु ।
स एव भाव एव ।
यथा– “तह ते भ्क्तत्ति पौत्ता वहुए सव्वङ्गविब्भमा सअला ।
संसै अमुद्धभावा होइ चिरं जै सहीणं पि” ।।

अथ शोभा–
रूपयौवनलालित्यभोगाधैरङ्गभूषणम् ।। साद-३.९५ ।।
शोभा प्रोक्ता–
तत्र यौवनशोभा यथा– “असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे” ।।

एव मन्यत्रापि ।
अथ कान्तिः–
सैव कान्तिर्मन्यथाष्यायितद्युतिः ।
मन्मथोन्मषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते ।
यथा– “नेत्रे खञ्जनगञ्जने–” इत्यत्र ।
अथ दीप्तिः–
कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ।। साद-३.९६ ।।
यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्– “तारुण्यस्य विलासः समधिकलावण्यसंपदो हासः ।
धरणितलस्याभरणं युवजनमनसो वशीकरणम्” ।।

अथ माधुर्यम्–
सर्वावस्थाविशेषेषु माधुर्यं रमणीयता ।
यथा– “सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमि हि मधुरणां मण्डनं नाकृतीनाम्” ।।

अथ प्रगल्भता–
निःसाध्वसत्वं प्रागलभ्यम्–
यथा– “समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि ।
दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः” ।।

अथौदार्यम्–
–औदार्यं विनयः सदा ।। साद-३.९७ ।।
यथा– “न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गरं, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटे ऽप्यागसि ।
कान्ता गर्भगृहे गावाक्षविवरव्यापारिताक्ष्या बहीः सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने” ।।

अथ धैर्यम्–
मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला ।
यथा–ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी, दहतु मदनः, किंवा मृत्योः परेण विधास्यति ।
मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्” ।।

अथ लीला–
अङ्गैर्वेषैरलङ्कारैः प्रेमिभिर्वचनैरपि ।। साद-३.९८ ।।
प्रीतिप्रयोजितैर्लोलां प्रियस्यानुकृतिं विदुः ।
यथा–मृणालव्यालवलया वेणीबन्धकपर्दिनी ।
हारनुकारिणी पातु लीलया पार्वती जगत् ।।

अथ विलासः–
यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ।। साद-३.९९ ।।
विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना ।
यथा– “अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत्” ।।

अथ विच्छत्तिः–
स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।
यथा– “स्वच्छाम्भः स्नपनविधौतमङ्गमोष्टस्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासस्तु प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः” ।।

अथ विव्वोकः–
विव्वोकस्त्वतिगर्वेण वस्तुनीष्टे ऽप्यनादरः ।। साद-३.१०० ।।
यथा– “यासां सत्यपि सद्गुणानुसरणो दोषानुवृत्तिः परा, याः प्राणान् वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमते ऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसिदन्तु ते” ।।

अथ किलकिञ्चितम्–
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
साङ्कर्यं किलाकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ।। साद-३.१०१ ।।
यथा– “पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखे ऽपि” ।।

अथ मोट्टायितम्–
तद्भावभाविते चित्ते वल्लभस्य कथादिषु ।
मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ।। साद-३.१०२ ।।
यथा– “सुभग ! त्वत्कथारम्भे कर्णकण्डूतिलालसा ।
उज्जृम्भवनाम्भोजा भिनत्त्यङ्गानि साङ्गना” ।।

अथ कुट्टमितम्–
केशस्तनाधरादीनां ग्रहे हर्षे ऽपि सम्भ्रमात् ।
आहुः कुट्टमितं नाम शिरः करविधूननम् ।। साद-३.१०३ ।।
यथा– “पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण” ।।

अथ विभ्रमः–
त्वरया हर्षरागादेर्दयितागमनादिषु ।
अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ।। साद-३.१०४ ।।
यथा– “श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया ।
भले ऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः” ।।

अथ ललितम्–
सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।
यथा– “गुरुतरकलनूपुरानुनादं सललितनतितवामपादपद्मा ।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम” ।।

अथ मदः–
मदो विकारः सौभग्ययौवनाद्यवलेपजः ।। साद-३.१०५ ।।
यथा– “मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः” ।।

अथ विहृतम्–
वक्तव्यकाले ऽप्यवचो व्रीडया विहृतं मतम् ।
यथा– “दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् ।
पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम्” ।।

अथ तपनम्–
तपनं प्रियविच्छेदे स्मरवेगोत्थचेष्टितम् ।। साद-३.१०६ ।।
यथा मम– “श्वासान्मुञ्चति भूतले विलुठति, त्वन्मार्गमालोकते, दर्घं रोदिति, विभिपत्य इतः क्षामां भुजावल्लरीम् ।
किञ्च, प्राणसमान ! काङ्क्षितवती स्वप्ने ऽपि ते सङ्गमं, निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि” ।।

अथ मौग्ध्यम्–
अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः ।
वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ।। साद-३.१०७ ।।
यथा–के द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः ।
नाय ! मत्कङ्गणन्यस्तं येषां मुक्ताफलं फलम्” ।।

अथ विक्षेपः–
भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् ।
रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ।। साद-३.१०८ ।।
यथा– “धम्मिल्लमर्धमुक्तं कलयति तिलकं तथासकलम् ।
किञ्चिद्वदति रहस्यं चकितं विष्वग्विलोकते तन्वी ।।

अथ कुतूहलम्–
रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् ।
यथा– “प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवीं ततान” ।।

अथ हसितम्–
हसितं तु वृथाहासो यौवनोद्भेदसम्भवः ।। साद-३.१०९ ।।
यथा– “अकस्मादेव तन्वङ्गी जहास यदियं पुनः ।
नूनं प्रसूनवाणो ऽस्यां स्वराज्यमधितिष्ठति ।।

अथ चकितम्–
कुतो ऽपि दयितस्याग्रे चकतं भयसम्भ्रमः ।
यथा– “त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लोलाभिः किमु सति कारणो तरुण्यः ।।

अथ केलिः–
विहारे सह कान्तेन क्रीडितं कोलिरुच्यते ।। साद-३.११० ।।
यथा– “व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी” ।।

अथ मुग्धाकन्ययोरनुरागेङ्गितानि–
दृष्टवा दर्शयति व्रीङां सम्मुखं नैव पश्यति ।
प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ।। साद-३.१११ ।।
बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी ।
सगद्रदस्वरं किञ्चित्प्रियं प्रायेण भाषते ।। साद-३.११२ ।।
अन्यैः प्रवर्तितां शश्वत्सावधाना च तत्कथाम् ।
शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ।। साद-३.११३ ।।
अथ सकलानामपि नायिकानामनुरागेङ्गितानि–
चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।
विलोचनपथं चास्य न गच्छत्यनलङ्कृता ।। साद-३.११४ ।।
क्वापि कुन्तलसंव्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ।। साद-३.११५ ।।
आच्छादयति वागाद्यैः प्रियस्य परिचारकान् ।
विश्वसित्यस्य मित्रेषु बहुमानं करोति च ।। साद-३.११६ ।।
सखीमघ्ये गुणान् ब्रूते स्वधनं प्रददाति च ।
सुप्ते स्वपिति दुःखे ऽस्य दुःखं धत्ते सुखे सुखम् ।। साद-३.११७ ।।
स्थिता दृष्टिपथे शश्वत्प्रिये पश्यति दूरतः ।
आभाषते परिजनं सम्मुखं स्मरिविक्रियम् ।। साद-३.११८ ।।
यत्किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा ।
कर्णकण्डूयनं तद्वत्कबरीमोक्षसंयमौ ।। साद-३.११९ ।।
जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति ।
भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ।। साद-३.१२० ।।
अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते ।
दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ।। साद-३.१२१ ।।
न मुञ्चति च तं देशं नायको यत्र दृश्यते ।
आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ।। साद-३.१२२ ।।
दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते ।
नित्यं हष्यति तद्योगे वियोगे मलिना कृशा ।। साद-३.१२३ ।।
मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् ।
प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ।। साद-३.१२४ ।।
विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति ।
भाषते सूनृतं स्निग्धामनुरक्ता नितम्बिनी ।। साद-३.१२५ ।।
एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः ।
मध्यव्रीडानि मध्यायाः स्त्रंसमानत्रपाणि तु ।। साद-३.१२६ ।।
आन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः ।
दिङ्मात्रं यथा– “अन्तिकगतमपि मामियमवलोकयतीव इन्त ! दृष्ट्वापि ।
सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम्” ।।

तथा–
लेख्यप्रस्थापनैः स्निग्धैर्वोक्षितैर्मृदुभाषितैः ।। साद-३.१२७ ।।
दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते ।
दूत्यश्च–
दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ।। साद-३.१२८ ।।
बाला प्रव्रजिता कारूः शिल्पिन्याद्यः स्वयं तथा ।
कारू रजकीप्रभृतिः ।
शिल्पिनी चित्रकारादिस्त्री ।
आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः ।
तत्र सखी यथा– “श्वासान्मुञ्चति–” इत्यादि ।
स्वयंदूती यथा मम– “पन्थिअ पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो ।
ण मणं वि वारओ इध अत्थि धरे घणरसं पिअन्ताणं” ।।
एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति ।
दूतीगुणानाह–
कलाकौश्लमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ।। साद-३.१२९ ।।
माधुर्यं नर्मविज्ञानं वाग्मिता चेत तद्गुणाः ।
एत अपि यथैचित्यादुत्तमाधममध्यमाः ।। साद-३.१३० ।।
एतादूत्यः ।
अथ प्रतिनायकः–
धीरोद्धतः पापकारी व्यसनी प्रतिनायकः ।
यथा रामस्य रावणः ।
अथेद्दीपनविभावाः–
उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ।। साद-३.१३१ ।।
ते च–
आलम्बनस्य चेष्टाद्या देशकालादयस्तथा ।
चेष्टाद्या इत्याद्यशब्दाद्रूपभाषणादयः ।
कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरभ्क्तंकारादयः ।
तत्र चन्द्रोदयो यथा मम– “करमुदयमहीधरस्तनाग्रे गलिततमः पटलंशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः” ।।

यो यस्य रसम्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते ।
अथानुभावाः–
उद्बुद्धं कारणैः स्वैबहिर्भावं प्रकाशयन् ।। साद-३.१३२ ।।
लोके यः कार्यरूपः सो ऽनुभावः काव्यनाट्ययोः ।
यः खलु लोके सीतादिचन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपनकारणे रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः ।
कः पुनरसावित्याह–
उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः ।। साद-३.१३३ ।।
तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि ।
तद्रूपा अनुभावस्वरूपाः ।
तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते ।
तत्र सात्त्विकाः–
विकाराः सत्त्वसंभूताः सात्त्विकाः परिकीर्तिताः ।। साद-३.१३४ ।।
सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः ।
सत्त्वमात्रोद्भवत्वात्ते भिन्ना अष्यनुभावतः ।
“गोबलीवर्द्दन्ययेन” इति शेषः ।
के त इत्याह–
स्तम्भः स्वेदो ऽथ लोमाञ्चः स्वरभङ्गो ऽथ वेपथुः ।। साद-३.१३५ ।।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ।
तत्र–
स्तम्भश्चेष्टाप्रतीघातो भहर्षामयादिभिः ।। साद-३.१३६ ।।
वपुर्जलोद्रमः स्वेदो रतिघर्मश्रमादिभिः ।
हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ।। साद-३.१३७ ।।
मदसंमदपीडाद्यैर्वैस्वर्यं गद्रदं विदुः ।
रागद्वेषश्रणादिभ्यः कम्पो गात्रस्य वेपथुः ।। साद-३.१३८ ।।
विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णता ।
अश्रु नेत्रोद्रवं वारि क्रोधदुःखप्रहर्षजम् ।। साद-३.१३९ ।।
प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ।
यथा मम–तनुस्पर्शादस्या दरमुकुलिते हन्त ! नयने उदञ्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलम् ।
कपोलौ घर्मार्द्रै ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति भ्क्तटिति ब्रह्म परमम्” ।।

एवमन्यत् ।
अथ व्यभिचारिणः–
विशेषादाभिमुख्येन चरणाद्व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ।। साद-३.१४० ।।
स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद् व्यभिचारिणः कथ्यन्ते ।
के त इत्याह–
निर्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वष्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः ।
औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधूतिचपलता ग्लानिचिन्तावितर्काः ।। साद-३.१४१ ।।
तत्र निर्वेदः–
तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् ।
दैन्यचिन्ताश्रुनिः श्वासवैवर्ण्योच्छवसितादिकृत् ।। साद-३.१४२ ।।
तत्त्वज्ञानान्निर्वेदो यथा– “मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना ।
दक्षिणावर्तशङ्खो ऽयं हन्त ! चूर्णोकृतो मया” ।।

अथावेगः–
आवेगः संभ्रमस्तत्र वर्षजे पिण्डिताङ्गता ।
उत्पातजे स्त्ररतताङ्गे, धूमाद्याकुलताग्निजे ।। साद-३.१४३ ।।
राजविद्रवजादेस्तु शस्त्रनागादियोजनम् ।
गजादेः स्तम्भकम्पादि, पांस्वाद्याकुलतानिलात् ।। साद-३.१४४ ।।
इष्टाद्धर्षाः, शुचो ऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम् ।
तत्र शत्रुजो यथा– “अर्घ्यमर्घ्यमिति वादिनं नृपं सो ऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः सन्धे दृशमुदग्रतारकम्” ।।

एवमन्यदूह्यम् ।
अथ दैन्यम्–
दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ।। साद-३.१४५ ।।
यथा– “वृद्धो ऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालो ऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसं निजबधूं श्वश्रूश्चिरं रोदिति” ।।

अथ श्रमः–
खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।
यथा– “सद्यः पुरीपरिसरे ऽपि शिरीषमृद्वी सीता जवात्र्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्” ।।

अथ मदः–
संमोहानन्दसंभेदो मदो मद्योपयोगजः ।। साद-३.१४६ ।।
अमुना चोत्तमः शेते मध्यो हसति गायति ।
अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ।। साद-३.१४७ ।।
यथा– “प्रातिभं त्रिसरकेण गतानां वक्रवाक्यारचनामणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः” ।।

अथ जडता–
अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ।। साद-३.१४८ ।।
यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये– “णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिटिंठ ।
आलेक्खओपित्र्त्रं विअ खणमेत्तं तत्थ संट्ठिअं मुअसण्णां” ।।

अथोग्रता–
शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता ।
तत्र स्वेदशिरः कम्पतर्जनाताडनादयः ।। साद-३.१४९ ।।
यथा– “प्रणयिसखीसलीलपरिहासरसाधिगत- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः” ।।

अथ मोहः–
मोहो विचित्तता भीतिदुः खावेगानुचिन्ततैः ।
मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् ।। साद-३.१५० ।।
यथा– “तिव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव” ।।

अथ विबोधः–
निद्रापगमहेतुभ्यो विबोधश्चेतनागमः ।
जम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् ।। साद-३.१५१ ।।
यथा– “चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वते न प्रियाणा- मशिथिलभुजचक्राश्लेषभेदं तरुण्यः” ।।

अथ स्वप्नः–
स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः ।
कोपावेगभयग्लानिसुखदुः खादिकारकः ।। साद-३.१५२ ।।
यथा– “मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्- लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति” ।।

अथापस्मारः–
मनःक्षेपस्त्वपस्मारा ग्रहाद्यावेशनादिजः ।
भूपातकम्पप्रस्वेदफेनलालादिकारकः ।। साद-३.१५३ ।।
“आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के” ।।

अथ गर्वः–
गर्वो मदः प्रभावश्रीर्विद्यासत्कुलतादिजः ।
अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ।। साद-३.१५४ ।।
तत्र शौर्यगर्वो यथा– “धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम्” ।।

अथ मरणम्–
शराद्यैर्मरणं जीवत्यागो ऽङ्गपतनादिकृत् ।
यथा– “राममन्मथशरेण ताडिता दुः सहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा” ।।

अथालस्यम् —
आलस्यं श्रमगर्भाद्यैर् जाड्यं जम्भासितादिकृत् ।। साद-३.१५५ ।।
यथा– “न तथा भूषयत्यङ्ग न तथा भाषते सखीम् ।
जृम्भते मुहुरासीना बाला गर्भभरालसा” ।।

अथामर्षः–
निन्दाक्षेपापमानादेरमर्षो ऽभिनिविष्टता ।
नेत्ररागशिरः कम्पभ्रूभङ्गोत्तर्जनादिकृत् ।। साद-३.१५६ ।।
यथा–प्रायश्चितं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ।।

अथ निद्रा–
चेतः संमीलनं निद्रा श्रमल्कममदादिजा ।
जृम्भाक्षिमीलनोच्छ्वासगात्रभङ्गादिकारणम् ।। साद-३.१५७ ।।
यथा– “सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् ।
निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि” ।।

अथावहित्था–
भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था ।
व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी ।। साद-३.१५८ ।।
यथा– “एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती” ।।

श्रथौत्सुक्यम्–
इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
चित्ततापत्वरास्वेददीर्घनिः श्वसितादिकृत् ।। साद-३.१५९ ।।
यथा– “यः कौमारहरः स एव हि वरः–ऽित्यादौ (१५ पृदृ) अत्र यत् काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद्व्यभिचारिभावस्यापि रसशबादवाच्यत्वेन गतार्थं मन्तव्यम् ।
अथोन्मादः–
चित्तसंमोह उन्मादः कामशोकभयादिभिः ।
अस्थानहासरुदितगीतप्रलपनादिकृत् ।। साद-३.१६० ।।
यथा मम– “भ्रतार्द्विरेफ ! भवता भ्रमता समन्ता- त्प्राणाधिका प्रियतमा मम वीक्षिता किम् ? ।
(भ्क्तंकारमनुभूय सानन्दम् ।
) “ब्रषे किमोमिति सखे ! कथयाशु तन्मे किं किं व्यवस्यति कुतो ऽस्ति च कीदृशीयम्” ।।

अथ शङ्का–
परक्रौर्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम् ।
वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत् ।। साद-३.१६१ ।।
यथा मम– “प्राणोशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि ।
धत्ते लाक्षामसकृदधरे दत्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती” ।।

अथ स्मृतिः–
सदृशज्ञानचिन्ताद्यैर्भ्रूसमुन्नयनादिकृत् ।
स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ।। साद-३.१६२ ।।
यथा मम– “मयि सकपटं किंचित्क्वापि प्रणीतविलोचने किमपि नमनं प्राप्ते तिर्यग्विजृम्भिततारकम् ।
स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम्” ।।

अथ मतिः–
नीतिमार्गनुसृत्यादेरर्थनिर्धारणं मतिः ।
स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवाः ।। साद-३.१६३ ।।
यथा– “असंशयं क्षअपरिग्रहक्षमा यादर्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः” ।।

अथ व्याधिः–
व्याधिर्ज्वरादिर्वाताद्यैभूमीच्छोत्कम्पनादिकृत् ।
तत्र दाहमयत्वे भूमीच्छादयः ।
शैत्यमयत्वे उत्कम्पनादयः ।
स्पष्टमुदाहरणम् ।
अथ त्रासः–
निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ।। साद-३.१६४ ।।
यथा– “परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि वोलोकनीयताम्” ।।

अथ व्रीडा–
धार्ष्ट्याभावो व्रडा वदनानमनादिकृद्दुराचारात् ।
यथा– “मयि सकपटम्–” इत्यादि ( १७३ पृदृ) ।
अथ हर्षः–
हर्षस्त्विष्टावाप्तेर्मनः प्रसादो ऽश्रुगद्गदादिकरः ।। साद-३.१६५ ।।
यथा– “समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः ।
मुदा शरीरे प्रबभूव नात्मनः पयोधिरन्दूदयमूर्च्छितो यथा” ।।

अथासूया–
असूयान्यगुणर्द्धेनामौद्धत्यादसहिष्णुता ।
दोषोद्धोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् ।। साद-३.१६६ ।।
यथा– “अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्” ।।

अथ विषादः–
उपायाभावजन्मा तु विषादः सत्त्वसंक्षयः ।
निःश्वासोच्छवासहृत्तापसहायान्वेषणादिकृत् ।। साद-३.१६७ ।।
यथा मम–एसा कुडिलघणोन चिउरकडप्पेण तुह णिबद्धा वेणी ।
मह सहि दारै ढंसै आअसधट्टीव्व कालौरैव्व हिअअं ।।

अथ धृतिः–
ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धतिः ।
सौहित्यवचनोल्लाससहासप्रतिभादिकत् ।। साद-३.१६८ ।।
यथा मम– “कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः ।
द्रव्यौघाः परिसंचिताः खलु मया यस्याः कृते सांप्रतं नीवारञ्जलिनापि केवलमहो सेयं कृतार्था तनुः” ।।

अथ चपलता–
मात्सर्यद्वेषरागादेश्चापल्यं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ।। साद-३.१६९ ।।
यथा– “अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु ।
मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाः” ।।

अथ ग्लानिः–
रत्यायासमनस्तापक्षुत्पिपासादिसंभवा ।
ग्लानिर्निप्प्राणताम्पकार्श्यानुत्साहतादिकृत् ।। साद-३.१७० ।।
यथा– “किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्” ।।

अथ चिन्ता–
ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ।
यथा मम– “कमलेण विअसिएणं संजोएन्ती विरोहिणं ससिबिम्बं ।
करअलपल्लत्थमुही किं चिन्तसि सुमुहि अन्तराहिअहिअआ” ।।

अथ तर्कः–
तर्का विचारः संदेहाद्भ्रूशिरो ऽङ्गुलिनर्तकः ।। साद-३.१७१ ।।
यथा– “किं रुद्धः प्रियया–” इत्यादि ।
एते च त्रयस्त्रिंशद्व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह– रत्यादयो ऽप्यनियते रसे स्युर्व्यभिचारिणः ।
तथाहि–शृङ्गारे ऽनुच्छिद्यमानतयावस्थानाद् रतिरेव स्थायिशब्दवाच्या हासः पुनरुपद्यमानो व्यभिचार्येव ।
व्यभिचारिलक्षणायोगात् ।
तदुक्तम्– “रसावस्थः परं भावः स्थायितां प्रतिपद्यते” ।
इति ।
तत्कस्य स्थायिनः कस्मिन् रसे सञ्चारित्वमित्याह– शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः ।। साद-३.१७२ ।।
शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ।। साद-३.१७३ ।।
अथ स्थायिभावः–
अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः ।
आस्वादाङ्कुरकन्दो ऽसौ भावः स्थायीति संमतः ।। साद-३.१७४ ।।
यदुक्तम्– “स्त्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः ।
न तिरोधीयते स्थायी तैरसौ पुष्यते परम्” ।।

इति ।
तद्भेदानाह–
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमो ऽपि च ।। साद-३.१७५ ।।
तत्र–
रतिर्मनो ऽनुकूलेर्ऽथे मनसः प्रवणायितम् ।
वागादिवैकृतैश्चेतोविकासो हास इष्यते ।। साद-३.१७६ ।।
इष्टनाशादिभिश्चेतोवैक्लव्यं शोकशब्दभाक् ।
प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते ।। साद-३.१७७ ।।
कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।
रौद्रशक्त्या तु जनितं चित्तवैक्लव्यं भयम् ।। साद-३.१७८ ।।
दोषेक्षणादिभिर्गर्हा जुगुप्सा विस्मयोद्भवा ।
विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ।। साद-३.१७९ ।।
विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ।
शमो निरीहास्थायां स्वात्मविश्रामजं सुखम् ।। साद-३.१८० ।।
यथा मालतीमाधवे रतिः ।
लटकमेलके हासः ।
रामायणो शोकः ।
महाभारते शमः ।
एवमन्यत्रापि ।
एते ह्येतेष्वन्तरा उत्पद्यमानैस्तैस्तैविरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः ।
किं च–
नानाभिनयसंबन्धान् भावयन्ति रसान् यतः ।
तस्माद्भावा अमी प्रोक्ताः स्थायिसंचारिसात्त्विकाः ।। साद-३.१८१ ।।
यदुक्तम्– “सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्” अथ रसस्य भेदानाह–
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्सो ऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ।। साद-३.१८२ ।।
तत्र शृङ्गारः–
शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ।। साद-३.१८३ ।।
परोढां वर्जयित्वा तु वेश्यां चाननुरागिणीम् ।
आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ।। साद-३.१८४ ।।
चन्द्रचन्दननरोलम्बरुताद्युद्दीपनं मतम् ।
भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ।। साद-३.१८५ ।।
त्यक्त्वौग्र्यमरणालस्यजुगुष्साव्यभिचारिणः ।
स्थायिभावो रतिः श्यामवर्णो ऽयं विष्णुदैवतः ।
यथा– “शून्यं वासगृहम्–” इत्यादि ।
अत्रोक्तस्वरूपः पतिः, उक्तस्वरूपा च बाला आलम्बनविभावौ ।
शून्यं वासगृहमुद्दीपनविभावः ।
चुम्बनमनुभावः ।
लज्जाहासौ व्यभिचारिणौ ।
एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते ।
तद्भेदावाह-
विप्रलम्भो ऽथ संभोग इत्येष द्विविधो मतः ।। साद-३.१८६ ।।
तत्र–
यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भो ऽसा ।
अभीष्टं नायकं नायिकां वा ।
स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात् ।। साद-३.१८७ ।।
तत्र–
श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः ।
दशाविशेषो यो ऽप्राप्तौ पूर्वरागः स उच्यते ।। साद-३.१८८ ।।
श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् ।
इन्द्रजाले च चित्रे च साक्षात्स्वष्ने च दर्शनम् ।। साद-३.१८९ ।।
अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च ।
उन्मादो ऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः ।। साद-३.१९० ।।
अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् ।
उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ।। साद-३.१९१ ।।

अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् ।
व्याधिस्तु दीर्घनिः श्वासपाण्डुताकृशतादयः ।। साद-३.१९२ ।।
जडता हीनचेष्टत्वमङ्गानां मनसस्तथा ।
शेषं स्पष्टम् ।
क्रमेणोदाहरणानि– “प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्राढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
यास्वन्तः करणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः” ।।

अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः ।
“कथमीक्षे कुरङ्गाक्षीं साक्षाल्लक्ष्मीं मनोभुवः ।
इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम्” ।।

अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता ।
इदं मम ।
“मयि सकपटम्ऽ–इत्यादौ नायकस्य स्मृतिः ।
नेत्रे खञ्जनगञ्जनेऽ–इत्यादौ गुणकथनम् ।
“श्वासान्मुञ्चतिऽ–इत्यादौ उद्वेगः ।
“त्रिभागशेषासु निशासु च क्षमं निमील्य नेत्रे सहसा व्यबुध्यन ।
क्वः नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना” ।।

अत्र प्रलापः ।
“भ्रातर्द्विरेफऽ–इत्यादौ उन्मादः ।
“पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः” ।।

अत्र व्याधिः ।
“भिसणीअलसअणीए निहिअं सव्वं सुणिच्चलं अङ्गं ।
दीहो णीसासहरो एसो साहेइ जीऐत्ति परं” ।।

अत्र जडता ।
इदं मम ।
रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ।। साद-३.१९३ ।।

जातप्रायं तु तद्वाच्यं चेतसाकाङ्क्षितं तथा ।
वर्ण्यते ऽपि यदि प्रत्युञ्जीवनं स्यादढूरतः ।। साद-३.१९४ ।।
तत्राद्यं यथा– “शेफालिकां विदलितामवलोक्य तन्वी प्राणान् कथंचिदपि धारयितुं प्रभूता ।
आकर्ण्य संप्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा” ।।

द्वितीयं यथा– “रोलम्बाः परिपूरयन्तु हरितो भ्क्तंकारकोलाहलैर्– मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि ।
माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी” ।।

ममैतौ ।
तृतीयं यथा–कादम्बर्यां महश्वेतापुण्डरीकवृत्तान्ते ।
एष च प्रकारः करुणः विप्रलम्भविषय इति वक्ष्यामः ।
केचित्तु– “नयनप्रीतिः प्रथमं चित्तासङ्गस्ततो ऽथ संकल्पः ।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ।।

उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्यु” ।
इत्याहुः ।
तत्र च–आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः ।
इङ्गितान्युक्तनि ।
यथा रत्नाववल्यां सागरिकावत्सराजयोः ।
आदौ पुरुषानुरोगे संभवत्यप्येवमधिकं हृदयङ्गमं भवति ।
नीली कुसुम्भं मञ्जिष्ठा पूर्वरागो ऽपि च त्रिधा ।। साद-३.१९५ ।।
तत्र–
न चातिशोभते यन्नापैति प्रेम मनोगतम् ।
तन्नीलीरागमाख्यातं यथा श्रीरामसीतयोः ।। साद-३.१९६ ।।
कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते ।
मञ्जिष्ठारागमाहुस्तद् यन्नापैत्यतिशोभते ।। साद-३.१९७ ।।
अथ मानः–
मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः ।
द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि ।। साद-३.१९८ ।।
प्रेम्णः कुटिलगामित्वात् कोपो यः कारणं विना ।
द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः ।
उदाहरणम् ।
तत्र नायकस्य यथा– “अलिअपसुत्तअ णिमिलिअच्छ देसु सुहअ मज्भ्क्त ओआसं ।
गण्डपरिउम्बणापुलैअङ्ग ! ण पुणो चिराइस्सं” ।।

नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे ।
उभयोर्यथा– “पणअकुविआणं देण्ह विं अलिअसुत्ताणां माणैल्लाणं ।
णिच्चलणिरुद्धणीसासदिण्णअण्णाणं को मल्लो” ।।

अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु संभोगसञ्चार्याख्यभावत्वम् ।
यथा– “भ्रूभङ्गे रचिते ऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सम्मितमिदं दग्धाननं जायते ।
कार्कश्यं गमिते ऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने” ।।

यथा वा– “एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थिते ऽप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गबलनान्मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः” ।।
प्रत्युरन्यप्रियासङ्गे दृष्टे ऽथानुमिते श्रुते ।। साद-३.१९९ ।।

ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ।
उत्स्वष्नायितभोगाङ्कगोत्रस्खलनसंम्भवा ।। साद-३.२०० ।।
तत्र दृष्टे यथा– “विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुरूरे” ।।

संभोगचिह्नेनानुमिते यथा– “नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नपवरिमलगन्धः केन शक्यो वरीतुम्” ।।

एवमन्यदपि ।
साम भेदो ऽथ दानं च नत्युपेक्षे रसान्तरम् ।
तद्भङ्गाय पतिः कुर्यात् षडुपायानिति क्रमात् ।। साद-३.२०१ ।।
तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ।। साद-३.२०२ ।।
सामादौ तु परिक्षीणो स्यादुपेक्षावधीरणम् ।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ।। साद-३.२०३ ।।
यथा– “नो चाटुश्रवणं कृतम्ऽ–इत्यादि (१२९ पृदृ) ।
अत्र सामादयः पञ्च सूचिताः ।
रसान्तरमूह्यम् ।।

अथ प्रवासः–
प्रवासो भिन्नदेशित्वं कार्याच्छापाच्च संभ्रमात् ।
तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः ।। साद-३.२०४ ।।
निः श्वासोच्छ्वासरुदितभूमिपातादि जायते ।
किञ्च–
अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशतारुचिः ।। साद-३.२०५ ।।
अधृतिः स्यादनालम्बस्तमनयोन्मादमूर्च्छनाः ।
मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह ।। साद-३.२०६ ।।

असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः ।
अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताधृतिः ।। साद-३.२०७ ।।
अनालम्बनता चापि शून्यता मनसः स्मृता ।
तन्मयं तत्प्रकाशो हि बाह्याभ्यन्तरतस्तथा ।
शेषं स्पष्टम् ।
एकदेशतो यथा मम तातपादानाम् — “चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं श्वासैकखिन्नो ऽधरः ।
अम्भः शीकरपद्मिनीकिसलयैर्नापैति तापः शमं, को ऽस्याः प्रार्थितदुर्लभो ऽस्ति सहते दीनां दशामीदृशीम्” ।।
भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः ।। साद-३.२०८ ।।
कार्यस्य बुद्धिपूर्वकत्वात्त्रैविध्यम् ।
तत्र भावी यथा मम– “यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम ततो वाष्पं कथं मुञ्चसि ।
शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वरा, भूयानस्य सह त्वया जिगमिषोर्जोवस्य मे संभ्रमः” ।।

भवन् यथा– “प्रस्थानं वबयैः कृतं, प्रियसखैरस्त्रैजस्त्रं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित ! प्रियसुहृत्सार्थः किमु त्यज्यते” ।।

भूतो यथा– “चिन्ताभिः स्तिमितम्-ऽित्यादि (२०० पृदृ) शापद्यथा– “तां जानीयाः–ऽित्यादि (१३० पृदृ) संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः ।
यथा–विक्रमोर्वश्यामुर्वशीपुरूरवसोः ।
अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानानुभयेषामप्युभयत्र सम्भवे ऽपि चिरन्तनप्रसिद्ध्या विविच्य प्रतिपादनम् ।
अथ करुणविप्रलम्भः–
यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनार्लभ्ये ।
विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः ।। साद-३.२०९ ।।
यथा–कादम्बर्यां तुण्डरीकमहाश्वेतावृत्तान्ते ।
पुनरलभ्ये शरीरान्तरेण बालभ्ये तु करुणाख्य एव रसः ।
किञ्चात्राकाशसारस्वतीभाषानन्तरमेव शृङ्गारः, सगमप्रत्याशाया रतेरुद्भवात् ।
प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते ।
यच्चात्र “सङ्गमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव” इति केचिदाहुः, तदन्ये “मरणरूपविशेषसंभवात्तद्भिन्नमेव” इति मन्यन्ते ।
अथ संभोगः–
दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्तावन्योन्यं संभोगो ऽयमुदाहृतः ।। साद-३.२१० ।।
आदिशब्दादन्योन्याधरपानचुम्बनादयः ।
यथा– “शून्यं वासगृहम्–” (२२ पृदृ) इत्यादौ ।
सख्यातुमशक्यतया चुम्बनपरिरम्भणादिवहुभेदात् ।
अयमेक एव धीरैः कथितः संभोगशृङ्गारः ।। साद-३.२११ ।।

तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।
जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ।। साद-३.२१२ ।।
अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च ।
तथा च भरतः– “यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)” इति ।
किञ्च–
कथितश्चतुर्विधो ऽसावानन्तर्यात्तु पूर्वरागादेः ।। साद-३.२१३ ।।
यदुक्तम्– “न बिना विप्रलम्भेन संभोगः पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते” ।।

इति ।
तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः ।
प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम्– “क्षेमं ते ननु पक्ष्मलाक्षि !- किसअं खेमं महङ्गं दिढं, एतादृक्कृशता कुतः तुह पुणो पुट्ठं सरीरं जदो ।
केनाहं पृथुलः प्रये !- पणैणीदेहस्स सम्मेलणात्, त्वत्तः सुभ्रु ! न कपि मे, जै इदं खेमं कुदो पुच्छसि” ।।

एवमन्यत्राप्यूह्यम् ।
अथ हास्यः–
विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् ।
हास्यो हाससथायिभावः श्वेतः प्रथमदैवतः ।। साद-३.२१४ ।।
विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः ।
तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ।। साद-३.२१५ ।।
अनुभावो ऽक्षसङ्कोचवदनस्मेरतादयः ।
निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ।। साद-३.२१६ ।।
ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च ।
नीचानामपहसितं तथातिहसितं तदेष षड्भेदः ।। साद-३.२१७ ।।
ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताधरम् ।
किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ।। साद-३.२१८ ।।
मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् ।
अपहसितं सास्त्राक्षं विक्षिप्ताङ्गं च भवत्यतिहसितम् ।। साद-३.२१९ ।।
यथा– “गुरोगिरः पञ्चदिनान् अधीत्य वेदान्तशास्त्राणि दिनत्रयं च ।
अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः” ।।

अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः ।
अत्र च–
यस्य हासः स चेत क्वापि साक्षान्नैव निबध्यते ।
तथाष्येष विभावादिसामर्थ्यादुपलभ्यते ।। साद-३.२२० ।।
अभेदेन विभावादिसाधारण्यात्प्रतीयते ।
सामाजिकैस्ततो हास्यरसो ऽयमनुभूयते ।। साद-३.२२१ ।।
एवमन्येष्वपि रसेषु बोद्धव्यम् ।
अथ करुणः–
इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् ।
धीरैः कपोतवर्णो ऽयं कथितो यमदैवतः ।। साद-३.२२२ ।।
शोको ऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् ।
तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ।। साद-३.२२३ ।।
अनुभावा दैवनिन्दाभूपातक्रन्दितादयः ।
वैवर्ण्योच्छ्वासनिः श्वासस्तम्भप्रलपनानि च ।। साद-३.२२४ ।।
निर्वेदमोहापस्माख्याधिग्लानिस्मृतिश्रमाः ।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ।। साद-३.२२५ ।।
शोच्यं विनष्टबन्धुप्रभृति ।
यथा मम राघवविलासे– “विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः ।
अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम्” ।।

अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा ।
एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् ।
परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः ।
अस्य करुणविप्रलम्भाद् भेदमाह–
शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ।
विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ।। साद-३.२२६ ।।
अथ रौद्रः–
रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्चोद्दीपनं मतम् ।। साद-३.२२७ ।।
मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।
संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ।। साद-३.२२८ ।।
भ्रविभङ्गौष्ठनिर्देशबाहुस्फोटनतर्जनाः ।
आत्मावदानकथनमायुधोत्क्षेपणानि च ।। साद-३.२२९ ।।
अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः ।
उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ।। साद-३.२३० ।।
मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः ।
यथा– “कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्” ।।

अस्य युद्धवीराद्भेदमाह–
रक्तास्येनेत्रता चात्र भेदिनी युद्धवीरतः ।। साद-३.२३१ ।।
अथ वीरः–
उत्तमप्रकृतिर्वोर उत्साहस्थायिभावकः ।
महेन्द्रदैवतो हेमवर्णो ऽयं समुदाहृतः ।। साद-३.२३२ ।।
आलम्बनविभावास्तु विजेतव्यादयो मताः ।
विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः ।
अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ।। साद-३.२३३ ।।
सञ्चारिणास्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः ।
स च दानदर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्यात् ।। साद-३.२३४ ।।
स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः ।
तत्र दानवीरो यथा परशुरामः– “त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः” इति ।
अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः, संप्रदानभूतब्राह्मणैरालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैविभावितः, सर्वस्वत्यागादिभिरनुभावैरनुभावितो, हर्षधृत्यादिभैः संचारिभिः पुष्टिं नीतो दानवीरतां भजते ।
धर्मवीरो यथा युधिष्ठिरः– “राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये ।
यच्च लोके ममायत्तं तद् धर्माय सदोद्यतम्” ।।

युद्धवीरो यथा श्रीरामचन्द्रः– भो लङ्केश्वर ! दीयतां जनकजा रामः स्वयं याचते को ऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्रतम् ।
नैवं चेत् खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः” ।।

दयावीरो यथा जीमूतवाहनः– “शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात्त्वं विरतो गरुत्मन् ! ।
एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः ।
अथ भयानकः–
भयानको भयस्थायिभावो भूताधिदैवतः” ।
स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ।। साद-३.२३५ ।।
यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् ।
चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ।। साद-३.२३६ ।।
अनुभावो ऽत्र वैवर्ण्यगद्रदस्वरभाषणम् ।
प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ।। साद-३.२३७ ।।
जुगुष्सावेगसंमोहसंत्रासग्लानिदीनताः ।
शङ्कापस्मारसम्भ्रान्तिमृत्य्वाद्या व्यभिचारिणाः ।। साद-३.२३८ ।।
यथा– “नष्टं वर्षवरैः–” इत्यादि (१०५ पृदृ) अथ बीभत्सः–
जुगुष्सास्थायिभावस्तु बीभत्सः कथ्यते रसः ।
नीलवर्णो महाकालदैवतो ऽयमुदाहृतः ।। साद-३.२३९ ।।
दुर्गन्धमांसरुंधिरमेदां स्यालम्बनं मतम् ।
तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ।। साद-३.२४० ।।
निष्ठीवनास्यवलननेत्रसङ्कोचनादयः ।
अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ।। साद-३.२४१ ।।
माहो ऽपस्मार आवेगो व्याधिश्च मरणादयः ।
यथा– “उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आतेः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दङ्कस्थादस्थिंस्थं स्थपुटगतमपि क्रव्यमध्यग्रमत्ति” ।।

अथाद्भुतः–
अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ।। साद-३.२४२ ।।
पीतवर्णो वस्तु लोकातिगामालम्बनं मतम् ।
गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ।। साद-३.२४३ ।।
स्तम्भः स्वेदो ऽथ रोमाञ्चगद्रदस्वरसंभ्रमः ।
तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ।। साद-३.२४४ ।।
वितर्कावेगसंभ्रान्तिहर्षाद्या व्यभिचारिणः ।
यथा– “दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत– ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति” ।।

अथ शान्तः–
शान्तः शमस्थयिभाव उत्तमप्रकृतिर्मतः ।। साद-३.२४५ ।।
कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ।
अनित्यत्वादिनाशेषवस्तुनिः सारता तु या ।। साद-३.२४६ ।।
परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ।
पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ।। साद-३.२४७ ।।
महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ।
रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ।। साद-३.२४८ ।।
निर्वेदहर्षस्मरणमतिभूतदयादयः ।
यथा– “रथ्यान्तश्चरतस्तथा धृतजरत् कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः ।
निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति” ।।

पुष्टिस्तु महाभारतादौ द्रष्टव्या ।
अस्य दयावीरादेः सकाशाद् भेदमाह–
निरहङ्काररूपत्वाद् दयावीरादिरेष नो ।। साद-३.२४९ ।।
दयावीरादौ हि नागानन्ददौ जीमूतवाहनादेरन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवतित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते ।
शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रांन्तर्भावमर्हति ।
ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् ।
ननु– “न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कचिदिच्छा ।
रसः स शान्तः कथितो मनीन्द्रैः सर्वेषु भावेषु समप्रमाणः” ।।

इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात् कथं रसत्वमित्युच्यते–
युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ।। साद-३.२५० ।।
यश्चास्मिन्सुखाभावो ऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः ।
उक्तं हि- “यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्” ।।

“सर्वाकारमहङ्काराहितत्वं ब्रजन्ति चेत् ।
अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा” ।।

आदिशब्दाद्धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः ।
तत्र देवताविषया रतिर्यथा– कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानो ऽञ्जलिपुटम् ।
अये गौरीनाथ ! त्रिपुरहर ! शंभो ! त्रिनयन ! प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान्” ।।

अथ मुनीन्द्रसंमतो वत्सलः–
स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ।। साद-३.२५१ ।।
उद्दीपनानि तच्चेष्टा निद्याशौर्यदयादयः ।
आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम् ।। साद-३.२५२ ।।
पुलकानन्दवाष्पाद्या अनुभावाः प्रकीर्तिताः ।
सञ्चारिणो ऽनिष्टशङ्काहर्षगर्वादयो मताः ।। साद-३.२५३ ।।
पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः ।
यथा– “यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलीम् ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोर्ऽभकः” ।।

एतेषां च रसानां परस्परविरोधमाह–
आद्यः करुणबीभत्सरौद्रवीरभयानकैः ।। साद-३.२५४ ।।
भयानकेन करुणोनापि हास्यो विरोधभाक् ।
करुणो हास्यशृङ्गारसाभ्यामपि तादृशः ।। साद-३.२५५ ।।
रौद्रस्तु हास्यशृङ्गरभयानकरसैरपि ।
भयानकेन शान्तेन तथा वीररसः स्मृतः ।। साद-३.२५६ ।।

शृङ्गारवीरराद्राख्यहास्यशान्तैर्भयानकः ।
शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ।। साद-३.२५७ ।।
शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता ।
आद्यः शृङ्गारः ।
एषां च समावेशप्रकारा वक्ष्यन्ते ।
कुतो ऽपि कारणात्क्वापि स्थिरतामुपयन्नपि ।। साद-३.२५८ ।।
उन्मादादिर्न तु स्थायी न पात्रे स्यैर्यमेति यत् ।
यथा विक्रमोर्वश्यां चतुर्थे ऽङ्के पुरूरवस उन्मादः ।
रसभावौ तदाभासौ भावस्य प्रशमोदयौ ।। साद-३.२५९ ।।
सन्धिः शबालता चेति सर्वे ऽपि रसनाद्रसाः ।
रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः ।
भावादय उच्यन्ते–
सञ्चारिणः प्रधानानि देवादिविषया रतिः ।। साद-३.२६० ।।
उद्बुद्धमात्रः स्थायी च भाव इत्यभिधयते ।
“न भावहीनो ऽस्ति रसो न भावो रसवजितः ।
परस्परकृता सिद्धिरनयो रसभावयोः” ।।

इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्रधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिवषया च रतिरुद्बुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः ।
तत्र व्यभिचारी यथा– “एवंवादिनि देवर्षौ–ऽित्यादि(१७० पृ.) ।
अत्रावहित्था ।
देवविषया रतिर्यथा मुकुन्दमालायाम्– “दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक ! प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणो ऽपि चिन्तयामि” ।।

मुनिविषया रतिर्यथा– “विलोकनेनैव तवामुना मुने ? कृतः कृतार्थो ऽस्मि निबर्हितांहसा ।
तथापि शुश्रषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन तृप्यते” ।।

राजविषया रतिर्यथा मम– “त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः” ।।

एवमन्यत् ।
उद्बुद्धमात्रस्थायिभावो यथा– “हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि” ।।

अत्र पार्वतीविषया भगवतो रतिः ।
ननूक्तं प्रपाणकरसवद्विभावादीनामेको ऽत्राभासो रस इति ।
तत्र सञ्चारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते–
यथा मरिचखण्डादेरेकीभावे प्रपाणके ।। साद-३.२६१ ।।
उद्रेकः कस्यचित्क्वापि तथा सञ्चारिणो रसे ।
अथ रसाभासभावाभासौ–
अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ।। साद-३.२६२ ।।
अनौचित्यं चात्र रसानां भारतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यम् ।
तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते–
उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च ।
बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ।। साद-३.२६३ ।।
प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्यगादिगते ।
शृङ्गारे ऽनौचित्यं रौद्रे गुर्वादिगतकोपे ।। साद-३.२६४ ।।
शान्ते च हीननिष्ठे, गुर्वाद्यलम्बने हास्ये ।
व्रह्मवधाद्युत्साहे ऽधमपात्रगते तथा वारे ।। साद-३.२६५ ।।
उत्तमपात्रगतत्वे भयानके ज्ञेयमेवन्यत्र ।
तत्र रतेरुपनायकनिष्ठत्वे यथा मम– “स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमः सन्ततिः ।
तन्मे सुन्दर ! मुञ्च, कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः” ।।

बहुनायकनिष्ठत्वे यथा– “कान्तास्त एव भुवनत्रितये ऽपि मन्ये येषां कृते सुतनु ! पाणडुरयं कपोलः” ।
अनुभयनिष्ठत्वे यथा–मालतीमाधवे नन्दनस्य मालत्याम् ।
“पश्चादुभयनिष्ठत्वे ऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्” इति श्रीमल्लोचनकाराः ।
तत्रोदाहरणं यथा–रत्नावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्राग्वत्सराजे रतिः ।
प्रतिनायकनिष्ठत्वे यथा–इयग्रीवव धे हयग्रीवस्य जलक्रीडावर्णने ।
अधमपात्रगतत्वे यथा– “जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमावनि कापि भिल्ली ।
अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्रा” ।।

तिर्यगादिगतत्वे यथा– “मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती ।
चञ्चद्विपञ्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी” ।।

आदिशब्दत्तापसादयः ।
रौद्राभासो यथा– “रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्- मुक्त्वा कर्णमपेतभीर्धृ तधनुर्बाणो हरेः पश्यतः ।
आध्मातः कटुकोक्तिभिः स्वमसकृद्दोविक्रमं कीर्तय- न्नंसास्फोटपटुर्युधिष्ठिरमसौ इन्तुं प्रविष्टोर्ऽजुनः” ।।

भयानकाभासो यथा– “अशक्नुवन् सोढुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः” ।।

स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः ।
एवमन्यत्र ।
भावाभासो लज्जादिके तु वेश्यादिविषये स्यात् ।। साद-३.२६६ ।।
स्पष्टम् ।
भावस्य शान्तावुदये संधिमिश्रितयोः क्रमात् ।
भावस्य शान्तिरुदयः संधिः शबलता मता ।। साद-३.२६७ ।।
क्रमेण यथा– “सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधो ऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्” ।।

अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः ।
“चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते ।
व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता” ।।

अत्र विषादस्योदयः ।
“नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे” ।।

अत्र हर्षविषादयोः संधिः ।
“क्वाकार्यं , शशलक्ष्मणः क्व च कुलं, भूयो ऽपि दृश्यन्ते सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्यो ऽधरं धास्यति” ।।

अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता ।

इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः ।

चतुर्थः परिच्छेदः

अथ काव्यभेदमाह–
काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् ।
तत्र—
वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ।। साद-४.१ ।।
वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यते ऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।
भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।
अविवक्षितवाच्यो ऽन्यो विवक्षितान्यपरवाच्यश्च ।। साद-४.२ ।।
तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः ।
लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् ।
विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् ।
अन्यपरं व्यङ्ग्यनिष्ठम् ।
अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः ।
यथा—प्रदीपो घटस्य ।
अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः ।
अविवक्षितवाच्यस्य भेदावाह–
अर्थन्तरं संक्रमिते वाच्ये ऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्यो ऽपि ध्वनिर्द्वैविध्यमृच्छति ।। साद-४.३ ।।
अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति, तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् ।
यथा—“कदली कदली, करभः करभः, करिराजकरः करिराजकरः ।
भुवत्रितये ऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः” ।।

अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति ।
जाड्याद्यतिशयश्च व्यङ्ग्यः ।
यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।
यथा— निऋश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।
अत्रान्धशब्दो मुख्यार्थे बाधिते ऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः ।
अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वम् ।
यथा— भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ।।

अत्र “भ्रम धार्मिक–” इत्यतो भ्रमणस्य विधिः प्रकृते ऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या ।
यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः ।
यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।
तदुक्तम् — “क्वचिद्वाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु” ।।

अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः ।
अत एवात्राजहत्स्वार्था लक्षणा ।
द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था ।
विवक्षिताभिधेयो ऽपि द्विभेदः प्रथमं मतः ।
असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ।। साद-४.४ ।।
विवक्षितान्यपरवाच्यो ऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।
तत्राद्यो रसभावादिरेक एवात्र गण्यते ।
एको ऽपि भेदो ऽनन्तत्वात् संख्येयस्तस्य नैव यत् ।। साद-४.५ ।।
उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः ।
अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात् क्रमो ऽवश्यमस्ति किन्तूत्पलपत्र्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते ।
एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् ।
तथाहि—एकस्यैव “शृङ्गारस्यैको ऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात् प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषाम् ।
शब्दार्थोभयशक्त्युत्थे व्यङ्क्ये ऽनुस्वानसन्निभे ।
ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ।। साद-४.६ ।।
क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् ।
तत्र—
वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा ।
अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते ।
तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा— पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ।।

अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमो ऽसि तदास्स्वेति वस्तु व्यज्यते ।
अलङ्काररूपो यथा–“दुर्गालङ्घितविग्रहः” इत्यादौ (५९ पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवी-वल्लभ-भानुदेवनाम-नृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।
यथा वा— “अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! ।
अहितः सहितः साधु यशोभिरसतामसि” ।।

अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः ।
व्यङ्ग्यस्यालङ्कार्यत्वे ऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते ।
वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ।। साद-४.७ ।।

कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।
षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ।। साद-४.८ ।।
अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ।
स्वतः सम्भवी औचित्याद् बहिरपि सम्भाव्यमानः ।
प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।
तत्र क्रमेण यथा– दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ।।

अत्र स्वतः सम्भविना वस्तुना तत् प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते ।
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।।

अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापो ऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलो ऽवलोकयामास मातङ्गमिव केसरी ।।

अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।
गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ।।

अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः ।
“सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।
अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे” ।।

अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन् मदनविजृम्भणरूपं वस्तु व्यनक्ति ।
“इजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम्” ।।

अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः ।
“दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः” ।।

अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते ।
“धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।
एको ऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ ।
नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे” ।।

अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठो ऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते ।
“शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः” ।।

अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।
“सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्” ।।

अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते ।
“मल्लिकामुकुले चणिड ! भाति गुञ्जन् मधुव्रतः ।
प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव” ।।

अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते ।
“महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ” ।।

अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणो ऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते ।
न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयवमत्कारकारिणीति पृथक्प्रतिपादिता ।
एषु चालङ्कृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् ।
एकः शब्दार्थशक्त्युत्थे–
अभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः ।
यथा— “हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः” ।।

अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः ।
एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः ।
तदष्टादशधा ध्वनिः ।। साद-४.९ ।।
अविवक्षितवाच्योर्ऽथान्तरसंक्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः ।
संलक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः ।
एषु च–
वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः ।
तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा— “धन्यः स एव तरुणो नयने तस्यैव नयने च ।
युवजनमोहनविद्य भवितेयं यस्य संमुखे सुमुखई” ।।

अत्र द्वितीयनयनशब्दो भग्यवत्तादिगुणविशिष्टनयनपरः ।
वाक्यगतो यथा— “त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्” ।।

अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्धे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं तक्षयति ।
एवं वच्मीत्यनेनैव कर्तरि लब्धे ऽस्मीति पुनर्वचनम् ।
तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्धे पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थं लक्षयति ।
एतानि च स्वातिशयं व्यञ्जयन्ति ।
एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः ।
तदेवमयं वाक्यगतो ऽपर्थान्तरसंक्रमितवाच्यो ध्वनिः ।
अत्यन्ततिरस्कृतवाच्यः पदगतो यथा—“निःश्वासान्ध-” इत्यादि ।
वाक्यवतो यथा-“उपकृतं बहु तत्र-” इत्यादि ।
अन्येषां वाक्यागतत्वे उदाहृतम् ।
पदगतत्वं यथा– “लावण्यं तदसौ कान्तिस्तद्रूपं स वचः क्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान्” ।।

अत्र लावण्यादीनां तादृगनुभवैकगौचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः ।
तदुक्तं ध्वनिकृता— “एकावयवसंस्थेन भूषणोनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिना भाति भारती” ।।

एवं भावादिष्वप्यूह्यम् ।
“भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः” ।।

अत्र सदागमशब्दः सन्नहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति ।
ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् ।
रहस्यस्य सङ्गोपनार्थमेव हि द्व्यर्थपदप्रतिपादनम् ।
प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् ।
“अनन्यसाधारणधीर्धृताखिलवसुन्धरः ।
राजते को ऽपि जगति स राजा पुरुषोत्तमः” ।।

अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्युपमाध्वनिः ।
अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ ।
सायं स्नानमुपासितं मलयजेनाङ्ग समालेपितं यातो ऽस्ताचलमौलिमम्बरमणिविस्त्रब्धमत्रागतिः ।
आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम्” ।।

अत्र स्वतः संभविना वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु व्यज्यते ।
तच्चाधुना क्लान्तासि, न तु पूर्वं कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतो ऽधुना पदस्यैवेतरपदार्थोत्कर्षादस्यैव पदान्तरापेक्षया वैशिष्ट्यम् ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ।
तच्चिन्ताविपुलाङ्लादक्षीणपुण्यचया तथा ।।

चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका” ।।

(युग्मकम्) अत्राशेषचयपदप्रभावादनेकजन्मसहस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितातया भगवद्विरहदुःखचिन्ताह्लादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या ।
अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतः संभविता ।
“पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् ।
देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि” ।।

इदं मम ।
अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न के ऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारो ऽसंख्यपदद्योत्यः ।
एवमन्येष्वप्यर्थशक्तिपूलसंलक्ष्यक्रमभेदेषूदाहार्यम् ।
तदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः ।
अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्भेदाः ।
प्रबन्धे ऽपि मतो धीरैरर्थशक्त्युद्भ्वो ध्वनिः ।। साद-४.१० ।।
प्रबन्धे महावाक्ये ।
अनन्तरोक्तद्वादशभेदोर्ऽथशक्त्युत्थः ।
यथा महाभारते गृध्रगोमायुसंवादे— “अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले ।
कङ्कालबहते घोरे सर्वप्राणिभयङ्करे ।।

न चेह जीवितःकश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशई” ।।

इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् ।
“आदित्यो ऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन ।।

अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः” ।।

इति निशि समर्थस्य गोमायोर्दिवसे परित्यागो ऽनभिलषित इति वाक्यसमहेन द्योत्यते ।
अत्र स्वतः संभवी व्यञ्जकः ।
एवमन्येष्वेकादशभेदेषूदाहार्यम् ।
एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम् ।
लक्ष्यार्थस्य यथा—“निःशेषच्युतचन्दनम्–” इत्यादि (पृदृ ६२) ।
व्यङ्ग्यार्थस्ययथा–“उअ णिच्चल-” इत्यादि (पृदृ ६३) ।
अनयोः स्वतः संभविनोर्लक्ष्यव्यङ्ग्यार्थौ यञ्जकौ ।
एवमन्येष्वेकादशभेदेषूदाहार्यम् ।
पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः ।
असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः ।।

यथा— “चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती” ।।

अत्र “हताः” इति न पुनः “दुःखं प्राप्तवन्तः” इति हन्प्रकृतेः ।
“मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु” ।।

अत्र “तु” इति निपातस्यानुतापव्यञ्जकत्वम् ।
“न्यक्कारो ह्ययमेव मे यदरः–” इत्यादौ (८ पृ.) “अरयः” इति बहुवचनस्य, “तापसः” इत्येकवचनस्य, “अत्रैव” इति सर्वनाम्नः, “निहन्ति” इति “जीवति इति च तिङः, “अहो” इत्यव्ययस्य, “ग्रामटिका” इति करूपतद्धितस्य, “विलुण्ठन” इति व्युपसर्गस्य, “भुजैः” इति बहुवचनस्य व्यञ्जकत्वम् ।
“आहारे विरतिः, समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः . मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तद्ब्रूयाः सखि ! योगिनी किमसि, भोः !किं वा वियोगिन्यसि” ।।

अत्र तु “आहारे इति विषयसप्तम्याः, “समस्त” इति “परा” इति च विशेषणद्वयस्य, “मौनं चेदम्” इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, आभाति” इत्युपसर्गस्य “सखि” इति प्रणयस्मारणस्य “असि भोः” इति सोत्प्रासस्य “किं वा” इत्युत्तरक्षदार्ढ्यसूचकस्य वाशब्दस्य, “असि” इति वर्त्तमानोपदेशस्य च तत्तद्विषयव्यञ्जकत्वं सहृदयसवेद्यम् ।
वर्णरचनयोरुदाहरिष्यते ।
प्रबन्धे यथा–महाभारते शान्तः ।
रामायणो करुणः ।
मालतीमाधवरत्नावल्यादौ शृङ्गारः ।
एवमन्यत्र ।
तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ।। साद-४.११ ।।

सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसायकाः (५३५५) ।। साद-४.१२ ।।
शुद्धैः शुद्धभेदैरेकपञ्चाशता योजनेनेत्यर्थः ।
दिङ्मात्रं दूदाह्रियते— “अत्युन्नतस्तयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
सा पूर्णकुम्भनवनीरजतोरणस्त्रक्संभारमङ्गलमयत्नकृतं विधत्ते” ।।

अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्त्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।
“धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि ।
निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणान् इ” ।।

अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः ।
अथ गुणीभूतव्यङ्ग्यम्— अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।
अपरं काव्यम् ।
अनुत्तमत्वं न्यूनतया साम्येन च संभवति ।
तत्र स्यादितराङ्गकाक्वाक्षिप्तं च वाच्यसिद्ध्य्ङ्गम् ।। साद-४.१३ ।।
संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् ।
व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ।। साद-४.१४ ।।
इतरस्य रसादेरङ्गरसादिव्यङ्ग्यम् ।
यथा–“अयं सरसनोत्कर्षो पीनस्तनविमर्दनः ।
नाभ्यूजघनस्पर्शो नीवीविस्त्रंसनः करः” ।।

अत्र शृङ्गारः करुणस्याङ्गम् ।
“मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वसैन्यसागररवोद्रतकर्णतापः ।
हा !हा! कथं नु भवतो रिपुराजधानीप्रासादसंततिषु तिष्ठति कामिलोकः ।।

अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः ।
“जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मायाप्तं रामत्वं कुशलवसुता न त्वधिगता” ।।

अत्र रामत्वं प्राप्तमित्यवचने ऽपि शब्दशक्तेरेव रामत्वमवगम्यते ।
वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् ।
तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्कतां नीतम् ।
काक्वाक्षिप्तं यथा— “मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्युतरस्तः ।
संचूर्णयामि गदया न सुयोधनोरूं सन्धि करोतु भवतां नृपतिः पणेन” ।।

अत्र मथ्नाम्येवेत्यादिव्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् ।
“दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः ।
प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः” ।।

अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दावानलत्वारोपसिद्ध्यङ्गम् ।
“हरस्तु किंचित्परिवृत्तधैर्यः–” इत्यादौ ((२२.पृ दृ) विलोचनव्यपारलाषयोः प्राधान्ये संदेहः ।
ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्नयश्च वो मित्त्रमन्यथा दुर्मनायते” ।।

अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समंप्राधान्यम् ।
“सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अल्लावदीननृपतौ न सन्धिर्न च विग्रहः” ।।

अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि भ्क्तटित्यस्फुटम् ।
“अनेन लोकगुरुणा सतां धर्मोपदेशिना ।
अहं व्रतवती स्वैरमुक्तेन किमतः परम्” ।।

अत्र प्रतीयमानो ऽपि शाक्यमुनेस्तिर्यग्योषिति बालात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् ।
“वाणीरकुडङ्गुड्डीणसौणिकोलाहणं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति आङ्गाइं” ।।

अत्र दत्तसंकेतः जश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात् “सीदन्त्यङ्गनि” इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ।
किञ्च यो दीपकतुल्ययोगितादिषूपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव ।
काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् ।
तदुक्तं ध्वनिकृता– “अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः” ।।

यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः ।
यथा— “दृष्ट्या केशव ! गोपरागहृतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्- गोप्येवं गदितः सलेशमवताद्रोष्ठे हरिर्वश्चिरम्” ।।

अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयावभासः ।
सलेशमिति पदस्य परित्यागे ध्वनिरेव ।
किञ्च ।
यत्र वस्त्वलङ्कारसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावस्तत्र प्रधानकृत एव काव्यव्यवहारः ।
तदुक्तं तेनैव— “प्रकारो ऽयं गुणीभूतव्यह्ग्यो ऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः” ।।

इति ।
यत्र तु—“यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयखः ।
संध्याभ्रमं प्राप्नुताकाण्डे ऽप्यनङ्गने पथ्यविधिं विधत्ते” ।।

इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वे ऽपि तैरेव गुणीभूतैः काव्यव्यवहारः ।
तदुक्तमस्मद्गोत्रकविपणिडतमुख्यश्रीचण्डीदासपादैः-वाक्या (काव्यार्)थस्याखण्डबुद्धिवेद्यतया तन्मयीभावेनास्वाददशायं गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यवदेशंव्याहन्तुमीशः, तस्यास्वादमात्रयत्तत्वात्” इति ।
केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति ।
तदाहुः— “शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” ।
इति ।
तन्न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवाक्तम् ।
ईषद्व्यङ्ग्यत्वमिति चेत् , किं नामेषद्व्यङ्ग्यत्वम् ? आस्वाद्यव्यङ्ग्यत्वम्, अनास्वाद्यव्यङ्ग्यत्वं वा ? आद्ये प्राचीनभेदयोरेवान्तः पातः ।
द्वितीये त्वकाव्यत्वम् ।
यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् ।
तदुक्तं ध्वनिकृता— “प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
उभे काव्ये ततो ऽन्यद्यत्तच्चित्रमभिधीयते” ।।

इति ।
इति साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः ।

पञ्चमः परिच्छेदः

अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते—
वृत्तीनां विश्रान्तेरभिधातत्पर्यलक्षणाख्यानाम् ।
अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम् ।। साद-५.१ ।।
अभिधायाः संकेतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्ग्यबोधने क्षमत्वम् ।
न च संकेतितो रसादिः ।
नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात् ।
यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः ।
क्वचिच्च “शृङ्गाररसो ऽयम्” इत्यादौ स्वशब्देनाभिधाने ऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् ।
अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्भर्बोधनी ।
यच्च केचिदाहुः—“सो ऽयमिषोरिव दीर्घदीर्घतरो ऽभिधाव्यापरः” इति ।
यच्चधनिकेनोक्तम्— “तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः ।
यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम्” ।।

इति ।
तयोरुपरि “शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः” इति वादिभिरेव पातनीयो दण्डः ।
एवं च किमिति लक्षणापुयपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः ।
किमिति च “ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणी” इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् ।
यत्पुनरूक्तं “पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वे ऽनुपादेयत्वादुन्मत्तवाक्यवत् ।
ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशयमुखास्वाद एव कार्यत्वेनावधार्यते ।
“यत्परः शब्दः स शब्दार्थः” इति न्यायात्” इति ।
तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तद्वोधकत्वं वा ? आद्ये न विवादः, व्यङ्ग्यत्वे ऽपि तदर्थतानपायात् ।
द्वितीये तु–केयं तात्पर्याख्या वृत्तिः, अभिहितान्वयवादिभिरङ्गीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरम् ।
द्वितीये तु—नाममात्रे विवादः, तन्मते ऽपि तुरीयवृत्तिसिद्धेः ।
नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनम्-इति चेत् ? न, तयोर्हेतुफलभावाङ्गीकारात् ।
यदाह मुनिः–“विभावानुभावव्यभिचारिसंयोगद्रसनिष्पत्तिः” इति ।
सहभावे च कुतः सव्येतरविषाणयोरवि कार्यकारणभावः ? पौर्वापर्यविपर्ययात् ।
“गङ्गायां घोषः” इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता ।
तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादमेतत् ।
किंच—
बोद्धृस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानाम् ।
आश्रयविषयादीनां भेदाद्भिन्नो ऽभिधेयतो व्यङ्ग्यः ।। साद-५.२ ।।
वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुणैर्वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः ।
“भम धम्मिअ–” (२४२ पृ.) इत्यादौ क्वचिद्वाच्ये विधिरूपे निषधरूपतया, क्वचित् “निः शेषच्युतचन्दनम्-” (६२ पृ.) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः ।
“गतो ऽस्तकर्कः” इत्यादौ च वाच्योर्ऽथ एक एव प्रतीयते ।
व्यङ्ग्यस्तु तद्वोद्ध्रादिभेतात् क्वचित् “कान्तमभिसर” इति, “गावो निरुध्यन्ताम्” इति, “नायकस्यायमागमनावसरः” इति, “संतापो ऽधुना नास्ति” इत्यादिरूपेणानेक इति संख्याभेदः ।
वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः ।
प्रतीतिमात्रकरणाच्चमत्कारकरणाच्च कार्यभेदः ।
केवलरूपतया चमत्कारितया च प्रतीतिभेदः ।
पूर्वपश्चाद्भावेन च कालभेदः ।
शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः ।
“कस्स व ण होइ रोसो दट्ठूणपिआएं सव्वणं अहरं ।
सब्भमरपडमग्घाइणि वारिअवामे सहसु एङ्णिं” ।।

इति सखीतत्कान्तविषयत्वेन विषयभेदः ।
तस्मान्नाभिधेय एव व्यङ्ग्यः ।
तथा—
प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे ।
किञ्चि मुख्यार्थबाधस्य विरहादपि लक्षणा ।। साद-५.३ ।।
“न बोधिका” इति शेषः ।
नहि को ऽपि रसनात्मकव्यापारद्भिन्नो रसादिपदप्रतिपाद्यः प्रमाणसिद्धो ऽस्ति, यमिमे लक्षणाभिधे बोधयेताम् ।
किंञ्च, यत्र”गङ्गायां घोषः” इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयो ऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।
यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यैः— “श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ।
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः” ।।

न पुनः “शून्यं वासगृहम्–” इत्यादौ (२२ पृ.) मुखायाथबाधः ।
यदि च “गङ्गायां घोषः” इत्यादौ प्रयोजनं लक्ष्यं स्यात्, तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् ।
तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरमित्यनवस्थापातः ।
न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा ।
विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् ।
नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा संभवः ।
नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् ।
आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ।। साद-५.४ ।।
व्यक्तिविवेककारेण हि–“यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति ।
विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते” ।
ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति ।
त एव प्रतीयमाना आस्वादपदवी गताः सन्तो लसा उच्यन्ते, इत्यवश्यंभावी तत्प्रतीतिक्रमः केवलमाशुभावितयासौ न लक्ष्यते, यतो ऽयमद्याप्यभिव्यक्तिक्रमः” इति यदुक्तम् ।
तत्र प्रष्टव्यम्–किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनयाभावकैर्भाव्यमानः स्वप्रकाशानन्दो वा ।
आद्ये न विवादः, किन्तु “रामादिगतरगादिज्ञानं रससंज्ञया नोच्यते ऽस्माभिः” इत्येव विशेषः ।
द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव ।
यच्चोक्तं तेनैव— “यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः” इति सुग्रहैव व्याप्तिः पक्षधर्मता च ।
तया– “यार्ऽथान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् ।
सैवानुमितिपक्षे नो गमकत्वेन संमता” ।।

इति ।
इदमपि नो न विरुद्धम् ।
न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनास्माकमभिमता किन्तु–स्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः ।
तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतोराभासता ।
यच्च “मम धम्मिअ–” इत्यादौ (२४२ पृ.) प्रतीयमानं वस्तु ।
“जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः ।
जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः” ।।

इत्यादौ च रूपकालङ्कारादयो ऽनुमेया एव ।
तथाहि—“अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविक्षव्यावृत्तत्वविशिष्टाल्लिङ्गल्लिङ्गिनो ज्ञानम् ।
ततश्च वाच्यादसंबद्धोर्ऽथंस्तावन्न प्रतीयते ।
अन्यथातिप्रसङ्गः स्यात्, इति बोध्यबोधकयोरर्थयोः कश्चित्संबन्धो ऽस्त्येव ।
ततश्च बोधकोर्ऽथो लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव ।
सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्योदवसेये ।
तस्मादत्र यद्वाच्यार्थाल्लिङ्गरूपाल्लिङ्गिनो व्यङ्ग्यार्थस्यावगमस्तदनुमान एव पर्यवस्यति” इति ।
तन्न, तथा ह्यत्र “भम अम्मिअ-” इत्यादौ (२४२ पृदृ) गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति” इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः ।
भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य संभवात्, पुश्चल्या वचनं प्रामाणिकं न वेति संदिग्धासिद्धश्च ।
“जलकेलि-” इत्यत्र “य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटसंघटनकारी स चन्द्र एव” इत्यनुमितिरेवेयमिति न वाच्यम्, उत्त्रासकादावनैकान्तिकत्वात् ।
“एवंविधोर्ऽथ एवंविधार्थबोधक एवंविधार्थत्वात्, यन्नैवं तन्नैवम्” इत्यनुमाने ऽप्याभाससमानयोगक्षेमो हेतुः ।
“एवंविधार्थत्वात्” इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः ।
तथा “दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे-” इत्यादौ (२५० पृदृ) नलग्रन्थीनां तनूल्लिखनम्, एकाकितया च स्त्रोतोगमनम्, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते॑ तच्चात्रैवाभिहितेन स्वकान्तस्नेहेनापि संभवतीत्यनैकान्तिको हेतुः ।
यच्च “निःशेषच्युतचन्दनम्–” इत्यादौ ( ६२ पृ.) दूत्यास्तत्कामुकोपभोगो ऽनुमीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसंनिहितैर्वान्यैः, तत्काव्यार्थभावनया वा सहृदयैः ।
आद्ययोर्न विवादः ।
तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः ।
ननु वक्त्राद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् ।
एवंविधव्याप्त्यनुसंधानस्याभावात् ।
किञ्चैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानावश्यकत्वेन संदिग्धासिद्धत्वं हेतोः ।
व्यक्तिवादिना चाधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम्, तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् ।
एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तम् ।
अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः ।
यथा”यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः” इत्यादि ।
किञ्चि—वस्त्रविक्रयादौ तर्जनीतोलनेन दशसंख्यादिवत्सूचनबुद्धिवेद्यो ऽप्ययं न भवति, सूचनबुद्धेरपि सङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताङ्गीकारात् ।
यच्च “संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः” इते केचित् ।
तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता ।
“दुर्गालङ्घित-” इत्यादौ (५९ पृ.) च द्वितायार्थो नास्त्येव—इति यदुक्तं महिमभटटेन तदनुभवसिद्धिमपलपतो गजनिमीलिकैव ।
तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् ।
इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् ।
तत्किंनामिकेयं वृत्तिरित्युच्यते—
सा चेयं व्यञ्जनानाम वृत्तिरित्युच्यते बुधैः ।
रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः ।। साद-५.५ ।।
एतच्च विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातम् ।
इति सहित्यर्पणो व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः ।

षष्ठः परिच्छेदः

एवं ध्वनिगुणीभूतव्यङ्ग्यत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्यत्वेन भेदद्वयमाह–
दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् ।
दृश्यं तत्राभिनेयं–
तस्यरूपकसंज्ञाहेतुमाह–
तद्रूपारोपात्तुरूपकम् ।। साद-६.१ ।।
तद्दृश्यं काव्यं नटे रामादिस्वरूपारोपाद्रूपकमित्युच्यते ।
को ऽसावभिनाय इत्याह–
भवेदभिनयो ऽवस्थानुकारः स चतुर्विधः ।
आङ्गिको वाचिकश्चैवमाहार्यः सात्त्विकस्तथा ।। साद-६.२ ।।
नटैरङ्गादिभी रामयुधिष्ठिरादीनामवस्थानुकरणमभिनयः ।
रुपकस्य भेदानाह–
नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ।। साद-६.३ ।।
किञ्च—
नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।
प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ।। साद-६.४ ।।
संलापकं श्रीगदितं शिल्पकं च विलासिका ।
दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ।। साद-६.५ ।।
अष्टादश प्राहुरुपरूपकाणि मनीषिणः ।
विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ।। साद-६.६ ।।
सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणां च ।
तत्र—
नाटकं ख्यातवृत्तं स्यात् पञ्चसंधिसमन्वितम् ।
विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभैः ।। साद-६.७ ।।
सुखदुःखसमुद्भूति नानारसनिरन्तरम् ।
पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः ।। साद-६.८ ।।
प्रख्यातवंशो राजर्षिर्धोरोदात्तः प्रतापवान् ।
दिव्यो ऽथ दिव्यादिव्यो वा गुणावान्नायको मतः ।। साद-६.९ ।।
एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।
अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणो ऽद्भुतः ।। साद-६.१० ।।
चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः ।
गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ।। साद-६.११ ।।
ख्यातं रामायणादिप्रसिद्धं वृत्तम् ।
यथा–रामचरितादि ।
सन्धयो वक्ष्यन्ते ।
नानाविभूतिभिर्युक्तमिति महासहायम् ।
सुखदुःखसमुद्भूतत्वं रामयुधिष्ठिरादिवृत्तान्तेष्वभिक्तम् ।
राजर्षयो दुष्यन्तादयः ।
दिव्याः श्रीकृष्णादयः ।
दिव्या दिव्यः, यो दिव्यो ऽप्यात्मनिनराभिमानी ।
यथा श्रीरामचन्द्रः ।
गोपुच्छग्रसमाग्रमिति “क्रमेणाङ्काः सूक्ष्माः कर्तव्याः” इति केचित् ।
अन्ये त्वाहुः–“यथा गोपुच्छे केचिद्वाला ह्रस्वाः केचिद्दीर्घास्तथेह कानिचित्कार्याणि मुखसंधो समाप्तानि कानिचित्प्रतिमुखे ।
एवमन्येष्वपि कानिचित्कानिचित्” इति ।
प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः ।
भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः ।। साद-६.१२ ।।
विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्नबिन्दुकः ।
युक्तो न बहुभिः कार्यैर्बोजसंहृतिमान्न च ।। साद-६.१३ ।।
नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् ।
आवश्यकानां कार्याणामविरोधाद्विनिमितः ।। साद-६.१४ ।।
नानेकदिननिर्वर्त्यकथया संप्रयोजितः ।
आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ।। साद-६.१५ ।।
दूराह्वानं वधो युद्धं राज्यदेशादिविप्लवः ।
विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ।। साद-६.१६ ।।
दन्तच्छेद्यं नखच्छेद्यमन्यद्व्रीडाकरं च यत् ।
शयनाधरपानादि नगराद्यवरोधनम् ।। साद-६.१७ ।।
स्नानानुलेपने चैभिर्वर्जितो नास्तिविस्तरः ।
देवीपरिजनादीनाममात्यवणिजमपि ।। साद-६.१८ ।।
प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः ।
अन्तनिष्क्रान्तनिखिलपात्रो ऽङ्क इति कीर्त्तितः ।। साद-६.१९ ।।
बिन्द्वादयो वक्ष्यन्ते ।
आवश्यकं संध्यावन्दनाहि ।
अङ्कप्रस्तावाद्गर्भाङ्कमाह-
अङ्कोदरप्रविष्टो यो रङ्ग द्वारामुखादिमान् ।
अङ्को ऽपरः स गर्भाङ्कः सबीजः फलवानपि ।। साद-६.२० ।।
यथा बालरामायणो रावणं प्रति कोहलः— “श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः ।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम्” ।।

इत्यादिना विरचितः सीतास्वयंवरो नाम गर्भाङ्कः ।
तत्र पूर्वं पूर्वरङ्गः सभापूजा ततः परम् ।
कथनं कविसंज्ञादेर्नाटकस्याप्यथामुखम् ।। साद-६.२१ ।।
तत्रेति नाटके ।
यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ।। साद-६.२२ ।।
प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि ।
तथाप्यवश्यं कर्तव्या नान्दी विन्घोपशान्तये ।। साद-६.२३ ।।
तस्याः स्वरूपमाह–
आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते ।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ।। साद-६.२४ ।।
माङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी ।
पदैर्युक्तादूदशभिरष्टाभिर्वा पदैरुत ।। साद-६.२५ ।।
अष्टपदा यथा अनर्घराघवे–“निष्प्रत्यूहम” इत्यादि ।
द्वादशपदा यथा मम तातपादानां पुष्पमालायाम्— शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री ।
अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतो ऽस्तु भूतिहेतुः ।।

एवमन्यत्र ।
एतन्नान्दीति कस्यचिन्मतानुसारेणोक्तम् ।
वस्तुतस्तु “पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गम्” इत्यन्ये ।
यदुक्तम्— “यस्मादभिनयो ह्यत्र प्राथम्यादवतार्यते ।
रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम्” ।।

इति ।
उक्तप्रकारायाश्च नान्द्या रङ्गद्वारात्प्रथमं नटैरेव कर्तव्यतया न महर्षिणा निर्देशः कृतः ।
कालिदासादिमहाकविप्रबन्धेषु च— वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ।।

एवमादिषु नान्दीलक्षणायोगात् ।
उक्तं च—“रङ्गद्वारमारभ्य कविः कुर्यात्-ऽित्यादि ।
अत एव प्राक्तनपुस्तकेषु “नान्द्यन्ते सूत्रधारः” इत्यनन्तरमेव “वेदान्तेषु-” इत्यादि श्लोकले(लि) खनं दृश्यते ।
यच्च पश्चात् “नान्द्यन्ते सूत्रधारः” इति ले (लि) खनं तस्यायमभिप्रायः—नान्द्यन्ते सूत्रधार इदं प्रयोजितवान्, इतः प्रभृति मया नाटकमुपादीयत इति कवेरभिप्रायः सूचित” इति ।
पूर्वरङ्गं विधायैव सूत्रधारा निवर्तते ।
प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः ।। साद-६.२६ ।।
दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।
सूचयैद्वस्तु बीजं वा मुखं पात्रमथापि वा ।। साद-६.२७ ।।
काव्यार्थस्य स्थापनात्स्थापकः ।
तद्वदिति सूत्रधारसदृशगुणाकारः ।
इदानीं पूर्वरङ्गस्य सम्यक्प्रयोगाभावादेक एव सूत्रधारः सर्वं प्रयोजयतीति व्यवहारः ।
स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यं मर्त्यो भूत्वा, मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् ।
वस्तु इतिवृत्तम्, यथोदात्तराघवे— रामो मूध्नि निधाय काननमगान्मालामिवाज्ञां गुरो- स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्भ्क्तितम् ।
तौ सुग्रीवविभीषणावनुगतौ नीतौ परामुन्नतिं प्रोत्सिक्ता दशकंधारप्रभृतयो ध्वस्ताः समस्ता द्विषः ।।

बीजं यथा रत्नावल्याम्— द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशो ऽप्यन्तात् ।
आनीय भ्क्तटिति घटयति विधिरभिमतमभिमुखीभूतः ।।

अत्र हि समुद्रे प्रवहणभङ्गमग्नोत्थिताया रत्नावल्या अनुकूलदैवलालितो वत्सराजगृहप्रवेशो यौगन्धरायणव्यापारमारभ्य रत्नावली प्राप्तौ बीजम् ।
मुखं श्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वाग्विशेषः ।
यथा— आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तिः ।
उत्खाया गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ।।

पात्रं यथा शाकुन्तले — तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ।।
रङ्गं प्रसाद्य मधुरैः शलोकैः काव्यार्थसूचकैः ।
रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत् ।। साद-६.२८ ।।
ऋतुं च कञ्चित्प्रायेण भारती वृत्तिमाश्रितः ।
स स्थापकः ।
प्रायेणोति क्वचिदृतोरकीतनमपि ।
यथा–रत्नावल्याम् ।
भारतीवृत्तिस्तु—
भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ।। साद-६.२९ ।।
संस्कृतबहुलो वाक्प्रधानो व्यापारो भारती ।
तस्याः प्ररोचना वीथी तथा प्रहसनामुखे ।
अङ्गान्यत्रोन्मुखीकारः प्रशंसातः प्ररोचना ।। साद-६.३० ।।
प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्युन्मुखीकरणं प्ररोचना ।
यथा रत्नावल्याम्— श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्साराजचरितं नाट्ये च दक्षा वयम् ।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्- मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ।।

वीथीप्रहसने वक्ष्येते ।
नटी विदूषको वापि पारिपाशिवक एव वा ।
सूत्रधारेण सहिताः सलापं यत्र कुर्वते ।। साद-६.३१ ।।
चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ।
आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ।। साद-६.३२ ।।
सूत्रधारसदृशत्वात् स्थापको ऽपि सूत्रधार उच्यते ।
तस्यानुचरः पारिपाश्विकः, तस्मात्किञ्चिदूनो नटः ।
उद्धात्य(त)कः कथोद्धातः प्रयोगातिशयस्तथा ।
प्रवर्तकावलगिते पञ्च प्रस्तावनाभिदाः ।। साद-६.३३ ।।
तत्र—
पदानि त्वगतार्थानि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैः स उद्धात्य (त) क उत्यते ।। साद-६.३४ ।।
यथा मुद्राराक्षसे सूत्रधारः— “क्रूरग्रहः सकेतुश्चन्द्रमसम्पूर्णमण्डलमिदानीम् ।
अभिभवितुमिच्छति बालत्–” इत्यनन्तरम्—“(नेपथ्ये ।
) आः, क एष मयि जीवति चन्द्रगुप्तमभि- भवितुमिच्छति” ।
इति ।
अत्रान्यार्थन्त्यपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्रप्रवेशः ।
सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा ।
भवेत्पात्रप्रवेशश्चेत्कथोद्धातः स उच्यते ।। साद-६.३५ ।।
वाक्यं यथा रत्नावल्याम्–“द्वीपादन्यस्मादपि–ऽित्यादि (३३२ पृ दृ) सूत्रधारेण पठिते–“(नेपथ्ये) साधु भरतपुत्र! साधु ।
एवमेतत् ।
कः सन्देहः ? द्वीपादन्यस्मादपि–” इत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः ।
वाक्यार्थो यथा वेण्याम्– निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ।।

इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा–“(नेपथ्ये) आः दुरात्मन् ! वृथा मङ्गलपाठक !, कथं स्वस्था भवन्तु मयि जीवति धार्तराष्टाः ?” ततः सूत्रधारनिष्क्रान्तौ भीमसेनस्य प्रवेशः ।
यदि प्रयोग एकस्मिन् प्रयोगो ऽन्यः प्रयुज्यते ।
तेन पात्रप्रवेशश्चेत्प्रयोगातिशयस्तदा ।। साद-६.३६ ।।
यथा कुन्दमालायाम्—“(नेपथ्ये) इत इतो ऽवतरत्वार्या ।
सूत्रधारः—को ऽयं खल्वार्याह्वानेन साहायकमपि मे सम्पादयति ।
(विलोक्य) कष्टमतिकरुणं वर्तते ।
“लङ्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन ।
निर्वासितां जनपदादपि गर्भगुर्वों सीतां वनाय परिकर्षति लक्ष्मणो ऽयम्” ।।

अत्र नृत्यप्रयोगार्थं स्वभार्याह्वानमिच्छता सूत्रधारेण “सीतां वनाय परिकर्षति लक्ष्मणो ऽयम्” इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः ।
कालं प्रवृत्तमाश्रित्य सूत्रधुग्यत्र वर्णयेत् ।
तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् ।। साद-६.३७ ।।
यथा—“आसादितप्रकट–” इत्यादि (३३२ पृ दृ) ।
“ततः प्रविशति यथानिदिष्टो रामः” ।
यत्रैकश्च समावेशात्कार्यमन्यत्प्रसाध्यते ।
प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ।। साद-६.३८ ।।
यथा शाकुन्तले–सूत्रधारो नटीं प्रति ।
“तवास्मि गीतरागेण-” (३३३ पृ दृ) इत्यादि ।
ततो राज्ञः प्रवेशः ।
योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि ।
अत्र आमुखे ।
उद्धात्य (त) कावलगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि ।
नखकुट्टस्तु—
नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनं तथा ।। साद-६.३९ ।।
समाश्रित्यापि कर्तव्यमामुखं नाटकादिषु ।
एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत् ।। साद-६.४० ।।
तेनार्थमथ पात्रं वा समाक्षिप्यवै सूत्रधृक ।
प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रयोजयेत् ।। साद-६.४१ ।।
वस्त्वितिवृत्तम् ।
इदं पुनर्वस्तु बुधौर्द्विविधं परिकल्प्यते ।
आधिकारिकमेकं स्यात्प्रासङ्गिकमथापरम् ।। साद-६.४२ ।।
अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः ।
तस्येतिवृत्तं कविभिराधिकारिकमुच्यते ।। साद-६.४३ ।।
फले प्रधानफले ।
यथा बालरामायणो रामचरितम् ।
अस्योपकरणार्थं तु प्रासङ्गिकमितीष्यते ।
अस्याधिकारिकेतिवृत्तस्य उपकरणनिमित्तं यच्चरितं तत्प्रासङ्गिकम् ।
यथा सुग्रीवादिचरितम् ।
पताकास्थानकं योज्यं सुविचार्येह वस्तुनि ।। साद-६.४४ ।।
इह नाट्ये ।
यत्रार्थे चिन्तिते ऽन्यस्मिंस्तल्लिङ्गो ऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताकास्थानकं तु तत् ।। साद-६.४५ ।।
तद्रेदानाह–सहसैवार्थसंपत्तिर्गुणावत्युपचारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम् ।। साद-६.४६ ।।
यथा रत्नावल्याम्–“वासवदत्तेयम्” इति राजा यदा तत्कण्ठपाशं मोचयति तदा तदुक्त्या “सागरिकेयम्” इति प्रत्यभिज्ञाय “कथं ? प्रिया मे सागरिका ? अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ! विमुञ्च त्वं लतापाशमेतम् ।
चलितमपि निरोद्धुं जीवितं जीवितेशे ! क्षणमिह मम कण्ठे बाहुपाशं निधेहि” ।।

अत्र फलरूपार्थसंपत्तिः पूर्वापेक्षयोपचारातिशयाद्गुणवत्युत्कृष्ट ।
वचः सातिशयं श्लिष्टं नानाबन्धसमाश्रयम् ।
पताकास्थानकमिदं द्वितीयं परिकीर्त्तितम् ।। साद-६.४७ ।।
यथा वेण्याम्— “रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः” ।
अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनान्नेतृमङ्गलप्रतिपत्तौ सत्यां द्वितायं पताकास्थानम् ।
अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ।। साद-६.४८ ।।
लीनमव्यक्तार्थम्, श्लिष्टेन सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोतपेतम्, सविनयं विशेषनिश्चयप्राप्त्या सहितं संपाद्यते यत्तत्तृतीयं पताकास्थानम् ।
यथा वेण्यां द्वितीये ऽङ्के “कञ्चुकी-देव ! भग्नं भग्नम् ।
राजा–केन ? कञ्चुकी–भीमेन ।
राजा–कस्य ? कञ्चुकी–भवतः ।
राजा–आः ! किं प्रलपसि ? कञ्चुकी–(सभयम्) देव ! ननु ब्रवीमि ।
भग्नं भीमेन भवतः ।
राजा-धिग् वृद्धापसद ! को ऽयमद्य ते व्यामोहः ? कञ्चुकी-देव ! न व्यामोहः ।
सत्यमेव– “भग्नं भीमेन भवतो मरुता रथकेतनम् ।
पतितिं किङ्गिणीक्वाणबद्धाक्रन्दमिव क्षितौ” ।।

अत्र दुर्योधनोरुभङ्गरूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणम् ।
द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
प्रधानार्थान्तराक्षेपि पताकास्थानकं परम् ।। साद-६.४९ ।।
यथा रत्नावल्याम्— “उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा- दायासं श्वसनोद्रमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्” ।।

अत्र भाव्यर्थः सूचितः ।
एतानि चत्वारि पताकास्थानानि क्वचिन्मङ्गलार्थं क्वचिदमङ्गलार्थं सर्वसन्धिषु भवन्ति ।
काव्यकर्तुरिच्छावशाद्भूयो भूयो ऽपि भवन्ति ।
यत्पुनः केनचिदुक्तम्–“मुखसन्धिमारभ्य सन्धिचतुष्टये क्रमेण भवन्ति” इति ।
तदन्ये न मन्यन्ते, एषामत्यन्तमुपादेयानामनियमेन सर्वत्रापि सर्वेषामपि भवितुं युक्तत्वात् ।
यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।। साद-६.५० ।।
अनुचितमितिवृत्तं यथा–रामस्यच्छद्मना बालिवधः ।
तच्चोदात्तराघवे नोनोक्तमेव ।
वीरचरिते तु वाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः ।
अङ्केष्वदर्शनीया या वक्तव्यैव च संमता ।
या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा ।। साद-६.५१ ।।
अन्या च विस्तरा सूच्या सार्थोपक्षोपकैर्बुधैः ।
अङ्केषु अदर्शनीया कथा युद्धादिकथा ।
वर्षाढूर्ध्वं तु यद्वस्तु तत्स्याद्वर्षादधोभवम् ।। साद-६.५२ ।।
उक्तं हि मुनिना– “अङ्कच्छेदें कार्यं मासकृतं वर्षसञ्चितं वापि ।
तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित्” ।।

एवं च चतुर्दशवर्षव्यापिन्यपि रामवनवासे ये ये विराधवधादयः कथां–शास्ते ते वर्षवर्षावयवदिनयुग्मादीनामेकतमेन सूचनीया न विरुद्धाः ।
दिनावसाने कार्यं यद्दिने नैवोपपद्यते ।
अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत् ।। साद-६.५३ ।।
के तेर्ऽथोपक्षेपका इत्याह–
अर्थोपपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ ।
चूलिकाङ्कावतारो ऽथ स्यादङ्कमुखमित्यपि ।। साद-६.५४ ।।
वृत्तवर्तिष्यमाणानां कथंशानां निदर्शकः ।
संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ।। साद-६.५५ ।।
मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः ।
शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ।। साद-६.५६ ।।
तत्र शुद्धो यथा–मालतीमाधवे श्मशाने कपालकुण्डला ।
सङ्कीर्णो यथा–रामाभिन्दे क्षपणककापालिकौ ।
अथ प्रवेशकः—
प्रवेशको ऽनुदात्तोक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ।। साद-६.५७ ।।
अङ्कद्वयस्यान्तरिति प्रथमाङ्के ऽस्य प्रतिषेधः ।
यथा–वेण्यामश्चत्थामाङ्के राक्षसमिथुनम् ।
अथ चूलिका—
अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका ।
यथा वीरचरिते चतुर्थाङ्कस्यादौ–“(नेपथ्ये) भो भो वैमानिकाः, प्रवर्तन्तां रङ्गमङ्गलानि” इत्यादि ।
“रामेण परशुरामो जितः” इति नेपथ्ये पात्रैः सूचितम् ।
अथाङ्कावतारः—
अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ।। साद-६.५८ ।।
यत्राङ्को ऽवतरत्येषो ऽङ्कावतार इति स्मृतः ।
यथा—अभिज्ञाने पञ्चमाङ्के पात्रैः सूचितः षष्ठाङ्कस्तदङ्कस्याङ्गविशेष इवावतीर्णः ।
अथाङ्कमुखम्—
यत्र सायादङ्क एवस्मिन्नङ्कानां सूचनाखिला ।। साद-६.५९ ।।
तदङ्कमुखमित्याहुर्बोजार्थख्यापकं च तत् ।
यथा—मालतीमाधवे प्रथमाङ्कादौ कामन्दक्यवलोकिते भूरिवसुप्रभृतीनां भाविभूमिकानां परिक्षिप्तकथाप्रबन्धस्य च प्रसङ्गात्संनिवेशं सूचितवत्यौ ।
अङ्कान्तपात्रैर्वाङ्कास्यं छिन्नाङ्कस्यार्थसूचनाम् ।। साद-६.६० ।।
अङ्कान्तपात्रैङ्कान्ते प्रविष्टैः पात्रैः ।
यथा वीरचरिते द्वितीयाङ्कान्ते–“(प्रविश्य) सुमन्त्रः-भगवन्तौ वशिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः ।
इतरे–क्व भगवन्तौ ।
सुमन्त्रः–महाराजदशरथस्यान्तिके ।
इतरे—तत्तत्रैव गच्छावः” इत्यङ्कपरिसमाप्तौ ।
“(ततः प्रविशन्त्युपविष्टा वशिष्ठविश्वामित्रपरशुरामः)ऽित्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमान्त्रपात्रेण शतानन्दजनककथाविच्छेदे उत्तराङ्कमुखसूचनादङ्कास्यम्” इति ।
एतच्च धनिकमतानुसारेणोक्तम् ।
अन्ये तुं—“अङ्कावतरणोनैवेदं गतार्थम्” इत्याहुः ।
अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् ।
यदा संदर्शयेच्छेषमामुखानन्तरं तदा ।। साद-६.६१ ।।
कार्यो विष्कम्भको नाट्य आमुखाक्षिप्तपात्रकः ।
यथा–रत्नावल्यां यौगन्धरायणप्रयोजितः ।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।। साद-६.६२ ।।
आदावेव तदाङ्केस्यादामुखाक्षेपसंश्रयः ।
यथा—शाकुन्तले ।
विष्कम्भकाद्यैरपि नो वधो वाच्यो ऽधिकारिणः ।। साद-६.६३ ।।
अन्यो ऽन्येन तिराधानं न कुर्याद्रसवस्तुनोः ।
रसः शृङ्गारादिः ।
यदुक्तं धनिकेन— “न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।
रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः” ।।

इति ।
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ।। साद-६.६४ ।।
अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ।
अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः ।
तत्र बीजम्—
अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति ।। साद-६.६५ ।।
फलस्य प्रथमो हेतुर्बोजं तदभिधीयते ।
यथा—रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुर्दैवानुकूल्यलालितो यौगन्धरायणव्यापारः ।
यथा वा—वेण्यां द्रौपदीकेशसंयमनहेतुर्भीमसेनक्रोधोपचितो युधिष्ठिरोत्साहः ।
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ।। साद-६.६६ ।।
यथा—रत्नावल्यामनङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सति “उदयन्स्येन्दोरिवोद्वीक्षते” इति सागरिका श्रुत्वा “(सहर्षम्) कधं एसो सो उदअणणरिन्दो” इत्यादिरवान्तरार्थहेतुः ।
व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते ।
यथा—रामचरिते-सुग्रीवादेः, वेण्यां भीमादेः, शाकुन्तले-विदूषकस्य चरितम् ।
पताकानायकस्य स्यान्न स्वकीयं फलान्तरम् ।। साद-६.६७ ।।
गर्भे सन्धौ विमर्शे वा निर्वाहस्तस्य जायते ।
यथा—सुग्रीवादेः राज्यप्राप्त्यादि ।
यत्तु मुनिनोक्तम्–“आ गार्भाद्वा विमर्शाद्वा पताका विनिवर्तते” ।।

इति ।
तत्र “पताकेति ।
पताका नायकफलं निर्वहणपर्यन्तमपि पताकायाः प्रवृत्तिदर्शनात्, इति व्याख्यातमभिनवगुप्तपादैः ।
प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ।। साद-६.६८ ।।
यथा—कुलपत्यङ्के रावणजटायुसंवादः ।
प्रकरी नायकस्य स्यान्न स्वकीयं फलान्तरम् ।
यथा—जटायोः मोक्षप्राप्तिः ।
अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः ।। साद-६.६९ ।।
समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतम् ।
यथा—रामचरिते रावणवधः ।
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।। साद-६.७० ।।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ।
तत्र—
भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये ।। साद-६.७१ ।।
यथा—रत्नावल्यां रत्नावल्यन्तः पुरनिवेशार्थं यौगन्धरायणस्यौत्सुक्यम् ।
एवं नायकनायिकादीनामप्यौत्सुक्यमाकरेषु बोद्धव्यम् ।
प्रयत्नस्तु फलाबाप्तौ व्यापारो ऽतित्वरान्वितः ।
यथा रत्नावल्याम्—“तहवि ण अत्थि अण्यो दंसण उवाओ त्ति जधा तधा आलिहिअ जधासमीहिदं करैस्सम्” ।
इत्यादिना प्रतिपादितो रत्नावल्याश्चित्रलेखनादिर्वत्सराजसङ्गमोपायः ।
यथा च—रामचरिते समुद्रबन्धनादिः ।
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ।। साद-६.७२ ।।
यथा—रत्नावल्यां तृतीये ऽङ्के वेषपरिवर्तनाभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणापायशङ्कया चानिर्धारितैकान्तसङ्गमरूपफलप्राप्तिः प्राप्त्यशा ।
एवमन्यत्र ।
अपायाभावतः प्राप्तिनियताप्तिस्तु निश्चिता ।
अपायाभावान्निर्धारितैकान्तफलप्राप्तिः ।
यथा रत्नावल्याम्–“राजा–देवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामि” ।
इति देवीलक्षणापायस्य प्रसादनेन निवारणान्नियतफलप्राप्तिः सूचिता ।
सावस्था फलयोगः स्याद्यः समग्रफलोदयः ।। साद-६.७३ ।।
यथा—रत्नावल्यां रत्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभसहितः ।
एवमन्यत्र ।
यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः ।
पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्चसन्धयः ।। साद-६.७४ ।।
तल्लक्षणमाह—
अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति ।
एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसम्बन्धः सन्धिः ।
तद्भेदानाह–
मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ।। साद-६.७५ ।।
इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते ।
यथाद्देशं लक्षणमाह—
यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा ।। साद-६.७६ ।।
प्रारम्भेण समायुक्ता तन्मुखं परिकीर्त्तितम् ।
यथा–रत्नावल्यां प्रथमे ऽङ्के ।
फलप्रधानोपायस्य मुखसन्धिनिवेशिनः ।। साद-६.७७ ।।
लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ।
यथा—रत्नावल्यां द्वितीये ऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगता–विदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया चित्र फलकवृत्तान्तेन किञ्चिदुन्नीयमानस्योद्देशरूप उद्भेदः ।
फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चिन ।। साद-६.७८ ।।
गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान्मुहुः ।
फलस्य गर्भोकरणाद्रर्भः ।
यथा रत्नावल्यां द्वितीये ऽङ्के—“सुसंगता—सहि, अदक्खिणा दाणि सि तुमं जा एवं भट्टिणा हत्थेण गाहिदा वि कोवं ण मुञ्चसि” इत्यादौ समुद्भेदः ।
पुनर्वासवदत्ताप्रवेशे ह्रासः ।
तृतीये ऽङ्के—“तद्वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः” इत्यन्वेषणम् ।
विढूषकः–ही ही भोः, कोसम्बीरज्जलम्भेणावि ण तादिसो पिअवअस्सस्स परितोसो जादिसो मम सआसादो पियवअणं सुणिअ भवस्सदि” इत्यादावुद्भेदः ।
पुनरपि वासवदत्ताप्रत्यभिज्ञानाद् ह्रासः ।
सागरिकायाः सङ्केतस्थानगमने ऽन्वेषणम् ।
पुनर्लतापाशकरणो उद्भेदः ।
अथ विमिर्शः—
यत्र मुख्यफलोपाय उद्भिन्नो गर्भतो ऽधिकः ।। साद-६.७९ ।।
शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः ।
यथा शाकुन्तले चतुर्थाङ्कादौ—अनसूया—पिअंवदे, जैवि गन्धव्वेण विवाहेण णिब्बुत्तकल्लाणा पिअसही सौन्तला अणुरूवभत्तुभाइणी संवुत्तेति निव्वुदं मे हिअअम्, तह वि एत्तिअं चिन्तणिज्जम्” इत्यत आरभ्य सप्तमाङ्कोपक्षिप्ताच्छकुन्तलाप्रत्यभिज्ञानात्प्रागर्थसञ्चयः शकुन्तलाविस्मरणरूपविन्घालिङ्गितः ।
अथ निर्वहणम्—
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।। साद-६.८० ।।
एकार्थमुपनीयन्ते यत्र निर्वहणां हि तत् ।
यथा–वेण्याम्–“कञ्चुका–(उपसृत्य, सहर्षम्-) महाराज !वर्धसे ।
अयं खलु भीमसेनो दुर्योधनक्षतजारुणीकृतसर्वशरीरो दुर्लक्ष्यव्यक्तिः” इत्यादिना द्रौपदीकेशसंयमनादिमुखसन्ध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थयोजनम् ।
यथा वा-शाकुन्तले सप्तमाङ्के ऽशकुन्तलाभिज्ञानादुत्तरोर्ऽथराशिः ।
एषामङ्गान्याह–
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।। साद-६.८१ ।।

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भदः करणं भेद एतान्यङ्गानि वै मुखे ।। साद-६.८२ ।।
यथोद्देशं लक्षणमाह–
काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ।
काव्यार्थ इतिवृत्तलक्षणप्रस्तुताभिधेयः ।
यथा वेण्याम्–“भीमः— लाभागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धर्तराष्ट्राः ।।
समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरः पुनः ।। साद-६.८३ ।।
यथा तत्रैव— प्रवृद्धं यद्वैरं मम खलु शिसोरेव कुरुभिर्- न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् ।
जरासंधस्योरः स्थलमिव विरूढं पुनरपि क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ।।
तन्निष्पत्तिः परिन्यासः—
यथा तत्रैव— चञ्चद्रभुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि ! भीमः ।।

अत्रोपक्षेपो नामेतिवत्तलक्षणस्य काव्याभिधैयस्य संक्षेपेणोपक्षेपणमात्रम् ।
परिकरस्तस्यैव बहुलीकरणम् ।
परिन्यासस्ततो ऽपि नश्चयापत्तिरूपतया परितो हृदये न्यसनम्, इत्येषां भेदः ।
एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति, अङ्गान्तराणि त्वन्यथापि ।
—गुणाख्यानं विलोभनम् ।
यथा तत्रैव—“द्रौपदी–णाध, किं दुक्करं तुए परिकुविदेण” ।
यथा वा मम चन्द्रकलायां चन्द्रकलावर्णने–सेयम्, “तारुण्यस्यविलासः—” इत्यादि (१३९ पृ.) ।
यत्तु शकुन्तलादिषु “ग्रीवाभङ्गाभिरामम्—” इत्यादि मृगादिगुणवर्णनं तद्वीजार्थसम्बन्धाभावान्न संध्यङ्गम् ।
एवमङ्गान्तराणामप्यूह्यम् ।
संप्रधारणमर्थानां युक्तिः—
यथा–वेण्यां सहादेवो भीमं प्रति आर्य ! किं महाराजसंदेशो ऽयमव्युत्पन्न एवार्येण गृहीतः” इत्यतः प्रभृति यावद्भीमवचनम् ।
“युष्मान् ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दारणां सभायां केशकर्षणम्” ।।

इति ।
________________________________________
प्राप्तिः सुखागमः ।। साद-६.८४ ।।
यथा तत्रैव—“मथ्नामि कौरवशतं समरे न कोपात्—” इत्यादि (२८४ पृ.) “द्रौपदी–(श्रुत्वा सहर्षम्–) णाध, अस्सुदपुव्वं क्खु एदं वअणम्, ता पुणो पुणो भण” ।
बीजस्यागमनं यत्तु तत्समाधानमुच्यते ।
यथा तत्रैव–“(नेपथ्ये कलकलानन्तरम्) भो भो द्रुपदविराटवृष्ण्यन्धक सहदेवप्रभृतयः ! अस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः— यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छता ।
तद्द्यूतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते” ।।

अत्र “स्वस्था भवन्तु मयि जीवति–” इत्यादि बीजस्य प्रधाननायकाभिमतत्वेन सम्यगहितत्वात्समाधानम् ।
सुखदुः खकृतो योर्ऽथस्तद्विधानमिति स्मृतम् ।। साद-६.८५ ।।
यथा बालचरिते— “उत्साहातिशयं वत्स ! तव बाल्यं च पश्यतः ।
मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः” ।
यथा वा मम प्रभावत्याम्–“नयनयुगासेचनकम्-” इत्यादि (२३६ पृ.) ।
कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ।
यथा–वेण्यां द्रौपदी युद्धं स्यान्न वेति संशयाना तूर्यशब्दानन्तरम् “णाध ! किं दाणिं एसो पलअजलहरत्थणिदमन्थ खणे खणे समरदुन्दुभि ताडीअदि” ।
बीजार्थस्य प्ररोहः स्यादुद्भेदः—
यथा तत्रैव–“द्रौपदी–अण्णां च णाह, पुणोवि तुम्हेहि समरादो आअच्छिअ समास्सासैदव्वा ।
भीमः–ननु पाञ्चालराजतनये ! किमद्यालीकाश्चासनया– भूयः परिभवक्लान्तिलज्जाविधुरिताननम् ।
अनिः शेषितकौरव्यं न पश्यसि वृकोदरम् ।।
—करणं पुनः ।। साद-६.८६ ।।
प्रकृतार्थसमारम्भः–
यथा तत्रैव—“देवि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय” इति ।
—भेदः संहतभेदनम् ।
यथा तत्रैव—“अत एवाद्यप्रभृति भिन्नो ऽहं भवद्भ्यः” ।
केचित्तु—“भेदः प्रोत्साहना” इति वदन्ति ।
अथ प्रतिमुखाङ्गानि—
विलासः परिसर्पश्च विधुतं तापनं तथा ।। साद-६.८७ ।।
नर्म नर्मद्युतिश्चैव तथा प्रगमनं पुनः ।
विरोधश्च प्रतिमुखे तथा स्यात्पर्युपासनम् ।। साद-६.८८ ।।
पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ।
तत्र—
समीहा रतिभोगार्था विलास इति कथ्यते ।। साद-६.८९ ।।
रतिलक्षणस्य भावस्य यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः ।
यथा शाकुन्तले— कमं प्रिया न सुलभा मनस्तु तद्धावदर्शनायासि ।
अकृतार्थे ऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।।
इष्टनष्टानुसरणं परिसर्पश्च कथ्यते ।
यथा शाकुन्तले—“राजा—भवितव्यमत्र तया ।
तथा हि— अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारे ऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यते ऽभिनवा” ।।
कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः ।। साद-६.९० ।।
यथा तत्रैव—“अलं वो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरुद्धेण” ।
केचित्तु—“विधृतं स्यादरतिः” इति वदन्ति ।
उपायादर्शनं यत्तु तापनं नाम तद्भवेत् ।
यथा रत्नावल्याम्—“सगरिका— दुल्लहजणाणुराओ लज्जा गुरुई परअसो अप्पा ।
पियसहि विसमं पेम्मं मरणं सरणं णवरि एक्कम्” ।।
परिहासवचो नर्म—
यथा रत्नावल्याम्—“सुसंगता–सही ! जस्स किदे तुमं आअदा से अअं दे पुरदो चिट्ठदि ।
सागरिका—(साभ्यसूयम्) कस्स किदे अहं आअदा ? “सुसंगता–अलं अण्णसंकिदेण ।
णं चित्तफलअस्स” ।
—धृतिस्तु परिहासजा ।। साद-६.९१ ।।
नर्मद्युतिः—
तथा तत्रैव–“सुसंगता-सहि ! अदक्खिणा दाणिं सि तुमं जा एव्वं भट्टिणा हत्थावलम्बिदावि कोवं ण मुञ्चसि ।
सागरिका–(सभ्रूभङ्गमीषद्विहस्य) सुसंगदे ! दाणिं वि कीलिदुं न विरमसि ।
केचित्तु–“दोषस्याच्छादनं हास्यं नर्मद्युतिः” इति वदन्ति ।
—प्रगमनं वाक्यं स्यादुत्तरोत्तरम् ।
यथा विक्रमोर्वश्याम्–उर्वशी–जअदु जअदु महाराओ ।
राजा— मया नाम जितं यस्य त्वया जय उदीर्यते” ।
इत्यादि ।
विरोधो व्यसनप्राप्तिः—
यथा चण्डकौशिके—“राजा—नूनमसमीक्ष्यकारिणा मया अन्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समाक्रान्तः” ।
—क्रुद्धस्यानुनयः पुनः ।। साद-६.९२ ।।
स्यात्पर्युपासनं–
यथा रत्नावल्याम्–“विढूषकः—भो, मा कुप्य ।
एषा हि कदलीघरन्तरं गादा” इत्यादि ।
—पुष्पं विशेषवचनं मतम् ।
यथा तत्रैव—“(राजा हस्ते गृहीत्वा स्पर्शं नाटयति ) विदूषकाः—भो वअस्स ! एसा अपुव्वा सिरी तए समासादिदा ।
राजा—वयस्य ! सत्यम्— श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतो ऽन्यथा स्त्रवत्येष स्वेदच्छद्मामृतद्रवः ।।
प्रत्यक्षनिष्ठुरं वज्रम्—
यथा तत्रैव—“राजा—कथमिहस्थो ऽहं त्वया ज्ञातः ? सुसंगता—ण केवलं तुमं समं चित्तफलएण ।
ता जाव गदुअ गदुअ देवीए णिवेदैस्सम्” ।
—उपन्यासः प्रसादनम् ।। साद-६.९३ ।।
यथा तत्रैव–“सुसंगता–भट्टुण ! अलं सङ्काए ।
मए वि भटिणीए पसादेण कीलिदं ज्जेव एदिहिं ।
ता किं कण्णाभरणोण ।
अदो वि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुविदा मे पिअसही साअरिआ ।
एसा ज्जेव पसादीअदु” ।
केचित्तु—“उपपत्तिकृतो ह्यर्थ उपन्यासः स कीर्तितः” ।
इति वदन्ति ।
उदाहरन्ति च, तत्रैव—“अदिमुहरा क्खु सा गब्भदासी” इति ।
चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते ।
यथा महावीरचरिते तृतीये ऽङ्के— परिषदियमृषीणामेष वीरो युधाजित् सह नृपतिरमात्यैर्लोमपादश्च वृद्धः ।
अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामङ्ग भो याचकास्ते ।।

इत्यत्र ऋषिक्षादीनां वर्णानां मेलनम् ।
अभिनवगुप्तपादास्तु–“वर्णशब्देन पात्राण्युपलक्ष्यन्ते ।
संहारो मेलनम्” इति व्याचक्षते ।
उदाहरन्ति च रत्नावल्यां द्वितीये ऽङ्के–“अदो वि मे अत्त्रं गुरुअरो पसादो–” इत्यादेरारभ्य “णं हत्थे गेण्हिअ पसादेहि णम् ।
राजा–क्वासौ क्वासौ” इत्यादि ।
अथ गार्भाङ्गानि—
अभूताहरणं मार्गो रूपोदाहरणो क्रमः ।। साद-६.९४ ।।
संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च ।
त्रो (तो) टकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा ।। साद-६.९५ ।।
तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम् ।
यथा अश्वत्थामाङ्के— अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति पुनर्व्याहृतं सत्यवाचा ।
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ।।
तत्त्वार्थकथनं मार्गः—
यथा चण्डकौशिके–“राजा—भगवन् ! गृह्यतामर्जितमिदं भार्यातनयविक्रयात् ।
शेषस्यार्थे करिष्यापि चण्डाले ऽप्यात्मविक्रयम् ।।
रूपं वाक्यं वितर्कवत् ।। साद-६.९६ ।।
यथा रत्नावल्याम्–“राजा— मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे ।
कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ।।
उदाहरणमुत्कर्षयुक्तं वचनमुच्यते ।
यथा अश्वत्थामाङ्के– यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी, चरति मयि रणो यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तको ऽहम् ।।
भावतत्त्वोपलब्धिस्तु क्रमः स्यात्—
यथा शासुन्तले—“राजा—स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि ।
तथाहि– उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
पुलकाञ्चितेन कथयति मय्यनुरागं कपोलेन ।।
—संग्रहः पुनः ।। साद-६.९७ ।।
सामदानार्थसंपन्नः–
यथा रत्नावल्याम्—“राजा—साधु वयस्य ! इदं ते पारितोषिकम् ।
(इति कटकं ददाति ) ।
—लिङ्गादूहो ऽनुमानता ।
यथा जानकीराघवे नाटके—“रामः— लीलागतैरपि तरङ्गयतो धरित्रीमालोकनैर्नमयतो जगतां शिरांसि ।
तस्यानुमापयति काञ्चनकान्तिगौरकायस्य सूर्यतनयत्वमधृष्यतां च ।।
रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ।। साद-६.९८ ।।
यथा रत्नाषल्याम्—“प्रिये सागरिके ! शीतांशुर्मुखमुत्पले तव दृशौ, पद्मानुकारौ करौ, रम्भास्तम्भनिभं तथोरुयुगलं, बाहू मृणालोपमौ ।
इत्यह्लादकराखिलङ्गि ! रभसान्निः शङ्कमालिङ्ग्य मा- मङ्गनि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ।।

इदं च प्रार्थनाख्यमङ्गम् ।
यन्मते निर्वहणो भूतावसरत्वात्प्रशस्तिनामाङ्ग नास्ति तन्मतानुसारेणोक्तम्, अन्यथा पञ्चषष्टिसंख्यत्वप्रसङ्गात् ।
रहस्यार्थस्य तद्भेदः क्षिप्तिः स्यात्—
यथाश्वत्थामाङ्के— एवस्यैव विपाको ऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीये ऽस्मिन्नूनं निः शेषिताः प्रजाः ।।
—त्रो(तो) टकं पुनः ।
संरब्धवाक्–
यथा चण्डकौशिके—“कौशिकः–आः, पुनः कथमद्यापि न सम्भूता स्वणादक्षिणाः” ।
—अधिबलभिसंमधिच्छलेन यः ।। साद-६.९९ ।।
यथा रत्नावल्याम्—“काञ्चनमाला—भट्टिणि, इयं सा चित्तसालिआ ।
वसन्तअस्स सण्णं करोमि ” इत्यादि ।
नृपादिजनिता भीतरुद्वेगः परिकीर्तितः ।
यथा वेण्याम्— प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ।।
शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः ।। साद-६.१०० ।।
कालान्तककरालास्यं क्रोधोद्भूतं दशाननम् ।
विलोक्य वानरानीके सम्भ्रमः को ऽप्यजायत ।।

अथ विमर्शाङ्गानि—
अपवादो ऽथ संफेटो व्यवसायो द्रवो द्युतिः ।
शक्तिः प्रसङ्गः शेदश्च प्रतिषेधो विरोधनम् ।। साद-६.१०१ ।।
प्ररोचना विमर्शे स्यादादानं छादनं तथा ।
दोषप्रख्यापवादः स्यात्—
यथा वेण्याम्—“युधिष्ठिरः—पञ्चालक ! क्वचिदासादिता तस्य दुरात्मनः कौख्यापसदस्य पदवी ।
पाञ्चालकः–न केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलव्धः” ।
—संफेटो रोषभाषणम् ।। साद-६.१०२ ।।
यथा तत्रैव—“राजा—अरे रे मरुत्तनय ! वृद्धस्य राज्ञः पुरतो निन्दितमप्यात्मकर्म शलाघसे ।
शृणु रे– कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यश्रं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
तस्मिन् वेरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वोर्यातिभारद्रविणगुरुमदं मामजित्वैव दर्पः ।।

भीमः—(सक्रोधम्) आः पाप ।
राजा—आः पाप” ।
इत्यादि ।
व्यवसायश्च विज्ञेयःत प्रतिज्ञाहेतुसंभवः ।
यथा तत्रैव—“भीमः— निहताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
भङ्क्ता दुर्योधनस्यौर्वोर्भोमो ऽयं शिरसा नतः ।।
द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा ।। साद-६.१०३ ।।
यथा तत्रैव—“युधिष्ठिरः—भगवन् ! कृष्णाग्रज ! सुभद्राभ्रातः ! ज्ञातिप्रीतिर्मनसि न कृता, क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः को ऽयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वम् ।
तर्जनोद्वेजने प्रोक्ता द्युतिः—
यथा तत्रैव दुर्योधनं प्रति कुमारवृकोदरेणोक्तम्—- जन्मेन्दोविमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुः शासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे ।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे त्रासान्मे नृ-पशो ! विहाय समरं पङ्के ऽधुना लीयसे ।।
—शक्तिः पुनर्भवेत् ।
विरोधस्य प्रशमनम्—
यथा तत्रैव— “कुर्वन्त्वाप्ता हतानां रणशिरसि जना भस्मसाद् देहभारा- नश्रून्मिश्रं कथञ्चिद्ददतु जलममी बान्धवा बान्धवेभ्यः ।
मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान् गृध्रकङ्कैः- रस्तं भास्वान् प्रयातः सह रिपुभिरयं संह्रिन्तां बलानि ।।
—प्रसङ्गो गुरुकीर्त्तनम् ।। साद-६.१०४ ।।
यथा मृच्छकटिकायाम्—“चाण्डालकः—एसो क्खु सागलदत्तस्स सुदो अज्जविस्मदत्तस्म णत्तिओ चालुदत्तो वावादिदुं वञ्भ्क्तट्ठाणं णिज्जै एदेण किल गणिआ वसन्तसेणा सुअण्णलोहेण वावादि देत्ति ।
चारुदत्तः—(सनिर्वेदं स्वगतम्) “मखशतपरिपूतं गोत्रमुद्भासितं यत्, सदसि निविडचेत्यव्रह्मघोषैः पुरुस्तात् ।
मम निधनदशायां वर्त्तमानस्य पापैस्तदसदृशमनुष्यैर्घुष्यते घोषणायाम्” ।।

इत्यनेन चारुदत्तवधाभ्युदयानुकूलप्रसङ्गाद् गुरुकीर्त्तनमिति प्रसङ्गः ।
मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः ।
मनः समुत्पन्नो यथा मालतीमाधवे— दलति हृदयं गाढोद्वेगो द्विधा न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम् ।।

एवं चेष्टासमुत्पन्नो ऽपि ।
ईप्सितार्थप्रतीघातः प्रतिषेध इतीष्यते ।। साद-६.१०५ ।।
यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः—सखे ! कथमिह त्वमेकाकी वर्त्तसे ? क्व नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती ? विदूषकः- असुर वैणा आआरिअ कहिं वि णीदा ।
प्रद्युम्नः—(दीर्घं निश्वस्य ) हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे ! मामानताङ्गि ! परिहाय कुतो गतासि ?” ।
गच्छ त्वमद्य ननु जीवित ! तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु ।।
कार्यात्ययोपगमनं विहोधनमिति स्मृतम् ।
यथा वेण्याम्—युधिष्ठिरः— तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् ।
भीमेन प्रियसाहसेन रभासादल्पावशेषे जये सर्व जीवितसंशयं वयममी वाचा समारोपिताः ।।
प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी ।। साद-६.१०६ ।।
यथा वेण्याम्—“पाञ्चालकः–अहं देवेन चक्रपाणिना सहितः—” इत्युपक्रम्य कृतं सन्देहेन ।
पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्भ्क्तिते तु कबरीबन्धे करोतु क्षणम् ।
रामे शातकुठारभास्वरकरे क्षत्रद्रुमोच्छेदिनि क्रमधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः” ।।
कार्यसंग्रह आदानम्—
यथा वेण्याम्—“भो भोः समन्तपञ्चकचारिणः ! ।
नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियो ऽस्मि ।
भो भो राजन्यवीराः ! समरशिखिशिखाभुक्तशेषाः ! कृतं व– स्त्रासेनानेन लीनैर्हतकरितुरगान्तहितैरास्यते यत् ।।

अत्र समस्तरिपुवधकार्यस्य संकृहीतत्वादादानम् —
तदाहुश्छादनं पुनः ।
कार्यार्थमपमानादेः सहनं खलु यद्भवेत् ।। साद-६.१०७ ।।
यथा तत्रैव—अर्जुनः-आर्य ! प्रसीद किमत्रक्रोधेन– अप्रियाणि करोत्वेष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ।।

अथ निर्वहणाङ्गानि ।
सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् ।
कृतिः तप्रसाद आनन्दः समयो ऽप्युपगूहनम् ।। साद-६.१०८ ।।

भाषणं पूर्ववाक्यञ्च काव्यसंहार एव च ।
प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ।। साद-६.१०९ ।।
तत्र—
बीजोपगमनं सन्धिः—
यथा तत्रैव (वेण्याम्)—“भीमः-भवति ! यज्ञवेदिसम्भवे ! स्मरति भवती यन्मयोक्तम्–“चञ्चद्भुजे” त्यादि” ।
अनेन मुखे क्षिप्तबीजस्य पुनरुपगमनमिति सन्धिः ।
—विबोधः कार्यमार्गणम् ।
यथा तत्रैव—“भीमः–मुञ्चतु मामार्यः क्षणमेकम् ।
युधिष्ठिरः–किमपरमवशिष्टम् ? भीमः–सुमहदवशिष्टम् ।
संयमयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।
युधिष्ठिरः–गच्छतु भवान्, अनुभवतु तपस्विनी वेणीसंहारम्” इति ।
अनेन केशसंथमनकार्यस्यान्वेषणाद्विबोधः ।
उपन्यासस्तु कार्याणां ग्रथनं—
यथा तत्रैव—भीमः–पाञ्चालि ! न खलु मयि जीवति सहर्ंत्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् ।
तिष्ठ, स्वयमेवाहं संहरमि ” इति ।
अनेन कार्यस्योपक्षेपाद्रग्रथनम् ।
—निर्णयः पुनः ।। साद-६.११० ।।
अनुभूतार्थकथनं—
यथा तत्रैव, भीमः–देव अजातशत्रो ! अद्यापि दुर्योधनहतकः ।
मया हि तस्य दुरात्मनः– भूमौ क्षिप्तं शरीरं निहतमिदमसृक्चन्दनाभं निजाङ्गे तक्ष्मीरार्ये निषक्ता चतुरुदधिपयः सीमया सार्द्धमुर्व्या ।
भृत्या मित्राणि योधाः कुरुकुलमनुजा दग्धमेतद्रणाग्नौ नामैकं यद्ब्रवीषि क्षितिप ! तदधुना धार्त्तराष्टस्य शेषम् ।।
—वदन्ति परिभाषणम् ।
परिवादकृतं वाक्यम्—
यथा शाकुन्तले–राजा आर्ये ! अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? ।
तापसी— को तस्स धम्मदारपरिट्टाइणो णामं गेण्हिस्सदि” ।
—लब्धार्थशमनं कृतिः ।। साद-६.१११ ।।
यथा वेण्याम्–“कृष्णः–एते भगवन्तो व्यास–वाल्मीकिप्रभृतयो ऽभिषेकं धारयन्तस्तिष्ठन्ति” इति ।
अनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः ।
शुश्रूषादिः प्रसादः स्यात्—
यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनम् ।
—आनन्दो वाञ्छितागमः ।
यथा तत्रैव—“द्रौपदी—विसुमरिदं एदं वावारं णाधस्स पसादेण पुणो वि सिक्खिस्सं” ।
समयो दुःखनिर्याणां—
यथा रत्नावल्याम्–“वासवदत्ता—(रत्नावलीमालिङ्ग्य) समस्सस बहिणिए ! समस्सस” ।
—तद्भवेदुपगूहनम् ।। साद-६.११२ ।।
यत् स्यादद्भुतसम्प्राप्तिः–
यथा मम प्रभावत्यां नारददर्शनात् प्रद्युम्न ऊर्द्ध्वमवलोक्य— दधद्विद्युल्लेखामिव कुसुममालां मरिमल– भ्रमद्भृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः ।
दिगन्तं ज्योतिभिस्तुहिनकरगौरैर्धवलय– न्नितः कैलासाद्रिः पतति वियतः किं पुनरिदम् ।।
—सामदानादि भाषण्म् ।
यथा चण्डकौशिके–“धर्मः—तदेहि धर्मलोकमधितिष्ठ” ।
पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् ।। साद-६.११३ ।।
यथा वेण्याम्–भीमः–बुद्धैमतिके ! क्व सा भानुमती ।
परिभवतु सम्प्रति पाण्डवदारान्” ।
वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते ।
यथा सर्वत्र—किं ते भूयः प्रियमुपकरोमि” ।
इति ।
नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते ।। साद-६.११४ ।।
यथा प्रभावत्याम्— राजानः सुतनिर्विशेषमधुना पश्यन्तु नित्यं प्रजा जीयसुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः सस्यस्वर्णसमृद्धयः समधिकाः सन्तु क्षमामण्डले भूयादव्यभिचारिणी त्रिजगतो भक्तिश्च नारायणो ।।

अत्र चोपसंहारप्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः ।
“इह च मुखसंधौ उपक्षेपपरिन्यासयुक्त्युद्भेदसमाधानानां प्रतिमुखे च परिसर्पणप्रगमनवज्रोपन्यासपुष्पाणां गर्भे ऽभूताहरणमर्गत्रो (तो) टकाधिबलक्षेपाणां विमर्शे ऽपवादशक्तिव्यवसायप्ररोचनादानानां प्राधन्यम् ।
अन्येषां च यथासम्भवं स्थितिः” इति केचित् ।
चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः ।
कुर्यादनियते तस्य संधावपि निवेशनम् ।। साद-६.११५ ।।
रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ।
यथा वेहीसंहारे तृतीयाङ्के दुर्योधनकर्णयोर्महत्संप्रधारणम् ।
एवमन्यत्रापि ।
यत्तु रुद्रटादिभिः “नियम एव ” इत्युक्तं तल्लक्ष्याविरुद्धम् ।
इष्टार्थरचनाश्चर्यलाभो वृत्तान्तविस्तरः ।। साद-६.११६ ।।
रागप्राप्तिः प्रयोगस्य गोष्यानां गोपनं तथा ।
प्रकाशनं प्रकाश्यानामङ्गानां षड्विधं फलम् ।। साद-६.११७ ।।
अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् ।
अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते ।। साद-६.११८ ।।
संपादयेतां संध्यङ्गं नायकप्रतिनायकौ ।
तदभावे पताकाद्यस्तदभावे तथेतरत् ।। साद-६.११९ ।।
प्रायेण प्रधानपुरुषप्रयोज्यानि सन्ध्यङ्गानि भवन्ति ।
किन्तूपक्षेपादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु ।
रसव्यक्तिमपेक्ष्यैषामङ्गानां संनिवेशनम् ।
न तु केवलया शास्त्रस्थितिसंपादनेच्छया ।। साद-६.१२० ।।
तथा च यद्वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः, तत्ताद्दशे ऽवसरे ऽत्यन्तमनुचितम् ।
अविरुद्धं तु यद्वृत्तं रसादिव्यक्तये ऽधिकम् ।
तदष्यन्यथयेद्धीमान्न वदेद्वा कदाचन ।। साद-६.१२१ ।।
अनयोरुदाहरणं सत्प्रबन्धेष्वभिव्यक्तमेव ।
अथ वृत्तयः—
शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ।। साद-६.१२२ ।।
चतस्त्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः ।
स्युर्नायिकादिव्यापारविशेषा नाटकादिषु ।। साद-६.१२३ ।।
तत्र कौशिकी—
या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता ।
कामोपभोगप्रभवोपचारा सा कौशिकी चारुविलासयुक्ता ।। साद-६.१२४ ।।
नर्म च नर्मस्फूर्जो नर्मस्फोटो ऽथ नर्मगर्भश्च ।
चत्वार्यङ्गान्यस्या—
तत्र—
—वैदग्ध्यक्रीहितं नर्मः ।। साद-६.१२५ ।।
इष्टजनावर्जनकृत्तच्चापि त्रिविधं मतम् ।
विहितं शुद्धहास्येन सशृङ्गारभयेन च ।। साद-६.१२६ ।।
तत्र केवलहास्येन विहितं यथा रत्नावल्याम्—“वासवदत्ता–(फलकमुद्दिश्य सहासम्) एसा वि अवरा तव समीवे जधालिहिदा एदं किं अज्जवसन्तस्स विण्णाणम् ।
सशृङ्गारहास्येन यथा शाकुन्तले–राजानं प्रति शकुन्तला–असंतुट्ठो उण किं करिस्सदि ।
राजा– इदमं ।
(इति व्यवसितःशकुन्तलावक्त्रं ढौकते ) सभयहास्येन यथा रत्नावल्याम्—आलेख्यदर्शनावसरे सुसंगता–जाणिदो मए एसो वुत्तन्तो समं चित्तफलएण ।
ता देवीए गदुअ निवेदैस्सम् ।
एतद्वाक्यसम्बन्धि नर्मोदाहृतम् ।
एवं वेषचेष्टासम्बन्ध्यपि ।
नर्मस्फूर्जः सुखारम्भो भयान्तो नवसंगमः ।
यथा मालविकायाम्–सङ्केतनायकमभिसृतायां “नायकः– विसृज सुन्दरि ! सङ्गमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे ।
परिगृहण गते सहकारतां त्वमतिमुक्तलताचरितं मयि” ।।

मालविका–“भट्टा, देवीए भएण अप्पणो वि पिअ कौं ण पारेमि” इत्यादि ।
अथ नर्मस्फोटः—
नर्मस्फोटो भावलेशैः सूचिताल्परसा मतः ।। साद-६.१२७ ।।
यथा मालतीमाधवे— गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किन्त्वेतत् स्यात् किमदन्यदितो ऽथवा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ।।

अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाशितः ।
नर्मगर्भो व्यवहतिर्नेतुः प्रच्छन्नवर्तिनः ।
यथा–तत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवारणम् ।
अथ सात्त्वती—
सात्त्वती बहुला सत्त्व–शौर्यत्यागदयार्जवैः ।। साद-६.१२८ ।।
सहर्षा क्षुद्रशृङ्गारा विशोका साद्भुता तथा ।
उत्थापको ऽथ सांघात्यः संलापः परिवर्त्तकः ।। साद-६.१२९ ।।
विशेषा इति चत्त्वारः सात्त्वत्याः परिकीर्त्तिः ।
उत्तेजनकरी शत्रोर्वागुध्यापक उच्यते ।। साद-६.१३० ।।
यथा महावीरचरिते— आनन्दाय च विस्मयाय च मया दृष्टो ऽसि दुःखाय वा वैतृष्ण्यन्तु ममापि सम्प्रति कुतस्त्वद्दर्शने चक्षुषः ।
त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तत् किं वृथा व्याहृतैः ? अस्मिन् विश्रुतजामदग्न्यदमने पाणौ धनुर्जृन्भताम् ।।
मन्त्रार्थदैवशक्त्यादेः साघात्यः सङ्घभेदनम् ।
मन्त्रशक्त्या यथा—मुद्राराक्षसे राक्षससायानां चाणक्येन स्वबुद्ध्या भेदनम् ।
अर्थशक्त्यापि तत्रैव ।
दैवशक्त्या यथा—रामायणो रावणाद्विभीषणस्य भेदः ।
संलापः स्याद्रभीराक्तिर्नानाभावसमाश्रयः ।। साद-६.१३१ ।।
यथा वीरचरिते—“रामः–अयं सः, यः किल सपरिवारकार्त्तिकेयविजयावजीतेन भगवता नीललोहिते परिवत्सरसहस्त्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः ।
परशुरामः–राम दाशरथे ! स एवायमार्यपादानां प्रियः परशुः ।
“इत्यादि ।
प्रारब्धादन्यकार्याणां कारणं परिवर्तकः ।
यथा वेण्याम्—“भामः—सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व ।
अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामीति यावत् ।
अथवा आमन्त्रयितव्यैव मया पाञ्चाली” ।
इति ।
अथारभटी—
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।। साद-६.१३२ ।।
संयुक्ता वधबन्धाद्यैरुद्धतारभटी मता ।
वस्तूत्थापनसंफैटौ संक्षिप्तिरवपातनम् ।। साद-६.१३३ ।।
इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः ।
मायाद्युत्थापितं वस्तु वस्तुत्थापनमुच्यते ।। साद-६.१३४ ।।
यथोदात्तराघवे— जीयन्ते जयिनो ऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभिर्- भास्वन्तः सकला रवेरपि कराः कस्मादकस्मादमी ।
एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरा मुञ्चन्त्याननकंदरानलमुचस्तीव्रान् रवान् फेरवाः ।।

इत्यादि ।
संफेटस्तु समाघातः क्रुद्धसत्वरयोर्दूयोः ।
यथा मालत्यां माधवाघोरघण्टयोः ।
संक्षिप्ता वस्तुरचना शिल्पैरितरथापि वा ।। साद-६.१३५ ।।
संक्षिप्तिः स्यान्निवृत्तौ च नेतुर्नेत्रन्तरग्रहः ।
यथोदयनचरिते कलिञ्जहस्तिप्रयोगः ।
द्वितीयं यथा वालिनिवृत्त्या सुग्रीवः ।
यथा वा परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनम्–“पुण्या ब्राह्मणजातिः–ऽिति ।
प्रवेशत्रासनिष्क्रान्तिहर्षविद्रवसंभवम् ।। साद-६.१३६ ।।
अवपातनमित्युक्तं—
यथा कृत्यरावणो षष्ठे ऽङ्के–“(प्रविश्य खङ्गहस्तः पुरुषः)” इत्यतः प्रभृति निष्क्रमणपर्यन्तम् ।
—पूर्वमुक्तैक भारती ।
अथ नाट्योक्तयः—
अश्राव्य खलु यद्वस्तु तदिह स्वगतं मतम् ।। साद-६.१३७ ।।
सर्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् ।
रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते ।। साद-६.१३८ ।।
त्रिपताककरेणान्यानपवार्यान्तरा कथाम् ।
आन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकम् ।। साद-६.१३९ ।।
किं व्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते ।
श्रुत्वेवानुक्तमष्यर्थं तत्स्यादाकाशभाषितम् ।। साद-६.१४० ।।
यः कश्चिदर्थो यस्माद्रोपनीयस्तस्यान्तरत ऊर्ध्वं सर्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकम् ।
परावृत्यान्यस्य रहस्यकथनमपवारितम् ।
शेषं स्पष्टम् ।
दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् ।
दत्तप्रयाणि वणिजां चेटचेट्योस्तथा पुनः ।। साद-६.१४१ ।।
वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् ।
वेश्या यथा वसन्तसेनादिः ।
वणिग्विष्णुदत्तादिः ।
चेटः कलहंसादिः ।
चेटी मन्दारिकादिः ।
नाम कार्यं नाटकस्य गर्भितार्थप्रकाशकम् ।। साद-६.१४२ ।।

यथा रामाभ्युदयादिः ।
नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु ।
यथा मालतीमाधवादिः ।
नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ।। साद-६.१४३ ।।
यथा रत्नावली-कर्पूरमञ्जर्यादिः ।
प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ।
यथा शाकुन्तले–ऋषी, “गच्छावः” इत्यर्थे “साधयावस्तावत्” ।
राजा स्वमीति देवेति भृत्यैर्भट्टेति चाधमैः ।। साद-६.१४४ ।।
राजषिभिर्वयस्येति तथा विढूषकेण च ।
राजन्नित्यृषिभिर्वाच्यः सो ऽपत्यप्रत्ययेन च ।। साद-६.१४५ ।।
स्वेच्छया नामभिविप्रविप्र आर्येति चेतरैः ।
वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विढूषकः ।। साद-६.१४६ ।।
वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परम् ।
सूत्रधारं वदेद्भाव इति वै पारिपार्शिवकः ।। साद-६.१४७ ।।
सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः ।
वयस्येत्युत्तमैर्हहो मध्यैरार्येति चाग्रजः ।। साद-६.१४८ ।।
भगवन्निति वक्तव्याः सर्वैर्देवषिलिङ्गिनः ।
वदेद्राज्ञीं च चेटीं च भवतीति विदूषकः ।। साद-६.१४९ ।।
आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः ।
वत्सपुत्रकतातेति नाम्ना गोत्रेण वा सुतः ।। साद-६.१५० ।।
शिष्यो ऽनुजश्च वक्तव्यो ऽमात्य आर्येति चाधमैः ।
विप्रैरयममात्येति सचिवेति च भण्यते ।। साद-६.१५१ ।।
साधो ! इति तपस्वी च प्रशान्तश्चोच्यते बुधैः ।
स्वगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते ।। साद-६.१५२ ।।
उपाध्यायेति चाचार्यो महाराजेति भूपतिः ।
स्वामीति, युवराजस्तु कुमारो भर्तृदारकः ।। साद-६.१५३ ।।
भद्रसौम्यमुखेत्येवमधमैस्तु कुमारकः ।
वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका ।। साद-६.१५४ ।।
पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः स्त्रियः ।
हलेति सदृशी, प्रेष्या हञ्जे वेश्याज्जुका तथा ।। साद-६.१५५ ।।
कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती जनैः ।
आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ।। साद-६.१५६ ।।
शका (शक्या) दयश्च संभाष्या भद्रदत्तादिनामभिः ।
यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा ।। साद-६.१५७ ।।
तेनैव नाम्ना वाच्यो ऽसौ ज्ञेयाश्चान्ये यथोचितम् ।
अथ भाषाविभागः—
पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम् ।। साद-६.१५८ ।।
सोरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् ।
आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत् ।। साद-६.१५९ ।।
अत्रोक्ता मागधी भाषा राजान्तः पुरचारिणाम् ।
चेटानां राजपुत्राणां श्रेष्ठानां चार्धमगधी ।। साद-६.१६० ।।
प्राच्यां विदूषकादीनां, धूर्तानां स्यादवन्तिजा ।
योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ।। साद-६.१६१ ।।
शवराणां शकादानां शाबरीं संप्रयोजयेत् ।
बाह्लीकभाषोदीच्यानां द्राविडी द्राविडादिषु ।। साद-६.१६२ ।।
आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ।
आभीरी शाबरी चापि काष्ठपात्रोपजीविषु ।। साद-६.१६३ ।।
तथैवाङ्गारकारादौ पैशाची स्यात्पिशाचवाक् ।
चेटीनामष्यनीचानामपि स्यात्सौरसेनिका ।। साद-६.१६४ ।।
बालानां षण्डकानां च नीचग्रहविचारिणाम् ।
उन्मत्तानामातुराणां सैव स्यात्संस्कृतं क्वचित् ।। साद-६.१६५ ।।
ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च ।
भिक्षु वल्कधरादीनां प्राकृतं संप्रयोजयेत् ।। साद-६.१६६ ।।
संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ।
देवीमन्भिसुतावेश्यास्वपि कैश्चित्तथोदितम् ।। साद-६.१६७ ।।
कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ।। साद-६.१६८ ।।
योषित्सखीबालवेश्याकितवाष्सरसां तथा ।
वैदग्ध्याथ प्रदातव्यं संस्कृतं चान्तरान्तरा ।। साद-६.१६९ ।।
एषामुदाहरणान्याकरेषु बोद्धव्यानि ।
भाषालक्षणानि मम तातपादानां भाषार्णवे ।
षट्त्रिंशल्लक्षणान्यत्र, नाट्यालंकृतयस्तथा ।
त्रयस्त्रिंशत्प्रयोज्यानि वीथ्यङ्गानि त्रयोदश ।। साद-६.१७० ।।
लास्याङ्गानि दश यथालाभंरसव्यपेक्षया ।
यथालाभं प्रयोज्यानीति सम्बन्धः ।
अत्रेति नाटके ।
तत्र लक्षणानि–
भूषणाक्षरसंघातौ शोभोदाहरणं तथा ।। साद-६.१७१ ।।
हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः ।
निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ।। साद-६.१७२ ।।
दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ।
विशेषणनिरुक्ती च सिद्धिभ्रशविपर्ययौ ।। साद-६.१७३ ।।
दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं तथा ।
पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम् ।। साद-६.१७४ ।।
लेशो मनोरथो ऽनुक्तसिद्धिः प्रियवचस्तथा ।
तत्र—
लक्षणानि गुणैः सालंकारैर्योगस्तु भूषणम् ।। साद-६.१७५ ।।
यथा—आक्षिपन्त्यरविन्दानि मुग्धे ! तव मुखश्रियम् ।
कोषदण्डसमग्रणां किमेषामस्ति दुष्करम् ।।
वर्णनाक्षरसंघातश्चित्रार्थैरक्षरैर्मितैः ।
यथा शाकुन्तले–“राजा—कच्चित्सखीं वो नातिबाधते शरीरसंतापः ।
प्रियंवदा–सम्पदं लधोसहो उअसमं गमिस्सदि” ।
सिद्धैरर्थैः समं यत्राप्रसिद्धोर्ऽथः प्रकाशते ।। साद-६.१७६ ।।
श्लिष्टश्लक्षणचित्रार्था सा शोभेत्यभिधीयते ।
यथा— “संद्वंशसम्भवः शुद्धः कोटिदो ऽपि गुणान्वितः ।
कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ।
यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।। साद-६.१७७ ।।
साध्यते ऽभिमतश्चार्थस्तदुदाहरणं मतम् ।
यथा— अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् ।
का दिनश्रीर्विनार्केण का निशा शशिना विना ।।
हेतुर्वाक्यं समासोक्तमिष्टकृर्द्धतुदर्शनात् ।। साद-६.१७८ ।।
यथा वेण्यां भीमं प्रति “चेटी–एवं मए भणिदं भाणुमदि तुह्माणं अमुक्केसु केसेसु कहं देवीए केसा संजमिअन्तित्ति ।
संशयो ऽज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः ।
यथा ययातिविजये— इयं स्वर्गाधिनाधस्य लक्ष्मीः किं यक्षकन्यका ।
किं चास्य विषयस्यैव देवता किमु पार्वती ।।
दृष्टान्तो यस्तु पक्षेर्ऽथसाधनाय निदर्शनम् ।। साद-६.१७९ ।।
यथा वेण्याम् –“सहदेवः—आर्य ! उचितमेवैतत्तस्या यतो दुर्योधनकलत्रं हि सा” इत्यादि ।
तुल्यतर्को यदर्थेन तर्कः प्रकृतिगामिना ।
यथा तत्रैव— प्रयेणैव हि दृश्यन्ते कामं स्वप्नाः शुभाशुभाः ।
शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ।।
संचयोर्ऽथानुरूपो यः पदानां स पदोच्चयः ।। साद-६.१८० ।।
यथा शाकुन्तले— अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ।।

अत्र पदपदार्थयोः सौकुमार्यं सदृशमेव ।
यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परपक्षव्युदासार्थं तन्निदर्शनमुच्यते ।। साद-६.१८१ ।।
यथा–क्षात्रधर्मोचितैर्धर्मैरलं शत्रुवधे नृपाः ।
किं तु बालिनि रामेण मुक्तो बाणः पराङ्मुखे ।।
अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पना ।
यथा शाकुन्तले— इदं किलाव्याजमनोहरं वपुस्तपः क्लमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्नधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ।।
प्राप्तिः केनचिदंशेन किञ्चिद्यत्रानुमीयते ।। साद-६.१८२ ।।
यथा मम प्रभावत्याम्–“अनेन खलु सर्वतश्चरता चञ्चरीकेणावश्यं विदिता भविष्यति प्रियतमा मे प्रभावती” ।
विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनम् ।
यथा मम चन्द्रकलायाम्—“राजा—नूनमियमन्तः पिहितमदनविकारा वर्तते ।
यतः– “हसति परितोषरहितं निरीक्ष्यमाणापि नेक्षते किञ्चित् ।
सख्यामुदाहरन्त्यामसमञ्जसमुत्तरं दत्ते” ।।
देशकालस्वरूपेणा वर्णना दिष्टमुच्यते ।। साद-६.१८३ ।।
यथा वेण्याम्–“सहदेवः– “यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धे ऽद्य संभृतम् ।
तत्प्रावृडिव कृष्णोयं नूनं संवर्धयिष्यति” ।।
उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः ।
यथा शाकुन्तले— शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्यष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो, वामाः कुलस्याधयः ।।
गुणातिपातः कार्यं यद्विपरीतं गुणान्प्रति ।। साद-६.१८४ ।।
यथा मम चन्द्रकलायां चन्द्रं प्रति— जै संहरिज्जै तमो धेप्पै सअलेहि ते पाओ ।
वससि सिरे पसुबैणो तहवि ह इत्थीअ जीअणं हरसि ।।
यः सामान्यगुणोद्रेकः स गुणातिशयो मतः ।
यथा तत्रैव—“राजा—(चन्द्रकलाया मुखं निदिश्य) असावन्तश्चञ्चद्विकचनवनीलाब्जयुगल- स्तलस्फूर्जत्कम्बनविलसदलिसंघात उपरि ।
विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ! ते ।।
सिद्धानर्थान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम् ।। साद-६.१८५ ।।
यथा—तृष्णापहारी विमलो द्विजावासो जनप्रियः ।
हृदः पद्माकरः किन्तु बुधस्त्वं स जलाशयः ।।
पूर्वसिद्धार्थकथनं निरुक्तिरिति कीर्त्यते ।
यथा वेण्याम्—“निहताशेषकौरव्यः—“इत्यादि ।
(३७९ पृ.)
बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये ।। साद-६.१८६ ।।
यथा—यद्वीर्यं कूर्मराजस्य यश्च शेषस्य विक्रमः ।
पृथिव्या रक्षणो राजन्नेकत्र त्वयि तत्स्थितम् ।।
दृप्तादीनां भवेद्भ्रंशो वाच्यादन्यतरद्वचः ।
यथा वेण्याम्—कञ्चुकिनं प्रति “दुर्योधनः— सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्” ।।
विचारस्यान्यथाभावः संदेहात्तु विपर्ययः ।। साद-६.१८७ ।।
यथा—मत्वा लोकमदातारं संतोषे यैः कृता मतिः . त्वयि राजनि ते राजन्न तथा व्यवसायिनः ।।
दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम् ।
वाचा यथा—प्रसाधय पुरीं लङ्कां राजा त्वं हि बिभीषण ।।

आर्येणानुगृहीतस्य न विघ्नः सिद्धिमन्तरा ।।

एवं चेष्टयापि ।
वाक्यैः स्निग्धैरनुनयो भवेदर्थस्य साधनम् ।। साद-६.१८८ ।।
यथा वेण्याम्—अश्वत्थामानं प्रति “कृपः—दिव्यास्त्रग्रमकोविदे भारद्वाजतुल्यपराक्रमे किं न संभाव्यते त्वयि” ।
माला स्याद्यदभीष्टार्थं नैकार्थप्रतिपादनम् ।
यथा शाकुन्तले—“राजा— किं शीकरैः क्लमविमर्दिभिरार्द्रवातं सञ्चारयामि नलिनीदलतालवृन्तम् ।
अङ्के निवेश्य चरणावुत पद्मताम्रौ संवादयामि करभोरु ! यथासुखं ते” ।।
अर्थापत्तिर्यदन्यार्थोर्ऽथान्तरोक्तेः प्रतीयते ।। साद-६.१८९ ।।
यथा वेण्याम्—द्रोणो ऽश्चत्थामानं राज्ये ऽभिषेक्तुमिच्छतीति कथयन्तं कर्णं प्रति “राजा—साधु अङ्गराज ! साधु, कथमन्यथा— दत्त्वामयं सो ऽतिरथो वध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैव चेत्कथमन्यथा” ।।
दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् ।
यथा तत्रैव–कर्णं प्रति “अश्वत्थामा– निर्वोर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तो ऽस्मि किं त्वं यथा ।
जातो ऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोप्यस्त्रेण नास्त्रेण यत्” ।।
अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेषणं मता ।। साद-६.१९० ।।
यथा तत्रैव—“सुन्दरकः—अज्जा, अवि णाम सारधिदुदिओदिट्ट तुह्मेर्हि महाराओ दुर्योधणो ण वेत्ति” ।
प्रसिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् ।
यथा विक्रमोर्वश्याम्—“राजा— सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।
स्वयं कृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ।।
सारूप्यमनुरूपस्य सारूप्यात्क्षोभवर्धनम् ।। साद-६.१९१ ।।
यथा वेण्याम्–दुर्योधनभ्रान्त्या भीमं प्रति “युधिष्ठिरः—दुरात्मन् !दुर्योधनहतक !-” इत्यादि ।
संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।
यथा मम चन्द्रकलायाम्—“राजा—प्रिये ! अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
(आत्मानं निर्दिश्य—) अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः” ।।
गुणानां कीर्तनं यत्तु तदेव गुणाकीर्तनम् ।। साद-६.१९२ ।।
यथा तत्रैव–“नेत्रे खञ्जनगञ्जने सरसिजप्रत्यथि–” इत्यादि (पृ.)
स लेशो भण्यते वाक्यं यत्सादृश्यपुरः सरम् ।
यथा वेण्याम्—“राजा— हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या शलाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति” ।।
मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ।। साद-६.१९३ ।।
यथा—रतिकेलिकलः किंचिदेष मन्मथमन्थरः ।
पश्य सुभ्र ! समालम्भात्कादम्बश्चुम्बति प्रियाम् ।।
विशेषार्थोहविस्तारो ऽनुक्तसिद्धिरुदीर्यते ।
यथा—“गृहवृक्षवाटिकायाम्— दृश्येते तन्वि ! यावेतौ चारुचन्द्रमसं प्रति ।
प्राज्ञे कल्याणनामानावुभौ तिष्यपुनर्वसू” ।।
स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिर्हर्षभाषणम् ।। साद-६.१९४ ।।
यथा शाकुन्तले— उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः ।।

अथ नाट्यालङ्काराः–
आशीराक्रन्दकपटाज्ञमागर्वोद्यमाश्रयाः ।
उत्प्रासनस्पृहाक्षोभपश्चात्तापोपपत्तयः ।। साद-६.१९५ ।।
आशंसाध्यवसायौ च विसर्पाल्लेखसंज्ञितौ ।
उत्तेजनं परीवादो नीतिरर्थविशेषणम् ।। साद-६.१९६ ।।
प्रोत्साहनं च साहाय्यमभिमानो ऽनुवर्तनम् ।
उत्कीर्त्तनं तथा याच्ञा परिहारो निवेदनम् ।। साद-६.१९७ ।।
प्रवर्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् ।
इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ।। साद-६.१९८ ।।
आशीरिष्टजनाशंसा—
यथा शाकुन्तले— ययातेरिव शमिष्ठा पत्युर्बहुमता भव ।
पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ।।
—आकन्दः प्रलपितं शुचौ ।
यथा वेण्याम्–“कञ्चकी–हा देवि ! कुन्ति ! राजभवनपताके !-” इत्यादि ।
कपटं मायया यत्र रूपमन्यद्विभाव्यते ।। साद-६.१९९ ।।
यथाकुलपत्यङ्के— मृगरूपं परित्यज्य विधाय कपटं वपुः ।
नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ।।
अक्षमा सा परिभवः स्वल्पो ऽपि” न विषह्यते ।
यथा शाकुन्तले—“राजा–भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिः ।
किं पुनरिमामभिसन्धाय लभ्यते ।
शार्ङ्गरवः—विनिपातः—ऽित्यादि ।
गर्वो ऽवलेपजं वाक्यं—
यथा तत्रैव—“राजा—ममापि नाम सत्त्वैरभिभूयन्ते गृहाः” ।
—कार्यस्यारम्भ उद्यमः ।। साद-६.२०० ।।
यथा कुम्भाङ्के–“रवणः–पश्यामि शोकविवशो ऽन्तकमेव तावत्” ।
ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते ।
यथा विभीषणनिर्भर्त्सनाङ्के–“विभीषणः–राममेवाश्रयामि” इति ।
उत्प्रासनं तूपहासो यो ऽसाधौ साधुमानिनि ।। साद-६.२०१ ।।
यथा शाकुन्तले–“शार्ङ्गरवः–राजन् ! अथ पुनः पूर्ववृत्तान्तमन्यसङ्गद्विस्मृतो भवान् ।
तत्कथमधर्मभीरोर्दारपरित्यागः—” इत्यादि ।
आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।
यथा तत्रैव—“राजा— चारुणा स्फुरितेनायमपरिक्षतकोमलः ।
पिपासतो ममानुज्ञां ददातीव प्रियाधरः” ।।
अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ।। साद-६.२०२ ।।
यथा—त्वया तपस्विचाण्डाल ! प्रच्छन्नवधवर्तिना ।
न केवलं हतो वाली स्वात्मा च परलोकतः ।।
मोहावधीरितार्थस्य पश्चात्तापः स एव तु ।
यथानुतापाङ्के–“रामः— किं देव्या न विचुम्बितो ऽस्मि बहुशो मिथ्याभिशप्तस्तदा” इति ।
उपपत्तिर्मता हेतोरुपन्यासोर्ऽथसिद्धये ।। साद-६.२०३ ।।
यथा वध्यशिलायाम्— “म्रियते म्रियमाणो या त्वयि जीवति जीवति ।
तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः ।।
आशंसनं स्यादाशंसा—
यथा श्मशाने—“माधवः— “तत्पश्येयमनङ्गमङ्गलगृहं भूयो ऽपि तस्या मुखम्” इति ।
—प्रतिज्ञाध्यवसायकः ।
यथा मम प्रभावत्याम्—“वज्रनाभः— अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः” ।।
विसर्पो यत्समारब्धं कर्मानिष्टफलप्रदम् ।। साद-६.२०४ ।।
यथा वेण्याम्—“एकस्यैव विपाको ऽयम्–” इत्यादि (३७६ पृ.)
कार्यग्रहणमुल्लेख—
यथा शाकुन्तले—राजानं प्रति “तापसौ—समिदाहरणाय प्रस्थितावावाम् ।
इह चास्मद्गुरोः कण्वस्य कुलपतेः साधिदैवत इव शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते ।
न चेदन्य (था) कार्यातिपातः, प्रविश्य गृह्यतामतिथैसत्कारः” इति ।
—उत्तेजनमितीष्यते ।
स्वकार्यसिद्धये ऽन्यस्य प्रेरणाय कठोरवाक् ।। साद-६.२०५ ।।
यथा—इन्द्रजिच्चण्डवीर्यो ऽसि नाम्नैव बलवानसि ।
धिग्धिक्प्रच्छन्नरूपेण युध्यसे ऽस्मद्भयाकुलः ।।
भर्त्सना तु परीवादो—
यथा सुन्दराङ्के–“दुर्योधनः धिग् धिक् सूत ! किं कृतवानसि ।
वत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति–” इत्यादि ।
—नीतिः शास्त्रेण वर्तनम् ।
यथा शाकुन्तले–“दुष्यन्तः—विनीतवेषप्रवेश्यानि तपोवनानि” ।
इति ।
उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा ।। साद-६.२०६ ।।
उपालम्भविशेषेण तत् स्यादर्थविशेषणम् ।
यथा शाकुन्तले राजानं प्रति “शार्ङ्गरवः–आः कथमिदं नाम, किमुपन्यस्तमिति ? ननु भवानेव नितरां लोकवृत्तान्तनिष्णातः ।
सतीमपि ज्ञातिकुलैकसंश्रयां जनो ऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ।।
प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम् ।। साद-६.२०७ ।।
यथा बालरामायणे— कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि ।
तज्जगत्त्रितयं त्रातुं तात ! ताडय ताडकाम् ।।
साहाय्यं सङ्कटे यत्स्यात् सानुकूल्यं परस्य च ।
यथा वेण्याम्–कृपं प्रति “अश्वत्थामा—त्वमपि तावद्राज्ञः पाशर्ववर्तो भव ।
कुपः—वाञ्छाम्यहमद्य प्रतिकर्तुम्–” इत्यादि ।
अभिमानः स एव स्यात्—
यथा तत्रैव—“दुर्योधनः—मातः किमप्यसदृशं कृपणं वचस्ते—” इत्यादि ।
—प्रश्रयादनुवर्तनम् ।। साद-६.२०८ ।।
अनुवृत्तिः—
यथा शाकुन्तले–“राजा—(शकुन्तलां प्रति) अयि ! तपो वर्धते ।
अनुसूयादाणिं अदिधिविसेसलाहेण” इत्यादि ।
—भूतकार्याख्यानमुत्कीर्तनं मतम् ।
यथा बालारामायणे— अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
इत्यादि ।
याच्ञा तु क्वापि याच्ञा या स्वयं दूतमुखेन वा ।। साद-६.२०९ ।।
यथा—-अद्यापि देहि वैदेहिं दयालुस्त्वयि राघवः ।
शिरोभिः कन्दुकक्रीडां किं कारयसि वानरान् ।।
परिहार इति प्रोक्तः कृतानुचितमार्जनम् ।
यथा–प्राणप्रयाणदुःखार्त उक्तवानस्म्यनक्षरम् ।
तत्क्षमस्व विभो ! किं च सुग्रीवस्ते समर्पितः ।।
अवधीरितकर्तव्यकथनं तु निवेदनम् ।। साद-६.२१० ।।
यथा राघवाभ्युदये—“लक्ष्मणः–आर्य ! समुद्राभ्यर्थनया गन्तुमुद्यतो ऽसि तत्किमेतत्” ।
प्रवर्तनं तु कार्यस्य यत्सयात्साधुप्रवर्तनम् ।
यथा वेण्याम्—“राजा—कञ्चुकिन् ! देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समारम्भाः” ।
आख्यानं पूर्ववृत्तोक्तिर्—
यथा तत्रैव–“देशः सो ऽयमरातिशोणितजलेर्यस्मिन् ह्रदाः पूरिताः–ऽित्यादि ।
—युक्तिरर्थावधारणम् ।। साद-६.२११ ।।
यथा तत्रैव— यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितो ऽन्यतः प्रयातुम् ।
अख मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ? ।।
प्रहर्षः प्रमदाधिक्यं—
यथा शाकुन्तले—“राजा – तात्किमिदानीमात्मानं पूर्णमनोरथं नाभिनन्दामि” ।
—शिक्षा स्यादुपदेशनम् ।
यथा तत्रैव–“सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उज्भ्क्तिअ सच्छन्ददो गमनम्” ।
एषां च लक्षणनाट्यालङ्काराणां सामान्यत एकरूपत्वे ऽपि भेदेन व्यपदेशो गड्डलिकाप्रवाहेण ।
एषु च केषांचिद्गुणालङ्कारभावसंध्यङ्गविशेषान्तर्भावे ऽपि नाटके प्रयत्नतः कर्त्तव्यत्वात्तद्विशेषोक्तिः ।
एतानि च— पञ्चसन्धि चतुर्वृत्ति चतुः षष्ट्यङ्गसंयुतम् ।
षडविंशल्लक्षणोपेतमलङ्कारोपशोभितम् ।
महारसं महाभोगमुदात्तरचनान्वितम् ।
महापुरुषसत्कारं साध्वाचारं जनप्रियम् ।।

सुश्लिष्टसन्धियोगं च सुप्रयोगं सुखाश्रयम् ।
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ।।

इति मुनिनोक्तत्वान्नाटके ऽवश्यं कर्तव्यान्येव ।
वीथ्यङ्गानि वक्ष्यन्ते ।
लास्याङ्गान्याह–
गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ।। साद-६.२१२ ।।
प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् ।
उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ।। साद-६.२१३ ।।
लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः ।
तत्र–तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ।। साद-६.२१४ ।।
शुद्धं गानं गेयपदं—
यथा—गौरीगृहे वीणां वादयन्ती “मलयवती— उत्फुल्लकलकेसरपरागगौरद्युते ! मम हि गौरि ! ।
अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ।।
—स्थितपाठ्यं तदुच्यते ।
मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ।। साद-६.२१५ ।।
अभिनवगुप्तपादास्त्वाहुः—“उपलक्षणं चैतत् ।
क्रोधोद्भ्रान्तस्यापि प्राकृतपठनं स्थितपाठ्यम्” इति ।
निखिलातोद्यरहितं शोकचिन्तान्विताबला ।
अप्रसाधितगात्रं यदासीनासीनमेव तत् ।। साद-६.२१६ ।।
आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च ।
स्त्रीपुंसयोविपर्यासचेष्टितं पुष्पगण्डिका ।। साद-६.२१७ ।।
अन्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्युना ।
वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ।। साद-६.२१८ ।।
स्त्रीवेषधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ।
यथा मालत्याम्–“मकरन्दः–एषो ऽस्मि मालतीसंवृत्तः” ।
कश्चन भ्रष्टसंकेतः सुव्यक्तकरणान्वितः ।। साद-६.२१९ ।।
प्राकृतं वचनं वक्तिं यत्र तत्सैन्धवं मतम् ।
करणं वीणादिक्रिया ।
यतुरस्त्रपदं गीतं मुखप्रतिमुखान्वितम् ।। साद-६.२२० ।।
द्विगूढं रसभावाढ्यम्– —उत्तमोत्तमकं पुनः ।
क्पप्रसादजमधिक्षेपयुक्तं रसोत्तरम् ।। साद-६.२२१ ।।
हावहेलान्वितं चित्रश्लोकबन्धमनोहरम् ।
उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ।। साद-६.२२२ ।।
विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते ।
स्पष्टान्युदाहरणानि ।
एतदेव यदा सर्वैः पताकास्थानकैर्युतम् ।। साद-६.२२३ ।।
अङ्कैश्च दशभिर्धोरा महानाटकमूचिरे ।
एतदेव नाटकम् ।
यथा—बालरामायणम् ।
अथ प्रकरणम् —
भवेत्प्रकरणो वृत्तं लौकिकं कविकल्पितम् ।। साद-६.२२४ ।।
शृङ्गारो ऽङ्गी नायकस्तु विप्रो ऽमात्यो ऽथवा वणिक् ।
सापायधर्मकामार्थपरो धीर शान्तकः ।। साद-६.२२५ ।।
विप्रनायकं यथा मृच्छकटिकम् ।
अमात्यनायकं मालतीमाधवम् ।
वणिड्नायकं पुष्पभूषितम् ।
नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।
तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः ।। साद-६.२२६ ।।
कितवद्यूतकारादिविटचेटकसंकुलः ।
कुलस्त्री पुष्पभूषिते ।
वेश्या तु रङ्गवृत्ते ।
द्वे अपि मृच्छकटिके ।
अस्यनाटकप्रकृतित्वाच्छेषं नाटकवत् ।
अथ भाणः—
भाणः स्याद्धूर्तचरितो नानावस्थान्तरात्मकः ।। साद-६.२२७ ।।
एकाङ्क एक एवात्र निपुणः पण्डितो विटः ।
रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा ।। साद-६.२२८ ।।
संबोधनोक्तिप्रत्युक्तो कुर्यादाकाशभाषितैः ।
सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यवर्णनैः ।। साद-६.२२९ ।।
तत्रैतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारति ।
मुखनिवहणो सन्धी लास्याङ्गानि दशापि च ।। साद-६.२३० ।।
अत्राकाशभाषितरूपपरवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्यात् ।
शृङ्गारवीररसौ च सौभाग्यशौर्यवर्णनया सूचयेत् ।
प्रायेण भारती, क्वापि कौशिक्यपि वृत्तिर्भवति ।
लास्याङ्गानि गेयपदादीनि ।
उदाहणं लीलामधुकरः ।
अथ व्यायोगः—
ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः ।
हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः ।। साद-६.२३१ ।।
एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः ।
कैशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ।। साद-६.२३२ ।।
राजषिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः ।
हास्यशृङ्गारशान्तेभ्य इतरे ऽत्राङ्गिनो रसाः ।। साद-६.२३३ ।।
यथा सौगन्धैकाहरणम् ।
अथ समवकारः—
वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् ।
सन्धयो निर्विमर्शास्तु त्रयो ऽङ्कास्तत्र चादिमे ।। साद-६.२३४ ।।
सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुनः ।
नायका द्वादशोदात्ताः प्रख्याता देवमानवाः ।। साद-६.२३५ ।।
फलं पृथक्पृथक्तेषां वीरमुख्यो ऽखिलो रसः ।
वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ ।। साद-६.२३६ ।।
वीथ्यङ्गानि च तत्र स्युर्ययालाभं त्रयोदश ।
गायत्र्युष्णिङ्मुखान्यत्र च्छन्दांसि विविधानि च ।। साद-६.२३७ ।।
त्रिशृङ्गारस्त्रिकपटः कार्यश्चायं त्रिविद्रवः ।
वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगम् ।। साद-६.२३८ ।।
द्वितीये ऽङ्के चतसृभिर्द्वाभ्यामङ्केतृतीयके ।
नालिका घटिकाद्वयमुच्यते ।
बिन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ ।
तत्र—
धर्मार्थकामैस्त्रिविधः शृङ्गारः, कपटः पुनः ।। साद-६.२३९ ।।
स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः ।
अचेतनैश्चेतनैश्च चेतनाचेतनैःकृतः ।। साद-६.२४० ।।
तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः ।
अर्थलाभार्थकल्पितोर्ऽथशृङ्गारः ।
प्रहसनशृङ्गारः कामशृङ्गारः ।
तत्र कामशृङ्गारः प्रथमाङ्कः एव ।
अन्ययोस्तु न नियम इत्याहुः ।
चेतनाचेतना गजादयः ।
समवकीर्यन्ते बहवोर्ऽथा अस्मिन्नति समवकारः ।
यथा—समुद्रमथनम् ।
अथ डिमः—
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।
उपरागैश्च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ।। साद-६.२४१ ।।
अङ्गी रौद्ररसस्तत्र सर्वे ऽङ्गानि रसाः पुनः ।
चत्वारो ऽङ्का मता नेह विष्कम्भकप्रवेशकौ ।। साद-६.२४२ ।।
नायका देवगन्धर्वयक्षरक्षोमहोरगाः ।
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।। साद-६.२४३ ।।
वृत्तयः कौशिकीहीना निर्विमर्शाश्च सन्धयः ।
दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गारवजिंताः ।। साद-६.२४४ ।।
अत्रोदाहरणं च “त्रिपुरदाहः” इति महर्षिः ।
अथेहामृगः–
ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तितः ।
मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा ।। साद-६.२४५ ।।
नरदिव्यावनियमौ नायकप्रतिनायकौ ।
ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ।। साद-६.२४६ ।।
दिव्यस्त्रियमनिच्छन्तीकपहारादिनेच्छतः ।
शृङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत् ।। साद-६.२४७ ।।

पताकानायका दिव्या मर्त्या वापि दशोद्धताः ।
युद्धमानीय संरम्भं परं व्याजान्निवर्तते ।। साद-६.२४८ ।।

महाध्मानो वधप्राप्ता अपि वध्याः स्युरत्र नो ।
एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ।। साद-६.२४९ ।।
दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे ।
मिश्रं ख्याताख्यातम् ।
अन्यः प्रतिनायकः ।
पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश ।
नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः ।
यथा—कुसुमशेखरविजयादिः ।
अथाङ्कः—
उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ।। साद-६.२५० ।।
रसो ऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् ।
प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपञ्चयेत् ।। साद-६.२५१ ।।
भाणावत्सन्धैवृत्तयङ्गान्यस्मिञ्जयपराजयौ ।
युद्धं च वाचा कर्त्तव्यं निर्वदवचनं बहु ।। साद-६.२५२ ।।
इसं च केचित् नाटकाद्यन्तः पात्यङ्कपरिच्छेदार्थमुत्सृष्टिकाङ्कनामानम् आहुः ।
अन्ये तु—उत्क्रान्ता विलोमरूपा सृष्टिर्यत्रेत्युत्सृष्टिकाङ्कः ।
यथा–शमिष्ठाययातिः ।
अथ वीथी—
वीथ्यामेको भवेदङ्कः कश्चिदेको ऽत्र कल्प्यते ।
आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ।। साद-६.२५३ ।।
सूचयेद्भरि शृङ्गारं किञ्चिदन्यान्नसान् प्रति ।
मुखनिर्वहणो सन्धई अर्थप्रकृतयो ऽखिलाः ।। साद-६.२५४ ।।
कश्चिदुत्तमो मध्यमो ऽधमो वा शृङ्गारबहुलत्वाच्चास्याः कौशिकीवृत्तिबहुलत्वम् ।
अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः ।
उद्धात्य (त) कावलगिते प्रपञ्चस्त्रिगतं छलम् ।। साद-६.२५५ ।।
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृद(मार्द) वानि च तानि तु ।। साद-६.२५६ ।।
तत्रोद्धात्य(त) कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते ।
मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः ।
यथा विक्रमोर्वश्याम्–वलीभीस्थविदूषकचेट्योरन्योन्यवचनम् ।
त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ।। साद-६.२५७ ।।
यथा तत्रैव—राजा— सर्वक्षितिभृतां नाथ !, दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्ते ऽस्मिन् मया विरहिता त्वया ।।

(नेपथ्ये तत्रैव प्रतिशब्दः) राजा कथं दृष्टेत्याह ।
अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् ।
नटादित्रितयविषयमेवेदमिति कश्चित् ।
प्रियाभैरप्रियैर्वाक्यैर्विलोभ्यच्छलनाच्छलम् ।
यथा वेण्याम्–भीमार्जुनौ— कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः सो ऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वाऽस्ते दुर्योधनो ऽसौ कथयत, न रुषा, द्रष्टुमभ्यागतौ स्वः ।।
अन्ये त्वाहुश्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित् ।। साद-६.२५८ ।।
उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् ।
वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् ।। साद-६.२५९ ।।
द्वित्रीत्युपलक्षणम् ।
यथा— भिक्षो ! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहो ऽपि भवतो, नष्टस्य कान्या गतिः ।।

केचित्–“प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः” इत्याहुः ।
अन्ये “अनेकस्य प्रश्नस्यैकमुत्तरम्” ।
अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् ।
यथा मम प्रभावत्याम्–वज्रनाभः— अस्य वक्षः क्षणोनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ।।

प्रद्युम्नः—अरे रे असुरापसद ! अलममुना बहुप्रलापेन ।
मम खलु— अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः ।
आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ।।
गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ।। साद-६.२६० ।।
यथा वेण्याम्–राजा— अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरुग्मम् ।।

अनन्तरम् (प्रविश्य) कञ्चुकी–देव ! भग्नं भग्नम्-इत्यादि ।
अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् ।
व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।
यथा छिलितरामे–सीता-जाद ! काल्लं क्खु अओज्भ्क्ताएण गन्तव्वम्, तर्हि सो राआ विणएण पणयिदव्वो ।
लवः–अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यम् ।
सीता–जाद ! सो क्खु तुम्हाणं पिदा ।
लवः–किमावयो रघुपतिः पिता ।
सीता–(साशङ्कम्) मा अण्णधा सङ्कद्धम्, ण क्खु तुम्हाणं सअलाए ज्जेव पुहवीएत्ति ।
प्रहेलिकैव हास्येन युक्ता भवति नालिका ।। साद-६.२६१ ।।
संवरणकार्युत्तरं प्रहेलिका ।
यथा रत्नावल्याम्—सुसङ्गता—सहि जस्स किदे तुमं आअदा सो इद ज्जेव चिट्ठदि ।
सागरिका–कस्स किदे अहं आअदा सुसङ्गता–णं क्खु चित्तफलअस्स ।
अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः ।
असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरम् ।
अगृह्णतो ऽपि मूर्खस्य पुरो यच्च हितं वचः ।। साद-६.२६२ ।।
तत्राद्यं यथा मम प्रभावत्याम्–प्रद्युम्नः– (सहकारवल्लीमवलोक्य सानन्दम्) अहो कथमिहैव— अलिकुलमञ्जुलकेशी परिमलबहला रसावहा तन्वी ।
किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतम् मे ।।

एवमसंबद्धोत्तरे ऽपि ।
तृतीयं यथा–वेण्यां दुर्योधनं प्रति गान्धारीवाक्यम् ।
व्याहारो यत्परस्यार्थे हास्यक्षोभकरं वचः ।
यथा मालविकाग्निमित्र—(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति) विढूषकः–मा दाव उवदेसमुद्धा गमिस्ससि ।
(इत्युपक्रमेण) गणदासः–(विदूषकं प्रति—) आर्य ! उच्यतां यस्त्वया क्रमभेदो लक्षितः ।
विदूषकः–पढमं बम्भणपूआ भोदि, सा इमाए लङ्घिदा ।
(मालविकास्मर्यते) इत्यादिना नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकारिण वचसा व्याहारः ।
दोषा गुणा गुणा दोषा यत्र स्युर्मृदर्(मादं)वं हि तत् ।। साद-६.२६३ ।।
क्रमेण यथा— प्रिय ! जीवितताक्रौर्यं निःस्नेहत्वं कृतघ्नता ।
भूयस्त्वद्दर्शनादेव ममैते गुणतां गताः ।।

तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया ।
सुखैकायतनं जातं दुःखायैव ममाधुना ।।

एतानि चाङ्गनि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि ।
वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयम् ।
यथा—मालविका ।
अथ प्रहसनम्—
भाणावत्सन्धिसच्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् ।
भवेत्प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ।। साद-६.२६४ ।।
अत्र नारभटी, नापि विष्कम्भकप्रवेशकौ ।
अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ।। साद-६.२६५ ।।
तत्र—
तपस्विभगद्विप्रप्रभृतिष्वत्र नायकः ।
एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुच्यते ।
यथा कन्दर्पकेलिः ।
आश्रित्य कञ्चन जनं संकीर्णमिति तद्विदुः ।। साद-६.२६६ ।।
यथा—धूर्तचरितम् ।
वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिदूचिरे ।
तत्पुनर्भवति द्व्यङ्कमथवैकाङ्कनिर्मितम् ।। साद-६.२६७ ।।
यथा–लटकमेलकादिः ।
मुनिस्त्वाह— वेश्याचेटनपुंसकविटधूर्ता वन्धकी च यत्र स्युः ।
अविकृतवेषपरिच्छचेष्टितकरणं तु सङ्कीर्णम् ।।

इति ।
विकृतं तु विदुर्यत्र षण्ढकञ्चुकितापसाः ।
भुजङ्गचारणभटप्रभृतेर्वेषवाग्युताः ।। साद-६.२६८ ।।
इदं तु सङ्कीर्णेनैव गतार्थमिति मुनिना पृथङ्नोक्तम् ।
अथोपरूपकाणि ।
तत्र नाटिका कॢप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका ।
प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ।। साद-६.२६९ ।।
स्यादन्तः पुरसम्बद्धा सङ्गीतव्यापृताथवा ।
नवानुरागा कन्यात्र नायिका नृपवंशजा ।। साद-६.२७० ।।
सम्प्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः ।
देवो भवेत्पुनर्ज्येष्ठा प्रगल्भा नृपवंशजा ।। साद-६.२७१ ।।
पदे पदे मानवती तद्वशः सङ्गमो द्वयोः ।
वृत्तिः स्यात्कौशिकी स्वल्पविमर्शाः सन्धयः पुनः ।। साद-६.२७२ ।।
द्वयोर्नायिकानायकयोः ।
यथा–रत्नावली—विद्धशालभञ्जिकादिः ।
अथ त्रोटकम्-
सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् ।
त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम् ।। साद-६.२७३ ।।
प्रत्यङ्कसविदूषकत्वादत्र शृङ्गारो ऽङ्गी ।
सप्ताङ्कं यथा–स्तम्भितरम्भम् ।
पञ्चाङ्कं यथा–विक्रमोर्वशी ।
अथ गोष्ठी—
प्राकृतैर्नवभैः पुंभिर्दशभिर्वाप्यलंकृता ।
नोदात्तवचना गोष्ठी कौशिकीवृत्तिशालिनी ।। साद-६.२७४ ।।
हीना गर्भविमर्शाभ्यां पञ्चषड्योषिदन्विता ।
कामशृङ्गारसंयुक्ता स्यादेकाङ्कविनिर्मिता ।। साद-६.२७५ ।।
यथा—रैवतमदनिका ।
अथ सट्टकम्–
सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् ।
न च विष्कम्भको ऽप्यत्र प्रचुरश्चाद्भुतो रसः ।। साद-६.२७६ ।।
अङ्का जवनिकाख्याः स्युः स्यादन्यन्नाटिकासमम् ।
यथा—कर्पूरमञ्जरी ।
अथ नाट्यरासकम्—
नाट्यरासकमेकाङ्कं बहुताललयस्थिति ।। साद-६.२७७ ।।
उदात्तनायकं तद्वत्पीठमर्देपनायकम् ।
हास्यो ऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका ।। साद-६.२७८ ।।
मुखनिर्वहणे सन्धई लास्याङ्गानि दशापि च ।
केचित्प्रतिमुखं सन्धैमिह नेच्छन्ति केवलम् ।। साद-६.२७९ ।।
तत्र सन्धैद्वयवती यथा–नर्मवती ।
सन्धैचतुष्टयवती यथा–विलासवती ।
अथ प्रस्थानकम्–
प्रस्थाने नामको दासो हीनः स्यादुपनायकः ।
दासी च नायिका वृत्तिः कौशिकी भारती तथा ।। साद-६.२८० ।।
सुरापानसमायोगादुद्दिष्टार्थस्य संहृतिः ।
अङ्कौ द्वौ लयतालादिर्विलासो बहुलस्तथा ।। साद-६.२८१ ।।
यथा—शृङ्गारतिलकम् ।
अथोल्लाप्यम्—
उदात्तनायकं दिव्यवृत्तमेकाङ्कभूषितम् ।
शिल्पकाङ्गैर्युतं हास्यशृङ्गारकरुणै रसैः ।। साद-६.२८२ ।।
उल्लाप्यं बहुसंग्राममस्त्रगीतमनोहरम् ।
चतस्त्रो नायिकास्तत्र त्रयो ऽङ्का इति केचन ।। साद-६.२८३ ।।
शिल्पकाङ्गानि वक्ष्यमाणानि ।
यथा–देवीमहादेवम् ।
अथ काव्यम्—
काव्यमारभटीहीनमेकाङ्गंहास्यसंकुलम् ।
खण्डमात्राद्विपदिकाभग्नतालैरलंकृतम् ।। साद-६.२८४ ।।
वर्णमात्राछड्डणिकायुतं शृङ्गारभाषितम् ।
नेता स्त्री चाप्युदात्तात्र सन्धी आद्यो तथान्तिमः ।। साद-६.२८५ ।।
यथा—यादवोदयम् ।
अथ प्रेङ्खणम्—
गर्भावमर्शरहितं प्रेङ्खणं हीननायकम् ।
असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकम् ।। साद-६.२८६ ।।
नियुद्धसम्फेटयुतं सर्ववृत्तिसमाश्रितम् ।
नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ।। साद-६.२८७ ।।
यथा—वालिवधः ।
अथ रासकम्—
रासकं पञ्चपात्रं स्यान्मुखनिर्वहणान्वितम् ।
भाषाविभाषाभूयिष्ठं भारती कौशिकीयुतम् ।। साद-६.२८८ ।।
असूत्रधारमेकाङ्कं सवीथ्यङ्गं कलान्वितम् ।
श्लिष्टनान्दीयुतं ख्यातनायिकं मूर्खनायकम् ।। साद-६.२८९ ।।
उदात्तभावविन्यससंश्रितं चोत्तरोत्तरम् ।
इह प्रतिमुखं सन्धिमपि केचित्प्रचक्षते ।। साद-६.२९० ।।
यथा—मेनंकाहितम् ।
अथ संलापकम्—
संलापके ऽङ्काश्चत्वारस्त्रयो वा नायकः पुनः ।
पाषण्डः स्याद्रसस्तत्र शृङ्गारकरुणोतरः ।। साद-६.२९१ ।।
भवेयुः पुरसंरोधच्छलसंग्रामविद्रवाः ।
न तत्र वृत्तिर्भवति भारती न च कौशिकी ।। साद-६.२९२ ।।
यथा—मायाकापालिकम् ।
अथ श्रीगदितम्—
प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम् ।
प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम् ।। साद-६.२९३ ।।
भारतीवृत्तिबहुलं श्रीतिशब्देन संकुलम् ।
मतं श्रीगदितं नाम विद्वद्भिरुपरूपकम् ।। साद-६.२९४ ।।
यथा—क्रीडारसातलम् ।
श्रीरासीना श्रीगदिते गायेत्किं चित्पठेदपि ।
एकाड्को भारतीप्राय इति केचित्प्रचक्षते ।। साद-६.२९५ ।।
ऊह्यमुदाहरणम् ।
अथ शिल्पकम्—
चत्वारः शिल्पके ऽङ्काः स्युश्चतस्त्रो वृत्तयस्तथा ।
अशान्तहास्याश्च रसा नायको ब्राह्मणो मतः ।। साद-६.२९६ ।।
वर्णनात्र श्मशानादेर्हेनः स्यादुपनायकः ।
सप्तिविंशतिरङ्गानि भवन्त्येतस्य तानि तु ।। साद-६.२९७ ।।
आशंसातर्कसंदेहतापोद्वेगप्रसक्तयः ।
प्रयत्नग्रथनोत्कण्ठावहित्थाप्रतिपत्तयः ।। साद-६.२९८ ।।
विलासालस्यबाष्पाणि प्रहर्षाश्वासमूढताः ।
साधनानुगमोच्छवासविस्मयप्राप्तयस्तथा ।। साद-६.२९९ ।।
लाभविस्मृतिसंफोटा वैशारद्यं प्रबोधनम् ।
चमत्कृतिश्चेत्यमीषां स्पष्टत्वाल्लक्ष्म नोच्यते ।। साद-६.३०० ।।
संफोटग्रथनयोः पूर्वमुक्तत्वादेव लक्ष्म सिद्धम् ।
यथा—कनकावतीमाधवः ।
अथ विलासिका—
शृङ्गारबहुलैकाङ्का दशलास्याङ्गसंयुता ।
विदूषकविटाभ्यां च पीठमर्देन भूषिता ।। साद-६.३०१ ।।
हीना गर्भविमर्शाभ्यां संधिभ्यां हीननायका ।
स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका ।। साद-६.३०२ ।।
केचित्तु तत्र विलासिकास्थाने विनायिकेति पठन्ति ।
तस्यास्तु “दुर्मल्लिकायामन्तर्भावः” इत्यान्ये ।
अथ दुर्मल्लिका—
दुर्मल्ली चतुरङ्का स्यात् कौशिकीभारतीयुता ।
अगर्भा नागरनरान्यूननायकभूषिता ।। साद-६.३०३ ।।
त्रिनालिः प्रथमो ऽङ्कास्यां विटक्रीडामयो भवेत् ।
पञ्चनालिद्वितीयो ऽङ्को विदूषकविलासवान् ।। साद-६.३०४ ।।
षण्णालिकस्तृतीयस्तु पीठमर्दविलासवान् ।
चतुर्थो दशनालिः स्यादङ्कः क्रीडितनागरः ।। साद-६.३०५ ।।
यथा—बिन्धुमती ।
अथ प्रकरणिका—
नाटिकैव प्रकरणी सार्थवाहादिनायका ।
समानवंशजा नेतुर्भवेद्यत्र च नायिका ।। साद-६.३०६ ।।
मृग्यमुदाहरणम् ।
अथ हल्लीशः—
हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः ।
वागुदात्तैकपुरुषः कौ (कै) शिकीवृत्तिरुज्ज्वला ।
मुखान्तिमौ तथा सन्धी बहुताललयस्थितिः ।। साद-६.३०७ ।।
यथा—कोलिरैवतकम् ।
अथ भाणिका–
भाणिका श्लक्ष्णनेपथ्या मुखनिर्वहणन्विता ।
कौ (कै) शिकीभारतीवृत्तियुक्तैकाङ्कविनिर्मिता ।। साद-६.३०८ ।।
उदात्तनायिका मन्दनायकात्राङ्गसप्तकम् ।
उपन्यासो ऽथ विन्यासो विबोधः साध्वसं तथा ।। साद-६.३०९ ।।
समर्पणं निवृत्तिश्च संहार इति सप्तमः ।
उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम् ।। साद-६.३१० ।।
निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति स स्मृतः ।
भ्रान्तिनाशो विबोधः स्यान्मिथ्याख्यानं तु साध्वसम् ।। साद-६.३११ ।।
सोपालम्भवचः कोपपीडयेह समर्पणम् ।
निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते ।। साद-६.३१२ ।।
संहार इति च प्राहुर्यत्कार्यस्य समापनम् ।
स्पष्टान्युदाहरणानि ।
यथा—कामदत्ता ।
एतेषां सर्वेषां नाटकप्रकृतित्वे ऽपि यथैचित्यं यथालाभं नाटकोक्तविशेषपरिग्रहः ।
यत्र च नाटकोक्तस्यापि पुनरुपादानं तत्र तत्सद्भावस्य नियमः ।
अथ श्रव्यकाव्यानि—
श्रव्यं श्रोतव्यमात्रं तत्पद्यगद्यमयं द्विधा ।। साद-६.३१३ ।।
तत्र पद्यमयान्याह—
छन्दोबद्धपदं पद्यं तेन मुक्तेन मुक्तकम् ।
द्वाभ्यां तु युग्मकं सांदानतिकं त्रिभिरिष्यते ।। साद-६.३१४ ।।
कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् ।
तत्र मुक्तकं यथा मम— “सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनो ऽपि क्षणं साक्षात्कर्तुमुपासते प्रति मुहुर्ध्यानैकतानाः परम् ।
धन्यास्ता मधुरापिरीयुवतयस्तद्ब्रह्म या कौतुका– दालिङ्गन्ति समलपन्ति शतधाऽकर्षन्ति चुम्बन्ति च” ।।

युग्मकं यथा मम— “किं करोषि करोपान्ते कान्ते ! गण्डस्थलीमिमाम् ।
प्रणयप्रवणो कान्ते ऽनैकान्ते नोचिताः क्रुधः ।।

इति यावत्कुरङ्गाक्षीं वक्तुमीहामहे वयम् ।
तावदाविरभूच्चूते मधुरो मधुपध्वनिः” ।।

एवमन्यान्यपि ।
सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ।। साद-६.३१५ ।।
सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ।
एकवंशभवा भूपाः कुलजा बहवो ऽपि वा ।। साद-६.३१६ ।।
शृङ्गारवीरशान्तानामेको ऽङ्गी रस इष्यते ।
अङ्गानि सर्वे ऽपि रसाः सर्वे नाटकसन्धयः ।। साद-६.३१७ ।।
इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ।
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ।। साद-६.३१८ ।।
आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ।
क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनम् ।। साद-६.३१९ ।।
एकवृत्तमयैः पद्यैरवसाने ऽन्यवृत्तकैः ।
नास्तिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ।। साद-६.३२० ।।
नानावृत्तमयः कापि सर्गः कश्चन दृश्यते ।
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।। साद-६.३२१ ।।
संध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः ।
प्रातर्मध्याह्नमृगयाशैलर्तुवनसागराः ।। साद-६.३२२ ।।
संभागविप्रलम्भौ च मुनिस्वर्गपुनाध्वराः ।
रणप्रयाणोपयममन्त्रमुत्रोदयादयः ।। साद-६.३२३ ।।
वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ।
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।। साद-६.३२४ ।।
नामास्य सर्गोपादेयकथया सर्गनाम तु ।
सन्ध्यङ्गानि यथालाभमत्र विधेयानि “अवसाने ऽन्यवृत्तकैः” इति बहुवचनमविवक्षितम् ।
साङ्गोपाङ्गा इति जलकेलिमधौपानादयः ।
यथा—रघुवंश—शिशुपालवः—नैषधादयः ।
यथा वा मम—राघवविलासादिः ।
अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः ।। साद-६.३२५ ।।
अस्मिन्महाकाव्ये ।
यथा—महाभारतम् ।
प्राकृतैर्निर्मिते तस्मिन्सर्गा आश्वाससंज्ञकाः ।
छन्दसा स्कन्धकेनैतत्क्वचिद्रलितकैरपि ।। साद-६.३२६ ।।
यथा—सेतुबन्धः ।
यथा वा मम—कुवलयाश्वचरितम् ।
अपभ्रंशनिबद्धे ऽस्मिन् सर्गाः कुडवकाभिधाः ।
तथापभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि ।। साद-६.३२७ ।।
यथा—कर्णपराक्रमः ।
भाषाविभाषानियमात्काव्यं सर्गसमुज्भ्क्तितम् ।
एकार्थप्रवणैः पद्यैः संधिसामग्र्यवर्जितम् ।। साद-६.३२८ ।।
यथा—भिक्षाटनम्, आर्याविलासश्च ।
खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च ।
यथा—मेघदूतादि ।
कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः ।। साद-६.३२९ ।।
व्रज्याक्रमेण रचितः स एवातिमनोरमः ।
सजातीयानामेकत्र सन्निवेशो व्रज्या ।
यथा मुक्तावल्यादिः ।
अथ गाद्यकाव्यानि ।
तत्र गद्यम्—
वृत्तगन्धोज्जितं गद्यं मुक्तकं वृत्तगन्धि च ।। साद-६.३३० ।।
भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् ।
आद्यं समासरिहितं वृत्तभागयुतं परम् ।। साद-६.३३१ ।।
अन्यद्दीर्घसमासाढ्यं तुर्य चाल्पसमासकम् ।
मुक्तकं यथा—“गुरुर्वचसि पृथुरुरसि–” इत्यादि ।
वृत्तगन्धि यथा मम– “समरकण्डूलनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटंकारोज्जागरितवैरिनगर” इत्यादि ।
अत्र “कुण्डलीकृतकोदण्डऽ–इत्यनुष्टुब्वृत्तस्य पादः, “समरकण्डूल” इति च प्रथमाक्षरद्वयरिहितस्तस्यैव पादः ।
उत्कलिकाप्रायं यथा ममैव—“अणिसविसुमरणिसिदसरविसरविदलिदसमरपरिगदपवरपरवल—” इत्यादि ।
चूर्णकं यथा भम–“गुणरत्नसागर ! जगदेकनागर ! कामिनीमदन ! जनरञ्जन !” इत्यादि ।
कथायां सरसं वस्तु गद्यैरेव विनिमितम् ।। साद-६.३३२ ।।
क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके ।
आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ।। साद-६.३३३ ।।
यथा—कादाम्बर्यादिः ।
आख्यायिका कथावत्स्यात्कवेर्वशानुकीर्तनम् ।
अस्यामन्यकवीनां च वृत्तं पद्यं क्वचित्क्वचित् ।। साद-६.३३४ ।।
कथांशानां व्यवच्छेद आश्वास इति वध्यते ।
आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ।। साद-६.३३५ ।।
अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् ।
यथा—हर्षचरितादिः ।
“अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्” ।
इति दण्ड्याचार्यवचनात् केचित् आख्यायिका नायकेनैव निबद्धव्या” इत्याहुः, तदयुक्तम् ।
आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः ।
यदुक्तं दण्डिनैव—अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः” ।
इति ।
एषामुदाहरणम्—पञ्चतन्त्रादि ।
अथ गद्यपद्यमयानि—
गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ।। साद-६.३३६ ।।
यथा—देशराजचरितम् ।
गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते ।
यथा—विरुदमणिमाला ।
करम्भकं तु भाषाभिविविधाभिर्विनिर्मितम् ।। साद-६.३३७ ।।
यथा मम—षोडशभाषामयी प्रशास्तिरत्नावली ।
एवमन्ये ऽपि भेदा उद्देशमात्रप्रसीद्धत्वादुक्तभेदानतिक्रमाच्च न पृथग्लक्षिताः ।।

इति साहित्यदर्पणो दृश्यश्रव्यकाव्यनिरूपणो नाम षष्ठः परिच्छेदः ।

सप्तमः परिच्छेदः

इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिक्रमो दशितः, संप्रति के त इत्यपेक्षायामुद्देशक्रमप्राप्तानां दोषणां स्वरूपमाह—
रसापकर्षका दोषाः,—
अस्यार्थः प्रगेव स्फुटीकृतः ।
तद्विशेषानाह—
—ते पुनः पञ्चधा मताः ।
पदे तदंशे वाक्येर्ऽथे संभवन्ति रसे ऽपि यत् ।। साद-७.१ ।।

दुःश्रवत्रिविधाश्लीलानुचितार्थप्रयुक्तताः ।
ग्राम्याप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ।। साद-७.२ ।।
अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता ।
अविमृष्टविधेयांशभावश्च पदवाक्ययोः ।। साद-७.३ ।।
दोषाः केचिद्भवन्त्येषु पदांशे ऽपि पदे परे ।
निरर्थकासमर्थत्वे च्युतसंस्कारता तथा ।। साद-७.४ ।।
परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् ।
यथा— “कार्त्तर्थ्यं यातु तन्वङ्गी कदानङ्गवशंवदा” ।
अश्लीलत्वं व्रीडादुगुप्सामङ्गलव्यञ्जकत्वात्निविधम् ।
क्रमेणोदाहरणम्— “तृप्तारिविजये राजन् ! साधनं सुमहत्तव” ।
“प्रससार शनैर्वायुर्विनाशे तन्वि ! ते तदा” ।
अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः ।
“शूरा अमरतां यान्ति पशुभूता रणाध्वरे ।
अत्र पशुत्वं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् ।
अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वम् ।
यथा— “भाति पद्मः सरोवरे” ।।

अत्र पद्मशब्दः पुंल्लिङ्गः ।
ग्राम्यत्वं यथा— “कटिस्ते हरते मनः” ।।

अत्र कटिशब्दो ग्राम्यः ।
अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् ।
यथा— योगेन दलिताशयः” ।।

अत्र योगशास्त्र एव वासनार्थ आशयशब्दः ।
“आशईः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु” ।
अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति संदेहः ।
नोत्यर्थत्वं रूढीप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् ।
यथा— “कमले चरणाघातं मुखं सुमुखि ! ते ऽकरेत् ।
अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् ।
निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेर्ऽथे प्रयोगः ।
यथा— “यमुनाशम्बरमम्बरं व्यतानीत्” ।
शम्बरशब्दो दैत्ये प्रसिद्धः, इह तु जले निहतार्थः ।
“गीतेषु कर्णमादत्ते” ।
अत्राङ्–पूर्वो दाञ्-धातुर्दानार्थे ऽवाचकः ।
यथा वा— “जिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी” ।
अत्र दिनमिति प्रकाशमयार्थे ऽवाचकम् ।
क्लिष्टत्वमर्थप्रतीतेर्व्यवहितम्, यथा— “क्षीरोदजावसतिजन्मभुवः प्रसन्नाः” ।
अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पद्मं तस्य जन्मभुवो जलानि ।
“भूतये ऽस्तु भवानीशः” ।
अत्र भवानीशशब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् ।
विधेयस्य विमर्शाभावेन गुणीभूतत्वम् अविमृष्टविधेयांशत्वम् ।
यथा— “स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” ।
अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् ।
यथा वा— “रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे” ।
अत्र रामस्येति वाच्यम् ।
यथा वा— “आसमुद्रक्षितीशानाम्” ।
अत्रासमुद्रमिति वाच्यम् ।
यथा वा— “यत्र ते पतति सुभ्रु ! कटाक्षः षष्ठबाण इव पञ्चशरस्य” ।
अत्र षष्ठ इवेत्युत्प्रेक्ष्यम् ।
यथा वा— “अमुक्ता भवता नाथ ! मुहूर्त्तमपि सा पुरा” ।
अत्रामुक्तेत्यत्र “नञः प्रसज्यप्रतिषेधत्व” मिति विधेयत्वमेवोचितम् ।
यदाहुः— “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधो ऽसौ क्रियया सह यत्र नञ्” ।।

यथा— “नवजलधरः संनद्धो ऽयं न दृप्तनिशाचरः” ।
उक्तोदाहरणो तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतयानवगमः ।
यदाहुः— “प्रधानत्वं विधेर्यत्र प्रतिषेधे ऽप्रधानता ।
पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ्” ।।

तेन—“जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगुध्नुराददे सोर्ऽथानसक्तः सुखमन्वभूत्” ।।

अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः ।
ननु “अश्राद्धभोजी ब्राह्मणः” “असूर्यंपश्या राजदाराः” इत्यादिवत् “अमुक्ता” इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेद् ? न, अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम, न च तथा ॑ विशेष्यतया प्रधानेन तद्धोज्यार्थेन कर्त्रंशेनैव नञः सम्बन्धात् ।
यदाहुः— “श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते ।
न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः” ।।

इति ।
“अमुक्ता” इत्यत्र तु क्रिययैव सह संबन्ध इति दोष एव ।
एते च क्लिष्टत्वादयः समासगता एव पददोषाः ।
वाक्ये दुः श्रवत्वं यथा— “स्मरार्त्त्यन्धः कदा लप्स्ये कार्त्तार्थ्यं विरहे तव” ।।

कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ।।

अत्र जुगुप्साव्यञ्जिकाश्लीलता ।
“उद्यत्कमललौहित्यैर्वक्राभिर्भूषता तनुः” ।।

अत्र कलललौहित्यं पद्मरागः, वक्राभिर्वामाभिः, इति नेयार्थता ।
“धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्” ।।

अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न सज्यतीति संबन्धः क्लिष्टः ।
“न्यक्कारो ह्ययमेव मे यदरयः” इति ।
अत्र चायमेव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् ।
तच्च शब्दरचनावैपरीत्यैन गुणीभूतम् ।
रचना च पदद्वयस्य विपरीतेति वाक्यदोषः ।
“आनन्दयति ते नेत्रे यो ऽसौ सुभ्रु ! समागतः” ।
इत्यादिषु “यत्तदोनित्यसंबन्धः” इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेतदः शब्दा विधेया एव भवितुं युक्ताः ।
अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत् ।
तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रम् ।
यथा— “यः स ते नयनानन्दकरः सुभ्रु ! स आगतः” ।
यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्क्षत्वमवगमयन्ति ।
यथा— “आनन्दयति ते नेत्रे यो ऽधुनासौ समागतः” ।
एवमिदमादिशब्दोपादाने ऽपि ।
यत्र च यत्तदोरेकस्यार्थत्वं संभवति, तत्रैकस्योपादाने ऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः ।
तथाहि यच्छब्दस्योत्तरवाक्यगत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छब्दस्यार्थत्वम् ।
यथा— “आत्मा जानाति यत्पापम्” ।
एवम्—“यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च—” इत्यादावपि ।
तच्छब्दस्य प्रक्रान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् ।
क्रमेण यथा— “स हत्वा वालिनं वीरस्तत्पद्रे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्” ।।

“स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम्” ।
“तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि” ।
यत्र च यच्छब्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तित्वं तत्रापि निराकाङ्क्षत्वमेव ।
क्रमेण यथा– “विभाति मृगशावाक्षी येदं भुवनभूषणम्” ।
“इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः” ।
क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः ।
यथा— “न मे शमयिता को ऽपि मारस्येत्युवि ! मा शुचः ।
नन्दस्य भवने को ऽपि बालो ऽस्त्यद्भुतपौरुषः” ।।

अत्र यो ऽस्ति, स ते भारस्य शमयितेति बुध्यते ।
“यद्यद्विरहदुःखं मे तत्को वापहरिष्यति” ।
इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम्, तथाहि—यद्यदित्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् ।
तथाभूतस्य तस्य तच्छब्देन परामर्शः ।
एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम् ।
पदांशे दुः श्रवत्वं यथा— “तद्रच्छ सिद्धयै कुरु देवकार्यम्” ।
“धातुमत्तां गिरिर्धत्ते” ।
अत्र मत्ताशब्दः क्षीबार्थे निहतः ।
“वर्ण्यते किं महासेनो विजेयो यस्य तारकः” ।
अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थे ऽवाचकः ।
“पाणिः पल्लवपेल्लत्रः” ।
पेलवशब्दस्याद्याक्षरे अश्लीले ।
“संग्रामे निहताः शूरा वचो बाणत्वमागताः” ।
अत्र वचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थात्वम् ।
तथा तत्रैव बाणस्थाने शरेति पाठे ।
अत्र पदद्वयमपि न परिवृत्तिसहम् ।
जलध्यादौ तूत्तरपदम्, वाडवानलादौ पूर्वपदम् ।
एवमन्ये ऽपि यथासंभवं पदांशदोषा ज्ञेयाः ।
निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैल लक्ष्ये संभवः ।
क्रमतो यथा— “मुञ्च मानं हि मानिनि !” ।।

अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः ।
कुञ्जं हन्ति कृशोदरी ।
अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थम् ।
“गण्डीवी कनकशिलानिभं भुजभ्यामाजध्ने विषमविलोचनस्य वक्षः” ।
“आङो यमहनःऽ, “स्वाङ्गकर्मकाच्च” इत्यनुशासनबलादाङ्पूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम् ।
इह तु तल्लाङ्घतमिति व्याकरणलक्षणहीनत्वात् च्युतसंस्कारत्वम् ।
नन्वत्र “आजध्ने” इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैव इत्यस्य वाक्यदोषता ? मैवम्, तथाहि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः ।
इह तु दोषस्य “आजघ्ने” इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम, पदान्तराणां परिवर्त्तने ऽपि तस्य तादवस्थ्यादिति पददोषत्वमेव ।
तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः ।
एवं “पद्मः” इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यम् ।
एवं प्राकृतादिव्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यम् ।
इह तु शब्दानां सर्वथा प्रयोगाभावे ऽसमर्थत्वम् ।
विरलप्रयोगे निहतार्थत्वम् ।
निहतार्थत्वमनेकार्थशब्दविषयम् ।
अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः ।
अप्रयुक्तत्वमेकार्थशब्दविषयम् ।
असमर्थत्वमनेकार्थशब्दविषयम् ।
असमर्थत्वे हन्त्यादयो ऽपि गमनार्थे पठिताः ।
अवाकचत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः ।
एवं पददोषसजातीया वाक्यदोषा उक्ताः, सम्प्रति तद्विजातीया उच्यन्ते—
“वर्णानां प्रतिकूलत्वं, लुप्ताऽहतविसर्गते ।
अधिकन्यूनकथितपदताहतवृत्तता ।। साद-७.५ ।।
पतत्प्रकर्षता, सन्धौ विश्लेषाश्लीलकष्टताः ।
अर्धान्तरैकपदता समाप्तपुनरात्तता ।। साद-७.६ ।।
अभवन्मतसम्बन्धाक्रमामतपरार्थताः ।
वाच्यस्यानभिधानं च भग्नप्रकमता तथा ।। साद-७.७ ।।
त्यागः प्रसिद्धेरस्थाने न्यासः पदसमास्योः ।
संकीर्णता गर्भितता दोषाः स्युर्वाक्यमात्रगाः ।। साद-७.८ ।।
वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वम् ।
यथा मम— “ओवट्टै उल्लट्टै सअणो कहिंपि मोट्टाऐ णो परिहट्टै ।
हिअएण फिट्टै लज्जाइ खुट्टै दिहीए सा” ।।

अत्र टकाराः शृङ्गारसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः ।
एषां चैकद्वित्रिचतुः प्रयोगे न तादृशग्रसभङ्ग इति न दोषः ।
“गता निशा इमा बाले !” ।
अत्र लुप्तविसर्गाः ।
आहता ओत्वं प्राप्ता विसर्गा यत्र ।
यथा— “धीरो वरो नरो याति” ।
“पल्लवाकृतिरक्तोष्ठी” ।
अत्राकृतिपदमधिकम् ।
एवम्—“सदाशिवं नौमि पिनाकपाणिम्” ।
इति विशेषणमधिकम् ।
“कुर्यां हरस्यापि पिनाकपाणोःऽिति ।
अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव ।
यथा वा— “वाचमुवाच कौत्सः” ।
अत्र वाचमित्यधिकम् ।
उवाचेत्यनेनैव गतार्थत्वात् ।
क्वचित्तु विशेषणदानार्थं तत्प्रयोगो युज्यते ।
यथा— “उवाच मधुरा वाचम्” इति ।
केचित्त्वाहुः—यत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति तत्रापि तत्प्रयोगो न घटते ।
यथा— “उवाच मधुरं धीमान्” इति ।
“यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा” ।
अत्र प्रथमे त्वयेति पदं न्यूनम् ।
“रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्” ।
अत्र लीलाशब्दः पुनरुक्तः ।
एवम्—“जक्षुर्विसं धृतविकासिविसप्रसूनाः” ।
अत्र विसशब्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनाम्नैव परामर्शो युक्तः ।
हतवृत्तम्—लक्षणानुसरणो ऽप्यश्रव्यम्, रसाननुगुणम्, अप्राप्तगुरुभावान्तलघु च ।
क्रमेण यथा— “हन्त ! सततमेतस्य हृदयं भिन्ते मनोभवः कुपितः” ।
“अयि ! मयि मानिनि ! मा कुरु मानम्” ।
इदं वृत्तं हास्यरसस्यैवानुकूलम् ।
“विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः” ।
यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयम् ।
प्रथमतृतीयपादविषयन्तु वसन्ततिलकादेरेव ।
अत्र”प्रमुदितसौरभ आगतो वसन्तः” इति पाठो युक्तः ।
यथा वा— “अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भाराः खलु ते ऽन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां निग्तबस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च” ।।

अत्र “वस्त्राणि च” इति बन्धस्य श्लथत्वश्रुतिः ।
“वस्त्राण्यपि” इति पाठे तु दार्ढ्यमिति न दोषः ।
“इदमप्राप्तगुरुभावान्तलघु” इति काव्यप्रकाशकारः ।
वस्तुतस्तु “लक्षणानुसरणो ऽप्यश्रव्यम्” इत्यन्ये ।
प्रोज्जलज्ज्वालनज्वाला-विकटोरुसटाच्छटः ।
श्वासक्षिप्तकुलक्ष्माभृत् पातु वो नरकेशरी ।।

अत्र क्रमेणानुप्रासप्रकर्षः पतितः ।
“दलिते उत्पले एते अक्षिणी अमलाङ्गि ! ते” ।
एवंविधसन्धिविश्लेषस्य असकृत प्रयोग एव दोषः ।
अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धैविश्लेषस्य तु सकृदपि ।
यथा— “वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत्” ।
“चलण्डामरचेष्टितः” इति ।
अत्र सन्धौ जुगुप्साव्यञ्जकमश्लीलत्वम् ।
“उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः” ।
“अत्र सन्धौ कष्टत्वम् ।
“इन्दुर्विभाति कर्पूरगौरैर्धवलयन् करैः ।
जगन्मा कुरु तन्वङ्गि ! मानं पादानते प्रिये” ।।

अत्र जगदिति प्रथमार्द्धे पठितमुचितम् ।
“नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः ।
पतन्ति शशिनः पदा भासयन्तः क्षमातलम्” ।।

अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनरुपात्तः ।
श्रभवन्मतसम्बन्धो यथा— “या जयश्रीर्मनोजस्य यया जगदलङ्कृतम् ।
यामेणाक्षीं विना प्राणा विफला मे कुतो ऽद्य सा” ।।

अत्र यच्छब्दनिद्दिष्टनां वाक्यानां परस्परनिरपेक्षत्वात् तदेकान्तः पातिना एणाक्षीशब्देन अन्येषां सम्बन्धः कवेरभिमतो नोपपद्यत एव ।
“यां विनामी वृथा प्राणा एणाक्षी सा कृतो ऽद्य मे” ।
इति तच्छब्दनिर्दिष्टवाक्यान्तः पातित्वे ऽपि यच्छब्दनिद्दिष्टवाक्यैः सम्बन्धो घटते ।
यथा वा— “ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभुवः” ।
अत्र यदित्यस्य तदेत्यनेन सम्बन्धो न घटते ।
“ईक्षसे चेत्” इति तु युक्तः पाठः ।
यथा वा— “ज्योत्स्नाचयः पयः पूरस्तारकाः कैरवाणि च ।
राजति व्योमकासारराजहंसः सुधाकरः” ।।

अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सर्वैः संयोगः ।
विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टम् ।
इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वो ऽपि पयः पूरादिशब्दार्थस्तदङ्गतया न प्रतीयत इति सर्ववाक्यार्थविरोधावभास इत्युभयोर्भेदः ।
“अनेन च्छिन्दता मातुः कण्ठं पशुना तव ।
बद्धस्पर्द्धः कृपाणो ऽयं लज्जते मम भार्गव !” ।।

अत्र “भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनकर्त्तृत्वस्य परशुना सम्बन्धो न युक्तः” इति प्राच्याः ।
“परशुनन्दामुखेन भार्गवनिन्दाधिक्यमेव वैदग्ध्यं द्योतयति ” इत्याधुनिकाः ।
अक्रमता यथा— समय एव करोति बालबलं प्रणिगदन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृताः स्वरमयूरमयूरयणीयताम् ।।

अत्र परामृश्यमानवाक्यानन्तरमेवेति शब्दोपयोगो युज्यते, न तु “प्रणिगदन्त” इत्यनन्तरम् ।
एवम् —- “द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी” ।।

अत्र त्वमित्यनन्तरमेव चकारो युक्तः ।
अमतपरार्थता यथा— “राममन्मथशरेण ताडिता-” इत्यादि ।
अत्र शृङ्गारसस्य व्यञ्जको द्वितीयोर्ऽथः प्रकृतरसविरोधित्वादनिष्टः ।
वाच्यस्यानिभिधानं यथा— “व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि ! कुप्यसि” ।
अत्र व्यतिक्रमलवमपीत्यपरिवश्यं वक्तत्र्यो नोक्तः ।
न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः ।
एवमन्यत्रापि ।
यथा वा— “चरणानतकान्तायास्तन्वि ! कोपस्तथापि ते” ।।

अत्र चरणानतकान्तासीति वाच्यम् ।
भग्नप्रक्रमता यथा— “एतमुक्तो मन्त्रिमुख्यैः रावणः प्रत्यभाषत” ।
अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितम् ।
तेन “रावणः प्रत्यवोचत” इति पाठो युक्तः ।
एवं च सति न कथितपदत्वदोषः, तस्योद्देश्यव्यतिरिक्तविषयकत्वात् ।
इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देशत्वम् ।
यथा— “उदेति सविता ताम्रस्ताम्र एवास्तमेति च” ।
इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योर्ऽथ इव प्रतिभासमानः प्रतीतिं स्थगयति ।
यथा वा— “ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः” ।।

अत्र “अस्मै” इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतदः शब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन ।
यथा वा— “उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्” ।
अत्र “मिता भूः पत्यापां स च पतिरपाम्” इति युक्तः पाठः ।
एवम्— “यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः” ।।

अत्र “सुखमीहितुम्” इत्युचितम् ।
अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः ।
तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः ।
एवमन्यत्रापि ।
प्रसिद्धत्यागो यथा— “घोरो वारिमुचां रवः” ।
अत्र मेघानां गर्जितमेव प्रसिद्धम् ।
यदाहुः— “मञ्जीरादिषु रणतिप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्” ।।

इत्यादि ।
अस्थानस्थपदता यथा— “तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतो ऽस्य गङ्गाम् ।
अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः” ।।

अत्र तदीयपदात्पूर्वं गङ्गामित्यस्य पाठो युक्तः ।
एवम् — “हितान्न यः संशृणुते स किं प्रभुः” ।।

अत्र संशृणुत इत्यतः पूर्वं नञः स्थितिरुचिता ।
अत्र च पदमात्रस्यास्थाने निवेशे ऽपि सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता ।
एवमन्यत्रापि ।
इह के ऽप्याहु–“पदशब्देन वाचकमेव प्रायशो निगद्यते, न च नञो वाचकता, निर्विवादात्स्वातन्त्र्येणार्थबोधनविरहात्” इति ।
यथा—“द्वयं गतम्-” इत्यादौ त्वमित्यनन्तरं चकारानुपादानादक्रमता तथात्रापीति ।
अस्थनस्थसमासता यथा— “अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगति क्रोधादिवालोहितः ।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा त्फुल्लत्कैरवकोषनिः सरदलिश्रेणीकृपाणां शशी” ।।

अत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः ।
वाक्यान्तरपदानां वाक्यान्तरे ऽनुप्रवेशः सङ्कीर्णात्वम् ।
यथा— “चन्द्रं मुञ्च कुरङ्गाक्षि ! पश्य मानं नभो ऽङ्गने” ।
अत्र नभो ऽङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तम् ।
“क्लिष्टत्वमेकवाक्यविषयम्” इत्यस्माद्भिन्नम् ।
वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्भितता ।
यथा— “रमणे चरणप्रान्ते प्रणतिप्रवणे ऽधुना ।
वदामि सखि ! तत्त्वं ते कदाचिन्नोचिताः क्रुधः” ।।

अर्थदोषानाह—
अपुष्टदुष्कमग्राम्यव्यावहताश्लीलकष्टताः ।
अनवीकृतनिर्हेतुप्रकाशितविरुद्धताः ।। साद-७.९ ।।
सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते ।
साकाङ्क्षता सहचरभिन्नतास्थानयुक्तता ।। साद-७.१० ।।
अविशेषे विशेषश्चानियमे नियमस्तथा ।
तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा ।। साद-७.११ ।।
निर्मुक्तरुनरुक्तत्वमर्थदोषाः प्रकीर्तिताः ।
तद्विपर्ययो विशेषे ऽविशेषो नियमे ऽनियमः ।
अत्रापुष्टत्वं मुख्यानुपकारित्वम् ।
यथा— “विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये !” अत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते ।
अधिकपदत्वे पदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः ।
दुष्क्रमता यथा— “देहि मे वाजिनं राजन् ! गजेन्द्रं वा मदालसम्” ।
अत्र गजेन्द्रस्य प्रथमं याचनमुचितम् ।
“स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय !” अत्रार्थो ग्राम्यः ।
कस्यचित्प्रगुत्कर्षमपकर्षं वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याहतत्वम् ।
यथा—“हरन्ति हृदयं यूनां न नवेन्दुकलादयः ।
वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका” ।।

अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिकात्वारोपः ।
“हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
यथाशु जायते पातो न तथा पुनरुन्नतिः” ।।

अत्रार्थो ऽश्लीलः ।
“वर्षत्येतदहर्पतिर्न तु घनो धामस्थामच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्लावितः ।
व्यासस्योक्तिषु विश्वसित्यपि न कः, श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहरिणी भास्वन्मरीचिष्वपः” ।।

अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभम् ।
ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्, तथापि मृगी भ्रान्ततत्वात्तत्र जलप्रत्ययं न करोति ।
अयमप्रस्तुतो ऽप्यर्थो दुर्बोधः, दूरे चास्मत्प्रस्तुतार्थबोध इति कष्टार्थत्वम् ।
“सदा चरति खे भानुः सदा वहति मारुतः ।
सदा धत्ते भुवं शेषः सदा धीरो ऽविकत्थनः” ।।

अत्र सदेत्यनवीकृतत्वम् ।
अत्रास्य पदस्य पर्यायान्तरणोपादाने ऽपि यदि नान्यद्विच्छित्त्यान्तं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्भेदः ।
नवीकृतत्वं यथा— “भानुः सकृद्युक्ततुरुङ्ग एवं रात्रिन्दिवं गन्धवहः प्रयाति ।
विभर्त्ति शेषः सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ।।

ऽिति ।
“गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र !त्वामहमपि यतः स्वस्ति भवते” ।।

अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वम् ।
“कुमारस्ते नराधीश ! श्रियं समधिगच्छतु” ।
अत्र “त्वं म्रियस्व” इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वम् ।
“अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ?” ।
अत्र प्रकरणाभावच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वम् ।
“सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः” ।।

अत्र द्वितीयार्धे व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता ।
प्रसिद्धिविरुद्धता यथा— “ततश्चार समरे शितशूलधरो हरिः” ।
अत्र हरेः शूलं लोके ऽप्रसिद्धम् ।
यथा वा— “पदाघातादशोकस्ते सञ्जाताङ्कुरकण्टकः” ।
अत्र पादाधातादशोकेषु पुष्पमेव जायत इति प्रसिद्धं न त्वङ्कुर इति कविसमयख्यतिविरुद्धता ।
“अधरे करजक्षतं मृगाक्ष्याः” ।
अत्र शृङ्गार (काम) शास्त्रीविरुद्धत्वाद्विद्याविरुद्धता ।
एवमन्यशास्त्रविरुद्धत्वमपि ।
“ऐसस्य धनुषो भङ्गं क्षत्त्त्रस्य च समुन्नतिम् ।
स्त्रीरत्नं च कथं नाम मृष्यते भार्गवो ऽधुना” ।।

अत्र स्त्रीरत्नमुपेक्षितुमिति साकाङ्क्षता ।
“सज्जनो दुर्गतौ मग्नः कामिनी गलितस्तनी ।
खलः पूज्यः समज्यायां तापाय मम चेतसः” ।।

अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलो ऽशोभन इति सहचरभिन्नत्वम् ।
“आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः” ।।

अत्र न रावण इत्येतावतैव समाप्यम् ।
“हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे” ।
अत्र रत्नानां निधेरित्यविशेष एव वाच्यः ।
“आवर्त्त एव नाभिस्ते नेत्रे नीलसरोरुहे ।
भङ्गाश्च वलयस्तेन त्वं लावण्याम्बुवापिका” ।।

अत्रावर्त एकेति नियमो न वाच्यः ।
“यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिकाः” ।
अत्र तमिस्त्रास्विति रजनीविशेषो वाच्यः ।
“आपातसुरसे भोगे निमग्नाः किं न कुर्वते” ।
अत्र आपात एवेति नियमो वाच्यः ।
ननु वाच्यस्यानिभिधाने “व्यतिक्रमलवम्” इत्यादावपेरभावः, इह चैवकारस्येति को ऽनयेर्भेदः ।
अत्राह—“नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेविषयः” इति, तन्न तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात् ।
तत्का गतिरिति चेत् ? “व्यतिक्रमलवम्” इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह त्वर्थप्रत्ययानन्तरमिति भेदः ।
एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतो ऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति–यो दोषः शब्दपरिवृत्त्यासहः स शब्ददोष एव ।
यश्च पदार्थन्वयप्रतीतिपूर्वबोध्यः सो ऽपि शब्ददोषः ।
यश्चार्थप्रतीत्यनन्तरं बोध्यः सोर्ऽथाश्रय इति ।
एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वाद्भेदो बोद्धव्यः ।
अमतपरार्थत्वे तु “राममन्मथशरेण-” इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता ।
अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम् ।
“आनन्दितस्वपक्षो ऽसौ परपक्षान् हनिष्यति” ।
अत्र परपक्षं हत्वा स्वपक्षमानन्दयिष्यतीति वेधेयम् ।
“चण्डीशचूडाभारण ! चन्द्र ! लोकतमोपह ! ।
विरहिप्राणहरण ! कदर्थय न मां वृथा” ।।

अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः ।
“लग्नं रागावृताङ्ग्या सदृढमिह यथैवासियष्ट्यापरिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्रणयति विदितं ते ऽस्तु तेनास्मदत्ता भृत्येभ्यः श्रीनियोगाद्रदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ।।

अत्र विदितं ते ऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादिना पुनरुपात्तम् ।
अथ रसदोषानाह—
रसस्योक्तिः स्वशब्देन स्थायिसंचारिणोरपि ।। साद-७.१२ ।।
परिपन्थिरसाङ्गस्य विभावादेः परिग्रहः ।
आक्षेपः कल्पितः कृच्छ्रादनुभावविभावयोः ।। साद-७.१३ ।।
अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनः पुनः ।
अङ्गिनो ऽननुसंधानमनङ्गस्य च कीर्तनम् ।। साद-७.१४ ।।
अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः ।
अर्थानौचित्यमन्यच्च दोषा रसगता मताः ।
रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च ।
क्रमेण यथा— “तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः को ऽप्यजायत” ।
“चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम्” ।
स्थायिभावस्य स्वशब्दवाच्यं यथा— “अजायत रतिस्तस्यास्त्वयि लोचनगोचरे” ।
व्यभिचारिणः स्वशब्दवाच्यत्वं यथा— “जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने” ।
अत्र प्रथमे पादे “आसीन्मुकुलिताक्षी सा” इति लज्जाया अनुभावमुखेन कथने युक्तः पाठः ।
“मानं मा कुरु तन्वङ्गि ! ज्ञात्वा यौवनमस्थिरम्” ।
अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः ।
“धवलयति शिशिररोचिषि भुवनतलं लोकलोचनान्दे ईषत्क्षिप्तकटाक्षा स्मेरमुखई सा निरीक्ष्यतां तन्वी” ।।

अत्र रसस्योद्दीपनालम्बनविभावपर्यवसायिनौ स्थिताविति कष्टकल्पना ।
“परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः ।
इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः” ।।

अत्र रतिपरिहारादीनां करुणादावपि सम्भवात्कामिनीरूपो विभावः कृच्छ्रादाक्षेप्यः ।
अकाण्डे प्रथनं यथा—वेणीसंहारे द्वितीये ऽङ्के प्रवर्तमानानेकवीरसंक्षये ऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनम् ।
छेदो यथा–वीरचरिते राघवभार्गवयोर्धाराधिरूढे ऽन्योन्यसंरम्भे कङ्कणमोचनाय गच्छामीति राघवस्योक्तिः ।
पुनः पुनर्देप्तिर्यथा–कुमारसंभवे रतिविलापे ।
अङ्गिनो ऽननुसंधानां यथा–रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ।
अनङ्गस्य कीर्तनं यथा–कर्पूरमञ्जर्या राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रशंसनम् ।
अङ्गस्यातिविस्तृतिर्यथा—किराते सुराङ्गनाविलासादिः ।
प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति ।
तेषां धीरोदात्तादिता ।
तेषामप्युत्तमाधममध्यमत्वम् ।
तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः ।
यथा–धीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः ।
यथा वा—कुमारसंभवे उत्तमदेवतयोः पार्वतीपरमेश्चरयोः संभोगशृङ्गारवर्णनम् ।
“इदं पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्” इत्याहुः ।
अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनम् ।
तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासंभवः ।
एभ्यः पृथगलङ्कारदोषाणां नैव संभवः ।। साद-७.१५ ।।
पभ्य उक्तदोषेभ्यः ।
तथाहि–उपमायामसादृश्यासंभवयोरुपमानस्य जाति प्रमाणगतन्यनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वम् क्रमेण यथा— “ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्” ।
“प्रज्वलज्जलधारावान्नपतन्ति शरास्तव” ।
“चण्डाल इव राजासौ संग्रामे ऽधिकसाहसः” ।
“कर्परखण्ड इव राजति चन्द्रबिम्बम्” ।
“हरवन्नीलकण्ठो ऽयं विराजति शिखावलः” ।
“स्तनावद्रिसमानौ ते” ।
“दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव” ।।

एवमादिषूत्प्रेक्षितार्थस्यासं त्रततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनम् ।
यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः ।
यथा— “सहसाभिजनैः स्निग्धैः सह सा कुञ्जमन्दिरम् ।
उदिते रजनीनाथे सहतायाति सुन्दरी” ।।

उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्यंतकत्वे ऽवाचकत्वम् ।
यथा— “एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम्” ।
एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वम् ।
यथा— “ओवट्टै उल्लट्टै– इत्यादौ ।
उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च ।
क्रमेणोदाहरणम्— “नयनज्योतिषा भाति शंभुमूतिसितद्युतिः ।
विद्युतेव शरन्मेघो नीलवारिदखण्डवृक्” ।।

अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादो ऽधिकः ।
“कमलालिङ्गितस्तारहारहारी मुरं द्विषन् ।
विद्युद्वभूषितो नीलजीमूत इव राजते” ।।

अत्रोपमानस्य सबलाकत्वं वाच्यम् ।
अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम् ।
क्रमेणोदाहरणम्— “सुधेव विमलश्चन्द्रः” ।
“ज्योत्स्ना इव सिता कीर्तिः” ।
“काप्यभिख्या यतोरासीद्व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोयागे चित्रचन्द्रमसोरिव” ।।

अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत् ।
अपि तु सर्वदापि मवति ।
“लतेव राजसे तन्वि !” अत्र लता राजते, त्वं तु राजसे ।
“चिरं जीवतु ते सूतुर्माकण्डेयमुनिर्यथा” ।
अत्र मार्कण्डेयमुनिर्जावत्येव, न खल्वेतदस्य “जीवतु” इत्यनेन विधेयम् ।
इह तु यत्र लिङ्गवचनभेदे ऽपि न साधारणधपर्मस्यान्यथाभावस्तत्र न दोषः ।
क्रमेणोदाहरणम्— “मुखं चन्द्र इवाभाति” ।
“तद्वेशो ऽसदृशो ऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव” ।।

पूर्वोदाहरणोषु उपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटो ऽनिर्वाहः ।
एवमनुप्रासे वैफल्यस्यापुष्टार्थत्वम् ।
यथा–“अनणुरणन्मणिमेखलमविरलशिञ्जानमञ्जुमञ्जीरम् ।
परिसरणमरुणचरणो ! रणरणकमकारणं कुरुते” ।।

एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वम् ।
क्रमेणोदाहरणम्— “अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं वियदालयादपरिदग्गणिका” ।।

अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते ।
“आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् ।
खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्” ।।

अत्राचेतसः प्रभोरभिधानमनुचितम् ।
एवमनुप्रासे प्रसिद्ध्यभावस्य ख्यातविरुद्धत्वम् ।
यथा— “चक्राधिष्ठततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् ।
वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः” ।।

उक्तदोषाणां च क्वचिददोषत्वं क्वचिद्गुणत्वमित्याह—
वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते ।
रौद्रादौ तु रसे ऽत्यन्तं दुः श्रवत्वं गुणो भवेत् ।। साद-७.१६ ।।
एषु चास्वादस्वरूपविषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः ।
क्रमेण यथा— “तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शररतिशितैर्भिन्दन्मनो निर्भरम् ।
शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल- ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना” ।।

अत्र शृङ्गारे कुपितो वक्ता ।
“मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो- द्धूताम्भः क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षण् ।
ऊर्ध्वन्यस्ताङिघ्रदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेग- भ्रान्तब्रह्मण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः” ।।

अत्रोद्धतताण्डवं वाच्यम् ।
इमे पद्ये मम ।
रौद्रादिरसत्व एतदिद्वतयोपेक्षयापि दुः श्रवत्वमत्यन्तं गुणः ।
यथा– “उत्कृत्योत्कृत्य कृत्तिम–” इत्यादि ।
अत्र बीभत्सो रसः ।
सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः ।
तथा पुनरिति गुण एव ।
यथा— “करिहस्तेन संबाधे प्रविश्यान्तविलोडिते ।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते” ।।

अत्र हि सुरतारम्भगोष्ठ्याम्— “ताम्बूलदानविधिना विसृजेद्वयस्यां व्द्यर्थैःपदैः पिशुनयेच्च रहस्यवस्तु” इति कामशास्त्रस्थितिः ।
आदिशब्दाच्छमकथाप्रभृतिषु बोद्धव्यम् ।
स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ।। साद-७.१७ ।।
यथा—“पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् ।
हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत” ।।

अत्रैन्द्रपक्षे पवित्रशब्दो निहतार्थः ।
सिंहपक्षे मतङ्गशब्दो मातङ्गर्थे ऽप्रयुक्तः ।
गुणः स्यादप्रवतीतत्वं ज्ञत्वं चेद्वक्तृवाच्ययोः ।
यथा—“त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवतिनीम् ।
मद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः” ।।
स्वयं वापि परामर्शे—
अप्रतीतत्वं गुण इत्यनुषज्यते ।
यथा—“युक्तः कलाभिस्तमसां विवृद्ध्यै क्षीणश्च ताभिः क्षतये य एषाम् ।
शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि” ।।
—कथितं च पदं पुनः ।। साद-७.१८ ।।
विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ।
दैन्ये ऽथ लाटानुप्रासे ऽनुकम्पायां प्रसादने ।। साद-७.१९ ।।
अर्थान्तरसंक्रमितवाच्ये हर्षे ऽवधारणो ।
गुण इत्येव ।
यथा— “उदेति सविता ताम्रः—” इत्यादि ।
अत्र विहितानुवादः ।
“हन्त ! हन्त ! गतः कान्तो वसन्ते सखि ! नागतः” ।
अत्र विषादः ।
“चित्रं चित्रमनाकाशे कथं सुमुखै ! चन्द्रमाः” ।
अत्र विस्मयः ।
“सुनयने नयने निधोहि” इति ।
अत्र लाटानुप्रासः ।
“नयने तस्यैव नयने च” ।
इत्यादावर्थान्तरसंक्रमितवाच्यो ध्वनिः ।
एवमन्यत्रापि ।
सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् ।। साद-७.२० ।।
गुण इत्येव यथा— “पृथुकार्तस्वरपात्रं भूषितनिः शोषपरिजनं देव ! ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्” ।।
वैयाकरणमुख्ये तु प्रतिपाद्ये ऽथ वक्तरि ।
कष्टत्वं दुः श्रवत्वं वा—
गुण इत्येव ।
यथा— “दीधीवेवीट्समः कश्चिद्गुणवृद्ध्योरभाजनम् ।
क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते” ।।

अत्रार्थः कष्टः ।
वैयाकरणश्च वक्ता ।
एवमस्य प्रतिपाद्यत्वे ऽपि ।
“अत्रास्मार्षमुपाध्यायं त्वामहं न कदाचन” ।
अत्र दुः श्रवत्वम् ।
वैयाकरणो वाच्यः ।
एवमस्य वक्तृत्वे ऽपि ।
—ग्रम्यत्वमधमोक्तिपु ।। साद-७.२१ ।।
गुण इत्येव ।
यथा मम— “एसो ससहरबिम्बो दीसै हेअङ्गवीणपिण्डो व्व ।
एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व” ।।

इयं विदूषकोक्तिः ।
निर्हेतुता तु ख्यातेर्ऽथे दोषतां नैव गच्छति ।
यथा—“सप्रति संध्यासमयश्चक्रद्वन्द्वानि विघटयति” ।
कवीनां समये ख्याते गुणः ख्यातविरुद्धता ।। साद-७.२२ ।।
कविसमयख्यातानि च—
मलिन्यं व्योम्नि पापे, यशसि धवलता वर्ण्यते हासकीर्त्योः रक्तौ च क्रोधरागौ॑ सरिदुदधिगतं पङ्कजेन्दीवरादि ।
तोयाधारे ऽखिले ऽपि प्रसरति च मरालादिकः पक्षिसङ्घो ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ।। साद-७.२३ ।।
पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैर्- यूनामङ्गेषु हाराः, स्फुटति च हृदयं विप्रयोगस्य तापैः ।
मौर्वीरोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतो- र्भिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ।। साद-७.२४ ।।
अह्न्यम्भोजं, निशायां विकसति कुमुदं, चन्द्रिका शुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् ।
न स्याज्जाती वसन्ते॑ न च कुसुमफले गन्धसारद्रुमाणा- मित्याद्युन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ।। साद-७.२५ ।।
एषामुदाहरणान्याकरेषु स्पष्टानि ।
धनुर्ज्यादिष शब्देषु शब्दास्तु धनुरादयः ।
आरूढत्वादिबोधाय—
यथा—“पूरिते रोदसी ध्वानैर्धनुर्ज्यास्फालनोद्भवैः” ।
अत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायत्तीकरणं बोध्यते ।
आदिशब्दात्— “भाति कर्णावतंसस्ते” ।
अत्र कर्णस्थितत्वबोधनाय कर्णशब्दः ।
एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः ।
एवं निरुपपदो मालाशब्दः पुष्पस्त्रजमेवाभिधत्त इति स्थितावपि “पुष्पमालाविभाति ते” ।
अत्र पुष्पशब्द उत्कृष्टपुष्पवृद्ध्यै ।
एवं “मुक्ताहार” इत्यत्र मुक्ताशब्देनान्यरत्नामिश्रितत्वम् ।
—प्रयोक्तव्याः स्थिता अमी ।। साद-७.२६ ।।
धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः, न त्वस्थिता जघनकाञ्जीकरकङ्कणादयः ।
उक्तावानन्दमग्नदेः स्यान्न्यूनपदता गुणः ।
यथा— “गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्रमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नतम्बाम्बरा ।
मा मा मानद ! माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्” ।।

अत्र पीडयेति न्यूनम् ।
क्वचिन्न दोषो न गुणः—
न्यूनपदत्वमित्येव ।
यथा— “तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्जातेति को ऽयं विधैः” ।।

अत्र प्रभावपिहितेतिं भवेदिति चेत्यनन्तरं “नैतद्यतः” इति पदानि न्यूनानि ।
एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षाकरणान्न गुणः ।
“दीर्घं न से” त्यादिवाक्यजन्यया च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तेर्बोधः स्फुटमेवावभासत इति न दोषः ।
—गुणः क्वाष्यधिकं पदम् ।। साद-७.२७ ।।
यथा— “आचरिति दुर्जनो यत्सहसा मनसो ऽप्यगोचरानर्थान् ।
तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्” ।।

अत्र “न न जान” इत्ययोगव्यवच्छेदे ।
द्वितीये “जान” इत्यनेन नाहमेव जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः ।
समाप्तपुनरा त्तत्वं न दोषो न गुणः क्वचित् ।
यथा—“अन्यास्ता गुणरत्न-” इत्यादि ।
अत्र प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्घवाक्यं पुनरुपात्तम् ।
एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तरस्येति विज्ञेयम् ।
गर्भितत्वं गुणः क्वापि—
यथा— “दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्जिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं मतम्” ।।

अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं पुष्णाति ।
—पतत्प्रकर्षता तथा ।। साद-७.२८ ।।
तथेति क्वचित् गुणः ।
यथा—“चञ्चद्भुज-” इत्यादि ।
अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः ।
क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।
अनुभावविभावाभ्यां रचना यत्र नोचिता ।। साद-७.२९ ।।
यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः ।
यथा— “औत्सुक्येन कृतस्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नोताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सह्गमे संहोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः” ।।

अत्रोत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न भ्क्तटिति प्रतीतिः, त्वराया भयादिनापि सम्भवात् ।
ह्रियो ऽनुभावस्य च व्यावर्तमानस्य कोपादिना सम्भवात् ।
साध्वसहासयोस्तु विभावादिपरिपोषस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां स्वशब्दाभिधानमेव न्याय्यम् ।
सञ्चार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः ।
यथा–“क्वाकार्यं शशलक्ष्मणः क्व च कुलम्-” इत्यादि ।
अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति ।
विराधिनो ऽपि स्मरणो साम्येन वचने ऽपि वा ।। साद-७.३० ।।
भवेद्विरोधो नान्योन्यमङ्गिन्यङ्गत्वमाप्तयोः ।
क्रमेण यथा—“अयं स रसनोत्कर्षो-” इत्यादि ।
अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया कुणानुकूलता ।
“सरागया स्त्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
मुहुर्मुहुर्दशनविलङ्घितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे” ।।

अत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः ।
“एकं ध्यानिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् ।
अन्दद्दूरविकृष्टचापकमनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः” ।।

अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः ।
यथा वा— “क्षिप्तो हस्तावलग्नः प्रसभमभिहतो ऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् यो ऽवधूतस्त्रिपुरयुवतिभैः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः” ।।

अत्र कविगता भगवद्विषया रतिः प्रधानम् ।
तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणो ऽङ्गम् ।
तस्य च कामीवेतिसाम्यबलादायातः शृङ्गारः ।
एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकष्रकतया यौगपद्यसम्भावादङ्गत्वेन न विरोधः ।
ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेनेतररसेन कथं विरोधः सम्भावनीयः ? एकवाक्ये निवेशप्रादुर्भावैर्यौगपद्यविरहेण परस्परोपमर्दकत्वानुपपत्तेः ।
नाप्यङ्गाङ्गिभावः, द्वयोरपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः ।
सत्यमुक्तम् ।
अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया संचारिरसनाम्ना व्यपदेशः प्राच्यानाम् ।
अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना ।
यदाहुः— “अङ्गं बाध्यो ऽथ संसर्गो यद्यङ्गी स्याद्रसान्तरे ।
नास्वाद्यते समग्रं तत्ततः खण्डरसः स्मृतः” ।।

इति ।
ननु “आद्यः करुणवीभत्सरौद्रवीरभयानकैः” इत्युक्तनयेन विरोधिनोर्बोरशृङ्गारयोः कथमेकत्र— “कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलं जटाजूट्ग्रन्थिं द्रढयति रघूणां परिवृढः” ।।

इत्यादौ समवेशः ।
अत्रोच्यते—इह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था ।
कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्चिन्नैरन्तर्येणोति ।
तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः ।
तथा हास्यरौद्रबीभत्सैः सम्भोगस्य ।
वीरकरुणरौद्रादिभिर्विप्रलम्भस्य ।
(आलम्बनैक्यने) आश्रयैक्येन च वीरभयानकयोः ।
नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः ।
त्रिधायं विरोधो वीरस्याद्भुतरौद्राभ्याम् ।
शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति ।
तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः ।
एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिनानश्रयत्वेन न विरोधः ।
यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र “अहो गीतमहो वादित्रम्” इत्यद्भुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः ।
एकमन्यदपि ज्ञेयम् ।
“पाण्डुक्षामं वदनम्-” इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भे ऽपीति न विरोधः ।
अनुकारे च सर्वेषां दोषाणां नैव दोषता ।। साद-७.३१ ।।
सर्वेषां दुः श्रवत्वप्रभृतीनाम् ।
यथा— “एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन” ।
अत्र दुश्च्यवनशब्दो ऽप्रयुक्तः ।
अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः ।
अदोषता च गुणता ज्ञेया चानुभयात्मता ।। साद-७.३२ ।।
अनुभयात्मता अदोषगुणता ।
इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः ।

अष्टमः परिच्छेदः

गुणानाह—
रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा ।
गुणाः— यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा काव्ये ऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयो ऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः ।
यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव ।
माधुर्यमोजो ऽथ प्रसाद इति ते त्रिधा ।। साद-८.१ ।।
ते गुणाः ।
तत्र—
चित्तद्रवीभावमयो ङ्लादो माधुर्यमुच्यते ।
यत्तु–केनचिदुक्तम्–“माधुर्यं द्रुतिकारणम्” इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् ।
द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वम् ।
तच्च—
संभोगे करुणो विप्रलम्भे शान्ते ऽधिकं क्रमात् ।। साद-८.२ ।।
सम्भोगादिशब्दा उपलक्षणानि ।
तेन सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया ।
मूर्ध्नि वर्गान्त्यवर्णोन युक्ताष्टठडढान्विना ।
रणौ लधू च तद्व्यक्तौ वर्णाः कारणतां गताः ।। साद-८.३ ।।
अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।
यथा— “अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः ।
जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम्” ।।

यथा वा मम— “लताकुञ्जं गुञ्जन् मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् ।
मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि” ।।
ओजश्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते ।। साद-८.४ ।।
वीरबीभत्सरौद्रेषु क्रमेणाधिक्यमस्य तु ।
अस्यौजसः ।
अत्रापि वीरादिशब्दा उपलक्षणानि ।
तेन वीराभासादावप्यस्यावस्थितिः ।
वर्गस्याद्यतृतीयाभायां युक्तौ वर्णौ तदन्तिमौ ।। साद-८.५ ।।
उपर्यधो द्वयोर्वा सरेफौ टठडढैः सह ।
शकारश्च षकारश्र तस्य व्यञ्जकतां गताः ।। साद-८.६ ।।
तथा समासो बहुलो घटनौद्धत्यशालिनी ।
यथा—“चञ्चद्भुज–” इत्यादि ।
चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ।। साद-८.७ ।।
स प्रसादः समस्तेषु रसेषु रचनासु च ।
व्याप्नोति आविष्करोति ।
शब्दास्तद्व्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ।। साद-८.८ ।।
यथा— “सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप ! लुठसि स्तनयोः प्रियायाः ।
बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्ने ऽपि तां कथमहं न विलोकयामि” ।।
एषां शब्दगुणत्वं च गुणवृत्त्योच्यते बुधैः ।
शरीरस्य शौर्यादिगुणयोग इव इति शेषः ।
श्लेषः समाधिरौदार्यः पसाद इति ये पुनः ।। साद-८.९ ।।
गुणाश्चिरन्तनैरुक्ता औजस्यान्तर्भवन्ति ते ।
ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ) धर्मविशेषे ।
तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा ।
यथा— “उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः ।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायप्रेंखदसंख्यशङ्खधवला वेलेयमुद्रच्छति” ।।

अथं बन्धवैकट्यात्मकत्वादोज एव ।
समाधिरारोहावरोहक्रमः ।
आरोह उत्कर्षः, अवरोहो ऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः ।
यथा—“चञ्चद्भुज–” इत्यादि ।
अत्र पदात्रये क्रमेण बन्धस्य गाढता ।
चतुर्थपादे त्वपकर्षः ।
तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता ।
उदारता विकटत्वलक्षणा ।
विकटत्वं पदानां नृत्यत्प्रायत्वम् ।
यथा— सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां भ्क्तणिति रणितमासीत्तत्र चित्रं कलं च ।
अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढोक्तिमात्रेणौजः ।
प्रसाद ओजोमिश्रितशौथिल्यात्मा ।
यथा— “यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात् पाण्डवीनां चमूनाम्” इति ।
माधुर्यव्यञ्जकत्वं यदसमासस्य दर्शितम् ।। साद-८.१० ।।
पृथक्पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः ।
यथा—“श्वासान्मुञ्चति-” इत्यादि ।
अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः ।। साद-८.११ ।।
अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् ।
स्पष्टमुदाहरणम् ।
ग्राम्यदुः श्रवतात्यागात्कान्तिश्च सुकुमारता ।। साद-८.१२ ।।
अङ्गीकृतेति सम्बन्धः ।
तच्च हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वम् ।
सुकुमारता अपारुष्यम् ।
अनयोरुदाहरणे स्पष्टे ।
क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी ।
अन्यथोक्तगुणेष्वस्या अन्तः पातो यथायथम् ।। साद-८.१३ ।।
मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः ।
स च क्वचिद्दोषः ।
तथाहि— “अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता ।
उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव- स्त्रोतः शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते” ।।

अत्रोद्धतेर्ऽथे वाच्ये सुकुमारबन्धत्यागो गुण एव ।
अनेवंविधस्थाने माधुर्यादावेवान्तः पातः ।
यथा—“लताकुञ्जं गुञ्जन्-” इत्यादि ।
ओजः प्रसादो माधुर्यं सौकुमार्यमुदारता ।
तदभावस्य दोषत्वात्स्वीकृता अर्थगा गुणाः ।। साद-८.१४ ।।
ओजः साभिप्रायत्वरूपम् ।
प्रसादोर्ऽथवैमल्यम् ।
माधुर्यमुक्तिवैचित्र्यम् सौकुमार्यमपारुष्यम् ।
उदारता अग्रम्यत्वम् ।
एषां पञ्जानामप्यर्थगुणानां यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणांनिराकरणेनैवाङ्गीकारः ।
स्पष्टान्युदाहरणानि ।
अर्थव्यक्तिः स्वभावोक्त्यालङ्कारेण तथा पुनः ।
रसध्वनिगुणीभूतव्यङ्ग्यानां कान्तिनामकः ।। साद-८.१५ ।।
अङ्गीकृत इति सम्बन्धः ।
अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वम् ।
कान्तिर्देप्तरसत्वम् ।
स्पष्टे उदाहरणे ।
श्लेषो विचित्रतामात्रमदोषः समता परम् ।
श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा ।
तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहो ऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रम् ।
अनन्यसाधारणरसोपकरित्वातिशयविरहादिति भावः ।
यथा— “दृष्ट्वैकानसांस्थिते प्रियतमे-” इत्यादि ।
अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते, “पश्चादुपेत्य” “नयने पिधाय” “ईषद्वक्त्रितकन्धरः” इति चोपपादकानि, एषां योगः ।
अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता ।
समता च प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः ।
स च प्रक्रमभङ्गरूपविरह एव ।
स्पष्टमुदाहरणम् ।
न गुणत्वं समाधेश्च—
समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः ।
तत्रायोनिरर्थो यथा— “सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् ।
अन्यच्छायायोनिर्यथा— “निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पले ऽपि विमृशति करमर्पयितुं कुसुमलावी” ।।

अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् ।
अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वम् ।
क्वचित् “चन्द्रम्” इत्येकस्मिन् पदार्थे वक्तव्ये “अत्रेर्नयनसमुत्थं ज्योतिः” इति वाक्यवचनम् ।
क्वचित् “निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्” इति वाक्यार्थे वक्तव्ये “वरवणिनी” इति पदाभिधानम् ।
क्वचिदेकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः ।
क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च, इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्, अपि तुवैचित्र्यमात्रावहत्वम् ।
—तेन नार्थगुणाः पृथक् ।। साद-८.१६ ।।
तेनोक्तप्रकारेण ।
अर्थगुण ओजः प्रभृतयः प्रोक्ताः ।
इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः ।

नवमः परिच्छेदः

अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह—
पदसंघटना रीतिरङ्गसंस्थाविरोषवत् ।
उपकर्त्रो रसादीनां—
रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् ।
—सा पुनः स्याच्चतुर्विधा ।। साद-९.१ ।।
वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा ।
सरीतिः ।
तत्र—
माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका ।। साद-९.२ ।।
अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते ।
यथा—“अनङ्गमङ्गलभुवः–” इत्यादि ।
रुद्रटस्त्वाह— असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो ।
वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ।।

अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः ।
ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः ।। साद-९.३ ।।
समासबहुला गौडी—
यथा—“चञ्चद्भुज–” इत्यादि ।
पुरुषोत्तमस्त्वाह— “बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया ।
रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च” ।।
—वर्णैः शेषैः पुनर्द्वयोः ।
समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ।। साद-९.४ ।।
द्वयोर्वैदर्भोगौड्योः ।
यथा— “मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे” ।।

भोजस्त्वाह—“समस्तपञ्चषपदामोजः कान्तिसमन्विताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः” ।।
लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता ।
यथा—“अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि” ।।

कश्चिदाह—“मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा ।
उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी” ।।

अन्ये त्वाहुः—“गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा ।
पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः” ।।
क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः ।। साद-९.५ ।।
वाक्त्रदीत्यादिशब्दाद्वाच्यप्रबन्धौ . रचनादीत्यादिशब्दाद्वृत्तिवर्णौ ।
तत्र वक्त्रौचित्याद्यथा— “मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधईरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः ।
कृष्णाक्रोधग्रढूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितो ऽयम्” ।।

अत्र वाच्यक्रोधाद्य(न) भिव्यञ्जकत्वे ऽपि भीमसेनवक्तत्वेनोद्धता रचनादयः ।
वाच्यौचित्याद्यथोदाहृते “मूर्धव्याधूयमान—” इत्यादौ ।
प्रबन्धौचित्याद्यथा नाटकादौ रौद्रे ऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमासादयः ।
एवमाख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः ।
कथायां रौद्रे ऽपि नात्यन्तमुद्धताः ।
एवमन्यदपि ज्ञेयम् ।
इति साहित्यादर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः ।

दशमः परिच्छेदः

अथावसरप्राप्तानलङ्कारानाह–
शब्दार्थयोरस्थिरा यो ध्रर्माः शोभातिशायिनः ।
रसादीनुपकुर्वन्तो ऽलङ्कारास्ते ऽङ्गदादिवत् ।। साद-१०.१ ।।
यथा अङ्गदादयः शरीरशोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थशोभातिशायिनो रसादेरुपकारकाः ।
अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यरकी स्थितिः ।
शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वाच्छब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कास्यापि पुनरुक्तवदाभासस्य चिरन्तनैः शब्दालङ्कारमध्ये लक्षितत्वात्प्रथमं तमेवाह–
आपाततो यदर्थस्य पौनरुक्त्येन भासनम् ।
पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ।। साद-१०.२ ।।
उदाहरणम्– भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ।।

अत्र भुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम् ।
पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम् ।
“पायादव्यात्” इत्यत्र क्रियागतो ऽयमलङ्गारः, “पायात्” इत्यास्य “अपायात्” इत्यत्र पर्यवसानात् ।
“भुजङ्गकुण्डली” इति शब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् ।
“हरः शिवः” इति द्वितीयस्यैव ।
“शशिसुभ्रांशु” इति द्वयोरपि ।
“भाति सदानत्यागः” इति न द्वयोरपि ।
इति शब्दपरिवृत्तिसहत्वासत्वाभ्यामस्योभयालङ्कारत्वम् ।
अनुप्रासः शब्दसाम्यं वैषम्ये ऽपि स्वरस्य यत् ।
स्वरमात्रसादृश्यं तु वैचित्र्याभावान्न गणितम् ।
रसाद्यनुगतत्वेन प्रकर्षेण न्यासो ऽनुप्रासः ।
छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ।। साद-१०.३ ।।
छेकश्छेकानुप्रासः ।
अनेकधेति स्वरूपतः क्रमतश्च ।
रसः सर इत्यादे क्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः ।
उदाहरणं मम तातपादानाम्– “आदाय बकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् ।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः” ।।

अत्र गन्धनन्धीतिसंयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृदावृत्तिः ।
छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः ।
अनेकस्यैकधा साम्यमसकृद्वाष्यनेकधा ।
एकस्य सकृदष्येण वृत्त्यनुप्रास उच्यते ।। साद-१०.४ ।।
एकधा स्वरूपत एव, न तु क्रमतो ऽपि ।
अनेकधा स्वरूपतः क्रमतश्च ।
सकृदपीत्यपि शब्दादसकृदपि ।
उदाहरणम्– “उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलकलैरुद्रीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः” ।।

अत्र “रसोल्लासैरमी” इति रसयोरेकधैव साम्यम्, न तु तेनैव क्रमेणापि ।
द्वितीये पादे, कलयोरसकृत्तेनैव क्रमेण च ।
प्रथमे एकस्य मकारस्य सकृत्, धकारस्य चासकृत् ।
रसविषयव्यापारवती वर्णरचनावृत्तिः, तदनुगतत्वेन प्रकर्षेण न्यसनाद्वृत्त्यनुप्रासः ।
उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके ।
सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते ।। साद-१०.५ ।।
उदाहरणम्– “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः” ।।

अत्र “जीवयन्ति” इति, “याः” इति, “जयिनीः” इत ।
अत्र जकारयकारयोरेकत्र स्थाने तालावुच्चार्यत्वात्सादृश्यम् ।
एवं दन्त्यकण्ठ्यानामप्युदाहार्यम् ।
एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रत्यनुप्रासः ।
व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु ।
आवर्त्यते ऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत् ।। साद-१०.६ ।।
यथावस्थमिति यथासम्भवमनुस्वारविसर्गस्वरयुक्ताक्षरविशिष्टम् ।
एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः ।
पदान्तगो यथा मम– केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः ।
चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ।।

“मन्दं हसन्तः पलकं वहन्तः” इत्यादि ।
शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः ।
लाटानुप्रस इत्युक्तो–
उदाहरणम्— स्मेरराजीवनयने नयने किं निमीलिते ।
पश्य निजिंतकन्दर्पं कन्दर्पवशगं प्रियम् ।।

अत्र विभक्त्यर्थस्य पौनरुक्त्ये ऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यधर्मिरूपस्य भिन्नार्थत्वाल्लाटानुप्रासत्वमेव ।
“नयने तस्यैव नयने च” ।
अत्र द्वितीयनयनशब्दो भग्यत्त्वादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः ।
यथा वा— “यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य” ।।

अत्रानेकपदानां पौनरुक्त्यम् ।
एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः ।
–ऽनुप्रासः पञ्चधा ततः ।। साद-१०.७ ।।
स्पष्टम् ।
सत्यर्थे पृथागर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ।। साद-१०.८ ।।
अत्र द्वयोरपि पदयोः क्वचित्सार्थकत्वं, क्वचिन्निरर्थकत्वम् ।
क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वम् ।
अत उक्तम्–“सत्यर्थे” इति ।
“तेनैव क्रमेण” इति दमो मोद इत्यादेर्विविक्तविषयत्वं सूचितम् ।
एतच्च पादपादर्ध्दश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविधतया प्रभूततमभेदम् ।
दिङ्मात्रमुदाह्रियते– “नवपलाश-पऌआशवनं पुरः स्फुटपराग-परागत-पङ्कजम् ।
मृदुल-तान्त-लतान्तमलोकयत् स सुरभि सुरिभिं सुमनोभरैः” ।।

अत्र पदावृत्तिः ।
“पलाशपलाश” इति “सुरभिं सुरभिं” इत्यत्र च द्वयोः सार्थकत्वम् ।
“लतान्तलतान्त” इत्यत्र प्रथमस्य निरर्थकत्वम् ।
“परागपराग” इत्यत्र द्वितीयस्य ।
एवमन्यत्राप्युदाहार्यम् ।
“यमकादौ भवेदैक्यं डलोर्बवोर्लरोस्तथा” ।
इत्युक्तनयात् “भुजलतां जडतामबलाजनः” इत्यत्र नं यमकत्वहानिः ।
अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ।। साद-१०.९ ।।
द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च ।
क्रमेणोदाहरणम्– “के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ।
वामा यूयमहो विडम्बरसिकः कदृक् स्मरो वर्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्रभ्रमः” ।।

अत्र विशेषपदस्य “विः पक्षी” “शेषो नागः” इत्यर्थद्वययोग्यत्वात् सभङ्गश्लेषः ।
अन्यत्र त्वभङ्गः ।
“काले कोकिलवाचाले सहकारमनोहरे ।
कृतागसः परित्यागात्तस्याश्चेतो न दूयते” ।।

अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञ् अन्यथा काक्वा दूयत एवेति विध्यर्थे घटितः ।
शब्दैरेकविधैरेव भाषासु विविधास्वपि ।
वाक्यं यत्र भवेत्सो ऽयं भाषासम इतीष्यते ।। साद-१०.१० ।।
यथा मम– “मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे ।
विरसासि केलिकीरे किमीलि ! धीरे च गन्धसारसमीरे !” ।।

एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव ।
“सरसं कैणं कव्वम्” ।
इत्यादौ तु “सरसम्” इत्यत्र संस्कृतप्राकृतयोः साम्ये ऽपि वाक्यगतत्वाभावे वैचित्र्याभावान्नायमलङ्कारः ।
श्लिष्टैः पदैरनैकार्थाभिधाने श्लेष इष्यते ।
वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ।। साद-१०.११ ।।
श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।
क्रमेणोदाहरणम्– “प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्त्तुरभून्न पतिष्यतः करसहस्त्रमपि” ।।

अत्र “विधौ” इति विधुविधिशब्दयोरुकारेकारयोरौकाररूपत्वाच्छ्लेषः ।
“किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः ।
कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः” ।।

अत्र “सुधाकिरः” इति क्विप्-क-प्रत्ययोः ।
किं चात्र बहुवचनैकवचनयोरैकरूप्याद्वचनश्लेषो ऽपि ।
“विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी ।
तव दत्तां सदामोदं लसत्तरलहारिणी” ।।

अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्लेषो ऽपि ।
“अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः” ।।

अत्र “वक्ष्यति” इति वहि-वच्योः, “सामर्थ्यकृत्” इति कृन्तति-करोत्योः प्रकृत्योः ।
“पृथुकार्तस्वरपात्रम्-” इत्यादि ।
अत्र पदभङ्गे विभक्तिसमासयोरपि वैलक्षण्यात्पदश्लेषः, न तु प्रकृतिश्लेषः ।
एवञ्च– “नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां तदीक्षणे” ।।

अत्र लुब्धशिलीमुखादिशब्दानां श्लिष्टत्वे ऽपि विभक्तेकभेदात्प्रकृतिश्लेषः, अन्यथा सर्वत्र पदश्लेषप्रसङ्गः ।
“सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसांमुख्यमायासि तनुवर्तनम्” ।।

अत्र “हर” इति पक्षे शिवसम्बोधनमिति सुप् ।
पक्षे हृधातोस्तिङिति विभक्तेः ।
एवं “भव” इत्यादौ ।
अस्य च भेदस्य प्रत्ययश्लेषेणापि गतार्थत्वे प्रत्ययान्तरासाध्यसुबन्ततिङन्तगतत्वेन विच्छित्तिविशेषाश्रयणात्पृथगुक्तिः ।
“महदे सुरसन्धं मे तमव समासङ्गमागमाहरणे ।
हर बहुसरणं तं चित्तमाहेमवसर उमे सहसा” ।।

अत्र संस्कृतमहाराष्ट्रयोः ।
संस्कृतपैशाच्योर्यथा– (ख)”कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् ।
अप्पतिमानं खमते सो ऽगनिकानं नरं जेतुम्” ।।

कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् ।
अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुम् ।।

इति पैशाचीच्छाया ।
संस्कृतशूरसेन्योर्यथा– (ग)”तोदीसदिगगणमदो ऽकलहं स सदा बलं विदन्तरिदम् ।
आरदमेहावसरं सासदमारं गदा भारम्” ।।

ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम् ।
आरतमेद्यावसरं शाश्वतमारं गतासारम्” ।।

इति शूरसेनीच्छाया ।
संस्कृतापभ्रंशयोर्यथा– (घ)”धीरागच्छदुमे हृतमुदुद्धर वारिसदः सु ।
अभ्रमदप्प्रसराहरणुरविकिरणातेजः सु ।।

पुनस्त्रिधा सभङ्गो ऽथाभङ्गस्तदुभयात्मकः ।। साद-१०.१२ ।।
एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम् ।
यथा वा– “येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च यो ऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामरा ।
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः” ।।

अत्र “येन-” इत्यादौ सभ्ङ्गश्लेषः ।
“अन्धक-” इत्यादावभङ्गः ।
अनयोश्चैकत्र सम्भवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः ।
इह केचिदाहुः–“सभङ्गश्लेष एव शब्दश्लेषविषयः ।
यत्रोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः ।
अभङ्गस्त्वर्थश्लेष एव ।
यत्र स्वराभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदादर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः ।
यो हि यदाश्रितः स तदलङ्कार एव ।
अलङ्कार्यालङ्कारणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः” इति ।
तदन्ये न क्षमन्ते ।
तथाहि–अत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियम् इति ।
न च “अन्धकक्षय” इत्यादौ शब्दाभेदः, “अर्थभेदेन शब्दभेदः” इति दर्शनात् ।
किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रतिभयोट्टङ्कनाच्छब्दालङ्कारत्वमेव ।
विसदृशशब्दद्वयस्य बन्धे चेवंविधस्य वैचित्र्याभावाद् वैचित्र्यस्यैव चालङ्कारत्वात् ।
अर्थमुखप्रेक्षितया चार्थालङ्कारत्वे ऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालङ्कारत्वप्रसङ्गः ।
शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे “प्रतिकूलतामुपगते हि विधौ” इत्यादौ शब्दभेदे ऽप्यर्थालङ्कारत्वं तथापि प्रसज्यत इत्युभयत्रापि शब्दालङ्कारत्वमेव ।
यत्र तु शब्दपरिवर्त्तने ऽपि न श्लेषत्वखण्डना, तत्र– “स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च” ।।

इत्यादावर्थश्लेषः ।
अस्य चालङ्कारान्तरविविक्तविषयताया असम्भवाद्विद्यमानेष्वलङ्कारान्तरेष्वपवादत्वेन तद्वाधकतया तत्प्रतिभोत्पत्तिहेतुत्वमिति केचित् ।
इत्थमत्र विचार्यते–समासोक्त्यप्रस्तुतप्रशांसादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धो ऽपि ।
“विद्वन्मानसहंस–” इत्यादौ श्लेषगर्भे रूपके ऽपि मानसशब्दस्य चित्तसरोरूपोभयार्थत्वे ऽपि रूपकेण श्लेषो बाध्यते ।
सरोरूपस्यैवार्थस्य विश्रान्तिधामतया प्राधान्यात्, श्लेषे ह्यर्थद्वयस्यापि समकक्षत्वम् ।
“सन्निहितबालान्धकारा भास्वन्मूर्तिश्च” इत्यादौ विरोधाभासे ऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान्न श्लेषः ।
एवं पुनरुक्तवदाभासे ऽपि ।
तेन “येन ध्वस्त-” इत्यादौ प्राकरणिकयोः, “नीतानाम्-” इत्यादावप्रकारणिकयोरेकधर्माभिसंबन्धात्तुल्ययोगितायाम्, “स्वेच्छोपजातविषयो ऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुः खम् ।
मोहात्समुत्क्षिपति जीवनमप्यकाण्डे कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः” ।।

इत्यादौ च प्राकरणिकाप्राकरणिकयोरेकधर्माभिसम्बन्धाद् दीपके ।
“सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव” ।
इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासंभवाद् एषां च शलेषविषयपरिहारेणापि स्थितेरेतद्विषये श्लेषस्य प्राधान्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथा तद्व्यापदेशस्य सर्वथा भावप्रसङ्गाच्चेति ।
अत्रोच्यते–न तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता “येनध्वस्त-” इत्यादिना विविक्तविषयत्वात् ।
न चात्र तुल्ययोगिता, तस्याश्च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभावात् ।
अत्र च माधवोमाधवयोरेकस्य वाच्यत्वनियमे परस्य व्यङ्ग्यत्वं स्यात् ।
किञ्च–तुल्ययोगितायामप्येकस्यैव धर्मस्यानेकधर्मिसंबन्धितया प्रतीतिः ।
इह त्वनेकेषां धर्मिणां पृथक्पृथग्धर्मसंबन्धतया ।
“सकलकलम्–” इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः ।
पूर्णोपमाया निर्विषयत्वापत्तेः “कमलमिव मुखं मनोज्ञमेतत्” इत्याद्यस्ति पूर्णोपमाया विषय इति चेत् ? न, यदि “सकल-” इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं “मनोज्ञम्” इत्यादावर्थश्लेषेण ।
“स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ, किन्तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः” ।।

इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजकत्वात् ।
ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् ।
शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् ।
ततश्च पूर्णोपमाया अन्यथानुपपत्त्या गुणक्रियासाम्यस्यैवार्थश्लेषविषयतयाः परित्यागे पूर्णोपमाविषयता युक्ता, न तु “सकल-” इत्यादौ शब्दसाम्यस्यैवेति चेत् ? न-“साधर्म्यमुपमा” इत्येवाविशिष्टस्योपमालक्षणस्य शब्दसाम्याद्व्यावृत्तेरभावात् ।
यदि च शब्दसाम्ये साधर्म्यमवास्तवत्वान्नोपमाप्रयोजकम्, तदा कथं “विद्वन्मानस–” इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेहसाद्याहोपप्रयोजकः ।
किञ्च-यदि वास्तवसाम्य एवोपमाङ्गीकार्या, तदा कथं त्वयापि “सकलकलम्-” इत्यादौ बाध्यभूतोपमाङ्गीक्रियते ? किञ्च अत्र श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता, श्लेषबन्धतः प्रथमं साम्यस्यासंभवात्, इत्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान् “प्रधानेन हि ब्यपदेशा भवन्ति” इति न्यायात् ।
ननु शब्दालङ्कारविषये ऽङ्गाङ्गिभावसङ्करो नाङ्गीक्रियते तत्कथमत्र श्लेषोपमयोरङ्गाङ्गभावः सङ्कर इति चेत् ? न, अर्थानुसंधानविरहिण्यनुप्रासादावेव तथानङ्गीकारात् ।
एवं दीपकादावपि ज्ञेयम् ।
“सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे” ।।

अत्र शरद्वर्णनया प्रकरणेन धार्तराष्ट्रादिशब्दानां हंसाद्यर्थाभिधाने नियमनाद्दुर्योधनादिरूपोर्ऽथः शब्दशक्तिमूलो वस्तुध्वनिः ।
इह च प्रकृतप्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानोपमेयभावो न विवक्षित इति नोपमाध्वनिर्न वा श्लेष इति सर्वमवदातम् ।
पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।
आदिशब्दात्खङ्ग-मुरज-चक्र-गोमूत्रिकादयः ।
अस्य च तथाविधिलिपिसन्निवेशविशेषवशेन चमत्कारविधायिनामपि वर्णानां तथाविधश्रोत्राकाशसमवायवि शेषवशेन चमत्कारविधायिभिर्वर्णेरभेदेनोपचाराच्छब्दालङ्कारत्वम् ।
तत्र पद्मबन्धो यथा मम– “मारमा सुषमा चारु-रुचा मारवधूत्तमा ।
मात्तधूर्ततमावासा सा वामा मे ऽस्तु मा रमा” ।।

एषो ऽष्टदलपद्मबन्धो दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टवर्णः, किन्तु विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु श्लिष्टमेव ।
एवं खड्गबन्धादिकमप्यूह्यम् ।
काव्यान्तर्गडुभूततया तु नेह प्रपञ्च्यते ।
रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका ।। साद-१०.१३ ।।
उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका ।
च्यताक्षरा दत्ताक्षरा च्युतदत्ताक्षरा च ।
उदाहरणम्– “कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजम् ।
किं करोतु कुरङ्गक्षी वदनेन निपीडिता” ।।

अत्र “रसाले” इति वक्तव्ये “साले” इति “र” च्युतः ।
“वने” इत्यत्र “यौवने” इति “यौ” दत्तः ।
“वदनेन” इत्यत्र “मदनेन” इति “म” च्युतः “व” दत्तः ।
आदिशब्दात्क्रियाकारकगुप्त्यादयः ।
तत्र क्रियागुप्तिर्यथा– “पाण्डवानां सभामध्ये दुर्योधन उपागतः ।
तस्मै गां च सुवर्णं च सर्वाण्याभरणानि च” ।।

अत्र “दुर्योधनः” इत्यत्र “अदुर्यो ऽधनः” इति ।
“अदुः” इति क्रियागुप्तिः ।
एवमन्यत्रापि ।
अथावसरप्राप्तेष्वर्थालङ्कारेषु सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्राधान्यात् प्रथममुपमामाह–
साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ।। साद-१०.१४ ।।
रुपकादिषु साम्यस्य व्यङ्ग्यत्वम्, व्यतिरेके च वैधर्म्यस्याप्युक्तिः, उपमेयोपमायां वाक्यद्वयम्, अनन्वये त्वेकस्यैव साम्योक्तिरित्यस्या भेदः ।
सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च ।
उपमेयं चोपमानं भवेद्वाच्यम्–
सा उपमा ।
साधारणधर्मो द्वयोः सादृश्यहेतू गुणक्रिये मनोज्ञत्वादि ।
औपम्यवाचकमिवादि ।
उपमेयं मुखादि ।
उपमानं चन्द्रादि ।
इयं पुनः ।। साद-१०.१५ ।।
श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।
आर्थो तुल्यसमानाद्यास्तुल्यार्थो तत्र वा वतिः ।। साद-१०.१६ ।।
यथेववादयः शब्दा उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौत्युपमा ।
एवं “तत्र तस्येव” इत्यनेनेवार्थो विहितस्य वतेरुपादाने ।
तुल्यादयस्तु-“कमलेन तुल्यं मुखम्” इत्यादावुपमेय एव ।
“कमलं मुखस्य तुल्यम्” इत्यादावुपमान एव ।
“कमलं मुखं च तुल्यम्” इत्यादावभयत्रापि विश्राम्यन्तीत्यर्थानुसन्धानादेव साम्यं प्रतिपादयन्तीति तत्सद्भावे आर्थो ।
एवं “तेन तुल्यम्–“इत्यादिना तुल्यार्थे विहितस्य वतेरुपादाने
द्वे तद्धिते समासे ऽथ वाक्ये–
द्वेश्रौती आर्थो च ।
उदाहरणम्– “सौरभम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ ।
हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले !” ।।

अत्र क्रमेण त्रिविधा श्रौती ।
“मधुरः सुधावदधरः पल्लवतुल्यो ऽतिलेपवः पाणिः ।
चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः” ।।

अत्र क्रमेण त्रिविधा आर्थो ।
—पूर्णा षदेव तत् ।
स्पष्टम् ।
लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः ।। साद-१०.१७ ।।
त्रयाणां वानुपादाने श्रौत्यार्थो सापि पूर्ववत् ।
सा लुप्ता ।
तद्भेदमाह–
पूर्णावद्धर्मलोपे सा विना श्रौतीं तु तद्धिते ।। साद-१०.१८ ।।
सा लुप्तोपमा धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षट्प्रकारा, किं त्वत्र तद्धिते श्रौत्या असम्भवात्पञ्चप्रकारा ।
उदाहरणम्– “मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ! ।
वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनो ऽश्मवत्” ।।
आधरकर्मविहिते द्विविधे च क्यचि क्यङि ।
कर्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः ।। साद-१०.१९ ।।
“धर्मलोपे लुप्ता” इत्यनुषज्यते ।
क्यच् क्यङ्-णमुलः कलापमते इन्-आयि णमः ।
क्रमेणोदाहरणम्– अन्तः पुरीयसि रणेषु, सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः ।
दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- सञ्चारमत्र भुवि सञ्चरसि क्षितीश !” ।।

अत्र “अन्तः पुरीयसि” इत्यत्र सुखविहारास्पदत्वस्य, “सुतीयसि” इत्यत्र स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः ।
एवमन्यत्र ।
इह च यथादिलुल्यादिविरहाच्छ्रौत्यादिविशेषचिन्ता नास्ति ।
इदं च केचिदौपम्यप्रतिपादकस्येवादेर्लोप उदाहरन्ति, तदयुक्तम्–क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् ।
ननु क्यङादिषु सम्यगौपम्यप्रतीतिर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वाद् इवादिप्रयोगाभावाच्चेति न वाच्यम्, कल्पबादावपि तथाप्रसङ्गात् ।
न च कल्पबादीनामिवादितुल्यतयौपम्यस्य वाचकत्वम्, क्यङादीनां तु द्योतकत्वम्॑ इवादीनामपि वाचकत्वे निश्चयाभावात् ।
वाचकत्वे वा “समुदितं पदं वाचकम्” “प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ” इति च मतद्वये ऽपि वत्यादिक्यङाद्योः साम्यमेवेति ।
यच्च केचिदाहुः–“वत्यादय इवाद्यर्थे ऽनुशिष्यन्ते, क्यङादयस्त्वाचाराद्यर्थे” इति, तदपि न ॑ न खलु क्यङादय आचारमात्रार्थाः अपि तु सादृश्याचारार्था इति ।
तदेवं धर्मलोपे दशप्रकारा लुप्ता ।
उपमानानुपादाने द्विधा वाक्यसमासयोः ।
उदाहरणम्– “तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् ।
अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः ।
अत्रैव च “मुखेन सदृशम्” इत्यत्र “मुखं यथेदं” नयनतुल्यम्” इत्यत्र “दृगीव” इति पाठे श्रौत्यपि संभवतीति ।
अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थोत्वभेदेन चतुविधत्वसंभवे ऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् ।
औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ।। साद-१०.२० ।।
क्रमेणोदाहरणम्– “वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्” ।
“गर्दभति श्रुतिपरुषं व्यक्तं निनदन् महात्मनां पुरतः” ।
अत्र “गर्दभति” इत्यत्रौपम्यवाचिनः क्विपो लोपः ।
न चेहोपयमेयस्यापि लोपः, “निनदन्” इत्यनेनैव निर्देशात् ।
द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ।
“तस्या मुखेन” इत्यादौ “रम्यम्” इति स्थाने “लोके” इति पाठे ऽनयोरुदाहरणम् ।
क्विप्समासगता द्वेधा धर्मेवादिविलोपने ।। साद-१०.२१ ।।
उदाहरणम्– “विधवति मुखाब्जमस्याः” अत्र “विधवति” इति मनोहरत्व-क्विप्प्रत्यययोर्लोपः ।
“मुखाब्जम्” इति च समासगा ।
केचित्त्वत्रायिप्रात्ययलोपमाहुः ।
उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि ।
यथा–“अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपाणोदग्रदोर्दण्डः स सहस्त्रार्युधीयति” ।।

अत्र “सहस्त्रायुधमिवात्मानमाचरति” इति वाक्ये उपमेयस्यात्मनो लोपः ।
न चेहौपम्यवाचकलोपः, उक्तादेव न्यायात् ।
अत्र केचिदाहुः–“सहस्त्रायुधेन सह वर्तत इति ससहस्त्रायुवः स इवाचरतीति वाक्यात्ससहस्त्रायुधीयतीति पदसिद्धौ विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः” इति, तन्न विचारसहम् ॑ कर्तरि क्यचो ऽनुशासनविरुद्धत्वात् ।
धर्मोपमेयलोपे ऽन्या–
यथा–“यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे” ।
अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्म शुक्लता च लुप्तौ ।
–त्रिलोपे च समासगा ।। साद-१०.२२ ।।
यथा– राजते मृगलोचना ।
अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्मोपमानानां लोपः ।
तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः ।
पूर्णाषड्विधा, लुप्ता चैकविशतिविधेत मिलित्वा सप्तविंशतिप्रकारोपमा ।
एषु चोपमाभेदेषु मध्ये ऽलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रतिपाद्यते–
एकरूपः क्वचित्क्वापि भिन्नः साधारणो गुणः ।। साद-१०.२३ ।।
भिन्ने बिम्बानुबिम्बत्वं शब्दमात्रेण वा भिदा ।
तत्र एकरूपे यथा उदाहृतम्-“मधुरः सुधावदधरः–” इत्यादि ।
विम्वप्रतिविम्बत्वे यथा– “भल्लापवजितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव” ।।

अत्र “श्मश्रुलैः” इत्यस्य “सरघाव्याप्तैः” इति दृष्टान्तवत्प्रतिबिम्बनम् ।
शब्दमात्रेण भिन्नत्वे यथा– “स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा ।
कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम्” ।।

अत्रैके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्देन निर्दिष्टे ।
एकदेशविवर्तिन्युपमा वाच्यत्वगम्यते ।। साद-१०.२४ ।।
भवेतां यत्र साम्यस्य–
यथा–“नैत्रैरिवोत्पलैः मद्मैर्मुखैरिव सरः श्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव” ।।

अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं सरः श्रीणां चाङ्गनासाम्यं गम्यम् ।
–कथिता रसनोपमा ।
यथोर्ध्वमुपमेयस्य यदि स्यादुपमानता ।। साद-१०.२५ ।।
यथा– “चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता ।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः” ।।
मालोपमा यदेकस्योपमानं बहु दृश्यते ।
यथा–“वारिजेनेव सरसी शशिनेव निशीथिनी ।
यौवनेनेव वनिता नयेन श्रीर्मनोहरा” ।।

क्वचिदुपमानोपमेययोरपि प्रकृतत्वं यथा– “हसश्चन्द्र इवाभाति जलं व्योमतलं यथा ।
विमलाः कुमुदानीव तारकाः शरदागमे” ।।

“अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः ।
पुरन्दरस्य भवने कल्पवृक्षभवा इव” ।।

अत्रोपमेयभूतविभूतिभैः “कल्पवृक्षभवा इव ” इत्युपमानभूता विभूतय आक्षिप्यन्त इत्याक्षेपोपमा ।
अत्रैव “गृहे” इत्यस्य “भवने” इत्यनेन प्रतिनिर्देशात्प्रतिनिर्देस्योपमा इत्यादयश्च न लक्षिताः, एवंविधवैचित्र्यस्य सहस्त्रधा दर्शनात् ।
उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ।। साद-१०.२६ ।।
अर्थादेकवाक्ये ।
यथा– “राजीवमिव राजीवं जलं जलमिवाजनि ।
चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे” ।।

अत्र राजीवादीनामनन्यसदृशत्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः ।
“राजीवमिव पाथोजम्” इति चास्य लाटानुप्रासाद्विविक्तो विषयः ।
किन्त्वत्रोचितत्वादेकशब्दप्रयोग एव श्रेयान् ।
तदुक्तम्– “अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रसे साक्षादेव प्रयोजकम्” ।।

इति ।
पर्यायेण द्वयोरेतदुपमेयोपमा मता ।
एतदुपमानोपमेयत्वम् ।
अर्थाद्वाक्यद्वये ।
यथा–“कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी, सततं विभाति बत यस्य” ।।

अत्रास्य राज्ञः श्रीबुद्ध्यादिसदृशं नान्यदस्तीत्यभिप्रायः ।
सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ।। साद-१०.२७ ।।
यथा–“अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् ।
स्मरामि वदनं तस्याश्चारु चञ्चललोचनम्” ।।

“मयि सकपटम्–“इत्यादौ च स्मृतेः सादृश्यानुभवं विनोत्थापितत्वान्नायमलङ्कारः ।
राघवानन्दमहापात्रास्तु-वैसादृश्यात्स्मृतिमपि स्मरणालङ्कारमिच्छन्ति ।
तत्रोदाहरणं तेषामेव यथा– “शिरीषमृद्वी गिरिषु प्रपेदे यदा यदा दुः खशतानि सीता ।
तदा तदास्याः सदनेषु सौख्यलक्षाणि दध्यौ गलदस्त्रु रामः” ।।
रूपकं रुपितारोपाद्वि (पो वि ) षये निरपह्नवे ।
“रूपितऽ- इति परिणामाद्व्यवच्छेदः ।
एतच्च तत्प्रस्तावे विवेचयिष्यामः ।
“निरपह्नवे” इत्यपह्नुतिव्यवच्छेदार्थम् ।
तत्परम्परितं साङ्गं निरङ्गमिति च त्रिधा ।। साद-१०.२८ ।।
तद्रूपकम् ।
तत्र–
यत्र कस्यचिदारोपः परारोपणकारणम् ।
तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ।। साद-१०.२९ ।।
प्रत्येकं केवलं मालारूपं चेति चतुर्विधम् ।
तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा– “आहवे जगदुद्दण्ड ! राजमण्डलाराहवे ।
श्रीनृसिंहमहीपाल ! स्वस्त्यस्तु तव बाहवे” ।।

अत्र राजमण्डलं नृपसमूह एव चन्द्रबिम्बमित्यारोपो राजबाहौ हाहुत्वारोपे निमित्तम् ।
मालारूपं यथा– “पद्मोदयदिनाधीशः सदागतिसमीरणः ।
भूभृदावलिदम्भोलिरेक एव भवान् भुवि” ।।

अत्र पद्माया उदय एव पद्मानामुदयः,सतामागतिरेव सदागमनम्, भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वाद्यारोपनिमित्तम् ।
अश्लिष्टशब्दनिबन्धनं केवलं यथा– “पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः” ।।

अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तम् ।
मालारूपं यथा– “मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः ।
विराजते व्योमसरः सरोजं कर्पूरपूरप्रभमिन्दुबिम्बम्” ।।

अत्र मनोजादे राजत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम् ।
“तत्र च राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपे निमित्तम्” इति केचित् ।
अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ।। साद-१०.३० ।।
समस्तवस्तुविषयमेकदेशविवर्ति च ।
तत्र–
आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ।। साद-१०.३१ ।।
प्रथमं समस्तवस्तुविषयम् ।
यथा– “रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेधस्तिरोदधे” ।।

अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितम् ।
यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् ।
कस्यचिदारोप्यमाणस्य ।
यथा– “लावण्यमधुभैः पूर्णमास्यमस्या विकस्वरम् ।
लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ?” ।।

अत्र लावण्यादौ मधुत्वाद्यारोपः शाब्दः, मुखस्य पद्मत्वारोप आर्थः ।
न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्तमानात् मुखे वोपचरितत्वात् ।
निरङ्गं केवलस्यैव रूपणं तदपि द्विधा ।। साद-१०.३२ ।।
मालाकेवलरूपत्वात्–
तत्र मालारूपं निरङ्गं यथा– “निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् ।
क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा” ।।

केवलं यथा– “दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि ! नात्र दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै- र्यद्भिद्यते मृदु पदं ननु सा व्यथा मे” ।।
–तेनाष्टौ रूपके भिदाः ।
“चिरन्तनैरुक्ता” इति शेषः ।
क्वचित्परम्परितमप्येकदेशविवर्ति यथा– “खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य” ।।

अत्रार्थः क्ष्मायां महिषीत्वारोपः खड्गे सौविदल्लत्वारोपे निमित्तम् ।
अस्य भेदस्य पूर्ववन्मालारोपत्वे ऽप्युदाहरणं मृग्यम् ।
दृश्यन्ते क्वचिदारोप्याः श्लिष्टाः साङ्गे ऽपि रूपके ।। साद-१०.३३ ।।
तत्रैकदेशविवर्ति श्लिष्टं यथा मम– “करमुदयमहीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः” ।।

समस्तवस्तुविषयं यथा–अत्रैव “विचुम्बति-” इत्यादौ “चुचुम्बे हरिदबलामुखमिन्दुनायकेन” इति पाठे ।
न चात्र श्लिष्टपरम्परितम् ? अत्र हि “भूबृदावलिदम्भोलिः–” इत्यादौ राजादौ पर्वतत्वाद्यारोप विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्वथैव सादृश्याभावादसङ्गतम् ।
तर्हि कथं “पद्मोदयदिनाधीशः-” इत्यादौ परम्परितम्, राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य संभवादिति न वाच्यम् ।
तथा हि–राजादेस्तेजस्तितादिहेतुकं सुव्यक्तं सादृश्यम्, न तु प्रकृते विवक्षितम्, पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षितत्वात् ।
इह तु महीधरादेः स्तनादिना सादृश्यं पीनोतुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम् ।
क्वचित्समासाभावे ऽपि रूपकं दृश्यते– “मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा” ।
क्वचिद्वैयधिकरण्ये ऽपि यथा– “विदधे मधुपश्रेणीमिह भ्रूलतया विधिः” ।
क्वचिद्वैधर्म्ये ऽपि यथा– “सौजन्यम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्” ।।

इदं मम ।
अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वे ऽपि रूपकविशेषत्वादर्थालङ्कारमव्ये गणनम् ।
एवं वक्ष्यमाणालङ्कारेषु बोध्यम् ।
अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् ।
तदेवाधिकारूढवैशिष्ट्यसंज्ञकम् ।
यथा मम– “इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ।
इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः” ।।

अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यम् ।
विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ।। साद-१०.३४ ।।
परिणामो भवेत्तुल्यातुल्याधिकरणो द्विधा ।
आरोप्यमाणस्यारोपविषयात्मतया परिणमनात्परिणामः ।
यथा– “स्मितेनोपायनं दूरादागतस्य कृतं मम ।
स्तनोपपीडमाश्लेषः कृ (त) तो द्यूते पणस्तया” ।।

अन्यत्रोपायनपणो वसनाभरणादिभावेनोपयुज्येते ।
अत्र तु नायकसंभावनद्यूतयोः स्मिताश्लेषरूपतया ।
प्रथमार्द्धेवैयधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन ।
रूपके “मुखचन्द्रं पश्यामि” इत्यादावारोप्यमाणचन्द्रादेरुपरञ्जकतामात्रम्, न तु प्रकृते दर्शनादावुपयोगः ।
इह तूपायनोदेर्विषयेण तादात्म्यं प्रकृते च नायकसंभावनादावुपयोगः ।
अत एव रूपके आरोप्यस्यावच्छेदकत्वमात्रेणान्वयः, अत्र तु तादात्म्येन ।
“दासे कृतागसि-” इत्यादौ रूपकमेव, न तु परिणामः ।
आरोप्यमाणकण्टकस्य पादभेदनकार्यस्याप्रतुतत्वात् ।
न खलु तत्कस्यचिदपि प्रस्तुतकार्यस्य घटनार्थमनुसन्धीयते ।
अयमपि रूपकवदधिकारूढवैशिष्ट्यो दृश्यते ।
यथा– “वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः” ।।

अत्र प्रदीपानामौषध्यात्मतया प्रकृते सुरतोपयोगिन्यन्धकारनाशे उपयोगो ऽतलपूरत्वेनाधिकारूढवैशिष्ट्यम् ।
संदेहः प्रकृते ऽन्यस्य संशयः प्रतिभोत्थितः ।। साद-१०.३५ ।।
शुद्धो निश्चयगर्भो ऽसौ निश्चयान्त इति त्रिधा ।
यत्र संशय एव पर्यवसानं स शुद्धः ।
यथा– “किं तारुण्यतरोरियं रसभहोद्भिन्ना नवा वल्लरी वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।
उद्राढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः” ।।

यत्रादावन्ते च संशय एव मध्ये निश्चयः स निश्चयमध्यः ।
यथा– “अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति पुनः समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः” ।।

अत्र मध्ये मार्तण्डाद्यभावनिश्चयः, राजनिश्चये द्वितीयसंशयोत्थानासंभवात् यत्रादौ संशयो ऽन्ते च निश्चयः स निश्चयान्तः ।
यथा– किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्वकसवासिनां परोक्षैः” ।।

अप्रतिभोत्थापिते तु “स्थाणुर्वा पुरुषो वा” इत्यादिसंशये नायमलङ्कारः ।
“मध्यं तव सरोजाक्षि ! पयोधरभरादितम् ।
अस्ति नास्तीति संदेहः कस्य चित्ते न भासते” ।।

अत्रातिशयोक्तिरेव, उपमेये उपमानसंशयस्यैवैतदलङ्कारविषयत्वात् ।
साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः ।। साद-१०.३६ ।।
यथा–“मुग्धा दुग्धधिया गवां विदधते कुम्भानघो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि ।
कर्कन्धूफसमुच्चिनोति शबरी मुक्ताफलाशङ्कया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका” ।।

अस्वरसोत्थापिता भ्रान्तिर्नायमलङ्कारः ।
यथा–“शुक्तिकायां रजतम्” इति ।
न चासादृश्यमूला ।
यथा– “संगमविरहविकल्पे वरमिह न संगमस्तस्याः ।
सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे” ।।
क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् ।
एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ।। साद-१०.३७ ।।
क्रमेणोदाहरणम्– “प्रिय इति गोपवधूभिः शिशुरिति वृद्धैरधीश इति देवैः ।
नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः” ।।

अत्रैकस्यापि भगवतस्तत्तद्गुणयोगादनेकधोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः ।
यदाहुः– “यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासो ऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः” ।।

अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद् ग्रहीतृभेदाच्च न मालारूपकम्, न च भ्रान्तिमान् ।
न चायमभेदे भेद इत्येवंरूपातिशयोक्तिः ।
तथाहि–“अन्यदेवाङ्गलावण्यम्-” इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वेनाध्यवसानम् ।
न चेह भगवति गोपवधूप्रभृतिभिः प्रियत्वाद्यध्यवसीयते प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात् ।
केचिदाहुः–“अयमलङ्कारो नियमेनालङ्कारान्तरविच्छित्तिमूलः ।
उक्तोदाहरणे च शिशुत्वादीनां नियमनाभिप्रायात्प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति, तत्सद्भावे ऽपि ग्रहीतृभेदेन नानात्वप्रतीतिरूपोविच्छित्ति विशेष उल्लेखाख्यभिन्नालङ्कारप्रयोजकः ।
श्रीकण्ठजनपदवर्णने–“वज्रपञ्जरमिति शरणागतैः, अम्बरविवरमिति वातिकैः” इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः ।
इह च रूपकालङ्कारयोगः” ।
वस्तुतस्तु–“अम्बरविवरम्-” इत्यादौ भ्रान्तिमन्तमेवेच्छन्ति न रूपकम्, भेदप्रतीतिपुरः सरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात् ।
यदाहुः शरीरकमीमांसाभाष्यव्याख्याने श्रीवाचस्पतिमिश्राः-“अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरः सरः” इति ।
इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्तिकृत एवाम्बरविवराद्यारोप इति ।
अत्रैव च “चपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः” इत्यादौ परिणामालङ्कारयोगः ।
“गाम्भीर्येण समुद्रो ऽसि सौरवेणासि पर्वतः” ।
इत्यादौ चानेकधोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः ।
अत्र च रूपकयोगः ।
“गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि-” इत्यादिषु चास्य रूपकाद्विविक्तो विषय इति ।
अत्र हि श्लेषमूलातिशयोक्तियोगः ।
प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः ।
इयं द्विधा ।
क्वचिदपह्नपूर्वक आरोपः, क्वचिदारोपपूर्वको ऽपह्नव इति ।
क्रमेणोदाहरणम्– “नदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः ।
नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः” ।।

“एतद्विभाति चरमाचलचूडचुम्बि हिण्डीर-पिण्ड-रुचि-शीतमरीचिबिम्बम् ।
उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन” ।।

इदं पद्यं मम ।
एवम्–“विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः” इत्याद्याकारेण च प्रकृतनिषेधो बोध्यः ।
गोपनीयं कलप्यर्थं द्योतयित्वा कथञ्चन ।। साद-१०.३८ ।।
यदि श्लेषेणान्यथा वान्यथयेत्साप्यह्नुतिः ।
श्लेषेण यथा– “काले वारिधराणामपतितया नैव शक्यते स्थातुम् ।
उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः” ।।

अत्र “अपतितया” इत्यत्र पतिं विनेत्युक्त्वा पश्चात्पतनाभावेन इत्यन्यथा कृतम् ।
अश्लेषेण यथा– “इह पुरो ऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
स्मरसि किं सखि ! कान्तरतोत्सवं नहि घनागमरीतिरुदाहृता” ।।

वक्रोक्तौ परोक्तेरन्यथाकारः, इह तु स्वौक्तेरेवेति भेदः ।
गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः ।
अन्यन्निषिध्य प्रकृतस्थापनं निश्चायः पुनः ।। साद-१०.३९ ।।
निश्चयाख्यो ऽयमलङ्कारः ।
अन्यदित्यारोप्यमाणम् ।
यथा मम–“वदनमिदं न सरोजं नयने नेन्दीवरे एते ।
इव सविधे मुग्धदृशो भ्रमर ! मुदा किं परिभ्रमसि” ।।

यथा वा– “हृदि विसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु धावसि” ।।

न ह्ययं निश्चयान्तः संदेहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् ।
अत्र तु भ्रमरादेः संशयो नायकादेर्निश्चयः ।
किञ्च न भ्रमरादेरपि संशयः एककोट्यधिके ज्ञाने, तथा समीपागमनासंभावत् ।
तर्हि भ्रान्तिमानस्तु, अस्तु नाम भ्रमारादेर् भ्रान्तिः ।
न चेह तस्याश्चमत्कारविधायित्वम्, अपि तु तथाविधनायकाद्युक्तेरेवेति सहृदयसंवेद्यम् ।
किञ्चाविवक्षिते ऽपिं भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव संभवति तथाविधोक्तिः ।
न च रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् ।
न चापह्नुतिः, प्रस्तुतस्यानिषेधादितिपृथगेवायमलङ्कारश्चिरन्तनोक्तालङ्कारेभ्यः ।
शुक्तिकायां रजतधिया पतति पुरुषे शुक्तिकेयं न रजतमिति कस्याचिदुक्तिर्नायमलङ्कारो वैचित्र्याभावात् ।
भवेत्संभावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ।। साद-१०.४० ।।
वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः ।
जातिगुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ।। साद-१०.४१ ।।
तदष्टधापि प्रत्येकं भावाभावाभिमानतः ।
गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च ताः ।। साद-१०.४२ ।।
द्वात्रिंशद्विधतां यान्ति–
तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा– “ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलो भाति ।
सपताकः कनकमयो विजयस्तम्भः स्मरस्येव” ।।

अत्र विजयस्तम्भस्य बहुवाचकत्वाज्जात्युप्रेक्षा ।
“ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव” ।।

अत्र सप्रसवत्वं गुणः ।
“गङ्गाम्भसि सुरत्राण ! तव निः शाननिस्वनः ।
स्नातीवारिधूवर्गगर्भपातनपातकी” ।।

अत्र स्नातीति क्रिया ।
“मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः” ।
अत्र चन्द्र इत्येकव्यक्तिवाचकत्वाद्द्रव्यशब्दः ।
एते भावाभिमाने ।
अभावाभिमाने यथा– “कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
उपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ” ।।

अत्रापश्यन्ताविति क्रियाया अभावः ।
एवमन्यत् ।
निमित्तस्य गुणक्रियारूपत्वे यथा–“गङ्गम्भसि” इत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः ।
“अपश्यन्तौ-” इत्यादौ क्षामतागमनरूपं निमित्तं क्रिया ।
एवमन्यत् ।
प्रतीयमानोत्प्रेक्षा यथा– “तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् ।
हाराय गुणिने स्थानं न दत्तमिति लज्जया” ।।

अत्र लज्जयेवेति इवाद्यभावात्प्रतीयमानोत्प्रेक्षा ।
एवमन्यत् ।
ननु ध्वनिनिरूपणप्रस्तावे ऽलङ्काराणां सर्वेषामपि व्यङ्ग्यात्वं भवतीत्युक्तम् ।
सम्प्रति पुनविशिष्य कथमुत्प्रेक्षायाः प्रतीयमानत्वम् ? उच्यतेव्यङ्ग्योत्प्रेक्षायाम्–“महिलासहस्स-” इत्यादावुत्प्रेक्षणं विनापि वाक्यविश्रान्तिः ।
इह तु स्तनयोर्लज्जाया असम्भवाल्लज्जयेवेत्युत्प्रेक्षयैवेति व्यङ्ग्यप्रतीयमानोत्प्रेक्षयोर्भेदः ।
अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु मध्ये विशेषमाह–
–तत्र वाच्याभिदाः पुनः ।
विना द्रव्यं त्रिधा सर्वाः स्वरूपफलहेतुगाः ।। साद-१०.४३ ।।
यत्रोक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश भेदास्तेषु च जात्यादीनां त्रयाणां ये द्वादश भेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः ।
द्रव्यस्य स्वरूपोत्प्रेक्षणमेव सम्भवतीति चत्वार इति मिलित्वा चत्वालिंशद्भेदाः ।
अत्र स्वरूपोत्प्रेक्षा यथा पूर्वोदाहरणेषु “स्मारस्य विजयस्तम्भः” इति ।
“सप्रसवा इव” इत्यादयो जातिगुणस्वरूपगाः ।
फलोत्प्रेक्षा यथा– “रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम्” ।।

अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितम् ।
हेतूत्प्रेक्षा यथा– “सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुः खादिव बद्धमौनम्” ।।

अत्र दुः खरूपो गुणो हेतुत्वेनोत्प्रेक्षितः ।
एवमन्यत् ।
उक्त्यनुक्तयोर्निमित्तस्य द्विधा तत्र स्वरूपगाः ।
तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः ।
तत्र निमित्तस्योपादानं यथा पूर्वोदाहृते “स्नातीव” इत्युत्प्रेक्षायं निमित्तं पातकित्वमुपात्तम् ।
अनुपादाने यथा–“चन्द्र इवापरः” इत्यत्र तथाविधसौन्दर्याद्यतिशयो नोपात्तः ।
हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव, तथाहि–“विश्लेषदुः खादिव” इत्यत्र यन्निमित्तं बद्धमौनत्वम् “आख्यातुमिव” इत्यत्र च भूप्रवेशस्तयोरनुपादाने ऽसङ्गतमेव वाक्यं स्यात् ।
प्रतीयमानायाः षोडशसु भेदेषु विशेषमाह–
प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः ।। साद-१०.४४ ।।
यथैदाहृते “नन्वङ्ग्याः स्तनयुग्मेन” इत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः ।
अस्यामपि निमित्तस्यानुपादानं न सम्भवति ।
इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात् ।
स्वरूपोत्प्रेक्षाप्यत्र न भवति, धर्मान्तरतादात्मयनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् ।
यथा–“अयं राजापरः पाकशासनः” इति ।
(विशेषणाभावे च रूपकस्य, यथा–“राजा पाकशासनः” इति ।
) तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा ।
उक्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।
ता उत्प्रेक्षाः ।
उक्तौ यथा–“उरुः कुरङ्गकदृशः-” इति ।
अनुक्तौ यथा मम प्रभावत्याम–“प्रद्युम्नः–इव हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेन– घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः ।
ततमिव तमालतरूभिर्वृतमिव नीलांशुकैर्भुवनम्” ।।

अत्राञ्जनेन घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तम् ।
यथा वा– “लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः” ।
अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तः ।
अञ्जनवर्षणस्य तमः सम्पातः ।
अनयोरुत्प्रेक्षानिमित्तं च तमसो ऽतिबहुलत्वं धारारूपेणाधः संयोगश्च यथासंख्यम् ।
केचित्तु–“अलपनकर्तृभऊतमपि तमो लेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभो ऽपि वर्षणाक्रियाकर्तृत्वेन” इत्याहुः ।
अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं भजेत् ।। साद-१०.४५ ।।
तत्र सापह्नवोत्प्रेक्षा यथा मम– “अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः ।
अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव” ।।

श्लेषहेतुगा यथा– “मुक्तोत्करः सङ्कटशुक्तिमध्यद्विनिर्गतः सारसलोचनायाः ।
जानीमहे ऽस्याः कमनीयकम्बुग्रीवाधिवासाद्गुणवत्त्वमाप” ।।

अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिवासादिवेति हेतूत्प्रेक्षाया हेतुः ।
अत्र “जानीमहे” इत्युत्प्रेक्षावाचकम् ।
एवम्– मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः ।
क्वचिदुपमोपक्रमोत्प्रेक्षा यथा– “पारेजलं नीरनिधेरपस्यन् मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्त्रप्रतिक्षणोत्कूलितशैवलाभाः” ।।

इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा ।
पर्यवसाने तु जलधितीरे शैवालस्थितेः सम्भावनानुपपत्तौ सम्भावनोत्थापनमित्युत्प्रेक्षा ।
एवं विरहवर्णने–“केयूरायितमङ्गदैः–” इत्यत्र “विकासिनीलोत्पलतिस्म कर्णे मृगायताक्ष्याः कुटिलः कटाक्षः” इत्यादौ च ज्ञेयम् ।
भ्रान्तिमदलङ्कारे “मुग्घा दुग्धधिया–” इत्यादौ भ्रान्तानां बल्लवादीनां विषयस्य चन्द्रिकादेर्ज्ञानमेव नास्ति, तदुपनिबन्धनस्य कविनैव कृतत्वात् ।
इह तु संभावनाकर्तुविषयस्यापि ज्ञानमिति द्वयोर्भेदः ।
संदेहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा संभाव्यभूतैककोटिः ।
अतिशयोक्तौ विषयिणः प्रतीतस्य पर्ववासने ऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः ।
“रञ्जिता नु विविधास्तरुशला नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण” ।।

इत्यत्र यत्तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण संदिह्यत इति संदेहालङ्कार इति केचिदाहुः, तन्न-एकविषये समानबलतयानेककोटिस्फुरणस्यैव संदेहत्वात् ।
इह तु तर्वादिव्याप्तेः प्रतिसंबन्धिभेदो व्यापनादेर्निगरणेन रञ्जनादेः स्फुरणं च ।
अन्ये तु–“अनेकत्वनिर्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्यधिके ऽपि भिन्नो ऽयं संदेहप्रकारः” इति वदन्ति स्म॑ तदप्ययुक्तम्–निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि संभावना, तस्याश्चात्र स्फुटतया सद्भावात् नुशब्देन चेवशब्दवत्तस्याद्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता, अलमदृष्टसंदहप्रकारकल्पनया ।
“यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी- कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्” ।।

इत्यत्र “भन्ये” शब्दप्रयोगे ऽप्युक्तरूपायाः सम्भावनाया अप्रतीतेवितर्कमात्रं नासावपह्नवोत्प्रेक्षा ।
सिद्धत्वे ऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।
विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणो ऽध्यवसायः ।
अस्य चोत्प्रेक्षायां विषयिणो ऽनिश्चितत्वेन निर्देशात्साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वम् ।
विषयनिगरणं चोत्प्रेक्षायां विषयस्याधः करणमात्रेण, इहापि मुखं द्वितीयश्चन्द्र इत्यादौ ।
यदाहुः– “विषयस्यानुपादाने ऽप्युपादाने ऽपि सूरयः ।
अधः करणमात्रेण निगीर्णत्वं प्रचक्षते” ।।

इति ।
भेदे ऽप्यभेदः सम्बन्धे ऽसम्बन्धस्तद्विपर्ययौ ।। साद-१०.४६ ।।
पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः ।
तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः ।
सा अतिशयोक्तिः ।
अत्र भेदे ऽभेदो यथा मम– “कथमुपरि कलापिनः कलापो विलसति तस्य तले ऽष्टमीन्दुखण्डम् ।
कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्” ।।

अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः ।
यथा वा–“विश्लेषदुः खादिव बद्धमौनम्” ।
अत्र चेतनगतमौनित्वमन्यत्, अचेतनगतं चान्यदिति द्वयोर्भेदे ऽप्यभेदः ।
एवम्– “सहाधरदलेनास्य यौवने रागभाक्प्रियः” ।
अत्राधरस्य रागो लौहित्यम्, प्रियस्य रागः प्रेम, द्वयोरभेदः ।
अभेदे भेदो यथा– “अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः ।
तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम्” ।।

सम्बन्धे ऽसम्बन्धो यथा– “अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वय नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः” ।।

अत्र पुराणप्रजापतिनिर्माणसम्बन्धे ऽप्यसम्बन्धः ।
असम्बन्धे सम्बन्धो यथा– “यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम् ।
तदोपमीयते तस्या वदनं चारुलोचनम्” ।।

अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः ।
कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति ।
कारणात्प्रथमं कार्यस्य भावे द्वयोः समकालत्वेच ।
क्रमेण यथा– “प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् ।
पश्चादुद्भिन्नबकुलरसालमुकुलश्रियः” ।।

“सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पित्र्यं मण्डलं च कहीक्षिताम्” ।।

इह केचिदाहुः–केशपाशादिगतो लौकिको ऽतिशयो ऽलौकिकत्वेनाध्यवसीयते ।
केशपाशादीनां कलापादिभिरध्यवसाये “अन्यदेवाङ्गलावण्यम्” इत्यादिप्रकारेष्वव्याप्तिर्लक्षणस्य” इति ।
तन्न,–तत्रापि ह्यन्यदङ्गलावण्यमन्यत्वेनाध्यवसीयते ।
तथाहि “अन्यदेव” इति स्थाने “अन्यदिव” इति पाठे ऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाङ्गीक्रियते ।
“प्रगेव हरिणाक्षीणाम्–” इत्यत्र बकुलादीश्रीणां प्रथमभावितापि पश्चाद्भावित्वेनाध्यवसिता, अत एवात्रापीवशब्दयोगे उत्प्रेक्षा एवमन्यत्र ।
पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।। साद-१०.४७ ।।
एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ।
अन्येषामप्रस्तुतानाम् ।
धर्मो गुणक्रियारूपः ।
उदाहरणम्– “अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः ।
समयेन तेन सुचिरं शयित- प्रतिबोधितस्मरमबोधिषत” ।।

अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात्प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाभिसम्बन्धः ।
“तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता” ।।

इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः ।
एवम्– “दानं वित्तादृतं वाचः कीर्त्तिधर्मौ तथायुषः ।
परोपकारणं कायादसारात्सारमाहरेत्” ।।

अत्र दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः ।
अप्रस्तुतप्रस्तुतयोर्देपकं तु निगद्यते ।। साद-१०.४८ ।।
अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ।
क्रमेणोदाहरणम्– “बलावलेपादधुनापि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि” ।।

अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेरप्रस्तुतायाश्च योषित एकानुगमनक्रियासम्बन्धः ।
“दूरं समागतवति त्वयि जीवनाथे भिन्ना मनोभवशरेण तपस्विनी सा ।
उत्तिष्ठति स्वपिति वासगृह त्वदीय- मायाति याति हसति श्वसिति क्षणेन” ।।

इदं मम ।
अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः ।
अत्र च गुणक्रिययोरादिमध्यावसानसद्भावेन त्रैविध्यं न लक्षितम्, तथाविधवैचित्र्यस्य सर्वत्रापि सहस्त्रधासम्भवात् ।
प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ।। साद-१०.४९ ।।
एको ऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ।
यथा– “धन्यासि वैदभि ! गुणैरुदारैर्यया समाकृष्यत नैषधो ऽपि ।
इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति” ।।

अत्र समाकर्षणमुत्तरलीकरणं च क्रियैकैव पौनरुक्त्यनिरासाय भिन्नवाचकतया निदिष्ट ।
इयञ्च मालयापि दृश्यते यथा– “विमल एव रविर्विशदः शशी प्रकृतिशोभन एव हि दर्ण्णः ।
शिवगिरिः शिवहाससहोदरः सहजसुन्दर एव हि सज्जनः” ।।

अत्र विमलविशदादिरर्थत एव ।
वैधर्म्येण यथा– “चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि ।
विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि” ।।
दृष्टन्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् ।। साद-१०.५० ।।
सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः ! अयमपि साधर्म्यवैधर्म्याभ्यां द्विधा ।
क्रमेणोदाहरणम्– “अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला” ।।

“त्वयि दृष्टे कुरङ्गाक्ष्याः स्त्रंसते मदनव्यथा ।
दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः” ।।

“वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः ।
प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम्” ।।

इदं पद्यं मम ।
अत्र “मनः कुतो नः” इत्यस्य “काङ्क्षति वल्लिमन्याम्” इत्यस्य चैकरूपतयैव वर्यवसानात्प्रतिवस्तूपमैव ।
इह तु कर्णे मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यम् ।
अत्र समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोर्ऽथन्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः ।
सम्भवन् वस्तुसम्बन्धो ऽसम्भवन् वापि कुत्रचित् ।
यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ।। साद-१०.५१ ।।
तत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा– “को ऽत्र भूमिवलये जनान् मुधा तापयन् सुचिरमेति सम्पदम् ।
वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः” ।।

अत्र रवेरीदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः सम्भवत्येव ।
ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्मवत्वात् ।
स च रवेरस्ताचलगमनस्य परितापिनां विपत्प्राप्तेश्च बिम्बप्रतिबिम्बभावं बोधयति ।
असम्भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा ।
तत्रैकवाक्यगा यथा– “कलयति कुवलयमालाललितं कुटिलः कटाक्षविक्षेपः ।
अधरः किसलयलीलामाननमस्याः कलानिधेविलासम्” ।।

अत्रान्यस्य धर्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवात्तल्ललितादिसदृशं ललितादिकमवगमयत्कटाक्षविक्षेपादेः कुवलयमालादेश्च बिम्बप्रतिबिम्बभावं बोधयति ।
यथा वा– “प्रयाणे तव राजेन्द्र ! मुक्ता वैरिमृगीदृशाम् ।
राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः” ।।

अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्थागो ऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन् राजहंसगतिमिव गतिं बोधयति ।
अनेकवाक्यगा यथा– “इदं किलाव्याजमनोहरं वपुस्तपः क्लपं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति” ।।

अत्र चच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयो ऽनुपपद्यमानस्तादृशवपुषस्तपः क्लमत्वसाधनेच्छा नीलोत्पलपत्नधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्यवस्यति ।
यथा– “जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया ।
काचमूल्येन विक्रीतो हन्त ! चिन्तामणिर्मया” ।।

अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्तामणिविक्रय इवेति पर्यवसानम् ।
एवम्– “क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्” ।।

अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्यवसानम् ।
इयं च क्वचिदुपमेयवृत्तस्योपमाने ऽसम्भवे ऽपि भवति ।
यथा– “यो ऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे ।
समास्वादि स मृद्वीकारसे रसविशारदैः” ।।

अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसे ऽसम्भवात्पूर्ववत्साम्ये पर्यवसानम् ।
मालारूपापि यथा मम– “क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने ।
वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने” ।।

इह विम्बप्रतिबम्बताक्षेपं विना वाक्यार्थापर्यवसानम् ।
दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनम् ।
नापीयमर्थापत्तिः, तत्र “हारो ऽयं हरिणाक्षीणाम्–” इत्यादौ सादृश्यपर्यवसानाभावात् ।
आदिक्यमुपमेयस्योपमानान्न्यूनताथवा ।
व्यतिरेकः–
स च–
–एक उक्ते ऽनुक्ते हेतौ पुनस्त्रिधा ।। साद-१०.५२ ।।
चतुर्विधो ऽपि साम्यस्य बोधनाच्छब्दतोर्ऽथतः ।
आक्षेपाच्च द्वादशधा श्लेषे ऽपीति त्रिरष्टधा ।। साद-१०.५३ ।।
प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः ।
उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणं च ।
तयोर्द्वयोरप्युक्तावेकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुविधे ऽप्यस्मिन्नुपमानोपमेयत्वस्य निवेदनं शब्देन अर्थेन आक्षेपेण चेति द्वादशप्रकारो ऽपि श्लेषे, “अपि” शब्दादश्लेषेऽपीति चतुर्विंशतिप्रकारः ।
उपमानान्न्यूनतायामप्यनयैव भङ्ग्या चतुर्विंशतिप्रकारतेति मिलित्वा अष्टचत्वारिंशत्प्रकारो व्यतिरेकः ।
उदाहरणम्– “अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा” ।
अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कलङ्कित्वं हेतुद्वयमप्युक्तम्, यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यम् ।
अत्रैव “न कलङ्किविधूपमम्” इति पाठे आर्थम् ।
“जयतीन्दुं कलङ्किनम्” इति पाठे त्विववत्तुल्यादिपदविरहादाक्षिप्तम् ।
अत्रैवाकलङ्कपदत्यागे उपमेयतोत्कर्षकारणानुक्तिः ।
कलङ्किपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः ।
द्वयोरनुक्तौ द्वयोरनुक्तिः ।
श्लेषे यथा– “अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः” ।
अत्रेवार्थे वतिरिति शाब्दमौपम्यम् ।
उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः ।
गुणशब्दः श्लिष्टः ।
अन्ये भेदाः पूर्ववदूह्याः ।
एतानि चोपमेयस्योपमानादाधिक्य उदारणानि ।
न्यूनत्वे दिङ्मात्रं यथा– “क्षीणः क्षीणो ऽपि शशी भूयो भूयो ऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु” ।।

अत्रोपमेयभूतयोवनास्थैर्यस्याधिक्यम् ।
तेनात्र “उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः” इति केषांचिल्लक्षणे “विपर्यये वेतिपदमनर्थकम्” इति यत्केचिदाहुः ।
तन्न विचारसहम् ।
तथाहि-अत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते ।
अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव ।
अस्तु वात्रोदाहरणे यथाकथंचिद्रतिः ।
“हनूमदाद्यैर्यशसा मया पुनद्विषां हसैर्दूतपथः सितीकृतः” ।
इत्यादिषु का गतिरिति सुष्ठूक्तं “न्यूनताथवा” इति ।
सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः ।। साद-१०.५४ ।।
सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ।
अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरूपा च ।
अभेदाध्यवसायमूलापि श्लेषभित्तिकान्यथा च ।
क्रमेणोदाहरम्– “सहाधरदलेनास्या यौवने रागभाक्प्रियः” ।
अत्र रागपदे श्लेषः ।
“सह कुमुदकदम्बैः कालमुल्लासयन्तः सह घनतिमिरौघैर्धैर्यमुत्सारयन्तः ।
सह सरसिजषण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति” ।।

इदं मम ।
अत्रोल्लासादीनां संबन्धिभेदादेव भेदः, न तु श्लिष्टतया ।
“सममेव नराधिपेन सा गुरुसंमोहविलुप्तचेतना ।
अगमत् सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम्” ।।

इयं च मालयापि संभवति ।
यथोदाहृते “सह कुमुदकदम्बैः–” इत्यादौ ।
“लक्ष्मणेन समं रामः काननं गहनं ययौ” ।
इत्यादौ चातिशयोक्तिमूलाभावान्नायमलङ्कारः ।
विनोक्तिर्यद्विनान्येन नासाध्वन्यदसाधु वा ।। साद-१०.५५ ।।
नासाधु अशोभनं न भवति ।
एवं च यद्यपि शोभनत्व एव पर्यवसानं तथाप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत्कस्यचिद्वर्णनीयस्याशोभनत्वं तत्परसन्निधेरेव दोषः ।
तस्या पुनः स्वभावतः शोभनत्वमेवेति ।
यथा–“विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः ।
विना ग्रीष्मोष्मणा मञ्जुर्वनराजिरजायत” ।।

“असाध्वशोभनं यथा– “अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् ।
का दिनश्रीर्विनार्केण का निशा शशिना विना” ।।

“निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन” ।।

अत्र परस्पराविनोक्तिभङ्ग्या चकत्कारातिशयः ।
विनाशब्दप्रयोगाभावे ऽपि विनार्थविवक्षायं विनोक्तिरेवेयम् ।
एवं सहोक्तिरपि सहशब्दप्रयोगाभावे ऽपि सहार्थविवक्षायां भवतीति बोध्यम् ।
समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः ।
व्यवहारसमारोपः प्रस्तुते ऽन्यस्य वस्तुनः ।। साद-१०.५६ ।।
अत्र समेन कार्येण प्रस्तुते ऽप्रस्तुतव्यवहारसमारोपः ।
यथा– “व्याधूय यद्वसनमम्बुजलोचनाया वक्षोजयोः कनककुम्भविलासभाजोः ।
आलिङ्गसि प्रसभमङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह !” ।।

अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः ।
लिङ्गसाम्येन यथा– “असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः” ।।

अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः ।
विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन, औपम्यगर्भत्वेन च त्रिधा ।
श्लिष्टतया यथा मम– “विकसितमुखीं रागासङ्गाद्रलत्तिमिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः ।
जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त ! प्राचेतसीं तुहिनद्युतिः” ।।

अत्र मुखरागादिशब्दानां श्लिष्टता ।
अत्रैव हि “तिमिरावृतिम्” इत्यत्र “तिमिराशुकम्” इति पाठे एतदेशस्य रूपणे ऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम्, तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्रविश्रान्त इति न समासोक्तिबुद्धिं व्याहन्तुमीशः ।
यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादित्यशाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्तिरूपकमेव ।
यथा– “जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअं ।
रगसंमुही वि सहसा परम्मुही होइ रिउसेणा” ।।

अत्र रणान्तः पुरयोः सादृश्यमस्फुटमेव ।
क्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनां रूपणं शाब्दमेकदेशस्य चार्थं तत्रैकदेशविवर्ति रूपकमेव ।
रूपकप्रतीतेर् व्यापितया समासोक्तिप्रतीतितिरोधायकत्वात् ।
नन्वस्ति रणान्तः पुरयोरपि सुखसंचारतया स्फुटं सादृश्यमिति चेत्? सत्यमुक्तम् ॑ अस्त्येव किंतु वाक्यार्थपर्यालोचनसापेक्षम्, न खलु निरपेक्षम्, मुखचन्द्रादेर्मनोहरत्वादिवद्रणान्तः- पुरयोः स्वतः सुखसञ्चारत्वाभावात् ।
साधरण्येन यथा– “निसर्गसौरभोद्भ्रान्तभृङ्गसंगीतशालिनी ।
उदिते वासराधीशे स्मेराजनि सरोजिनी” ।।

अत्र निसर्गेत्यादिविशेषणसाम्यात्सरोजिन्यां नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मेरत्वधर्मस्य समारोपः कारणम् ।
तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् ।
औपम्यगर्भत्वं पुनस्त्रिधा सम्भवति, उपमारूपसङ्करगर्भत्वात् ।
तत्रोपमागर्भत्वे यथा– “अदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा” ।।

अत्र सुवेषत्ववशात्प्रथमं दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेन समासः ।
अनन्तरं च दन्तप्रभासदृशैः पुष्पैश्चितेत्यादिसमासान्तराश्रयेण समानविशेषणमहात्म्याद्धरिणेक्षणायां लताव्यवहारप्रतीतिः ।
रूपकगर्भत्वे यथा–“लावण्यमधुभिः पूर्णम्-” इत्यादि ।
सङ्करगर्भत्वे यथा-“दन्तप्रभापुष्प-” इत्यादि ।
“सुवेषा” इत्यत्र “परीता” इति पाठे ह्युपमारूपकसाधकाभावात्सङ्करसमाश्रयणम् ।
समासान्तरं पूर्ववत् ।
समासान्तरमहिम्ना लताप्रतीतिः ।
एषु च यषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति तन्मते आद्यतृतीययोः समासोक्तिः ।
द्वितीयस्तु प्रकार एकदेशविर्विंतरूपकविषय एव ।
पर्यालोचने त्वाद्ये प्रकारे एवदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता ।
अन्यथा– “ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार” ।।

इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः, नायिकापयोधरेणार्द्रनखक्षताभशक्रचापधारणासम्भवात् ।
ननु “आर्द्रनखक्षताभम्” इत्यत्र स्थितमप्युपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयम् ।
यथा–“दध्ना जुहोति” इत्यादौ हवनस्यान्यथासिद्धेर्दध्नि सञ्चार्यते विधिः ।
एवञ्चेन्द्रचापाभमार्द्रनखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत् ? न, एवंविधनिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्त्युपमाङ्गीकारस्यैव ज्यायस्त्वात् ।
अस्तु वात्र यथाकथञ्चित्समासोक्तिः ।
“नेत्रैरिवोत्पलैः पद्मैः-” इत्यादौ चान्यगत्यसम्भवात् ।
किं चोपमायां व्यवहारप्रतीतेरभावात्कथं तदुपजीविकायाः समासोक्तेः प्रवेशः ।
यदाहुः– “व्यवहारो ऽथवा तत्त्वमौपम्ये यत्प्रतीयते ।
तन्नौपम्यं समासोक्तिरेकदेशोपमा स्फुटा” ।।

एवञ्चोपमारूपकयोरेकदेशविवर्तिताङ्गीकारे तन्मूलसङ्करे ऽपि समासोक्तेरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति विशेषणसाम्ये श्लिष्टवेशेषणोत्थापिता साधारणविशेषणोत्थापिता चेति द्विधा ।
कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुः प्रकारा समासोक्तिः ।
सर्वत्रैवात्र व्यवहारसमारोपः कारणम् ।
स च क्वचिल्लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा ।
तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधम् ।
शास्त्रीयमपि तर्कायुर्वेदज्योतिः शास्त्रप्रसिद्धतयोति बहुप्रकारा समासोक्तिः ।
दिङ्मात्रं यथा–“व्याधूय यद्वसनम्-” इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकव्यवहारादेः समारोपः ।
“यैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् ।
लोपः कृतः किल परत्वजुषो विभक्ते– स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये” ।।

अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः ।
एवमन्यत्र ।
रूपके ऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति ।
इह तु स्वावस्थासमारोपेणावच्छादितस्वरूपमेव तं पूर्वावस्थातो विशेषयति ।
अत एवात्र व्यवहारसमारोपो न तु स्वरूपसमारोप इत्याहुः ।
उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषणमात्रस्य ।
अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्येति भेदः ।
उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः ।
यथा– “अङ्गराज ! सेनापते ! द्रोणोपहासिन् ! कर्ण !, रक्षैनं भीमाद्दुः शानम् !”
शब्दैः स्वभावादेकार्थैः श्लेषो ऽनेकार्थवाचनम् ।। साद-१०.५७ ।।
“स्वभावादेकार्थैः” इति शब्दश्लेषाद् व्यवच्छेदः ।
“वाचनम्” इति च ध्वनेः ।
उदाहरणम्– “प्रवर्तयन् क्रियाः साध्वीर्मालिन्यं हरिता हरन् ।
महसा भूयसा दीप्तो विराजति विभाकरः” ।।

अत्र प्रकरणादिनियमाभावाद् द्वावपि राजसूर्यौ वाच्यौ ।
क्वचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः ।
कार्यान्निमित्तं कार्यं च हेतोरथ समात्समम् ।। साद-१०.५८ ।।
अप्रस्तुतात्प्रस्तुतं चेद्गम्यते पञ्चधा ततः ।
अप्रस्तुतप्रशंसा स्याद्–
क्रमेणोदाहरणम्— “पादाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमाने ऽपि देहिनस्तद्वरं रजः” ।।

अत्रास्मदपेक्षया रजो ऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम् ।
“स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया” ।।

अत्रेश्वरेच्छया क्वचिदहितकारिणो ऽपि हितकारित्वं हितकारिणो ऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषो ऽभिहितः ।
एवञ्चात्राप्रस्तुतप्रशंसामूलोर्ऽथान्तरन्यासः ।
दृष्टान्ते प्रख्यातमेव वस्तु प्रतिबिम्बत्वेनोपादीयते, इह तु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः ।
“इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा ।
कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त ! शिखिनां बर्हाः सहर्हा इव” ।।

अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते ।
गच्छामीति यथोक्तया मृगदृशा निः श्वासमुद्रेकिणं त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेनैकेन मां चक्षुषा ।
अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यता- मित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः” ।।

अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितम् ।
तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च ।
श्लेषमूलापि समासोक्तिवद्विशेषणमात्रस्य श्लेषे श्लेषवद्विशेष्यस्यापि श्लेषे भवतीति द्विधा ।
क्रमेण यथा– “सहकारः सदामोदो वसन्तश्रीसमन्वितः ।
समुज्ज्वलरुचिः श्रीमान् प्रभूतोत्कलिकाकुलः” ।।

अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात्सहकारात्कस्यचित्प्रस्तुतस्य नायकस्य प्रतीतिः ।
“पुंस्त्वादपि प्रविचलेद्यदि यद्यधो ऽपि यायाद्यदि प्रणयने न महानपि स्यात् अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन” ।।

अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते ।
तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते ।
सादृश्यमात्रमूला यथा– “एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति ।
अम्बरमावृतिशून्यं हरहर शरणं विधेः करुणा” ।।

अत्र कपोतादप्रतुस्तात्कश्चित्प्रस्तुतः प्रतीयते ।
इयं च क्वचिद्वैधर्म्येणापि भवति ।
“धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः” ।।

अत्र वाता धन्या अहमधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते ।
वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयम् ।
तत्र सम्भवे उक्तोदाहरणान्येव ।
असम्भवे यथा– “कोकिलो ऽहं भवान् काकः समानः कालिमावयोः ।
अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः” ।।

अत्र काककोकिलयोर्वाकोवाक्यं प्रस्तुतस्याध्यारोपणं विनासम्भवि ।
उभयरूपत्वे यथा– “अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः” ।।

अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमलनालान्तश्छिद्राणां गुणभङ्गुरीकरणे हेतुत्वमसम्भवि ।
अन्येषां तु सम्भवीत्युभयरूपत्वम् ।
अस्याश्च समासोक्तिवद् व्यवहारसमारोपप्राणत्वाच्छब्दशक्तिमूलाद्वस्तुध्वनेर्भेदः ।
उपमाध्वनावप्रस्तुतस्य व्यङ्ग्यत्वम् ।
एवं समासोक्तावपि ।
श्लेषे तु द्वयोरपि वाच्यत्वम् ।
उक्ता व्याजस्तुतिः पुनः ।। साद-१०.५९ ।।
निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः ।
निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः ।
स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः ।
क्रमेण यथा– “स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव ! ।
त्वयि कुपिते ऽपि प्रागिव विश्वस्ता द्विट्स्त्रियो जाताः” ।।

इदं मम ।।

“व्याजस्तुतिस्तव पयोद ! मयोदितेयं यज्जीवनाय जगतस्तव जीवनानि ।
स्तोत्रं तु ते महदिदं घन ! धर्मराज- साहय्यमर्जयसि यत्पथिकान्निहत्य” ।।
पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते ।। साद-१०.६० ।।
उदाहरणम्– “स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः ।
सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः” ।।

अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतमेव गम्यं कारणं वैचित्र्यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्यद्वारेणाभिहितम् ।
न चेदं कार्यात्कारणप्रतीतिरूपाप्रस्तुतप्रशंसा, तत्र कार्यस्याप्रस्तुतत्वात् ॑ इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन कार्यमिति कारणवत्प्रस्तुतम् ।
एवञ्– “अनेन पर्यासयताश्रुबिन्दून् मुक्ताफलस्थूलतमान् स्तनेषु ।
प्रत्यापताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः” ।।

अत्र वर्णनीयस्य राज्ञो गम्यभूतशत्रुमारणरूपकारणवत्कार्यभूतं तथाविधशत्रुस्त्रीक्रन्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्यायोक्तमेव ।
“राजन् राजसुता न पाठयति मां देव्यो ऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।
इत्थं राजशुकस्तवारिभवने मुक्तो ऽध्वगैः पञ्जरा- च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते” ।।

अत्र प्रस्थानेद्यतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतम् ।
“कार्यमपि वर्णनार्हत्वेन प्रस्तुतम्” इति केचित् ।
अन्ये तु–“राजशुकवृत्तान्तेन को ऽपि प्रस्तुतप्रभावो बोध्यत इत्यप्रस्तुतप्रशंसैव” इत्याहः,
सामान्यं वा विशेषण विशेषस्तेन वा यदि ।
कार्यं च कारणेनेदं कार्येण च समर्थ्यते ।। साद-१०.६१ ।।
साधर्म्येणेतरेणार्थान्तरन्यासो ऽष्टधा ततः ।
क्रमेणोदाहरणम्– “बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
सम्भूयाम्भोधिमभ्येति महानद्या नगापगा” ।।

अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योर्ऽथः सोपपत्तिकः क्रियते ।
“यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः” ।।

“पृथ्वि ! स्थिरा भव भुजङ्गम् ! धारयैनां त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः ।
दिक्कुञ्जराः ! कुरुत तत्नितये दिधीर्षां आर्यः करोति हरकार्मुकमाततज्यम्” ।।

अत्र कारणभूतं हरकार्मुकाततज्यीकरणं पृथिवीस्थैर्यादेः कार्यस्य समर्थकम् ।
“सहसा विदधीत न क्रियाम्” इत्यादौ सम्पद्वरणं कार्यं सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकम् ।
एतानि साधर्म्य उदाहरणानि ।
वैधर्म्ये यथा– “इत्थमाराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः” ।।

अत्र सामान्यं विशेषस्य समर्थकम् ।
“सहसा विदधीत-” इत्यत्र सहसा विधानाभावस्यापत्प्रदत्वं विरुद्धं कार्यं समर्थकम् ।
एवमन्यत् ।
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ।। साद-१०.६२ ।।
तत्र वाक्यार्थता यथा– “यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी ।
ये ऽपि त्वद्रमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते” ।।

अत्र चतुर्थपादे पादत्रयवाक्यानि हेतवः ।
पदार्थता यथा मम– “त्वद्वजिराजिनिर्धूतधूलीपटलपङ्किलाम् ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः” ।।

अत्र द्वितीयार्धे प्रथमार्धमेकपदं हेतुः ।
अनेकपदं यथा मम– “पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् ।
देव ! त्रिपथगात्मानं गोपयत्युग्रमूर्धनि” ।।

इह केचिद् वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेर्ऽथान्तरन्यासं नाद्रियन्ते ।
तदयुक्तम्, तथा ह्यत्र हेतुस्त्रिधा भवति–ज्ञापको निष्पादकः समर्थकश्चेति ।
तत्र ज्ञापको ऽनुमानस्य विषयः, निष्पादकः काव्यलिङ्गस्य, समर्थकोर्ऽथान्तरन्यासस्य, इति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गीत् ।
तथाहि–“यत्त्वन्नेत्र-” इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साकाङ्क्षतयासमञ्जसमेव स्यात् इति पादत्रयगतवाक्यं निष्पादकत्वेनापेक्षते ।
“सहसा विदधीत-” इत्यादौ तु– “परापकारनिरतैदुर्जनैः सह सङ्गतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन” ।।

इत्यादिवदुपदेशमात्रेणापि निराकाङ्क्षतया स्वतो ऽपि गतार्थं सहसा विधानाभावं सम्पद्वरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेर्ऽथान्तरन्यासः काव्यलिङ्गात् ।
“न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ।
त्वद्वाजिराजिनिर्धूतधूलिभिः पङ्किला हि सा” ।।

इत्यत्र हिशब्दोपादानेन पङ्किलत्वादितिवद्धेतुत्वस्य स्फुटतया नायमलङ्कारः, वैचित्र्यस्यैवालङ्कारत्वात् ।
अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात् ।
यथा– “जानीमहे ऽस्या हृदि सारसाक्ष्या विराजते ऽन्तः प्रियवक्त्रचन्द्रः ।
तत्कान्तिजालैः प्रसृतैस्तदङ्गेष्वापाण्डुता कुड्मलताक्षिपद्मे” ।।

अत्र रूपकवशाद्विच्छित्तिः ।
यथा वा– “यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः ।
तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये” ।।

अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः ।
उत्प्रेक्षायामनश्चिततया प्रतीतिः, इह तु निश्चिततयेत्युभयोर्भेदः ।
अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह ।। साद-१०.६३ ।।
यथा मम–“तारुण्यस्य विलासः–” इत्यत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्ता, विलासहासयोस्त्वध्यवसायमूलो ऽयमङ्कारः ।
अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् ।
यथा–“कुपितासि यदा तन्वि ! निधाय करजक्षतम् ।
बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा” ।।

अस्य च विच्छित्तिविशेषस्य सर्वालङ्कारविलक्षणत्वेन स्फुरणात्पृथगलङ्कारत्वमेव न्याय्यम् ।
वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ।। साद-१०.६४ ।।
निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ।
तत्र वक्ष्यमाणविषये क्वचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः क्वचिदंशोक्तावंशान्तरे निषध इति द्वौ भेदौ ।
उक्तविषये च क्वचिद्वस्तुस्वरूपस्य निषेधः, क्वचिद्वस्तुकथनस्येति द्वौ, इत्याक्षेपस्य चत्वारो भेदाः ।
क्रमेण यथा– “स्मरशरशतविधुराया भणामि संख्याः कृते किमपि ।
क्षणमिह विश्रम्य सखे ! निर्दयहृदयस्य किं वदाम्यथवा” ।।

अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविषये निषेधः ।
“तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम् ।
हन्त ! नितान्तमिदानीम् आः किं हतजल्पितैरथवा” ।।

अत्र मरिष्यतीत्यंशो नोक्तः ।
“बालअ ! णाहं दूती तुअ पिओसि त्ति ण मह वावारो ।
सा मरै तुज्भ्क्त अअसो एत्नं धम्मक्खरं भणिमो” ।।

अत्र दूतीत्वस्य वस्तुनो निषेधः ।
“विरहे तव तन्वङ्गी कथं क्षपयतु क्षपाम् ।
दारुणव्यवसायस्य पुरस्ते भणितेन किम् ?” ।।

अत्र कथनस्योक्तस्यैव निषेधः ।
प्रथमोदाहरणे संख्या अवश्यम्भाविमरणमिति विशेषः प्रतीयते ।
द्वितीये ऽशक्यवक्तव्यत्वादि, तृतीये दूतीत्वे यथार्थवादित्वम्, चतुर्थे दुः खस्यातिशयः ।
न चायं विहितनिषेधः, अत्र निषेधस्याभासत्वात् ।
अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ।। साद-१०.६५ ।।
तथेति पूर्ववद्विशेषप्रतिपत्तये ।
यथा– “गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः ।
ममापि. जन्म तत्रैव भूयाद्यत्र गतो भवान्” ।।

अत्रानिष्टत्वाद्रमनस्य विधिः प्रस्खलद्रूपो निषेधे पर्यवस्यति ।
विशेषश्च गमनस्यात्यन्तपरिहार्यत्वरूपः प्रतीयते ।
विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते ।
उक्तानुक्तनिमित्तत्वाद्द्विधा सा परिकीर्तिता ।। साद-१०.६६ ।।
विना कारणमुपनिबध्यमानो ऽपि कार्योदयः किञ्चिदन्यत्कारणमपेक्ष्यैव भवितुं युक्तः ।
तच्च कारणान्तरं क्वचिदुक्तं क्वचिदनुक्तमिति द्विधा ।
यथा– “अनायासकृशं मध्यमशङ्कतरले दृशौ ।
अभूषणमनोहारि वपुर्वयसि सुभ्रुवः” ।।

अत्र वयोरूपनिमित्तमुक्तम् ।
अत्रैव “वपुर्भाति मृगीदृशः” इति पाठे ऽनुक्तम्
सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा ।
तथेत्युक्तानुक्तनिमित्तत्वात् ।
तत्रोक्तनिमित्ता यथा– “धनिनो ऽपि निरुन्मादा युवानो ऽपि न चञ्चलाः ।
प्रभवो ऽप्यप्रमत्तास्ते महामहिमशालिनः” ।।

अत्र महामहिमशालित्वं निमित्तमुक्तम् ।
अत्रैव चतुर्थपादे “कियन्तः सन्ति भूतले” इति पाठे त्वनुक्तम् ।
अचिन्त्यनिमित्तत्वं चानुक्तनिमित्तस्यैव भेद इति पृथङ्नोक्तम् ।
यथा– “स एकस्त्री४णि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम्” ।।

अत्र तनुहरणेनापि बलाहरणे निमित्तमचिन्त्यम् ।
इह च कार्याभावः कार्यविरुद्धसद्भावमुखेनापि निबद्ध्यते ।
विभावनायामपि कारणाभावः कारणविरुद्धसद्भावमुखेन ।
एवञ्च “यः कौमारहरः” इत्यादेरुकण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना ।
“यः कौमार-” इत्यादेः कारणस्य च कार्यविरुद्धाया उत्कण्ठाया निबन्धनाद्विशेषोक्तिः, एवं चात्र विभावनाविशेषोक्त्योः सङ्करः ।
शुद्धोदाहरणं तु मृग्यम् ।
जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।। साद-१०.६७ ।।
क्रिया क्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः ।
विरुद्धमिव भासेत विरोधो ऽसौ दशाकृतिः ।। साद-१०.६८ ।।
क्रमेण यथा– “तव विरहे मलयमरुद्दवानलः शशिरुचो ऽपि सोष्माणः ।
हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः” ।।

“सन्ततमुसलासङ्गाद्वहुतरगृहकर्मघटनया नृपते ! ।
द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः” ।।

“अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव” ।।

“वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः ।
राकाविभावरीजानिर्विषज्वालाकुलो ऽभवत्” ।।

नयनयुगासेचनकं मानसवृत्तयापि दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ।।

“त्वद्वाजि” इत्यादि ।
“वल्लभोत्सङ्गऽ–इत्यादिश्लोके चतुर्थपादे “मध्यन्दिनदिनाधिपः” इति पाठे द्रव्ययोर्विरोधः ।
अत्र “तव विरह-” इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दवानलोष्महृदयभेदनसूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोधो मुखत आभासते, विरहहेतुकत्वात्समाधानम् ।
“अजस्य-” इत्यादावजत्वादिगुणस्य जन्मप्रहणादिक्रियया विरोधः, भगवतः प्रभावस्यातिशायित्वात्तु समाधानम् ।
“त्वद्वाजि-” इत्यादौ “हरो ऽपि शिरसा गङ्गां न धत्ते” इति विरोधः, “त्वद्वाजि-” इत्यादिकविप्रौढोक्त्या तु समाधानम् ।
स्पष्टमन्यत् ।
विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यमेव बाध्यत्वेन प्रतीयते, विशोषोक्तौ च कार्याभावेन कारणमेव॑ इह त्वन्योन्यं द्वयोरपि बाध्यत्वमिति भेदः ।
कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः ।
यथा– “सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातरा सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्” ।।

अस्याश्चापवादकत्वादेकदेशस्थयोर्विरोधे विरोधालङ्कारः ।
गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः ।। साद-१०.६९ ।।
यद्वरब्धस्य वैफल्यनर्थस्य च सम्भवः ।
विरूपयोः संघटना या च तद्विषमं मतम् ।। साद-१०.७० ।।
क्रमेण यथा– “सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभारणं प्रसूते” ।।

अत्र कारणरूपासिलतायाः “कारणगुणा हि कार्यगुणमारभन्ते” इति स्थतेर्विरुद्धा शुक्लयशस उत्पत्तिः ।
“आनन्दममन्दमिमं कुवलयदललोचने ! ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे” ।।

अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः ।
“अयं रत्नाकरो ऽम्भोधिरित्यसेवि धनाशया ।
धनं दूरे ऽस्तु वदनमपूरि क्षारवारिभैः” ।।

अत्र केवलं काङ्क्षितधनलाभो नाभूत्, प्रत्यत क्षारवारिभिर्वदनपूरणम् ।
“क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ।
नियतं प्रतिकूलवतिनो बत धातुश्चरितं सुदुः सहम्” ।।

अत्र वनराज्यश्रियोर्विरूपयोः संघटना ।
इदं मम ।
यथा वा– “विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा” ।।
समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः ।
यथा– शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विबव्रुः” ।।
विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ।। साद-१०.७१ ।।
यथा– “प्रणमत्युन्नतिहेतोर्जोवितहेतोर्विमुञ्चति प्राणान् ।
दुः खीयति सुखहेतोः को मूढः सेवकादन्यः” ।।
आश्रयाश्रयिणोरेकस्याधिक्ये ऽधिकमुच्यते ।
आश्रयाधिक्ये यथा– “किमधिकमस्य ब्रूमो महिमानं वारिघेर्हरिर्यत्र ।
अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि” ।।

आश्रिताधिक्ये यथा– “युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः” ।।
अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः ।। साद-१०.७२ ।।
“त्वया सा शोभते तन्वी तया त्वमपि शोभसे ।
रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी” ।।
यदाधेयमनाधारमेकं चानेकगोचरम् ।
किञ्चित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा ।। साद-१०.७३ ।।
कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः ।
क्रमेण यथा– “दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः” ।।

“कानने सरिदुद्देशे गिरीणामपि कन्दरे ।
पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः” ।।

“गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्” ।।
व्याघातः स तु केनापि वस्तु येन यथाकृतम् ।। साद-१०.७४ ।।
तेनैव चेदुपायेन कुरुते ऽन्यस्तदन्यथा ।
यथा–“दृशा दग्धं मनसिजम्-” इत्यादि ।
सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ।। साद-१०.७५ ।।
व्याघात इत्येव ।
“इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः समागन्ता कान्ते ! मृदुरसि न चायाससहना ।
मृदुत्वं मे हेतुः सुभग ! भवता गन्तुमधिकं न मृद्वी सोढा यद्विरहकृतमायासमसमम्” ।।

अत्र नायकेन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तम् ।
नायिकया च प्रत्युत सहगमने ततो ऽपि सौकर्येण हेतुतयोपन्यस्तम् ।
परं परं प्रति यदा पूर्वपूर्वस्य हेतुता ।
तदा कारणमाला स्यात्–
यथा– “श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् ।
लोकानुरागो विनयान्न किं लोकानुरागतः” ।।
–तन्मालादीपकं पुनः ।। साद-१०.७६ ।।
धर्मिणामेकधर्मेण सम्बन्धो यद्यथोत्तरम् ।
यथा– “त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः ।
शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः” ।।

अत्रासादनक्रिया धर्मः ।
पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ।। साद-१०.७७ ।।
स्थाप्यते ऽपोह्यते वा चेत् स्यात्तदैकावली द्विधा ।
क्रमेणोदाहरणम्– “सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतम् ।
भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्” ।।

“न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ।।

न षट्पदो ऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः” ।।

कचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च दृश्यते ।
यथा– “वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु ।
कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम्” ।।

एवमपोहने ऽपि ।
उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ।। साद-१०.७८ ।।
यथा–“राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्” ।।
यथासंख्यमूद्देश उद्दिष्टानां क्रमेण यत् ।
यथा– “उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्नासय ।
इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक- व्याहाराः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः” ।।
क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ।। साद-१०.७९ ।।
भवति क्रियते वा चेत्तदा पर्याय इष्यते ।
क्रमेण यथा– “स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्धवः” ।।

“विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः ।
वृककाकशिवास्तत्र धावन्त्यरिपुरे तव” ।।

“विसृष्टरागादधारान्निवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतो ऽक्षसूत्रप्रणयी तया करः” ।।

“ययोरारोपितस्तारो हारस्ते ऽरिवधूजनैः” ।।

निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुविन्दवः” ।।

एषु च क्वचिदाधारः संहतरूपो ऽसंहतरूपश्च ।
क्वाचिदाधेयमपि ।
यथा– “स्थिताः क्षणम्-” इत्यत्रोदबिन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् ।
“विचरन्ति-” इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् ।
एवमन्यत् ।
अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेविशेषालङ्काराद् भेदः ।
विनिमयाभावात्परिवृत्तेः ।
परिवृत्तिविंनिमयः समन्यूनाधिकैर्भवेत् ।। साद-१०.८० ।।
क्रमेणोदाहरणम्– “दत्त्वा कटाक्षमेणाक्षी जग्रह हृदयं मम ।
मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः” ।।

अत्र प्रथमेर्ऽधे समेन, द्वितीयेर्ऽधे न्यूनेन ।
“तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते ऽधुना ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः” ।।

अत्रादिक्येन ।
प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् ।
तादृगन्यव्यपोहश्चेच्छाब्द आर्थो ऽथवा तदा ।। साद-१०.८१ ।।
परिसंख्या–
क्रमेणोदाहरणम्– “किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः ।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्” ।।

अत्र व्यवच्छेद्यं रत्नादि शाब्दम् ।
“किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः ।
को ध्येयो भगवान् विष्णुः किं काम्यं परमं पदम्” ।।

अत्र व्यवच्छेद्यं पापाद्यार्थम् ।
अनयोः प्रश्नपूर्वकत्वम् ।
अप्रश्नपूर्वकत्वे यथा– “भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्” ।।

“बलमार्तभयोपशान्तये विदुषां संमतये बहु श्रुतम् ।
वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम्” ।।

श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा– “यस्मिंश्च राजनि “जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करश्चापेषु गुणच्छेदः-” इत्यादि ।
–उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ।
यच्चासकृदसंभाव्यं सत्यपि प्रश्न उत्तरम् ।। साद-१०.८२ ।।
यथा मम– “वीभितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः ।
अहमेकाकिनी बाला तवेह वसतिः कुतः” ।।

अनेन पथिकस्य वसतियाचनं प्रतीयते ।
“का विसमा देव्यगई किं लद्धव्वं जणो गुणग्गाही ।
कि सोक्खं सुकलत्तं किं दुग्गोज्भ्क्तं खलो लोओ” ।।

अत्रान्यव्यपोहे तात्पर्याभावात्परिसंख्यातो भेदः ।
न चेदमनुमानम्, साध्यसाधनयोर्द्वयोनिर्देश एव तस्याङ्गीकारात् ।
न च काव्यलिङ्गम्, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् ।
दण्डापूपिकयान्यार्थागमोर्ऽथापत्तिरष्यते ।
“मूषिकेण दण्डो भक्षित” इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका ।
अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थत्प्राकरणिकार्थस्येति द्वौ भेदौ ।
क्रमेणोदाहरणम्– “हारो ऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।
मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः” ।।

“विललाप स बाष्पगद्रदं सहजामप्यपहाय धीरताम् ।
अतितप्तमयो ऽपि मार्दवं भजते कैव कथा शरीरिणाम्” ।।

अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते-“हारो ऽयम्-” इत्यादौ न चेदमनुमानम्, समानन्यायस्य सम्बन्धरूपत्वाभावात् ।
विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य) तः ।। साद-१०.८३ ।।
यथा–“नमयन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा” ।
अत्र शिरसां धनुषां च नमनयोः सन्धिविग्रहोपलक्षणत्वात् सन्धिविग्रहयोश्चैकदा कर्तुमशक्यत्वाद्विरोधः, स चैकपक्षाश्रयणपर्यवसानः ।
तुल्यबलत्वं चात्र धनुः शिरोनमनयोर्दूयोरपि स्पर्धया सम्भाव्यमानत्वात् ।
चातुर्यं चात्रौपम्यगर्भत्वेन ।
एवं “कर्णपूरीक्रियन्ताम्” इत्यत्रापि एवं– “युष्माकं कुरुतां भवातिशमनं नेत्रे तनुर्वा हरेः” ।
अत्र श्लेषावष्टम्भेन चारुत्वम् ।
“दीयतामजितं वित्तं देवाय ब्राह्मणाय वा” ।
इत्यत्र चातुर्याभावान्नायमलङ्कारः ।
समुच्चयो ऽयमेकस्मिन् सति कार्यस्य साधके ।
खलेकपोतिकान्यायात्तत्करः स्यात्परो ऽपि चेत् ।। साद-१०.८४ ।।
गुणौ क्रिये वा युगपत्स्यातां यद्वा गुणक्रिये ।
यथा मम– “हंहो धीरसमिर ! हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः ।
प्रत्यङ्गं दहसीति मे त्वमपि चेदुद्दामदावाग्निव- न्मत्तोयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः” ।।

अत्र दाहे एकस्मिंश्चन्दनक्ष्माभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् ।
अत्र सर्वेषामपि हेतूनां शोभनत्वात्सद्योगः ।
अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः ।
सदसद्योगो यथा– “शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभूर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे” ।।

इह केचिदाहुः–“शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सदसद्योगः” इति अन्ये तु–“शशिप्रभृतीनां स्वतः शोभनत्वं धूसरत्वादीनां त्वशोभनत्वमिति सदसद्योगः” ।
अत्र हि शशिप्रभृतिषु धूसरत्वादेरत्यन्तचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वम् ।
“मनसि सप्तशल्यानि मे” इति सप्तानामपि शल्यत्वेनोपसंहारश्च ।
“नृपाङ्गनगतः खल” इति तु क्रमभेदाद्दुष्टत्वमावहति सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमादिति ।
इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः ।
समाध्यलङ्कारे त्वेककार्यं प्रति साधके समग्रे ऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः ।
“अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् ।
मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः” ।।

अत्राद्येर्ऽथे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः ।
उभयोर्यौगपद्ये यथा– “कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चश्रुः ।
पतितं च महीपतीन्द्र ! तेषां वपुषि प्रस्फुटमापदां कटाक्षैः” ।।

“धुनोति चासिं तनुते च कीर्तिम्” ।
इत्यादावेकाधिकरणे ऽप्येष दृश्यते ।
न चात्र दीपकम्, एते हि गुणक्रियायौगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः, दीपकस्य चातिशयोक्तिमूलत्वाभावः ।
समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ।। साद-१०.८५ ।।
यथा–“मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्” ।।
प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि ।
तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः ।। साद-१०.८६ ।।
तस्यैवेति रिपोरेव ।
यथा मम– “मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् ।
इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभो हरिः” ।।
प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् ।
निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ।। साद-१०.८७ ।।
क्रमेण यथा– “यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरम्” ।
इत्यादि ।
“तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिः॑ तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा ? ।
धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः” ।।

अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवहनात्तेषां निष्फलत्वम् ।
उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ।
कल्पिते ऽप्युपमानत्वे प्रतीपं केचिदूचिरे ।। साद-१०.८८ ।।
यथा– “अहमेव गुरुः सुदारुणानामिति हालाहल ! तात ! मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भुवने ऽस्मिन् वचनानि दुर्जनानाम्” ।।

अत्र प्रथमपादेनोत्कर्षातिशय उक्तः ।
तदनुक्तौ तु नायमलङ्कारः ।
यथा– “ब्रह्मेव ब्राह्मणो वदति” इत्यादि ।
मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा ।
अत्र समानलक्षणं वस्तु क्वचिदागन्तुकम् ।
क्रमेण यथा– “लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षः स्थले हरेः ।
ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया” ।।

अत्र भगवतः श्यामा कान्तिः सहजा ।
“सदैव शोणोपलकुण्डलस्य यस्यां मयूखैररुणीकृतानि ।
कोपोपरक्तान्यपि कामिनीनां मुखानि शङ्कां विदधुर्न यूनाम्” ।।

अत्र माणिक्यकुण्डलस्यारुणिमा मेखे आगन्तुकः ।
सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ।। साद-१०.८९ ।।
यथा–“मल्लिकाचितधम्मिल्लाश्चारुचन्दनचचिताः ।
अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः” ।।

मीलिते उत्कृष्टगुणेन निकृश्टगुणस्य तिरोधानम्, इह तूभयोस्तुल्यगुणतया भेदाग्रहः ।
तद्गुणः स्वगुणत्यगादत्युत्कृष्टगुणग्रहः ।
यथा–“जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ।
नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः” ।।

मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्, इह तु वस्त्वन्तरगुणेनाक्रान्तता प्रतीयत इति भेदः ।
तद्रूपाननुहारस्तु हेतौ सत्यष्यतद्गुणः ।। साद-१०.९० ।।
यथा–“हन्त ! सान्द्रेण रागेण भृते ऽपि हृदये मम ।
गुणगौर ! निषण्णो ऽपि कथं नाम न रज्यसि” ।।

यथा वा– “गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस ! तव सैव शुभ्रता चीयते न च न चापचीयते” ।।

पूर्वत्रातिरक्तहृदयसंपर्कात् प्राप्तवदपि गुणगौरशब्दवाच्यस्य नायकस्य रक्तत्वं न निष्पिन्नम्, उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनापेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः संपर्के ऽपि न तद्रूपता ।
अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद्विशेषोक्तेर्भेदः, वर्णान्तरोत्पत्त्यभावाच्च विषमात् ।
संलक्षितस्तु सूक्ष्मोर्ऽथ आकारेणेङ्गितेन वा ।
कयापि सूच्यते भह्ग्या यत्र सूक्ष्मं तदुच्यते ।। साद-१०.९१ ।।
सूक्ष्मः स्थूलमतिभिरसंलक्ष्यः ।
अत्राकारेण यथा– “वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख” ।।

अत्र कयाचित्कुङ्कुमभेदेन संलक्षितं कस्याश्चित्पुरुषायितं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितम् ।
इङ्गितेन यथा– सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रापिताकूतं लीलापद्मं निमीलितम् ।।

अत्र विटस्य भ्रूविक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनीकालभाविना पद्मनिमीलनेन प्रकाशितः ।
व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ।
यथा– “शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- द्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तः पुरमातृमण्डलगणैर्दृष्टो ऽवताद्वः शिवः” ।।

नेयं प्रथमापह्नतिः, आपह्नवकारिणो विषयस्यानभिधानात् ।
द्वितीयापह्नुतेर्भेदश्च तत्प्रस्तावे दशितः ।
स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् ।। साद-१०.९२ ।।
दुरूहयोः कविमात्रवेद्ययोः अर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययोश्चेष्टास्वरूपयोः ।
यथा मम– “लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विक्रमेण ।
स्फूर्जद्धुङ्कारधोषः प्रतिदिशमखिलान् द्रावयन्नेष जन्तून कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षूस्तरक्षुः” ।।
अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ।
यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् ।। साद-१०.९३ ।।
यथा– “मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ” ।।

यथा वा– “आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम्” ।।

न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् ।
न चाद्भुतो रसः, विस्मयं प्रत्यस्य हेतुत्वात् ।
न चातिशयोक्तिरलङ्कारः, अध्यवसायाभावात् ।
न च भ्रान्तिमान्, भूतभाविनोर्भूतभावितयैव प्रकाशनात् ।
न च स्वभावोक्तिः, तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्॑ अस्य तु वस्तुनः प्रत्यक्षायमाणस्वरूपो विच्छित्तिविशेषो ऽस्तीति ।
यदि पुनर्वस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवस्तदोभयोः सङ्करः ।
“अनातपत्त्रो ऽप्ययमत्र लक्ष्यते सितातपत्त्रैरिव सर्वतो वतः ।
अचामरो ऽप्येष सदैव वीज्यते विलासबालव्यजनेन को ऽप्ययम्” ।।

अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः, वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् ।
यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः, यथोदाहृते “आसीदञ्जनम्ऽ–इत्यादौ ।
लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते ।
यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ।। साद-१०.९४ ।।
क्रमेणोदाहरणम्– “अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टीमानाम् ।
ज्योत्स्नानिपातात्क्षरक्षतां पयोभिः केलीवनं वृद्धिमुरीकरोति” ।।

“नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषो ऽधिशते” ।।
रसभावौ तदाभासौ भावस्य प्रशमस्तथा ।
गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा ।। साद-१०.९५ ।।
रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् ।
तदाभासौ रसाभासो भावाभासश्च ।
तत्र रसयोगाद्रसवदलङ्कारो यथा– “अयं स रसनोत्कर्षो-” इत्यादि ।
अत्र शृङ्गारः करुणस्याङ्गम् ।
एवमन्यत्रापि ।
प्रकृष्टप्रियत्वात्प्रेयः ।
यथा मम– “आमीलितालसविवतिततारकाक्षीं मत्कण्ठबन्धनदरश्लथबाहुवल्लीम् ।
प्रस्वेदवारिकणिकाचितघण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः” ।।

अत्र संभोगशृङ्गारः स्मरणाख्यभावस्याङ्गम् ।
स च विप्रलम्भस्य ।
ऊर्जो बलम्, अनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जस्वि ।
यथा– “वने ऽखिलकलासक्ताः परिहृत्य निजस्त्रियः ।
त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम्” ।।

अत्र शृङ्गाराभासो राजविषयकरतिभावस्याङ्गम् ।
एवं भावाभासो ऽपि ।
समाहितं परिहारः ।
यथा–“अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्” ।।

अत्र मदाख्यभावस्य प्रशमो राजविषयरतिभावस्याङ्गम् ।
भावस्य चोदये संधौ मिश्रत्वे त तदाख्यकाः ।। साद-१०.९६ ।।
तदाख्यका भावोदयभावसंधिभावशबलनामानो ऽलङ्काराः ।
क्रमेणोदाहरणम्- “मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः ।
श्रुत्वा कुतो ऽपि त्वन्नम लेभिरे विषमां दशाम्” ।।

अत्र त्रासोदयो राजविषयरतिभावस्याङ्गम् ।
“जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका ।
सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा” ।।

अत्रौत्सुक्यलज्जयोश्च संधिर्देवताविषयरतिभावस्याङ्गम् ।
“पश्येत्कश्चिच्चल चपल ! रे ! का त्वारहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि ।
इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषो ऽरण्यवृत्तेः कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते” ।।

अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता राजविषयरतिभावस्याङ्गम् ।
इह केचिदाहुः–“वाच्यवाचकरूपालङ्करणमुखेन रसाद्युपकारका एवालङ्काराः, रसादयस्तु वाच्यवाचकाभ्यामुपकार्या एवेति न तेषामङ्कारता भवितुं युक्ता” इति ।
अन्ये तु –“रसाद्युपकारमात्रेणेहालङ्कृतिव्युपदेशो भाक्तश्चिरन्तनप्रसिद्ध्याङ्गीकार्य एव” इति ।
अपरे च–“रसाद्युपकारमात्रेणालङ्कारत्वं मुख्यतो रूपकादौ तु वाच्याद्युपधानम्, अजगलस्तनन्यानेन” इति ।
अभियुक्तास्तु–“स्वव्यञ्जकवाच्यवाचकाद्युपकृतैरङ्गभूतैः रसादिभिरङ्गिनो रसादेर्वाच्यवाचकोपस्कारद्वारेणोपकुर्वद्भिरलङ्कृतिव्यपदेशो लभ्यते ।
समासोक्तौ तु नायिकादिव्यवहारमात्रस्यैवालङ्कृतिता, न त्वास्वादस्य, तस्योक्तरीतिविरहात्” इति मन्यन्ते ।
अत एव ध्वनिकारेणोक्तम्– “प्रधाने ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः” ।।

यदि च रसाद्युपकारमात्रेणालङ्कृतित्वं तदा वाचकदिष्वपि तथा प्रसज्येत ।
एवं च यच्च कैश्चिदुक्तम्–“रसादीनामङ्गित्वे रसवदाद्यलङ्कारः, अङ्गत्वे तु द्वितीयोदात्तालङ्कारः” इति तदपि परास्तम् ।
यद्येत एवालङ्काराः परस्परविमिश्रिताः ।
तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा ।। साद-१०.९७ ।।
यथा लौकिकालङ्काराणामपि परस्परमिश्रणे पृथक्चारुत्वेन पृथगलङ्कारत्वं तथोक्तरूपाणां काव्यालङ्काराणामपि परस्परमिश्रत्वे संसृष्टिसङ्काराख्यौ पृथगलङ्कारौ ।
तत्र– “मिथो ऽनपेक्षमेतेषां स्थितिः संसृष्टिरुच्यते ।
एतेषां शब्दार्थालङ्काराणाम् ।
यथा– “देवः पायादपायान्नः स्मेरेन्दीवरलोचनः ।
संसारध्वान्तविध्वंसहंसः कंसनिसूदनः” ।।

अत्र पायादपायादिति यमकम्, संसारेत्यादौ चानुप्रास इति शब्दालङ्कारयोः संसृष्टिः ।
द्वितीये पादे उपमा, द्वितीयार्धे च रूपकमित्यर्थालङ्कारयोः संसृष्टिः ।
एवमुभयोः स्थितत्वाच्छब्दार्थालङ्कारसंसृष्टिः ।
अङ्गाङ्गित्वे ऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ ।
संदिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः ।। साद-१०.९८ ।।
अङ्गाङ्गिभावो यथा– “आकृष्टिवेगविगलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनायाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले” ।।

अत्र निर्मोकपट्टापह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः ।
सा च मन्दा किन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गम् ।
श्लेषञ्च पादमूलवेष्टनमेव चरणमूलवेष्टदमित्यतिशयोक्तरेङ्गम्, अतिशयोक्तिश्च “मन्थव्यथाव्युपशमार्थमिव” इत्युत्प्रेक्षाया अङ्गम् ।
उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गम् ।
यथा वा– “अनुरागवती संध्यां दिवसस्तत्पुरः सरः ।
अहो ! दैवगतिश्चित्रा तथापि न समागमः” ।।

अत्र समासोक्तिविशेषोक्तेरङ्गम् ।
संदेहसङ्करो यथा– “इदमाभाति गगने भिन्दानं सन्ततं तमः ।
अमन्दनयनान्दकरं मण्डलमैन्दवम्” ।।

अत्र किं मुखस्य चन्द्रतयाध्वसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकम्, अथवा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसंबन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकम्, किं वा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात्समासोक्तिः, यद्वाप्रस्तुतचन्द्रवर्णनया प्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः स्वकार्यभूतचन्द्रवर्णनामुखेन वणित इति पर्यायोक्तिरिति बहूनामलङ्कराणां संदेहात्संदेहसङ्करः ।
यथा वा–“मुखचन्द्रं पश्यामि” इत्यत्र किं मुखं चन्द्र इव इत्युपमा ? उत चन्द्र एवेति रूपकमिति संदेहः ।
साधकबाधकयोर्द्वयोरेकतरस्य सद्भावे न पुनः संदेहः ।
यथा– “मुखचन्द्रं चुम्बति” इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् ।
चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम् ।
“मुखचन्द्रः प्रकाशते” इत्यत्र प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरितत्वेन संभवतीति नोपमाबाधकः ।
“राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्” ।
अत्र योषित आलिङ्गनं नायकस्य सादृश्ये नोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यासंभवादुपमाबाधकम्, नारायणे संभवाद्रूपकम् ।
एवम्– “वदनाम्बुजमेणाक्ष्या भाति चञ्चललोचनम्” ।
अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासंभवाद्रूपकस्य बाधकता ।
एवं–“सुन्दरं वदनाम्बुजम्” इत्यादौ साधारणधर्मप्रयोगे “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इति वचनादुपमासमासो न संभवतीत्युपमाया बाधकः ।
एवं चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव ।
एकाश्रयानुप्रवेशो यथा मम– “कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः ।
सरोमाञ्चोदञ्चत्कुचकलशनिभिन्नवसयः परीरम्भारम्भः क इव भविताम्भोरुहदृशः” ।।

अत्र कटाक्षेणापीषत्क्षणमपीत्यत्रच्छेकानुप्रासस्य निरीक्षेतेत्यत्र क्षकारमादाय वृत्त्यनुप्रासस्यचैकाश्रये ऽनुप्रवेशः ।
एवं चात्रैवानुप्रसार्थापत्त्यलङ्कारयोः ।
यथा वा– “संसारध्वान्तविध्वंस–” इत्यत्र रूपकानुप्रासयोः ।
यथा वा–“कुरबकारवकारणतां ययुः” इत्यत्र रबका रवका इत्येकं बकारवकार इत्येकमिति यमकयोः ।
यथा वा– “अहिणअपओअरसिएसु पहिअसामाहएसु दिअहेसु ।
रहसपसारिअगीआणं णच्चिजं मोरविन्दाणम्” ।।

अत्र “पहिअसामाइएसु” इत्येकाश्रये पथिकशयामायितेत्युपमा, पथिकसामाजिकेष्वितिरूपकं प्रविष्टमिति ।
श्रीचन्द्रशेखरमहाकविचन्द्रसूनु- श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।
साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ।। साद-१०.९९ ।।

यावत्प्रसन्नेन्दुनिभानना श्रीर्नारायणस्याङ्गमलङ्करोति ।
तावन्मनः संमदयन् कवीनामेष प्रबन्धः प्रथितो ऽस्तु लोके ।। साद-१०.१०० ।।

इत्यालङ्कारिकचक्रवर्तिसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृते साहित्यदर्पणे दशमः परिच्छेदः ।