S.D. Human Development, Research & Training Center | उत्तररामचरितम् उत्तररामचरितम् | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center

उत्तररामचरितम्

प्रथमोऽङ्कः

इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे । विन्देम देवतां वाचममृतामात्मनः कलाम् ॥१॥
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥
सूत्रधारः – एषाऽस्मि कार्यवशादायोध्यकस्तदानींतनश्च संवृत्तः (समन्तादवलोक्य) भो भो ! यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायमपभिषेकसमयो रात्रिन्दिवमसंतनान्दीकः, तत्किमिदानीं विश्रान्तचारणानि चत्वरस्थानानि ? (प्रविश्य)
नटः – भाव ! प्रेषिता हि स्वगृहान्महाराजेन लङ्कासमरसुदो महात्मानः प्लवड्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावनाब्रह्मर्षयो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद आसीत् ।
सूत्रधारः – आ, अस्त्येतन्निमित्तम् ।
नटः – अन्यच्च –
वसिष्ठाधिष्ठिता देव्योगता रामस्य मातरः ।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥३॥
सूत्रधारः – वैदेशिकोऽस्मीति पृच्छामि । कः पुनर्जामाता?
नटः – कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् ।
अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥४॥
विभाण्डकसुतस्तामृष्यश्रृङ्ग उपयेमे । तेन द्वादशवार्षिकं सत्रमारब्धम् । तदनुरोधात्कठोरगर्भामपि जानकीं विमुच्य गुरुजनस्तत्र यातः । सूत्रधारः – तत्किमनेन ? एहि, राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः।
नटः – तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धतिं भावः । सुत्रधारः – मारिष !
सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता ।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥ ५॥
नटः – अतिदुर्जन इति वक्तव्यम् ।
देव्या अपि हि वैदेह्याः सापवादो यतो जनः ।
रक्षोगृहस्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः ॥ ६ ॥
सूत्रधारः – यदि पुनरियं किंवदन्ती महाराजं प्रति स्यन्देत ततः कष्टं स्यात् । नटः – सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति । (परिक्रम्य) भो भोः, क्वेदानीं महाराजः ? (आकर्ण्य) एवं जनाः कथयन्ति – स्नेहात्सभाजयितुमेत्य दिनान्यमूनि
नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।
देव्यास्ततो विमनसः परिसान्त्वनाय
धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥७॥
(इति निष्कान्तौ) इति प्रस्तावना। (ततः प्रविशत्युपविष्टो रामः सीता च) रामः-देवि ! वैदेहि ! विश्वसिहि, ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् ।
किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता ॥८॥
सीता – जाणामि अज्जउत्त ! जाणामि । किंदु संदावआरिणो बन्धुजणविप्पओआ होन्ति । (जानामि आर्यपुत्र ! जानामि, किन्तु संतापकारिणो बन्धुजनविप्रयोगा भवन्ति ) । रावः – एवमेतत् । एते हि दयमर्मच्छिदः संसारभावा । येभ्यो बीभत्समानाः संत्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः । (प्रविश्य) कञ्चुकी – रामभद्र ! (इत्यर्धोक्ते साशङ्कम्) महाराज ! – रामः- (सस्मितम्) आर्य ! ननु रामभद्र ! इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य । तद्यथाभ्यस्तमभिधीयनाम । कञ्चुकी – देव ! ऋश्यश्रृङ्गाश्रमादष्टावक्रः संप्राप्तः । सीता – अज्ज ! तदो किं विलम्बीअदि (आर्य ! ततः किं विलम्ब्यते)। रामः – त्वरितं प्रवेशय । (कञ्चुकी निष्कान्तः । प्रविश्य-) अष्टावक्रः-स्वस्ति वाम् । रामः-भगवान् ! अभिवादये, इत आस्यताम् । सीता-भअव, णमो दे । अवि कुसलं सजामातुअस्स गुरुअणस्स अज्जाए सन्ताए अ । (भगवन्,नमस्ते । अपि कुशलं सजामातृकस्य गुरुजनस्यार्यायाः शान्तायाश्च?) रामः-निर्विघ्नः सोमपीथी आवुत्तो मे भगवानृष्यश्रृङ्गः,आर्या च शान्ता? सीता – अम्हे वि सुमरेदि (अस्मानपि स्मरति?) अष्टावक्रः – (उपविश्य) अथ किम् । देवि ! कुलगुरुर्भगवान् वसिष्ठस्त्वामिदमाह-
विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते । तेषां वधूस्त्वमसि नन्दिनि ! पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च ॥९॥
तत्किमन्यदाशास्महे । केवलं वीरप्रसवा भूयाः । रामः-अनुगृहीताः स्मः ।
लौकिकानां हि साधूनामर्थं वागनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥१०॥
अष्टावक्रः-इदं च भगवत्याऽरुन्धत्या देवीभिः शान्तया च भूयो भूयः संदिष्टम्- ‘यः कश्चिद्गर्भदोहदो भवत्यस्याः सोऽवश्यमचिरान्मानयितव्य’ इति । रामः- क्रियते यद्येषा कथयति । अष्टावक्रः -ननान्दुः पत्या च देव्याः संदिष्टम्- ‘वत्से,कठोरगर्भेति नानीतासि । वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः । तत्पुत्रपूर्णोत्सङ्गामायुष्मतीं द्रक्ष्यामः’ इति । रामः – (सहर्षलज्जास्मितम्) तथास्तु । भगवता वसिष्ठेन न किंचिदादिष्टोऽस्मि ।? अष्टावक्रः – श्रूयताम् ।
जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् । युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः ॥ ११ ॥
रामः – यथा समादिशति भगवान्मैत्रावरुणिः ।
स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ १२ ॥
सीता- अदो जेव्व राहवधुरन्धरो अज्जउत्तो । (अत एव राघवधुरन्धर आर्यपुत्रः ।) रामः – कः कोऽत्र भोः । विश्राम्यतादष्टावक्रः । अष्टावक्रः- (उत्थाय परिक्रम्य च) अये, कुमारलक्ष्मणः प्राप्तः । (इति निष्क्रान्तः) (प्रविश्य) लक्ष्मणः- जयति जयत्यायः । आर्य ! अर्जुनेन चित्रकरेणास्मदुपदिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखतम् । तत्पश्यत्वार्यः। रामः- जानासि वत्स ! दुर्मनायमानां देवीं विनोदयितुम् । तत्कियन्तमवधिं यावत् । लक्ष्मणः-यावदार्याया हुताशनशुद्धिः । रामः-शान्तम् (ससान्त्ववचनम् ।)
उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः । तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ १३ ॥
देवि देवयजनसम्भवे ! प्रसीद । एष ते जीवितावधिः प्रवादः ।
क्लिष्टो जनः किल जनैरनुरञ्जनीयस्तन्नो यदुक्तमशुभं च न तत्क्षमं ते । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥ १४॥
सीता – होदु अज्जौत्त, होदु । एहि । पेक्खह्म दाव दे चरिदम् । (इत्युत्थाय परिक्रामति) (भवत्वार्यपुत्र, भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् ।) लक्ष्मणः – इदं तदालेख्यम् । सीता – (निर्वर्ण्य) के एदे उवरिणिरन्तरदा उवत्थुवन्दि विअ अज्जउत्तम् (क एते उपरि निरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ।) लक्ष्मणः – देवि ! एतानि तानि सरहस्यानि जृम्भकास्त्राणि, यानि भगवतः कृशाश्वात्कौशिकमृषिमुपसंक्रान्तानि । तेन ताटकावधे प्रसादीकृतान्यार्थस्य । रामः- वन्दस्व देवि, दिव्यास्त्राणि ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदां तपांसि । एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥ १५ ॥
सीता- नम एतेभ्यः। रामः- सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति । सीता-अणुगहीदह्मि । (अनुगृहीतास्मि ।) लक्ष्मणः – एष मिथिलावृत्तान्तः ।
सीता – अहो, दलन्नवनीलोत्पलश्यामलस्निग्धमसृणशोभमानमांसलेन देहसौभाग्येन विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीरनादरत्रुटितशंकरशरासनः शिखण्ड मुग्धमुखमण्डल आर्यपुत्र आलिखितः ।
लक्ष्मणः – आर्ये ! पश्य पश्य ।
सम्बन्धिनो वसिष्ठादीनेष तातस्तवार्चति । गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥
रामः – सुश्लिष्टमेतत् ।
जनकानां रघूणां च सम्बन्धः कस्य न प्रियः ।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ॥ १७ ॥
सीता – एते खलु तत्कालकृतगोदानमङ्गलश्चत्वारो भ्रातरो विवाहदीक्षिता यूयम् । अहो ! जानामि तस्मिन्नेव काले वर्ते ।
रामः – समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि ! गौतमार्पितः ।
अयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥
लक्ष्मणः – इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः ।
सीता – वत्स, इयमप्यपरा का ।
लक्ष्मणः – (सलज्जास्मितम् । अपवार्य) अये, ऊर्मिलां पृच्छत्यार्या । भवतु । अन्यतः सञ्चारयामि । (प्रकाशम् ।) आर्ये ! दृश्यतां द्रष्टव्यमेतत् । अयं च भगवान्मार्गवः ।
सीता – (ससंभ्रमम्) कम्पितास्मि ।
रामः – ऋषे ! नमस्ते ।
लक्ष्मणः – आर्ये ! पश्य । अयमार्येण—(इत्यर्धोक्ते ।)
रामः – (साक्षेपम् ।) अयि ! बहुतरं द्रष्टव्यम् । अन्यतो दर्शय । सीता – (सस्नेहबहुमानं निर्वर्ण्य ।) सुष्ठु शोभसे आर्यपुत्र ! एतेन विनयमाहात्म्येन ।
लक्ष्मणः- एते वयमयोध्यां प्राप्ताः ।
रामः- स्मरामि ।
जीवत्सु तातपादेषु नूतने दारसंग्रहे ।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९ ॥
इयमपि तदा जानकी ।
प्रतनुविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलै- र्दशनकुसुमैर्मुग्धालोकं शिशुर्दधती मुखम् । ललिततलितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै- रकृतमधुरैरम्बानां मे कुतूहलमङ्गकैः ॥ २० ॥
लक्ष्मणः – एष मन्थरावृत्तान्तः ।
रामः – (सत्वरमन्यतो दर्शयन् ।) देवि वैदेहि !
इङ्गुदीपादपः सोऽयं शृङ्गबेरपुरे पुरा । निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥ २१ ॥
लक्ष्मणः – (विहस्य । स्वगतम् ।) अये, मध्यमाम्बावृत्तान्तोऽन्तरित आर्येण ।
सीता – अह्मो, एसो जडासंजमणवुत्तन्तो । (अहो, एष जटासंयमनवृत्तान्तः । )
लक्ष्मणः – पुत्रसंक्रान्तलक्ष्मीकैर्यद् व्रुद्धेक्ष्‌वाकुभिर्धृतम् ।
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ॥२२॥
सीता ः एषा प्रसन्नपुण्यसलिला भगवती भागीरथी । )
रामः ः रघुकुलदेवते ! नमस्ते ।
तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे कपिलमहसा रोषात्प्लुष्टान् पितुश्च पितामहान् । अगणिततनूतापस्तप्त्वा तपांसि भगीरथो भगवति ! तव स्पृष्टानद्भिश्चिरादुदतीतरत् ॥२३॥
सा त्वमम्ब ! स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव ।
लक्ष्मणः – एष भरद्वाजावेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम । (रामः सस्पृहमवलोकयति ।)
सीता – स्मरति वा तं प्रदेशमार्यपुत्रः ?
रामः -अयि कथं विस्मर्यते ?
अलसललितमुग्धान्यध्वसम्पातखेदा- दशिथिलपरिम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥२४॥
लक्ष्मणः – एष विन्ध्याटवीमुखे विराधसंवादः ।
सीता – अलं तावदेतेन । पश्यामि तावदार्यपुत्रस्वहस्तधृततालवृन्तातपत्रमात्मनोऽत्याहितं दक्षिणारण्यपथिकत्वम् ।
रामः – एतानि तानि गिरिनिर्झरिणीतटेषु वैखानसाश्रिततरूणि तपोवनानि ।
येष्वातिथेयपरमा यमिनो भजन्ते नीवारमुष्टिपचना गृहिणो गृहाणि ॥२५॥
लक्ष्मणः – अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्यपरिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम ।
रामः – स्मरसि सुतनु ? तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।
स्मरसि सरसनीरां तय्र गोदावरीं वा स्मरसि च तदुपान्तेष्वेवयोर्वर्तनानि ॥२६॥
किं च । किमपि किमपि मन्दं मन्दमासक्तियोगा- दविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णो- रविदितगतयामा रात्रिरेव व्यरंसीत् ॥२७॥
लक्ष्मणः – एष पञ्चवट्यां शूर्पणखाविवादः ।
सीता – हा अज्जउत्त ! एत्तिअं दे दंसणम् ! (हा आर्यपुत्र ! एतावत्ते दर्शनम् !)
रामः – अयि वियोगत्रस्ते ! चित्रमेतत् ।
सीता – यथा तथा भवतु दुर्जनोऽसुखमुत्पादयति ।
रामः – हन्त ! वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति ।
लक्ष्मणः – अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्ये विकलकरणैरार्यचरितै- रपि ग्रावा रोदित्यपि दलति वज्रस्य दयम् ॥२८॥
सीता – (सास्रमात्मगतम् ।) अहो, दिनकरकुलानन्दन एवमपि मम कारणात् क्लान्त आसीत् ।
लक्ष्मणः – (रामं निर्नर्ण्य साकूतम्) आर्य ! किमेतत् ?
अयं तावद्बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन्धाराभिर्लुठति धरणीं जर्जरकणः ।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति चिरमाध्मातदयः ॥२९॥
रामः – वत्स !
तत्कालं प्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः ।
दुःखाग्निर्मनसि पुनर्विपच्यमानो न्मर्मव्रण इव वेदनां तनोति ॥३०॥
सीता – हा धिक् हा धिक् ! अहमप्यतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवात्मानं पश्यामि ।
लक्ष्मणः – (स्वगतम् ।) भवतु, आक्षिपामि । (चित्रं विकोल्य प्रकाशम् ।) अथैतन्मन्वन्तरपुराणस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम् ।
सीता – हा तात ! निर्व्यूढस्तेऽपत्यस्नेहः ।)
रामः – हा तात काश्यपशकुन्तराज ! क्व नु खलु पुनस्त्वादृशस्य महतस्तीर्थभूतस्य साधोः संभवः ?
लक्ष्मणः – अयमसौ जनस्थानस्य पश्चिमतः कुञ्जवान्नाम पर्वतो दनुकबन्धाधिष्ठितो दण्डकारण्यभागः । तदिदममुष्य परिसरे मतङ्गाश्रमपदम् । तत्र श्रमणा नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसरः । सीता – यत्र किलार्यपुत्रेण विच्छिन्नामर्षधीरत्वं प्रमक्तकण्ठं प्ररुदितमासीत् ।)
रामः – देवि ! परं रमणीयमेतत्सरः । एतस्मिन्मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । बाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो मया विभागाः ॥३१॥
लक्ष्मणः – अयमार्यो हनूमान् !
सीता – एष स चिरनिर्व्यूढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो मारुतिः ।
रामः – दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः । यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥३२॥
सीता – वत्स ! एष स कुसुमितकदम्बताण्डवितबर्हिणः किन्नामधेयो गिरिः ? यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरश्रीर्मूच्छंस्त्वा प्ररुदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः । लक्ष्मणः – सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यम्मि- न्नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः । आर्येणास्मिन् ……….
रामः- ………….. विरम विरमातः परं न क्षमोऽस्मि प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः ।
लक्ष्मणः – अतः परमार्यस्य तत्रभवतां राक्षसानां चापरिसङ्ख्यान्युत्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि ‘विश्राम्यतामि’ति ।
सीता – आर्यपुत्र ! एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया मम विज्ञापनीयमस्ति ।
रामः – नन्वाज्ञापय ।
सीता – जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु बित्य पवित्रनिर्मलशिशिरसलिलां भगवतीं भागीरथीमवगाहिष्य इति ।
रामः – वत्स लक्ष्मण !
लक्ष्मणः – एषोऽस्मि !
रामः – वत्स ! अचिरादेव संपादनीयो दौद इति संप्रत्येव गुरुभिः संदिष्टम् । तदस्खलितसंपातं रथमुपस्थापय । सीता – आर्यपुत्र ! युष्माभिरप्यागन्तव्यम् ।
रामः – अतिकठिनदये ! एतदपि वक्तव्यम् ?
सीता – तेन हि प्रियं मे ।
लक्ष्मणः – यदाज्ञापयत्यार्यः । (इति निष्क्रान्तः ।)
रामः – प्रिये ! वातायनोपकण्ठे संविष्टा भव ।
सीता – एवं भवतु । अपतास्मि परिश्रमनिद्रया)
रामः – तेन हि निरन्तरमवलम्बस्व मामत्र शयनाय ।
जीवयन्निव ससाध्वसश्रमस्वेदबिन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥३४॥
(तथा कारयन्सानन्दम्) प्रिये ! किमेतत् ?
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयनि च सम्मीलयति च ॥३५॥
सीता – धीरप्रसादा यूयमित्यत्रेदानीमाश्चर्यम् ।
रामः- म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहकानि ।
एतानि ते सुवचनानि सरोरुहाक्षि ! कर्णामृतानि मनसश्च रसायनानि ॥३६॥
सीता- प्रियंवद ! एहि ! संविशावः । (इति शयनाय समन्ततोऽपि निरूपयति।)
रामः – अयि ! किमन्वेष्टव्यम् ?
आ विवाहसमयाद् गृहे वने शंशवे तदनु यौवने पुनः ।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥३७॥
सीता- (निद्रां नाटयन्ती) अस्त्येतत् । आर्यपुत्र ! अस्त्येतत् । इति स्वपिति । रामः-कथं प्रियवचनैव मे वक्षसि प्रसुप्ता ? (निर्वर्ण्य । सस्नेहम्) ।
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥३८॥
(प्रविश्य)
प्रतीहारी-देव ! उपस्थितः
रामः – अयि ! कः ?
प्रतीहारी- आसण्णपरिआरओ देवस्स दुम्मुहो । (आसन्नपरिचारको देवस्य दुर्मुखः।)
रामः- (स्वगतम्) शुद्धान्तचारी दुर्मुखः । स मया पौरजानपदेष्वपसर्पः प्रहितः । (प्रकाशम्) आगच्छतु । (प्रतीहारी निष्क्रान्ता ।)
(प्रविश्य ।)
दुर्मुखः – (स्वगतम्) हा कथमिदानीं देवीमन्तरेणेदृशमचिन्तनीयं जनापवादं देवस्य कथयिष्यामि ? अथवा नियोगः खलु मम मन्दभागधेयस्यैषः )
सीता- (उत्स्वप्नायते) आर्यपुत्र ! कुत्रासि ?
रामः- सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः स्वप्नोद्योगं करोति । (सस्नेहमङ्गमस्याः परामृशन् ।)
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य- द्विश्रामो दयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते ॥३९॥
दुर्मुखः – (उपसृत्य) जयतु देवः।
रामः – ब्रूहि यदुपलब्धम् ।
दुर्मुखः – उपस्तुवन्ति देवं पौरजानपदाः, यथा विस्मारिता वयं महाराजदशरथस्य रामदेवेनेति रामः- अर्थवाद एवैषः । दोषं तु मे कथंचित्कथय, येन प्रतिविधीयते ।
दुर्मुखः – (सास्रम्) (कर्णे) शृणोतु महाराजः । एवमिव !
रामः- अहह, अतितीव्रोऽयं वाग्वज्रः । (इति मूर्च्छति ।)
दुर्मुखः- आश्वसितु देवः ।
रामः- (आश्वस्य) हा हा धिक् ! परगृहवासदूषणं यद्वैदेह्याः प्रशमितमद्भुतैरुपायैः ।
एतत्तत्पुनरपि दैवदुर्विपाकादालर्कं विषमिव सर्वतः प्रसक्तम् ॥४०॥
तत्किमद्य मन्दभाग्यः करोमि । (विमृश्य सकरुणम् ।) अथवा किमेतत् ।
सतां केनापि कार्येण लोकस्याराधनं परम् । तत्प्रतीतं हि तातेन मां च प्राणांश्च मुञ्चता ॥४१॥
सम्प्रत्येव च भगवता वसिष्ठेन संदिष्टम् । अपि च ।
यत्सावित्रैर्दीपितं भूमिपालैर्लोकश्रेष्ठैः साधु चित्रं चरित्रम् ।
मत्संबन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन् हन्त ! धिङ्मामधन्यम् ॥४२॥
हा देवि देवयजनसंभवे ! हा स्वजन्मानुग्रहपवित्रितवसुन्धरे ! हा मुनिजनकनन्दिनि ! हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि ! हा राममयजीविते ! हा महारण्यवासप्रियसखि ! हा तातप्रिये ! हा स्तोकवादिनि ! कथमेवंविधायास्तवायमीदृशः परिणामः ?
त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः । नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥४३॥
(दुर्मुखं प्रति) दुर्मुख ! ब्रूहि लक्ष्मणम् । एष नूतनो राजा रामः समाज्ञापयति । (कर्णे) एवमेवम् । इति ।
दुर्मुखः – हा, कथमग्निपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देव्या दुर्जनवचनादिदं व्यवसितं देवेन ?
रामः- शान्तं पापम् । शान्तं पापम् । दुर्जना नाम पौरजानपदाः ?
इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम् ।
यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदि दूरवृत्तम् ॥४४॥
तद्गच्छ ।
दुर्मुखः- हा ! देवि ! (इति निष्क्रान्तः)
रामः- हा कष्टम् । अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः ।
शैशवात्प्रभृति पोषितां प्रियां सौदादपृथगाश्रयामिमाम् ।
छद्मना परिददामि मृत्यवे सौनिके गृहशकुन्तिकामिव ॥४५॥
तत्किमपस्पृश्यः पातकी देवीं दूषयामि? (इति सीतायाः शिरः समुन्नमय्य बाहुमाकृष्य)
अपूर्वकर्मचण्डालमयि मुग्धे ! विमुञ्च माम् । श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥४६॥
(उत्थाय) हन्त हन्त ! संप्रति विपर्यस्तो जीवलोकः । अद्यावसितं जीवितप्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः । काष्ठप्रायं शरीरम् । अशरणोऽस्मि । किं करोमि ? का गतिः ? अथवा ।
दुःखसंवेदनायैव रामे चैतन्यमागतम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं दि ॥४७॥
हा अम्ब अरुन्धति ! भगवन्तौ वसिष्ठविश्वामित्रौ ! भगवन् पावक ! हा देवि भूतधात्रि ! हा तात जनक ! हा मातः ! हा प्रियसख महाराज सुग्रीव ! सौम्य हनूमन् ! महोपकारिन् लङ्काधिपते विभीषण ! हा सखि त्रिजटे ! परिमुषिताः स्थ, परिभूताः स्थ रामहतकेन । अथवा को नाम तेषामहमिदानीमाह्वाने ?
ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना । मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥४८॥
योऽहम् –
विस्रम्भादुरसि निपत्य जातनिद्रामुन्मुच्य प्रियगृहिणीं गृहस्य लक्ष्मीम् ।
आतङ्कस्फुरितकठोरगर्भगुर्वौ क्रव्याद्भ्यो बलिमिव दारुणः क्षिपामि ॥४९॥
(सीतायाः पादौ शिरसि कृत्वा ।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः । (इति रोदिति ।)
(नेपथ्ये ।)
अब्रह्मण्यम्, अब्रह्मण्यम् ।
रामः- ज्ञायतां भोः ! किमेतत् ?
(पुनर्नेपथ्ये ।)
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥५०॥
रामः – कथमद्यापि राक्षसत्रासः ? तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । (परिक्रम्य पुनर्निवृत्य) हा देवि ! कथमेवंविधा गमिष्यति ? भगवति वसन्धरे ! सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् ।
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् । यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥५१॥
(इति रुदन्निष्कान्तः ।)
सीता – हा सौम्य आर्यपुत्र ! कुत्राऽसि ? हा धिक् हा धिक् ! दुःस्वप्नरणरणकविप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि । हा धिक् हा धिक् ! एकाकिनीं प्रसुप्तां मामुज्झित्वा कुत्र गतो नाथः ? भवतु । अस्मै कोपिष्यामि, यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि । कोऽत्र परिजनः ?
(प्रविश्य ।)
दुर्मुखः – देवि ! कुमारलक्ष्मणो विज्ञापयति – सज्जो रथः । तदारोहतु देवी इति ।
सीता – (उत्थाय परिक्रम्य) इयमारूढास्मि । स्फुरति मे गर्भभारः । शनैर्गच्छमः ।
दुर्मुखः _ इत इतो देवी ।
सीता _ नमो रघुकुलदेवताभ्यः ।
(इति निष्क्रान्ताः सर्वे)
इति महाकविश्रीभवभूतिविरचिते उत्तररामचरिते चित्रदर्शनो नाम प्रथमोऽङ्कः ॥ १ ॥

द्वितीयोऽङ्कः

वनदेवता -(अर्घ्यं विकीर्य)
यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति ।
तरुच्छाया तोयं यदपि तपसां योग्यमशनं फलं वा मूलं वा तदपि न पराधीनमिह वः ॥१॥
तापसी – किमत्रोच्यते ?
प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः ।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥२॥
(उपविशतः)
वनदेवता – कां पुनरत्रभवतीमवगच्छामि?
तापसी – आत्रेय्यस्मि ।
वनदेवता – आर्ये आत्रेयि ! कुतः पुनरिहागम्यते ? किंप्रयोजनो दण्डकारण्योपवनप्रचारः ?
आत्रेयी – अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति ।
तेभ्योऽधिगन्तुं निगमान्तविद्यां वाल्मीकिपार्श्वादिह पर्यटामि ॥३॥
वनदेवता- यदा तावदन्येऽपिमुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषिं ब्रह्मपारायणायोपासते, तत्कोऽयमार्यायाः प्रवासः ?
आत्रेयी – तस्मिन् हि महानध्ययनप्रत्यूह इत्येष दीर्घप्रावसोऽङ्गीकृतः ।
वनदेवता – कीदृशः ?
आत्रेयी – तत्र भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् । तत्खलु न केवलं तस्य, अपि तु तिरश्चामप्यन्तःकरणानि तत्त्वान्युपस्नेहयति । वनदेवता – अपि तयोर्नामसंज्ञानमस्ति ?
आत्रेयी- तथैव किल देवतया तयोः कुशलवाविति नामनी प्रभावश्चाख्यातः ।
वनदेवता-कीदृशः प्रभावः ?
आत्रेयी-तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति ।
वनदेवता-अहो नु भोश्चित्रमेतत् ।
आत्रेयी-तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च, निर्वृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधानेन परिनिष्ठापिताः । तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीविद्यामध्यापितौ । न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति । यतः ।
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा ।
भवति हि पुनर्भूयान् भेदः फलं प्रति, तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥४॥
वनदेवता – अयमध्ययनप्रत्यूहः ?
आत्रेयी – अन्यश्च ।
वनदेवता – अथापरः कः ?
आत्रेयी – अथ स ब्रह्मर्षिरेकदा माध्यन्दिनसवनाय नदीं तमसामनुप्रपन्नः । तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन वध्यमानं ददर्श । आकस्मिकप्रत्यवभासां देवीं वाचमनुष्टुभेन छन्दसा परिणतामभ्युदैरयत् ।
मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥५॥
वनदेवता – चित्रम् ? आम्नायादन्यत्र नूतनश्छन्दसामवतारः ।
आत्रेयी – तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमृषिमुपसंगम्य भगवान् भूतभावनः पद्मयोनिरवोचत्- ‘ऋषे ! प्रबुद्धोऽसि वागात्मनि ब्रह्मणि । तद् ब्रूहि रामचरितम् । अव्याहतज्योतिरार्षं ते चक्षुः प्रतिभातु । आद्यः कविरसि’ इत्युक्त्वान्तर्हितः । अथ स भगवान् प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशंविवर्तमितिहासं रामायणं प्रणिनाय ।
वनदेवता- हन्त ! पण्डितः संसारः ।
आत्रेयी-तस्मादेव हि ब्रवीमि ‘तत्र महानध्ययनप्रत्यूह’ इति ।
वनदेवता-युज्यते ।
आत्रेयी – विश्रान्तास्मि भद्रे ! संप्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि ।
वनदेवता- इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण ।
आत्रेयी- (सास्रम्) अप्येतत्तपोवनम् ? अप्येषा पञ्चवटी ? अपि सरिदियं गोदावरी ? अप्ययं गिरिः प्रस्रवणः ? अपि जनस्थानवनदेवता त्वं वासन्ती ?
वनदेवता- तथैव तत्सर्वम् ।
आत्रेयी- हा वत्से जानकि !
स एष ते वल्लभबन्धुवर्गः प्रासङ्गिकीनां विषयः कथानाम् ।
त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥६॥
वासन्ती-(सभयम् । स्वगतम्) कथं नामशेषेत्याह ? (प्रकाशम्) किमत्याहितं सीतादेव्याः?
आत्रेयी- न केवलमत्याहितम्, सापवादमपि । (कर्णे) एवमिति ।
वासन्ती-हा ! दारुणो दैवनिर्घातः । (इति मूर्च्छति ।)
आत्रेयी- भद्रे ! समाश्वसिहि समाश्वसिहि ।
वासन्ती- हा प्रियसखि ! ईदृशस्ते निर्माणभागः । हा रामभद्र ! अथवा अलं त्वया । आत्रेयि ! अथ तस्मादरण्यात्परित्यज्य निवृत्ते लक्ष्मणे सीतायाः किं वृत्तमिति काचिदस्ति प्रवृत्तिः ?
आत्रेयी-नहि नहि ।
वासन्ती- कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु जीवन्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् ? आत्रेयी-ऋष्यशृङ्गसत्रे गुरुजनस्तदाऽऽसीत् । संप्रति परिसमाप्तं सत्रम् । ऋष्यशृङ्गेण च संपूज्य विसर्जिता गुरवः । ततो भगवत्यरुन्धती ‘नाहं वधूविरहितामयोध्यां गच्छामी’ त्याह । तदेव राममातृभिरनुमोदितम् । तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा ‘वाल्मीकिवनं गत्वा वत्स्याम’ इति ।
वासन्ती- अथ स रामभद्रः किमाचारः ?
आत्रेयी-तेन राज्ञा राजक्रतुरश्वमेधः प्रक्रान्तः ।
वासन्ती-अहह धिक् । परिणीतमपि ?
आत्रेयी-शान्तम् ! नहि नहि । वासन्ती-का तर्हि यज्ञे सहधर्मचारिणी ?
आत्रेयी-हिरण्मयी सीताप्रतिकृतिर्गृहिणीकृता ।
वासन्ती-हन्त भोः !
वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ? ॥७॥
आत्रेयी-विसृष्टश्च वामदेवानुमन्त्रितो मेध्याश्वः । प्रक्लृप्ताश्च तस्य यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्तदिव्यास्त्रसंप्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः ।
वासन्ती-(सहर्षकौतुकाऽस्रम्) कुमारलक्ष्मणस्यापि पुत्र इति मातः ! जीवामि ।
आत्रेयी-अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडमब्रह्मण्यमुद्घोषितम् । ततो ‘न राजापचारमन्तरेण प्रजानामकालमृत्युः संचरती’त्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत् –
शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः । शीर्षच्छेद्यः स ते राम ! तं हत्वा जीवय द्विजम् ॥८॥
इत्युपश्रुत्य कृपाणपाणिः पुष्पकमधिरुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः सञ्चारं समारब्धवान् ।
वासन्ती-शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति । अपि नाम रामभद्रः पुनरिदं वनमलङ्कुर्यात् ?
आत्रेयी-भद्रे ! गम्यतेऽधुना ।
वासन्ती-आर्ये आत्रेयि ! एवमस्तु । कठोरश्च दिवसः । तथाहि-
कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन संपातिभि- र्धर्मस्रंसितबन्धनैश्च कुसुमैरर्चन्ति गोदावरीम् । छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥९॥
(इति परिक्रम्य निष्क्रान्ते)
इति शुद्धविष्कम्भकः ।
(ततः प्रविशति सदयोद्यतखड्गो रामभद्रः ।)
रामः- हे हस्त दक्षिण ! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य बाहुरसि निर्भरगर्भखिन्न- सीताविवासनपटोः करुणा कुतस्ते ? ॥१०॥
(कथञ्चित्प्रत्य) कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणपुत्रः ?
(प्रविश्य)
दिव्यपुरुषः-जयतु देवः ।
दत्ताभये त्वयि यमादपि दण्डधारे संजीवितः शिशुरसौ, मम चेयमृद्धिः ।
शम्बूक एष शिरसा चरणौ नतस्ते । सत्सङ्गजानि निधनान्यपि तारयन्ति ॥११॥
रामः- द्वयमपि प्रियं नः, तदनुभूयतामुग्रस्य तपसः परिपाकः ।
यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः । वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥१२॥
शम्बूकः-स्वामिन् ! युष्मत्प्रसादादेवैष महिमा । किमत्र तपसा ? अथवा महदुपकृतं तपसा ।
अन्वेष्टव्यो यदसि भुवने लोकनाथः शरण्यो मामन्विष्यन्निह वृषलकं योजनानां शतानि ।
क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥१३॥
रामः- किं नाम दण्डकेयम् ? (सर्वतोऽवलोक्य) हा ! कथम्-
स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झाङ्कृतैर्निर्झराणाम् एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥१४॥
शम्बूकः- दण्डकैवैषा । अत्र किल पूर्वं निवसता देवेन-
चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । त्रयश्च दूषणखरत्रिमूर्धा नो रणे हताः ? ॥१५॥
येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि जानपदानामकुतोभयः संचारः संवृत्तः ।
रामः-न केवलं दण्डकैव, जनस्थानमपि ?
शम्बूकः-बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्डश्वापदकुलाक्रान्तविकटगिरिगह्वराणि जनस्थानपर्यन्तदीर्घारण्यानि दक्षिणां दिशमभिवर्तन्ते । तथाहि-
निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः ।
सीमानः प्रदरोदरेषु विरलस्वल्पाम्भसो यास्वयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥१६॥
रामः- पश्यामि च जनस्थानं भूतपूर्वखरालयम् । प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥१७॥
(सर्वतोऽवलोक्य) प्रियारामाहि वैदेह्यासीत् । एतानि नाम कान्ताराणि । किमतः परं भयानकं स्यात् ? (सास्रम् !)
त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु । इतीवारमतेहासौ स्नेहस्तस्याः स ताद्दशः ॥१८॥
न किञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥१९॥
शम्बूकः- तदलमेभिर्दुरासदैः । अथैतानि मदकलमयूरकण्ठकोमलच्छविभिरवकीर्णानि पर्यन्तैरविरलनिविष्टनीलबहुलच्छायातरुषण्डमण्डितान्यसंभ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्तगम्भीराणि श्वापदकुलशरण्यानि महारण्यानि ।
इह समदशकुन्ताक्रान्तवानीरमुक्त- प्रसवसुरभिशीतस्वच्छतोया वहन्ति ।
फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ २० ॥
अपि च ।
दधति कुहरभाजामत्र भल्लूकयूना- मनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
शिशिरकटुकषायः स्त्यायते सल्लकीना- मिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ २१ ॥
रामः- (सबाष्पस्तम्भम्) भद्र ! शिवास्ते पन्थानो देवयानाः । प्रलीयस्य पुण्येभ्यो लोकेभ्यः ।
शम्बूकः- यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाद्य शाश्वतं पदमनुप्रविशामि ।
(इति निष्क्रान्तः)
रामः- एतत्पुनर्वनमहो कथमद्य दृष्टं यस्मिन्नभूम चिरमेव पुरा वसन्तः ।
आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञा ॥ २२ ॥
एते त एव गिरयो विरुवन्मयूरा- स्तान्येव मत्तहरिणानि वनस्थलानि ।
आमञ्जुवञ्जुललतानि च तान्यमूनि नीरन्ध्रनीपनिचुलानि सरित्तटानि ॥ २३ ॥
मेघमालेव यश्चायमारादिव विभाव्यते । गिरिः प्रस्रवणः सोऽयमत्र गोदावरी नदी ॥ २४ ॥
अस्यैवासीन्महति शिखरे गृध्रराजस्य वास- स्तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु ।
गोदावर्याः पयसि विततानोकहश्यामलश्री- रन्तःकूजन्मुखरशकुनो यत्र रम्यो वनान्तः ॥ २५ ॥
अत्रैव सा पञ्चवटी, यत्र निवासेन विविधविस्रम्भातिप्रसङ्गसाक्षिणः प्रदेशाः, प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता । किमिदमापतितमद्य रामस्य ? संप्रति हि-
चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः ।
व्रणो रूढग्रन्थिः स्फुटित इव न्मर्मणि पुनः पुराभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥
तथाविधानपि तावत्पूर्वसुदो भूमिभागान् पश्यामि । (निरूप्य) अनवस्थितो भूतसन्निवेशः । तथा हि-
पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥
हन्त हन्त ! परिहरन्तमपि मां पञ्चवटी स्नेहाद्बलादाकर्षतीव । (सकरुणम्)
यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे यत्सम्बन्धकथाभिरेव सततं दीर्घाभिरास्थीयत ।
एकः सम्प्रति नाशितप्रियतमस्तामेव रामः कथं पापः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा ॥ २८ ॥
(प्रविश्य)
शम्बूकः- जयतु देवः । भगवानगस्त्यो मत्तःश्रुतसन्निधानस्त्वामाह-‘परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा, सर्वे च महर्षयः । तदेहि । सम्भावयाऽस्मान् । अथ प्रजविना पुष्पकेण स्वदेशमुपगत्याश्वमेधसज्जो भव’ इति ।
रामः-यथाज्ञापयति भगवान् ।
शम्बूकः-इत इतो देवः ।
रामः-(पुष्पकं प्रवर्तयन्) भगवति पञ्चवटि ! गुरुजनादेशोपरोधात्क्षणं क्षम्यतामतिक्रमो रामस्य ।
शम्बूकः – देव ! पश्य –
गुज्जत्कुञ्जकुटीरकौशिकघटाघुत्कारवत्कीचक- स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चाभिधोऽयं गिरिः । एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै- रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः ॥ २९ ॥
अपि च –
एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः । अन्योन्यप्रतिघातशङ्कुलचलत्कल्लोलकोलाहलै- रुत्तालास्त इमे गभीरपयसः पुण्या: सरित्सङ्गमाः ॥ ३० ॥ (इति निष्क्रान्ताः सर्वे)
इति महाकविश्रीभवभूतिविरचिते उत्तररामचरिते पञ्चवटीप्रवेशो नाम द्वितीयोऽङ्कः ॥ २ ॥

तृतीयोऽङ्कः

(ततः प्रविशति नदीद्वयम्)
एका- सखि मुरले ! किमसि सम्भ्रान्तेव ?
मुरला-सखि तमसे! प्रेषितास्मि भगवतोऽगस्त्यस्य पत्न्या लोपामुद्रया सरिद्वरां गोदावरीमभिधातुम् । जानास्येव यथा वधूपरित्यागात्प्रभृति-
अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः । पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥ १ ॥
तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्गदेन दीर्घशोकसन्तानेन सम्प्रति परिक्षीणो रामभद्रः । तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे दयम् । अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियतमेव पञ्चवटीवने वधूसहनिवासविस्रम्भसाक्षिणःप्रदेशा द्रष्टव्याः । तत्र च निसर्गधीरस्याप्येवंविधायामवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात्पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि । तद्भगवति गोदावरि ! त्वया तत्रभवत्या सावधानया भवितव्यम् ।’
वीचीवातैः सीकरक्षोदशीतैराकर्षद्भिः पह्मकिञ्जल्कगन्धान् ।
मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति ॥ २ ॥
तमसा-उचितमेव दाक्षिण्यं स्नेहस्य । सञ्जीवनोपायस्तु मूलत एव रामभद्रस्य सन्निहितः ।
मुरला-कथमिव ?
तमसा-तत्सर्वं श्रूयताम् । पुरा किल वाल्मीकितपोवनोपकण्ठात्परित्यज्य निवृत्ते सति लक्षमणे सीतादेवी प्राप्तप्रसववेदनमतिदुःखसंवेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं च प्रसूता भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता । स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महर्षेर्गङ्गादेव्या समर्पितं स्वयम् ।
मुरला-(सविस्मयम्)
ईदृशानां विषाकोऽपि जायते परमाद्भुतः । यत्रोपकरणीभावमायात्येवंविधो जनः ॥ ३ ॥
तमसा- इदानीं तु शम्बूकवृत्तान्तेनानेन सम्भावितजनस्थानं रामभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव लोपामुद्रया स्नेहादभिशङ्कितं तदेवाभिशङ्क्य सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीमुपागता ।
मुरला-सुष्ठु चिन्तितं भगवत्या भागीरथ्या । ‘राजनीतिस्थितस्यास्य खलु तैश्च तैश्च जगतामाभ्युदयिकैः कार्यैर्व्यापृतस्य रामभद्रस्य नियताश्चित्तविक्षेपाः । अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ’ इति । कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात् ?
तमसा – उक्तमेव भगवत्या भागीरथ्या – ‘वत्से देवयजनसम्भवे सीते ! अद्य खल्वायुष्मतोः कुशलवयोर्द्वादशस्य जन्मवत्सरस्य सङ्ख्यामङ्गलग्रन्थिरभिवर्तते । तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपतपाप्मानं देवं स्वहस्तापचितैः पुष्पैरुपतिष्ठस्व । न त्वामवनिपृष्ठवर्तिनीमस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत मर्त्याः ?’ इति । अहमप्याज्ञापिता ‘तमसे ! त्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमेवास्याः प्रत्यनन्तरीभव’ इति । साऽहमधुना यथाऽदिष्टमनुतिष्ठामि । मुरला -अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । रामभद्रोऽप्यागत एवेति तर्कयामि ।
तमसा-तदियं गोदावरीह्रदान्निर्गत्य-
परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकबरीकमाननम् ।
करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी ॥ ४ ॥
मुरला-इयं हि सा –
किसलयमिव मुग्धं बन्धनाद्विप्रलूनं दयकमलशोषी दारुणो दीर्घशोक ग्लपयति
परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ ५ ॥
(इति परिक्रम्य निष्क्रान्ते)
इति शुद्धविष्कम्भकः ।
(नेपथ्ये) जात! जात!!-
(ततः प्रविशति पुष्पावचयव्यग्रा सकरुणौत्सुक्यमाकर्णयन्ती सीता)
सीता – अही जानामि ‘प्रियसखी वासन्ती व्याहरती’ति ।
(पुनर्नेपथ्ये) सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै- रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् । सीता-किं तस्य ?
(पुनर्नेपथ्ये) वध्वा सार्धं विहरन् सोऽयमन्येन दर्पा- दुद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः ॥ ६ ॥
सीता-(ससंभ्रमं कतिचित्पदानि गत्वा) आर्यपुत्र ! परित्रायस्व परित्रायस्व मम पुत्रकम् । हा धिक् हा धिक् ! तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र !
(प्रविश्य)
तमसा-समाश्वसिहि समाश्वसिहि
(नेपथ्ये) विमानराज ! अत्रैव स्थीयताम् ।
सीता – (ससाध्वसोल्लासम्) अहो,जलभरभरितमेघमन्थरस्तनितगम्भीरमांसलः कुतो नु भारतीनिर्घोषो भ्रियमाणकर्णविवरां मामपि मन्दभागिनीं झटित्युत्सुकापयति ?
तमसा-(सस्मितास्रम्) अयि वत्से !
अपरिस्फुटनिक्काणे कुतस्त्येऽपि त्वमीदृशी । स्तनयित्नोर्मयूरीव चकितोत्कण्ठितं स्थिता ॥ ७ ॥
सीता – भगवति ! किं भणस्यपरिस्फुटेति । स्वरसंयोगेन प्रत्यभिजानामि नन्वार्यपुत्रेणैवैतद्व्यातम् ।
तमसा- श्रूयते-तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा दण्डकारण्यमागत’ इति ।
सीता – दिष्ट्या अपरिहीनधर्मः स राजा ।
(नेपथ्पे)
यत्र द्रुमा अपि मृगा अपि बन्धवो मे यानि प्रियासहचरश्चिरमध्यवात्सम् ।
एतानि तानि बहुकन्दरनिर्झराणि गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८ ॥
सीता – (इति तमसामाश्लिष्य मूर्च्छति) दिष्ट्या कथं प्रभातचन्द्रमण्डलापाण्डरपरिक्षामदुर्बलेनाकारेण निजसौम्यगम्भीरानुभावमात्रप्रत्यभिज्ञेय एवार्यपुत्रो भवति । भगवति तमसे ! धारय माम् ।
तमसा-वत्से ! समाश्वसिहि समाश्वसिहि ।
(नेपथ्ये)
अनेन पञ्चवटीदर्शनेन – अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः ।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९ ॥
हा प्रिये जानकि !
तमसा-(स्वगतम्) इदं तावदाशङ्कितं गुरुजनेन ।
सीता-(समाश्वस्य) हा ! कथमेतत् ?
(पुनर्नेपथ्ये)
हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि !
(इति मूर्च्छति)
सीता-(इति पादयोः पतति) हा धिक् हा धिक् ! मां मन्दभागिनीं व्यात्यामीलितनेत्रनीलोत्पलो मूर्च्छित एव । हा ! कथं धरणीपृष्ठे निरुद्धनिःश्वासनिःसहं विपर्यस्तः। भगवति तमसे ! परित्रायस्व परित्रयस्व । जीवयार्यपुत्रम् ।
तमसा- त्वमेव ननु कल्याणि ! सञ्जीवय जगत्पतिम् । प्रियस्पर्शो हि पाणिस्ते तत्रैष निरतो जनः ॥ १० ॥
सीता-यद्भवतु तद्भवतु । यथा भगवत्याज्ञापयति ।
(इति ससंभ्रमं निष्क्रान्ता)
(ततः प्रविशति भूम्यां निपतितः सास्रया सीतया स्पृश्यमानः साह्लादोच्छ्वासो रामः)
सीता-(किञ्चित्सहर्षम्) जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य ।
रामः- हन्त भोः ! किमेतत् ?
आश्च्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः ।
आतप्तजीवितमनःपरितर्पणोऽयं सञ्जीवनौषधिरसो दि नु प्रसक्तः ॥ ११ ॥
अपि च- स्पर्शः पुरा परिचितो नियतं स एव सञ्जीवनश्च मनसः परितोषणश्च । सन्तापजां सपदि यः परित्य मूर्च्छा- मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥
सीता-(ससाध्वसकरुणमुपसृत्य) एतावदेवेदानीं मम बहुतरम् ।
रामः- (उपविश्य) न खलु वत्सलया देव्याभ्युपपन्नोस्मि ?
सीता- हा धिक् हा धिक् ! किमित्यार्यपुत्रो मां मार्गिष्यति ?
रामः- भवतु, पश्यामि ।
सीता- भगवति तमसे ! अपसराव तावत् । मां प्रेक्ष्याऽनभ्यनुज्ञातेन सन्निधानेन राजाऽधिकं कोपिष्यति । तमसा-अयि वत्से ! भागीरथीप्रसादाद्वनदेवतानामप्यदृश्याऽसि संवृत्ता ।
सीता-अस्ति खल्वेतत् ?
रामः- हा प्रिये जानकि !
सीता-(समन्युगद्गदम्) आर्यपुत्र ! असदृशं खल्वेतदस्य वृत्तान्तस्य । भगवति ! किमिति वज्रमयी जन्मान्तरेष्वपि पुनरप्यसम्भावितदुर्लभदर्शनस्य मामेव मन्दभागिनीमुद्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि । अहमेवैतस्य दयं जानामि, ममैषः।
रामः- (सर्वतोऽवलोक्य सनिर्वेदम् ।) हा ! न किंचिदत्र । सीता-भगवति ! निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कीदृशी मे दयावस्था ? इति न जानामि, न जानामि ।
तमसा-जानामि वत्से ! जानामि ।
तटस्थं नैराश्यादपि च कलुषं विप्रियवशाद् वियोगे दीर्घेऽस्मिञ्झटिति घटनात्स्तम्भितमिव ।
प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं- द्रवीभूतं प्रेम्णा तव दयमस्मिन् क्षण इव ॥ १३ ॥
रामः- देवि !
प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः ।
अद्याप्यानन्दयति मां, त्वं पुनः क्वासि नन्दिनि ? ॥ १४ ॥
सीता-एते खल्वगाधमानसदर्शितस्नेहसम्भारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । जाने, प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलाभः ।
रामः- अथवा कुतः प्रियतमा ? नूनं सङ्कल्पाभ्यासपाटवोपादान एष भ्रमो रामभद्रस्य ।
(नेपथ्ये !)
अहो ! महान् प्रमादः प्रमादः (‘सीतादेव्याः स्वकरकलितैः’ इत्यर्धं पठ्यते ।)
रामः- (सकरुणौत्सुक्यम्) किं तस्य ?
(पुनर्नेपथ्ये ‘वध्वा सार्धम्’ इत्युत्तरार्धं पठ्यते ।)
सीता-क इदानीमभियुज्यते ?
रामः-काऽसौ दुरात्मा ? यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति। (इत्युत्तिष्ठाति)
(प्रविश्य)
वासन्ती-(सम्भ्रान्ता) देव ! त्वर्यताम् ।
सीता-हा, कथं मे प्रियसखी वासन्ती ?
रामः- कथं देव्याः प्रियसखी वासन्ती ? वासन्ती-देव ! त्वर्यतां त्वर्यताम् । इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवर्तीय सम्भावयतु देव्याः पुत्रकं देवः ।
सीता-हा तात जटायो ! शून्यं त्वया विनेदं जनस्थानम् ।
रामः- अहह ! दयमर्मच्छिदः खल्वमी कथोद्घाताः ।
वासन्ती-इत इतो देवः ।
सीता- भगवति ! सत्यमेव वनदेवतापि मां न पश्यति ।
तमसा-अयि वत्से ! सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिन्याः । तत्किमिति विशङ्कसे ?
सीता- ततोऽनुसरावः । (इति परिक्रामति)
रामः-(परिक्रम्य) भगवति गोदावरी ! नमस्ते ।
वासन्ती-(निरूप्य) देव ! मोदस्व विजयिना वधूद्वितीयेन देव्याः पुत्रकेण ।
रामः-विजयतामायुष्मान् ।
सीता-अहो ! ईदृशो मे पुत्रकः संवृत्तः ।
रामः- हा देवि ! दिष्ट्या वर्धसे ।
येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण व्याकृष्टस्ते सुतनु ! लवलीपल्लवः कर्णमूलात् ।
सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥
सीता- अवियुक्त इदानीं दीर्घायुरनया सौम्यदर्शनया भवतु ।
रामः- सखि वासन्ति ! पश्य पश्य । कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन । लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः ।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन- र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥
सीता- भगवति तमसे ! अयं तावदीदृशो जातः । तौ पुनर्न जानाम्येतावाता कालेन कुशलवौ कीदृशौ संवृताविति ?
तमसा-यादृशोऽयं, तादृशौ तावपि ।
सीता-ईदृश्यस्मि मन्दभागिनी, यस्याः न केवलमार्यपुत्रविरहः, पुत्रविरहोऽपि ।
तमसा-भवितव्यतेयमीदृशी ।
सीता-किं वा मया प्रसूतया ? येनैतादृशं मम पुत्रकयोरीषद्विरलधवलदशनकुड्मलोज्ज्वलमनुबद्धमुग्धकाकलीविहसितं नित्योज्जवलं मुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण ।
तमसा-अस्तु देवताप्रसादात् ।
सीता-भगवति तमसे ! एतेनापत्यसंस्मरणेनोच्छ्वसितप्रस्नुतस्तनी इदानीं वत्सयोः पितुः सन्निधानेन क्षणमात्रं संसारिणी संवृत्तास्मि ।
तमसा-किमत्रोच्यते ? प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य । परं चैतदन्योन्यसंश्लेषणं पित्रोः ।
अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥ १७ ॥
वासन्ती-इतोऽपि देवः पश्यतु-
अनुदिवसमवर्धयत्प्रिया ते यमचिरनिर्गतमुग्धलोलबहम् ।
मणिमुकुट इवोच्छिखः कदम्बे नदति स एष वधूसखः शिखण्डी ॥ १८ ॥
सीता-(सकौतुकस्नेहास्रम्) एष सः ।
रामः- मोदस्व वत्स ! वयमद्य वर्धामहे ।
सीता- एवं भवतु ।
रामः- भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुः प्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या ।
करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि ।
हन्त ! तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते । कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् ।
सीता- (सास्रम्) सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण ।
रामः- स्मरति गिरिमयूर एष देव्याः स्वजन इवात्र यतः प्रमोदमेति ॥ २० ॥
वासन्ती- अत्र तावदासनपरिग्रहं करोतु देवः । एतत्तु देवस्याश्रमम् । (राम उपविशति ।)
वासन्ती- नीरन्ध्रबालकदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते ।
अत्र स्थिता तृणमदाद्वनगोचरेभ्यः सीता ततो हरिणकैर्न विमुच्यते स्म ॥ २१ ॥
रामः- इदमशक्यं द्रष्टुम् । (इत्यन्यतो रुदन्नुपविशति ।)
सीता- सखि वासन्ति ! किं त्वया कृतमार्यपुत्रस्य मम चैतद्दर्शयन्त्या । हा धिक् हा धिक् ! स एवार्यपुत्रः, तदेव पञ्चवटीवनम्, सैव प्रियसखी वासन्ती, त एव विविधविस्रम्भसाक्षिणो गोदवरीकाननोद्देशाः, त एव जातनिर्विशेषा मृगपक्षिणः पादपाश्च । मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतन्नास्ति । ईदृशो जीवलोकस्य परिणामः संवृत्तः ।
वासन्ती-सखि ! सीते ! कथं न पश्यसि रामभद्रस्यावस्थाम् ।
नवकुलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि नः स्वेच्छादृश्यो नवो नव एव सः ।
विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥ २२ ॥
सीता- सखि ! पश्यामि ।
तमसा- पश्य प्रियं भूयः ।
सीता- इति पश्यन्ती स्थिता । हा दैव ! एष मया विना अहमप्येतेन विनेति केन सम्भावितमासीत् ? तन्मुहूर्तमात्रं जन्मान्तरादपि दुर्लभलब्धदर्शनं बाष्पसलिलान्तरेषु पश्यामि तावद्वत्सलमार्यपुत्रम् ।
तमसा-(परिष्वज्य सास्रम्)
विलुलितमतिपूरैर्बाष्पमानन्दशोक- प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा ।
स्नपयति दयेशं स्नेहनिष्यन्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः ॥ २३ ॥
वासन्ती- ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।
कलमविरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ २४ ॥
रामः-एहि सखि वासन्ति ! नन्वितः स्थीयताम् ।
वासन्ती-(उपविश्य सास्रम्) महाराज ! अपि कुशलंकुमारलक्ष्मणस्य ?
रामः- (अनाकर्णनमभिनीय)
करकमलवितीर्णैरम्बुनीवारशष्पै- स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत् ।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव दयस्य प्रस्रवोद्भेदयोग्यः ॥ २५ ॥
वासन्ती-महाराज ! ननु पृच्छामि कुशलं कुमारलक्ष्मणस्येति ?
रामः-(आत्मगतम्) अये ! महाराजेति निष्प्रणयमामन्त्रणपदम् । सौमित्रिमात्रके बाष्पस्खलिताक्षरः कुशलप्रश्नः । तथा मन्ये विदितसीतावृत्तान्तेयमिति । (प्रकाशम्) आः ? कुशलं कुमारलक्ष्मणस्य ।
वासन्ती-(रोदिति) अयि देव ! किं परं दारुण: खल्वसि ।
सीता- सखि वासन्ति ! किं त्वमेवंवादिनी भवसि ? पूजार्हः सर्वस्यार्यपुत्रः विशेषतो मम प्रियसख्याः । वासन्ती- त्वं जीवितं, त्वमसि मे दयं, द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ? ॥ २६ ॥
(इति मुह्यति)
तमसा-स्थाने वाक्यनिवृत्तिर्मोहश्च ।
रामः- सखि ! समाश्वसिहि समाश्वसिहि ।
वासन्ती- (समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन ?
सीता- सखि वासन्ति ! विरम विरम ।
रामः- लोको न मृष्यतीति ।
वासन्ती-कस्य हेतोः ?
रामः- स एव जानाति किमपि ।
तमसा-चिरादुपालम्भः ।
वासन्तीति- अयि कठोर ! यशः किल ते प्रियं, किमयशो ननु घोरमतः परम् ? किमभवद्विपिने हरिणीदृशः ? कथय नाथ ! कथं बत ! मन्यसे ? ॥ २७ ॥
सीता- सखि वासन्ति ! त्वमेव दारुणा कठोरा च । यैवं प्रलपन्तं प्रलापयसि ।
तमसा- प्रणय एवं व्याहरति शोकश्च । रामः- सखि ! किमत्र मन्तव्यम् ? त्रस्तैकहायनकुरङ्गविलोलदृष्टेस्तस्याः परिस्फुरितगर्भभरालसायाः । ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥
सीता- आर्यपुत्र ! ध्रिये एषा ध्रिये ।
रामः- हा प्रिये जानकि ! क्वासि ? सीता- हा धिक् हा धिक् ! अन्य इवार्यपुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति । तमसा- वत्से ! साम्प्रतिकमेवैतत् । कर्त्तव्यानि खलु दुःखितैर्दुःखनिर्धारणानि । पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च दयं प्रलापैरेव धार्यते ॥ २९ ॥
विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः ।
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियशोको जीवं कुसुममिव धर्मो ग्लपयति ।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ- स्तदद्याप्युच्छ्‌वासो भवति ननु लाभो हि रुदितम् ॥ ३० ॥
रामः- कष्टं भोः ! कष्टम् । दलति दयं शोकोद्वेगाद् द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलति तनूमन्तर्दाहः करोति न भस्मसा- त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥
हे भगवन्तः पौरजानपदाः !
न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत- स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता ।
चिरपरिचितास्ते ते भावास्तथा द्रवयन्ति मा- मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ ३२ ॥
वासन्ती-(स्वगतम्) अतिगभीरमापूरणं मन्युभारस्य । (प्रकाशम्) देव ! अतिक्रान्ते धैर्यमवलम्ब्यताम् ।
रामः-किमुच्यते धैर्यमिति ?
देव्याः शून्यस्य जगतो द्वादशः परिवत्सरः ।
प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥
सीता-अपहरामि च मोहितेव एतैरार्यपुत्रस्य प्रियवचनैः ।
तमसा-एवमेव वत्से !
नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः । एतास्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि ॥ ३८ ॥
रामः- अयि वासन्ति ! मया खलु-
यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दन्तः ।
तथैव तीव्रो दि शोकशङ्कुर्मर्माणि कृन्तन्नपि किं न सोढः ? ॥ ३५ ॥
सीता-एवमपि मन्दभागिन्यहं या पुनरायासकारिणी आर्यपुत्रस्य ।
रामः-एवमतिगूढस्तम्भितान्तःकरणस्यापि मम संस्तुतवस्तुदर्शनादद्यायमावेगः । तथा हि- वेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं यो यो यत्नः कथमपि समाधीयते तं तमन्तः ।
हित्वा भित्त्वा प्रसरति बलात्कोऽपि चेतोविकार- स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३६ ॥
सीता-आर्यपुत्रस्यैतेन दुर्वारदारुणारम्भेण दुःखसंयोगेन परिमुषितनिजदुःखं प्रमुक्तजीवितं मे दयं स्फुटति । वासन्ती-(स्वगतम्) कष्टमत्यासक्तो देवः । तदाक्षिपामि तावत् । (प्रकाशम्) चिरपरिचितानिदानीं जनस्थानभागानवलोकनेन मानयतु देवः ।
रामः-एवमस्तु (इत्युत्थाय परिक्रामति ।)
सीता-संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि ।
वासन्ती-देव देव !
अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते ।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥ ३७ ॥
सीता-दारुणासि वासन्ति ! दारुणासि । या एतैदयमर्मोद्घाटितशल्यसंघनैः पुनः पुनरपि मां मन्दभागिनीमार्यपुत्रं च स्मरयसि ।
रामः-अयि चणिड जानकि ! इतस्ततो दृश्यसे, नानुकम्पसे । हा हा देवि !
स्फुटति हृदयं, ध्वंसते देहबन्धः, शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि ।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ? ॥ ३८ ॥
(इति मूर्च्छति ।)
सीता-हा धिक् हा धिक् ! पुनरपि मूढ आर्यपुत्रः ।
वासन्ती-देव ! समाश्वसिहि समाश्वसिहि ।
सीता-आर्यपुत्र ! मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमाङ्गलिकजन्मलाभस्य ते वारंवारं संशयितजीवितदारुणो दशापरिणाम इति हा ! हतास्मि ।
तमसा-वत्से ! समाश्वसिहि समाश्वसिहि । पुनस्ते पाणिस्पर्शो रामभद्रस्य जीवनोपायः ।
वासन्ती-कथमद्यापि नोच्छ्वसिति ? हा प्रियसखि सीते ! क्वासि ? सम्भावयात्मनो जीवितेश्वरम् ।
वासन्ती-दिष्ट्या प्रत्यापन्न-चेतनो रामभद्रः ।
(सीता ससम्भ्रममुपसृत्य दि ललाटे च स्पृशति ।)
रामः- आलिम्पन्नमृतमयैरिव प्रलेपैरन्तर्वा बहिरपि वा शरीरधातून् ।
संस्पर्शः पुनरपि जीवयन्नकस्मादानन्दादपरमिवादधाति मोहम् ॥ ३९ ॥ (सानन्दं निमीलिताक्ष एव ।) सखि वासन्ति ! दिष्ट्या वर्धसे ।
वासन्ती-कथमिव ?
रामः-सखि ! किमन्यत् । पुनरपि प्राप्ता जानकी ।
वासन्ती-अयि देव रामभद्र ! क्व सा ?
रामः-(स्पर्शसुखमभिनीय) पश्य, नन्वियं पुरत एव ।
वासन्ती-अयि देव रामभद्र ! किमिति मर्मच्छेददारुणैरतिप्रलापैः प्रियसखीविपत्तिदुःखदग्धामपि मां पुनर्मन्दभाग्यां दहसि ?
सीता-अपसर्तुमिच्छामि । एष पुनः चिरप्रणयम्भारसौम्यशीतलेन आर्यपुत्रस्पर्शेन दीर्घदारुणमपि झटिति सन्तापमुल्लाघयता वज्रलेपोपनद्ध इव पर्यस्तव्यापार आसज्जित इव मेऽग्रहस्तः ।
रामः- सखि ! कुतः प्रलापः ? गृहीतो यः पूर्वं परिणयविधौ कङ्कणधरः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः ।
सीता- आर्यपुत्र ! स एवेदानीमसि त्वम् ।
रामः- स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः ॥ ४० ॥ (इति गृह्णाति ।)
सीता-हा धिक् हा धिक् ! आर्यपुत्रस्पर्शमोहितायाः प्रमादो मे संवृत्तः ।
रामः-सखि वासन्ति ! आनन्दमीलितः प्रियास्पर्शसाध्वसेन परवानस्मि । तत्त्वमपि धारय माम् ।
वासन्ती-कष्टमुन्माद एव । (सीता ससंभ्रमं हस्तमाक्षिप्यापसर्पति ।)
रामः- धिक् ! प्रमादः ।
करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः । परिकम्पिनः प्रकम्पी करान्मम स्विद्यतः स्विद्यन् ॥ ४१ ॥
सीता- हा धिक् हा धिक् ! अद्याप्यनुबद्धबहुघूर्णमानवेदनं न संस्थापयाम्यात्मानम् ।
तमसा- (सस्नेहकौतुकस्मितं निर्वर्ण्य)
सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा ।
मरुन्नवाम्भः परिधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव ॥ ४२ ॥
सीता-(स्वगतम्) अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया । किमिति किलैषा मंस्यत ‘एष परित्याग एषोऽभिषङ्ग’ इति ।
रामः- (सर्वतोऽवलोक्य) हा ! कथं नास्त्येव । नन्वकरुणे वैदेहि !
सीता- अकरुणास्मि, यैवंविधं त्वां पश्यन्त्येव जीवामि ।
रामः-क्वासि प्रिये ! देवि ! प्रसीद प्रसीद । न मामेवंविधं परित्यक्तुमर्हसि ।
सीता-अयि आर्यपुत्र ! विप्रतीपमिव ।
वासन्ती-देव ! प्रसीद प्रसीद । स्वेनैव लोकोत्तरेण धैर्येण संस्तम्भयातिभूमिं गतमात्मानम् । कुत्र मे प्रियसखी ?
रामः- व्यक्तं नास्त्येव । कथमन्यथा वासन्त्यपि न पश्येत् ? अपि खलु स्वप्न एष स्यात् ? न चास्मि सुप्तः । कुतो रामस्य निद्रा ? सर्वथापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलम्भः पुनः पुनरनुबध्नाति माम् । सीता- मयैव दारुणया विप्रलब्ध आर्यपुत्रः ।
वासन्ती-देव ! पश्य पश्य ।
पौलस्त्यस्य जटयुषा विघटितः कार्ष्णायसोऽयं रथ- स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः । खड्गच्छिन्नजटायुपक्षतिरितः सीतां चलन्तीं वह- न्नन्तर्व्यापृतविद्युदम्बुद इव द्यामभ्युदस्थादरिः ॥ ४३ ॥
सीता-(सभयम्) आर्यपुत्र ! तातो व्यापाद्यते । तस्मात् परित्रायस्व परित्रायस्व । अहमप्यपह्रये ।
रामः-(सवेगमुत्थाय) आः पाप ! तातप्राणसीतापहारिन् ! लङ्कापते ! क्व यास्यासि ?
वासन्ती-अयि देव ! राक्षसकुलप्रलयधूमकेतो ! किमद्यापि ते मन्युविषयः ?
सीता-अहो ! उद्भ्रान्तास्मि ।
रामः-अन्य एवायमधुना विपर्ययो वर्तते ।
उपायानां भावादविरलविनोदव्यतिकरै- र्विमर्दैर्वीराणां जनितजगदत्यद्भुतरसः ।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कटुस्तूष्णीं सह्यो निरवधिरयं तु प्रविलयः ॥ ४४ ॥
सीता-बहुमानितास्मि पूर्वविरहे । निरवधिरिति हा ! हतास्मि ।
रामः- कष्टं भोः !
व्यर्थ यत्र कपीन्द्रसख्यमपि मे, वीर्यं हरीणां वृथा, प्रज्ञाजाम्बवतो न यत्र, न गतिः पुत्रस्य वायोरपि ।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः, सौमित्रेरपि पत्त्रिणामविषये तत्र प्रिये ! क्वासि मे ? ॥ ४५ ॥
सीता- बहुमानितास्मि पूर्वविरहे ।
रामः- सखि वासन्ति ! दुःखायैव सुदामिदानीं रामदर्शनम् । कियच्चिरं त्वां रोदयिष्यमि । तदनुजानीहि मां गमनाय ।
सीता- (सोद्वेगमोहं तमसामाश्लिष्य) हा ! भगवति तमसे ! गच्छतीदानीमार्यपुत्रः । किं करोमि ? (इति मूर्च्छति)
तमसा-वत्से जानकि ! समाश्वसिहि समाश्वसिहि । विधिस्तवानुकूलो भविष्यति । तदायुष्मतोः कुशलवयोर्वर्षर्द्धिमङ्गलानि सम्पादयितुं भागीरथीपदान्तिकमेव गच्छावः।
सीता-भगवति ! प्रसीद । क्षणमात्रमपि दुर्लभदर्शनं पश्यामि ।
रामः-अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे ।
सीता-(साक्षेपम्) आर्यपुत्र ? का ?
वासन्ती-परिणीतमपि किम् ?
रामः- नहि नहि । हिरण्मयी सीताप्रतिकृतिः ।
सीता-(सोच्छ्‌वासास्रम्) आर्यपुत्र ! इदानीमसि त्वम् । अहो ! उत्खातितमिदानीं मे परित्यागशल्यमार्यपुत्रेण । रामः-तत्रापि तावद् बाष्पदिग्धं चक्षुर्विनोदयामि ।
सीता-धन्या खलु सा, यैवमार्यपुत्रेण बहु मन्यते । यैवमार्यपुत्रं विनोदयन्त्याशाबन्धनं खलु जाता जीवलोकस्य ।
तमसा-(सस्मितस्नेहार्द्रं परिष्वज्य ।) अयि वत्से ! एवमात्मा स्तूयते ।
सीता-(सलज्जम्) परिहसितास्मि भगवत्या ।
वासन्ती-महानयं व्यतिकरोऽस्माकं प्रसादः । गमनं प्रति यथा कार्यहानिर्न भवति तथा कार्यम् ।
रामः-तथाऽस्तु ।
सीता-प्रतिकूलेदानीं मे वासन्ती संवृत्ता ।
तमसा-वत्से ! एहि गच्छावः ।
सीता- एवं करिष्यावः ।
तमसा-कथं वा गम्यते ।
यस्यास्तव- प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः । मर्मच्छेदोपमैर्यत्नैः सन्निकर्षो निरुध्यते ॥ ४६ ॥
सीता-नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्यपुत्रचरणकमलाभ्याम् । (इति मूर्च्छति)
तमसा-समाश्वसिहि ।
सीता-(आश्वस्य) कियच्चिरं वो मेघान्तरेण पूर्णचन्द्रदर्शनम् ?
तमसा-अहो ! संविधानकम् ।
एको रसः करुण एव निमित्तभेदाद्भिन्नः पृथक्पृथगिव श्रयते विवर्तान् ।
आवर्तबुद्बुदतरङ्गमयान्विकारानम्भो यथा सलिलमेव हि तत्समस्तम् ॥ ४७ ॥
रामः-विमानराज ! इत इतः ।
(सर्व उत्तिष्ठन्ति)
तमसावासन्त्यौ-(सीतारामौ प्रति)
अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता ।
स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्तव वितरतु भद्रं भूयसे मङ्गलाय ॥ ४८ ॥

(इति निष्क्रान्ताः सर्वे)
इति महाकविभवभूतिविरचिते उत्तररामचरिते छाया नाम तृतीयोऽङ्कः ॥ ३ ॥

चतुर्थोऽङ्कः

(ततः प्रविशतस्तापसौ)
एकः-सौधातके ! दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्य समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथा हि-
नीवारौदनमण्डमुष्णमधुरं सद्यः प्रसूतप्रिया- पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति ।
गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥ १ ॥
सौधातकिः-स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्यायकारणानां तपोधनानाम् ।
प्रथमः- (विहस्य ।) अपूर्वः खलु बहुमानहेतुगुरुषु सौधातके !
सौधातकिः-भो दण्डायन ! किंनामधेय इदानीमेष महतः स्त्रीसार्थस्य धुरन्धरोऽद्यातिथिरागतः ?
दण्डायनः-धिक्प्रहसनम् ! नन्वयमृष्यशृङ्गाश्रमादरुन्धतीं पुरस्कृत्य महाराजदशरथस्य दारनधिष्ठाय भगवान् वसिष्ठः प्राप्तः । तत्किमेवं प्रलपसि ?
सौधातकिः- हुं वसिष्ठः ?
दण्डायनः- अथ किम् ?
सौधातकिः- मया पुनर्ज्ञातं कोऽपि व्याघ्र इव एष इति ।
दण्डायनः-आः, किमुक्तं भवति ?
सौधत्तकिः-येन परापतितेनैव सा वराकी कपिला कल्याणी बलात्कृत्य मडमडायिता ।
दण्डायनः-समांसो मधुपर्क इत्याम्नायं बहु मन्यमानाः श्रोत्रियायाभ्यागताय वत्सतरीं महोक्षं वा पचन्ति गृहमेधिनः । तं हि धर्मं धर्मसूत्रकाराः समामनन्ति ।
सौधातकिः- भो ! निगृहीतोऽसि ।
दण्डायनः-कथमिव ?
सौधातकिः- येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता । अद्यैव प्रत्यागतस्य राजर्षेर्जनकस्य भगवता वालमीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता ।
दण्डायनः- अनिवृत्तमांसानामेवं कल्पं व्याहरन्ति केचित् । निवृत्तमांसस्तु तत्रभवान् जनकः । सौधातकिः-किन्निमित्तम् ?
दण्डायनः-यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य ।
सौधातकिः-ततः किमित्यागतः ?
दण्डायनः-संप्रति च प्रियसुदं भगवन्तं प्राचेतसं द्रष्टुम् ।
सौधतकिः- अप्यद्य सम्बन्धिनीभिः रामं निर्वृत्तं दर्शनमस्य न वेति ?
दण्डायनः- संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता । यथा ‘स्वयमुपेत्य स्नेहादयं द्रष्टव्य’ इति ।
सौधातकिः-यथैते स्थविराः परस्परमेव मिलिताः, तथावामपि वटुभिः सह मिलित्वाऽनध्यायमहोत्सवं खेलन्तो मानयावः अथ कुत्र स जनकः ?
दण्डायनः-तथायं प्राचेतसवसिष्ठावुपास्य संप्रत्याश्रमस्य बहिर्वृक्षमूलमधितिष्ठति । य एषः- दि नित्यानुषक्तेन सीताशोकेन तप्यते । अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः ॥ २ ॥
(इति निष्कान्तौ ।)
इति मिश्रविष्कम्भकः ।
(ततः प्रविशति जनकः)
जनकः-
अपत्ये यत्तादृग्दुरितमभवत्तेन महता विषक्तस्तीव्रेण व्रणितदयेन व्यथयता ।
पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥३॥
कष्टम्! एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसान्तपनप्रभृतिभिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव! महानद्यापि मम दग्धदेहो न पतति । ‘अन्धतामिस्रा ह्यसूर्या नाम ते लोकाः प्रेत्य तेभ्यः प्रतिविधीयन्ते, य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणो दुःखसंवेगः प्रशाम्यति । अयि मातर्देवयजनसंभवे ! ईदृशस्ते निर्माणभागः परिणतः ! येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते । हा पुत्रि ! अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुड्मलाग्रम् ।
वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमञ्जुजल्पितं ते ॥४॥
भगवति वसुन्धरे ! सत्यमतिदृढासि ।
त्वं वह्निर्मुनयो वसिष्ठगृहिणी, गङ्गा च यस्या विदु- र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः ।
विद्यां वागिव यामसूत भवती, शुद्धिं गतायाः पुन- स्तस्यास्त्वद्दुहितुस्तथा विशसनं किं दारुणे मृष्यथाः ? ॥६॥
(नेपथ्ये) इत इतो भगवती महादेव्यौ ।
जनकः – अये ? गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती (उत्थाय) कां पुनर्महादेवीत्याह ? (निरूप्य) हा हा ! कथमियं महाराजस्य दशरथस्य धर्मदाराः प्रियशखी मे कौसल्या ? क एतां प्रत्येति सैवेयमिति नाम ? असीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा ।
कष्टं बतान्यदिव दैववशेन जाता दुःखत्मकं किमपि भूतमहो विकारः ॥६॥
य एव मे जनः पूर्वमासीन्मूर्तो महोत्सवः । क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् ॥७॥
(ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च ।)
अरुन्धती-ननु ब्रवीमि ‘द्रष्टव्यः स्वयमुपेत्यैव वैदेह ’ इत्येवं वः कुलगुरोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महानध्यवसायः ?
कञ्चुकी – देवि ! संस्तभ्यात्मानमनुरूध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि ।
कौसल्या – ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवतरन्ति । तस्मान्न शक्नोम्युद्वर्तमानमूलबन्धनं दयं पर्यवस्थापयितुम् ।
अरुन्धती – अत्र कः सन्देहः ?
सन्तानवाहीन्यपि मानुषाणां दुःखानि सम्बन्धिवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव संप्लवन्ते ॥८॥
कौसल्या-कथं नु खलु वत्साया मे वध्वा वनगतायास्तस्याः पितूराजर्षेर्मुखं दर्शयामः ?
अरुन्धती- एष वः श्लाघ्यसम्बन्धी जनकानां कुलोद्वहः । याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥९॥
कौसल्या – एष स महाराजस्य दयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजः सीरध्वजः । स्मारितास्मि अनिर्वेदरमणीयान्दिवसान् । हा देव ! सर्वें तन्नास्ति । जनकः-(उपसृत्य) भगवत्यरुन्धति ! वैदेहः सीरध्वजोऽभिवादयते ।
यया पूतंमन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु गुरूणां गुरूतमः ।
त्रिलोकीमङ्गल्यामवनितललीनेन शिरसा जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम् ॥१०॥
अरून्धती – अक्षरं ते ज्योतिः प्रकाशताम् । स त्वां पुनातु देवः परो रजसां य एष तपति ।
जनकः- आर्य गृष्टे ! अप्यनामयमस्याः प्रजापालकस्य मातु ?
कञ्चुकी – (स्वागतम्) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः । (प्रकाशम्) राजर्षे ! अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम् । सामभद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः । न चाग्निशुद्धिमनल्पकाः प्रतियन्तीति दारुणमनुष्ठितं देवेन ।
जनकः- (सरोषम्) आः ! कोऽयमग्निर्नामास्मत्प्रसूतिपरिशोधने ? कष्टम् ! एवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे ।
अरून्धती- (निःश्वस्य) एवमेतत् । अग्निरिति वत्सां प्रति लघून्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वत्से !
शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धेरुत्कर्षस्त्वयि तु मम भYंतं द्रढयति ।
शिशुत्वं स्त्रैणं वा भवतु, ननु वन्द्यासि जगतां गुणाः पूजास्थानं गुणिषु, न च लिङ्गं, न च वयः ॥११॥
कौसल्या- अहो ! समुन्मूलयन्तीव वेदनाः । (इति मूर्च्छति)
जनकः- हन्त ! किमेतत् ?
अरुन्धती- राजर्षे ! किमन्यत् ?
स राजा, तत्सौख्यं, स च शिशुजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुदि दृष्टे तदखिलम् ।
विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥१२॥
जनकः- हन्त ! सर्वथा नृशंसोऽस्मि । यच्चिरस्य दृष्टान्प्रियसुदः प्रियदारानस्निग्ध इव पश्यामि ।
स संबन्धी श्लाघ्यः, प्रियसुदसौ, तच्च दयं, स चानन्दः साक्षादपि च निखिलं जीवितफलम् ।
शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं महाराजः श्रीमान् किमपि मम नासीद्दशरथः ? ॥१३॥
कष्टमियमेव सा कौसल्या-
यदस्याः पत्युर्वा रहसि परमन्त्रायितमभू- दभूवं दम्पत्योः पृथगहमुपालम्भविषयः ।
प्रसादे कोषे वा तदनु मदधोनो विधिरभू- दलं वा तत्स्मृत्वा दहति यदवस्कन्द्य दयम् ॥१४॥
अरुन्धती-हा ! कष्टम् ! अतिचिरनिरुद्धनिःश्वासनिष्पन्ददयमस्याः ।
जनकः- हा प्रियसाखि ! (इति कमण्डलूदकेन सिञ्चति)
कञ्चुकी – सुदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम् ॥१५॥
कौसल्या-(आश्वस्य) हा वत्से जानकि ! कुत्रासि ? स्मरामि ते नवविवाहलक्ष्मीपरिग्रहैकमङ्गलं संफुल्लमुग्धमुखपुण्डरी कमारोहत्कौमुदीचन्द्रसुन्दरम् । एहि मे पुनरपि जाते ! उद्द्योतयोत्सङ्गम् । सर्वदा महाराज एवं भणति-‘एषा रघुकुलमहत्तराणां वधूरस्माकं तु जनकसुता दुहितैव ।
कञ्चुकी- यथाह देवी ।
पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः ।
वधूचतुष्केऽपि तथैव नान्या प्रिया तनूजाऽस्य यथैव सीता ॥१६॥
जनकः-हा प्रियसख महाराज दशरथ ! एवमसि सर्वप्रकारदयङ्गमः । कथं विस्मर्यते ?
कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं संबन्धे विपरीतमेव तदभूदाराधनं ते मयि ।
त्वं कालेन तथाविधोऽप्यपतः संबन्धबीजं च तद् घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग् जीवितम् ॥
कौसल्या-जाते जानकि ! किं करोमि ? दृढवज्रलेपप्रतिबन्धनिश्चलं हतजीवितं मां मन्दभागिनीं न परित्यजति ।
अरुन्धती-आश्वसिहि राज्ञि ! बाष्पविश्रामोऽप्यन्तरेषु कर्तव्य एव । अन्यच्च किं न स्मरसि ? यदवोचदृष्यशृङ्गाश्रमे युष्माकं कुलगुरुः – ‘भवितव्यं तथेत्युपजातमेव । किंतु कल्याणोदर्कं भविष्यतीति । कौसल्या-(कुतोऽतिक्रान्तमनोरथाया ममैतत् ?) अरुन्धती- तत्किं मन्यसे राजपत्नि ! मृषोद्यं तदिति । न हीदं क्षत्त्रिये ! मन्तव्यम् ।
आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत् ।
भद्रा ह्येषां वाचि लक्ष्मीर्निषक्ता नैते वाचं विप्लुतार्थं वदन्ति ॥१८॥
(नेपथ्ये कलकलः । सर्वे आकर्णयन्ति)
जनकः- अये, शिष्टानध्याय इत्यस्खलितं खेलतां वटूनां कोलाहलः।
कौसल्या-सुलभसौख्यमिदानीं बालत्वं भवति । अहो ! एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसावष्टम्भैर्मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति ?
अरुधन्ती- (स्वगतम्, सहर्षोत्कण्ठम्) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम् । न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति । (प्रकाशम्)
कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकः श्रियैवः सभाजयन् ।
पुनरपि शिशुर्भूतो वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ? ॥१९॥
कञ्चुकी- नूनं क्षत्त्रियब्रह्मचारी दारकोऽयमिति मन्ये ।
जनकः- एवमेतत् । अस्य हि –
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ।
मौर्व्या मेखलया नियन्त्रितमधो वासश्चमाञ्जिष्ठकं पाणौ कार्मुकमक्षसूत्रवसयं दण्डोऽपरः पैप्पलः ॥२०॥
भगवत्यरुन्धति ! किमित्युत्प्रेक्षसे कुतस्त्योऽयम् ? इति ।
अरुन्धती- अद्यैव वयमागताः ।
जनकः – आर्य गृष्टे ! अतिकौतुकं वर्तते । तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ । इमं च दारकं ब्रूहि ‘वत्स ! केऽप्येते प्रवयसस्त्वां दिदृक्षव’ इति ।
कञ्चुकी- यदाज्ञापयति देवः !
(इति निष्क्रान्तः)
कौसल्या- किं मन्यध्वे ! एवं भणित आगमिष्यति वा न वेति ?
जनकः- भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य ?
कौसल्या- (निरुप्य) (कथं सविनयनिशमितगृष्टिवचनो विसर्जिताशेषसदृशदारक इतोमुखमपसरित एव स वत्सः ।
जनकः- (चिरं निर्वर्ण्य ।) भो ! किम्प्येतत् ।
महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो विदिग्धैर्निर्ग्राह्यो न पुरविदग्धैरतिशयः ।
मनो मे संमोहस्थिरमपि हरत्येष बलवा- नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥२१॥
लवः-(प्रविश्य स्वगतम्) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथमभिवादयिष्ये ? (विचिन्त्य) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते । (सविनयमुपसृत्य) एष वो लवस्य शिरसा प्रणामपर्यायः । अरुन्धतीजनकौ-कल्याणिन् ! आयुष्मान्भूयाः ।
कौसल्या- जात ! चिरं जीव ।
अरुन्धती- एहि वत्स ! (लवमुत्सङ्गे गृहीत्वा आत्मगतम्) दिष्ट्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः ।
कौसल्या- जात ! इतोऽपि तावदेहि । (उत्सङ्गे गृहीत्वा) ‘अहो ! न केवलं दरविस्पष्टकुवलयमांसलोज्ज्वलेन देहबन्धनेन, कवलितारविन्दकेसरकषायकण्ठकलहंसघोषघर्घरानुनादिना स्वरेण च रामभद्रमनुसरति । ननु कठोरकमलगर्भपक्ष्मलशरीरस्पर्शोऽपि तादृश एव । जात ! पश्यामि ते मुखपुण्डरीकम् । (चिबुकमुन्नमय्य निरूप्य सबाष्पाकूतम्) राजर्षे ! किं न पश्यशि ? निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव ।
जनकः- पश्यामि सखि ! पश्यामि ।
कौसल्या – अहो, उन्मत्तीभूतमिव मे दयं कुतोमुखं विलपति ।
जनकः- (निरूप्य)
वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः ।
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि किमुत्पथैर्मम मनः पारिप्लवं धावति ॥२२॥
कौसल्या-जात ! अस्ति ते माता ? स्मरसि वा तातम् ?
लवः- नहि !
कौसल्या-ततः कस्य त्वम् ? लवः-भगवतः सुगृहीतनामधेयस्य वाल्मीकेः ।
कौसल्या-अयि जात ! कथयितव्यं कथय ।
लवः- एतावदेव जानामि !
(नेपथ्ये)
भो भोः सैनिका ! एष खलु कुमारश्चन्द्रकेतुराज्ञापयति-‘न केनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या’ इति । अरुन्धतीजनकौ-अये ! मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्र्रकेतुर्द्रष्टव्य इत्यसौ सुदिवसः । कौसल्या-वत्सलक्ष्मणस्य पुत्रक आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते ।
लवः- आर्य ! क एष चन्द्रकेतुर्नाम ?
जनकः- जानासि रामलक्ष्मणौ दाशरथी ?
लवः- एतावेव रामायणकथापुरुषौ ?
जनकः- अथ किम् ?
लवः- तत्कथं न जानामि ?
जनकः- तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः ।
लवः- ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षेः दौहित्रः ।
अरुन्धती- आविष्कृतं कथाप्रावीण्यं वत्सेन ।
जनकः- (विचिन्त्य) यदि त्वमीदृशः कथायामभिज्ञस्तद् ब्रूहि तावत्पश्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किंनामधेयान्यपत्यानि केषु दारेषु प्रसूतानि ?
लवः- नाऽयं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः ।
जनकः- किं न प्रणीतः कविना ?
लवः- प्रणीतः, न तु प्रकाशितः । तस्यैव कोऽप्येकदेशः प्रबन्धान्तरेण रसवानभिनेयार्थः कृतः । तं च स्वहस्तलिखितं मुनिर्भगवान् व्यसृजद्भगवतो भरतस्य तौर्यत्रिकसूत्रधारस्य ।
जनकः -किमर्थम् ?
लवः-स किल भगवान् भरतस्तमप्सरोभिः प्रयोजयिष्यतीति ।
जनकः- सर्वमिदमाकूततरमस्माकम् ।
लवः- महती पुनस्तस्मिन् भगवतो वाल्मीकेरास्था । ततः केषाञ्चिदन्तेवासिनां हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम् । तेषामनुयात्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मद्भ्राता प्रेषितः ।
कौसल्या- भ्रातापि तेऽस्ति ?
लवः- अस्त्यार्यः कुशो नाम ।
कौसल्या- ज्येष्ठ इति भणितं भवति ।
लवः- एवमेतत् । प्रसवानुक्रमेण स किल ज्यायान् ।
जनकः- किं यमावायुष्मन्तौ ?
लवः- अथ किम् ?
जनकः- वत्स ! कथय, कथाप्रपञ्चस्य कियान्पर्यन्तः ?
लवः- अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसम्भवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति ।
कौसल्या- हा वत्से मुग्धमुखि ! क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः ?
जनकः- हा वत्से !
नूनं त्वया परिभवं च वनं च घोरं तां च व्यथां प्रसवकालकृतामवाप्य ।
क्रव्याद्गणेषु परितः परिवारयत्सु संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥२३॥
लवः- आर्ये ! कावेतौ ?
अरुन्धती- इयं कौसल्या । अयं जनकः । (लवः सबहुमानखेदकौतुकं पश्यति)
जनकः- अहो निर्दयता दुरात्मनां पौराणाम् ! अहो रामभद्रस्य क्षिप्रकारिता ! एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा ।
कौसल्या-(सभयकम्पम्) भगवति परित्रायताम् । प्रसादय, कुपितं राजर्षिम् ।
लवः- एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् ।
अरुन्धती- राजन्नपत्यं रामस्ते पाल्याश्च कृपणाजनाः ॥ २४ ॥
जनकः- शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः ॥ २५ ॥ (प्रविश्य सम्भ्रान्ताः)
वटवः-कुमार ! कुमार !! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः ।
लवः-अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते, तद् ब्रूत कीदृशः ?
वटवः-अये ! श्रूयताम्-
पश्चात्पुच्छं वहति विपुलं, तच्च धूनोत्यजस्रं, दीर्घग्रीवः स भवति, खुरास्तस्य चत्वार एव ।
शष्पाण्यत्ति, प्रकिरति शकृत्पिण्डकानाम्रमात्रान् किं व्याख्यानैर्व्रजति स पुनर्दूरमेह्येहि यामः ॥ २६ ॥ (इत्यजिने हस्तयोश्चाकर्षयन्ति)
लवः- (सकौतुकोपरोधविनयम्) आर्याः ! पश्यत । एभिर्नीतोऽस्मि । (इति त्वरितं परिक्रामति ।) अरुन्धतीजनकौ-महत्कौतुकं वत्सस्य ।
कौसल्या- अरण्यगर्भरूपालापैर्यूयं तोषिता वयं च । भगवति ! जानामि तं पश्यन्ती वञ्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षोमहे तावत्पलायमानं दीर्घायुषम् ।
अरुन्धती-अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ?
कञ्चुकी- (प्रविश्य) भगवान् वाल्मीकिराह-‘ज्ञातव्यमेतदवसरे भगद्भि’रिति ।
जनकः-अतिगम्भीरमेतत्किमपि । भगवत्यरुन्धति ! सखि कौसल्ये ! आर्य गृष्टे ! स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः ।
(इति निष्क्रान्तो वृद्धवर्गः)
(प्रविश्य)
वटवः- पश्यतु कुमारस्तावदाश्चर्यम् ।
लवः-दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः ।
वटवः-कथं ज्ञायते ?
लवः-ननु मूर्खाः ! पठतिमेव हि युष्माभिरपि तत्काण्डम् । किं न पश्यथ ? प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः तत्प्रायमेवान्यदपि दृश्यते । यदि च विप्रत्ययस्तत्पृच्छथ ।
वटवः-भो भोः ! किंप्रयोजनोऽयमश्वः परिवृतः पर्यटति ?
लवः-(सस्पृहमात्मगतम् ।) अश्वमेध इति नाम विश्वविजयिनां क्षत्रियाणामूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः । (नेपथ्ये)
योऽयमश्वः पताकेयमथवा वीरघोषणा । सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥ २७ ॥
लवः-(सगर्वम्) अहो संदीपनान्यक्षराणि ।
वटवः- किमुच्यते ? प्राज्ञः खलु कुमारः ।
लवः- भो भोः तत्किमक्षत्रिया पृथिवी ? यदेवमुद्घोष्यते ।
(नेपथ्ये) रे रे ! महाराजं प्रति कुतः क्षत्रियः ?
लवः- धिग्जाल्मान् !
यदि नो सन्ति ? सन्त्येव, केयमद्य विभीषिका ? किमुक्तैरेभिरधुना तां पताकां हारमि वः ॥ २८ ॥
हे वटवः ! परिवृत्य लोष्टैरभिघ्नन्त उपनयनतैनमश्वम् । एष रोहितानां मध्येचरो भवतु ।
(प्रविश्य सक्रोधः)
पुरुषः-धिक्चपल ! किमुक्तवानसि ? तीक्ष्णतरा ह्यायुधश्रेणयः शिशोरपि दृप्तां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः, सोऽप्यपूर्वारण्यदर्शनाक्षिप्तदयो न यावदायाति, तावत्त्वरितमनेन तरुगहनेनापसर्पत ।
वटवः- कुमार ! कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः । दूरे चाश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे !
लवः-किं नाम विस्फुरन्ति शस्त्राणि ? (इति धनुरारोपयन्)
ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र- मुद्भूरिघोरघनघर्घरघोषमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र- जृम्भाविडम्बि विकटोदरमस्तु चापम् ॥ २९ ॥

(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे ।)
इति महाकविभवभूतिविरचिते उत्तररामचरिते कौसल्याजनकयोगो नाम चतुर्थोऽङ्कः ॥ ४ ॥

पञ्चमोऽङ्कः

(नेपथ्ये)
भोः भोः सैनिकाः ! जातमवलम्बनमस्माकम् ।
नन्वेष त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्रजवितवाजिना रथेन ।
उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥
(तत प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः ।)
चन्द्रकेतुः- आर्य सुमन्त्र ! पश्य पश्य !
किरति कलितकिञ्चित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जत्कोटिना कार्मुकेण ।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना- मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥ २ ॥
(साश्चर्यम्)
मुनिजनशिशुरेकः सर्वतः संप्रकोपा- न्नव इव रघुवंशस्याप्रसिद्धिप्ररोहः ।
दलितकरिकपोलग्रन्थिटङ्कारघोर- ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥
सुमन्त्रः-आयुष्मन् !
अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥
चन्द्रकेतुः- मम त्वेकमुद्दिश्य भूयसामारम्भ इति दयमपत्रपते । अयं हि शिशुरेकको मदभरेण भूरिस्फुर- त्करालकरकन्दलीजटिलशस्त्रजालैर्वलैः ।
क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै- रमन्दमददुर्दिनाद्विरदडामरैरावृतः ॥ ५ ॥
सुमन्त्रः-वत्स ! एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः ?
चन्द्रकेतुः-आर्य ! त्वर्यतां त्वर्यताम् । अनेन हि महानाश्रितजनप्रमारोऽस्माकमारब्धः । तथा हि- आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वर- ज्यानिर्घोषममन्दुन्दुभिरवैराध्मातमुज्जृम्भयन् । वेल्लद्भैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं तृष्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ॥ ६ ॥
सुमन्त्रः-(स्वगतम्) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसंप्रहारमनुजानीमः । (विचिन्त्य) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे का गतिः ?
चन्द्रकेतुः-(सविस्मयलज्जासम्भ्रमम्) हन्त धिक् ! अपावृत्तान्येव सर्वतः सैन्यानि मम ।
सुमन्त्रः-(रथवेगं निरूप्य) आयुष्मन् ! एष ते वाग्विषयीभूतः स वीरः ।
चन्द्रकेतुः-(विस्मृतिमभिनीय ।) आर्य ! किं नामधेयमाख्यातमह्वायकैः ?
सुमन्त्रः-‘लव’ इति ।
चन्द्रकेतुः- भो भो लव ! महाबाहो ! किमेभिस्तव सैनिकैः ?।
एषोऽहमेहि मामेव, तेजस्तेजसि शाम्यत ॥ ७ ॥
सुमन्त्रः- कुमार ! पश्य पश्य ।
विनिवर्तित एष वीरपोतः पृतनानिर्मथनात्त्वयोपहूतः ।
स्तनयित्नुरवादिभावलीनामवमर्दादिव दृप्तसिंहशावः ॥ ८ ॥
(ततः प्रविशति धीरोद्धतपराक्रमो लवः)
लवः-साधु राजपुत्र ! साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत एवस्मि ।
(नेपथ्ये महान् कलकलः)
लवः-(सावष्टम्भं परावृत्य) कथमिदानीं भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः धिग्जाल्मान् !
अयं शैलाघातक्षुभितवडवावक्त्रहुतभु- क्प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे ।
समन्तादुत्सर्पद्घनतुमुलहेलाकलकलः पयोराशेरोघः प्रलयपवनास्फालित इव ॥ ९ ॥
(सवेगं परिक्रामति )
चन्द्रकेतुः- भो भो: कुमारः !
अत्यद्भुतादपि गुणातिशयात्प्रियो मे तस्मात्सखा त्वमसि, यन्मम तत्तवैव ।
तत्किं निजे परिजने कदनं करोषि ? नन्वेषु दर्पनिकषस्तव चन्द्रकेतुः ॥ १० ॥
लवः-(सहर्षसंभ्रमं परावृत्य) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिः ? एनमेव तावत्संभावयामि ।
(पुनर्नेपथ्ये कलकलः)
लवः-(सक्रोधनिर्वेदम्) आः ! कदर्थीकृतोऽहमेभिर्वीरसंवादविघ्नकारिभिः पापैः ।
(इति तदभिमुखं परिक्रामति)
चन्द्रकेतुः-आर्य ! दृश्यतां द्रष्टव्यमेतत् । दर्पेण कौतुकवता मयि बद्धलक्ष्यः पश्चाद्बलैरनुसृतोऽयमुदीर्णधन्वा ।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते मेघस्य माघवतचापधरस्य लक्ष्मीम् ॥ ११ ॥
सुमन्त्रः-कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो विस्मयेन ।
चन्द्रकेतुः- भो भो राजान् !
संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता- वत्रैकस्मिन् कवचनिचितैर्नद्धचर्मोत्तरीये ।
कालज्येष्ठैरपरवयसि ख्यातिकामैर्भवद्भि- र्योऽयं बद्धो युधि समभरस्तेन धिग्वो धिगस्मान् ॥ १२ ॥
लवः-(सोन्माथम्) आः ! कथमनुकम्पते नाम ? (ससम्भ्रमं विचिन्त्य) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि । (इति ध्यानं नाटयति)
सुमन्त्रः-तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति ?
लवः-पश्याम्येनमधुना प्रगल्भम् ।
सुमन्त्रः-(ससम्भ्रमम्) वत्स । मन्ये कुमारकेणानेन जृम्भकास्त्रमामन्त्रितमिति ।
चन्द्रकेतुः-अत्र कः सन्देहः ?
व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति ।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ॥ १३ ॥
आश्चर्यमाश्चर्यम् !
पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः ।
कल्पाक्षेपकठोरभैरवमरुद्ध्यस्तैरभिस्तीर्यते लीनाम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥
सुमन्त्रः- कुतः पुनरस्य जृम्भकाणामागमः स्यात् ? चन्द्रकेतुः- भगवतः प्राचेतसादिति मन्यामहे ।
सुमन्त्रः- वत्स ! नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः-
कृशाश्वतनया ह्येते कृशाश्वात्कौशिकं गताः । अथ तत्संप्रदायेन रामभद्रे स्थिता इति ॥ १५ ॥
चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः पश्यन्ति ।
सुमन्त्रः- वत्स ! सावधानो भव । परागतस्ते प्रतिवीरः ।
कुमारौ-(अन्योन्यं प्रति) अहो ! प्रियदर्शनः कुमारः । (सस्नेहानुरागं निर्वर्ण्य)
यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः ।
निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो ममैतस्मिन्दृष्टे दयमवधानं रचयति ॥ १६ ॥
सुमन्त्रः- भूयसां जीविनामेव धर्म एषः, तत्र स्वरसमयी कस्यचित्क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षूराग इति । तदप्रतिसङ्ख्येयनिबन्धनं प्रमाणमामनन्ति ।
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥
कुमारौ-(अन्योन्यमुद्दिश्य)
एतस्मिन्मसृणितराजपकान्ते मोक्तव्याः कथमिव सायकाः शरीरे ?
यत्प्राप्तौ मम परिरम्भणाभिलाषादुन्मीलत्पुलककदम्बमङ्गमासते ॥ १८ ॥
किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना ?
शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः ।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥
सुमन्त्रः- (लवं निर्वर्ण्य सास्रमात्मगतम्) दय !
किमन्था परिप्लवसे ? मनोरथस्य यद्बीजं तद्दैवेनादितो तम् । लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ? ॥ २० ॥
चन्द्रकेतुः- अवतराम्यार्य सुमन्त्र ! स्यन्दनात् ।
सुमन्त्रः- कस्य हेतोः ?
चन्द्रकेतुः-एकस्तावदयं वीरपुरुषः पूजितो भवति, अपि च खल्वार्य ! क्षत्रधर्मः परिपालितो भवति । ‘न रथिनः पादचारमभियुञ्जन्ती’ति शास्त्रविदः परिभाषन्ते ।
सुमन्त्रः-(स्वगतम्) आः ! कष्टां दशामनुप्रपन्नोऽस्मि ।
कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु ।
कथं वाऽभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥
चन्द्रकेतुः- यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृत्छन्ति, तत्किमार्यो विमृशति ?
सुमन्त्रः-आयुष्मन् ! एवं यथाधर्ममभिमन्यसे ।
एष सांग्रामिको न्याय एष धर्मः सनातनः । इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥
चन्द्रकेतुः-अप्रतिरूपं वचनमार्यस्य ।
इतिहासं पुराणं च धर्मप्रवचनानि च ।
भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥
सुमन्त्रः-(सस्नेहास्रं परिष्वज्य)
जातस्य ते पितुरपीन्द्रजितो निहन्तुर्वत्सस्य वत्स ! कति नाम दिनान्यमूनि ?
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्यागतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥
चन्द्रकेतुः-(सकष्टम्)
‘अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः’ ?
इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥ २५ ॥
सुमन्त्रः-दयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।
लवः- हन्त ! मिश्रीकृतक्रमो रसो वर्तते ।
यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम, कलहकामः पुनरयम् ।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु- र्धृतप्रेमा बाहुर्विकचविकरालव्रणमुखः ॥ २६ ॥
चन्द्रकेतुः-(अवतरणं निरूपयन्) आर्य ! अयमसावैक्ष्वाकश्चन्द्रकेतुरभिवादयते ।
सुमन्त्रः-अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपि च
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति- स्त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि ।
ऐन्द्रावैष्णमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥ २७ ॥
लवः-अतीव नाम शोभते रथस्थ एव । कृतं कृतमत्यादरेण ।
चन्द्रकेतुः- तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु ।
लवः-आर्य ! प्रत्यारोपय रथोपरि राजपुत्रम् ।
सुमन्त्रः-त्वमप्यनुरुध्यस्व वत्सस्य चन्द्रकेतोर्वचनम् ।
लवः-को विचारः स्वेषूपकरणेषु ? किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः ।
सुमन्त्रः- जानासि वत्स ! दर्पसौजन्ययोर्यदाचरितम् । यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन दयमभिष्यन्दयेत् ।
लवः-अन्यच्च चन्द्रकेतो ! सुजनः स राजर्षिः श्रूयते । (सलज्जमिव)
यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ क इव न गुणैस्तं राजानं जनो बहु मन्यते ।
तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाऽकरोत् ॥ २८ ॥
चन्द्रकेतुः-किन्नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ? लवः-अस्त्विहामर्षो मा भूद्वा । अन्यदेतत्पृच्छामि । दान्तं हि राजानं राघवं शृणुमः ।
स किल नात्मना दृप्यति, नाप्यस्य प्रजा वा दृप्ता जायन्ते ।
तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ?
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्वेवैराणां सा हि लोकस्य निष्कृतिः ॥ २९ ॥
इति ह स्म तां निन्दन्ति इतरामभिष्टुवन्ति ।
कामं दुग्धे, विप्रकर्षत्यलक्ष्मीं, कीर्तिं सूते , दुदो निष्प्रलाति ।
शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥
सुमन्त्रः-परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी । वदत्ययमभ्युपपन्नामर्षेण संस्कारेण ।
लवः-यत्पुनश्चन्द्रकेतो ! वदसि ‘किन्नु भवतस्तातप्रतापोत्कषेऽप्यमर्ष’ इति, तत्पृच्छामि ‘किं व्यवस्थितविषयः क्षात्रधर्म’ ? इति ।
सुमन्त्रः-नैव खलु जानासि देवमैक्ष्वाकम् ! तद्विरमातिप्रसङ्गात् । सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥ ३१ ॥
लवः-(सहासम्) आर्य ! जामदग्नस्य दमनः स राजेति कोऽयमुच्चैर्वादः ?
सिद्धं ह्येतद्वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत्क्षत्रियाणाम् ।
शस्त्रग्राही ब्राह्मणो जामदग्न्यस्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ? ॥ ३२ ॥
चन्द्रकेतुः-(सोन्माथमिव) आर्य सुमन्त्र ! कृतमुत्तरोत्तरेण ।
कोऽप्येष संप्रति नवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तात चरितान्यपि यो न वेद ॥ ३३ ॥
लवः- को हि रघुपतेश्चरितं महिमानं च न जानाति ? यदि नाम किंचिदस्ति वक्तव्यम् । अथवा शान्तम् ।
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।
यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने । यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥
चन्द्रकेतुः-आः तातापवादिन् ! भिन्नमर्याद ! अति हि नाम प्रगल्भसे ।
लवः-अये ! मय्येव भ्रुकुटीमुखः संवृत्तः । सुमन्त्रः-स्फुरितमनयोः क्रोधेन । तथा हि-
क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भिन्नं भ्रुवो- श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥ ३५ ॥
लवः-कुमार ! कुमार ! एह्येहि । विमर्दक्षमां भूमिमवतरावः ।
(इति निष्क्रान्ताः सर्वे)
इति महाकविभवभूतिविरचिते उत्तररामचरिते कुमारविक्रमो नाम पञ्चमोऽङ्कः ॥ ५ ॥

षष्ठोऽङ्कः

(ततः प्रविशति विमानेनोज्जवलं विद्याधरमिथुनम्)
विद्याधरः-अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तविलसितानि । तथा हि प्रिये ! पश्य ।
झणज्झणितकङ्कणक्वणितकिङ्किणीकं धनु- र्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।
वितत्य किरतोः शरानविरतं पुनः शूरयो- र्विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥
जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि । स्तनयित्नोरिवामन्ददुन्दुभेर्न्दुन्दुमायितम् ॥ २ ॥
तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः ।
विद्याधरी-तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम् । आधारः-तत्किं नु खल्वद्य ? त्वष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्जवलः । पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥
(विचन्त्य) आं ज्ञातम् । जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरुपमाग्नेयमस्त्रम्, यस्यायमग्निवच्छरसम्पातः । संप्रति हि ।
अवदग्धबर्बरितकेतुचामरैरपयातमेव हि विमानमण्डलैः ।
दहति ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥ ४ ॥
आश्चर्यम् ! प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलिङ्गगुरुरुत्तालतुमुललेलिहानोज्ज्वलज्वालासंभारभैरवो भगवानुषर्बुधः । प्रचण्डश्चास्य सर्वतः संपातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि ।(तथा करोति)
विधाधरी-दिष्ट्या एतेन विमलमुक्ताशैलशीतलस्निग्धमसृणमांसलेननाथदेहस्पर्शेनानन्दसंदलितघूर्णमानवेदनाया अर्धोदित एवान्तरितो मे सन्तापः ।
विद्याधरः- अयि ! किमत्र मया कृतम् ? अथवा । न किञ्चिदपि कुर्वाणाः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ ५ ॥
विद्याधरी-कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलैर्मत्तमयूरकण्ठश्यामलैरवस्तीर्यते नभोऽङ्गणं जलधरैः ?
विद्याधरः-कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथमविरलप्रवृतवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम् ।
विधाधरी- प्रियं मे, प्रियं मे ।
विद्याधरः- हन्त भोः ! सर्वमतिमात्रं दोषाय । यत्प्रलयवातोत्क्षोभगम्भीरगुलुगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवारविश्वग्रसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरद्धसर्वद्वारं नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो ! साधु ! स्थाने वायव्यमस्त्रमीरितम् । यतः । विद्याकल्पेन मरुता मेघानां भूयसामपि । ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृतः ॥ ६ ॥
विद्याधारी-नाथ ! क इदानीमेषे ससंभ्रममोत्क्षिप्तकरभ्रमदुत्तरीयाञ्चलो इतर एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोरन्तरे विमानवरमवतारयति?
विद्याधरः- (दृष्ट्वा) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
शान्तं महापुरुषसंगदितं निशम्य तद्गौरवात्समुपसंतसंप्रहारः ।
शान्तो लवः,प्रणत एव च चन्द्रकेतुः, कल्याणमस्तु सुतसंगमनेन राज्ञः ॥ ७ ॥
तदितस्तावदेहि ।
(इति निष्क्रान्तौ)
विष्कम्भकः ।

(ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च)
रामः-(पुष्पकादवतरन्)
दिनकरकुलचन्द्र ! चन्द्रकेतो ! सरभसमेहि दृढं परिष्वजस्व ।
तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः ॥८॥
(उत्थाप्य सस्नेहास्रं परिष्वज्य) अप्यनामयं नूतनदिव्यास्त्रायोधनस्य तव ?
चन्द्रकेतुः- अभिवादये । कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः ।
रामः- (लवं निरूप्य) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं वयस्यो वत्सस्य ।
त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै ।
सामर्थ्यानामिव समुदयः, सञ्चयो वा गुणाना- माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥९॥
लवः-(स्वगतम्) अहो ! पुण्यानुभावदर्शनोऽयं महापुरुषः ।
आश्वास इव भक्तीनामेकमायतनं महत् ।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥१०॥
आश्चर्यम् !
विरोधो विश्रान्तः, प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं क्वापि व्रजति, विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमिति परवानस्मि, यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥११॥
रामः-तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम् ? अथवा ‘स्नेहश्च निमित्तसव्यपेक्ष’ इति विप्रतिषिद्धमेतत् ।
व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥१२॥
लवः-चन्द्रकेतो ! क एते ?
चन्द्रकेतुः – प्रियवयस्य ! ननु तातपादाः ।
लवः- ममापि धर्मतस्तथैव, यतः प्रियवयस्येति भवतोक्तम् । किंतु चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथापुरुषाः । तद्विशेषं ब्रूहि ।
चन्द्रकेतुः – ज्येष्ठतात इत्यवेहि ।
लवः -(सोल्लासम्) कथं रघुनाथ एव ? दिष्ट्या सुप्रभातमद्य, यदयं देवो दृष्टः । (सविनयं निर्वर्ण्य) तात ! प्राचेतसान्तेवासी लवोऽभिवादयते ।
रामः-आयुष्मन् ! एह्येहि । (इति सस्नेहमालिङ्ग्य) अयि वत्स ! कृतमत्यन्तविनयेन । अङ्गेन मामपरिश्लथं परिरम्भस्व ।
परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः । नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥१३॥
लवः-(स्वगतम्) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मया पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः । (प्रकाशम्) मृष्यन्तांत्विदानीं लवस्य बालिशतां तातपादाः ।
रामः – किमपराद्धं वत्सेन ?
चन्द्रकेतुः – अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन ।
रामः- नन्वयमलङ्कारः क्षत्रियस्य ।
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते । स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ? ॥१४॥
चन्द्रकेतुः- अमर्षोप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः ! प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि ।
रामः-(सविस्मयखेदं निर्वर्ण्य स्वगतम्) अहो ! वत्सस्य ईदृशः प्रभावः ? (प्रकाशम्) वत्स ! संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो ! निर्व्यापारतया विलक्षाणि सान्त्वय बलानि ।
(लवः प्रणिधानं नाटयति) चन्द्रकेतुः- यथा निर्दिष्टम् (इति निष्क्रान्तः)
लवः-तात ! प्रशान्तमस्त्रम् !
रामः-सरहस्यप्रयोगसंहारजृम्भकास्त्रणि दिष्ट्या वत्सस्यापिसंपद्यन्ते ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रंशरदस्तपांसि ।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥
अथैतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्सरपरिचर्यानिरतायान्तेवासिने कौशिकाय प्रोवाच । स भगवान् मह्यमिति गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदायः ? इति पृच्छामि ।
लवः- स्वतःप्रकाशान्यावयोरस्त्राणि ।
रामः- (विचिन्त्य) किं न संभाव्यते ? प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ?
लवः- भ्रातरावावां यमौ !
रामः- स तर्हि द्वितीयः क्व ? (नेपथ्ये) दण्डायन !
आयुष्मतः किल लवस्य नरेन्द्रसैन्यै- रायोधनं ननु किमात्थ ? सखे ! तथेति ।
अद्यास्तमेतु भुवनेषु च राजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥१६॥
रामः- अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम् । नवनीलनीरधरधीरगर्जितक्षणबद्धकुड्मलकदम्बडम्बरम् ॥१७॥
लवः- अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्प्रतिनिवृत्तः ।
रामः- (सकौतुकम्) तर्हि वत्स ! इत एवैतमाह्वयायुष्मन्तम् ।
लवः-यदाज्ञापयति । (इति निष्क्रान्तः)
(ततः प्रविशति कुशः)
कुशः- (सक्रोधं कृतधैर्यं धनुरास्फाल्य)
दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादा मनो- र्दृप्तानां दमनाय दीपितनिजक्षत्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥१८॥
(विकटं परिक्रामति)
रामः-कोऽप्यस्मिन् क्षत्रियपोतके पौरुषातिरेकः । तथाहि-
दृष्टिस्तृणीकृतजगत्त्रयसत्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ १९ ॥
लवः-(उपसृत्य) जयत्वार्यः ।
कुशः – नन्वायुष्मन् ! किमियं वार्ता युद्धं युद्धमिति?
लवः- यत्किंचिदेतत् । आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन वर्तताम् ।
कुशः- किमर्थम् ?
लवः- यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता ।
कुशः- आशंसनीयपुणयदर्शनः स महात्मा । किन्तु स कथमस्माभिरुपगन्तव्यः? इति संप्रधारयामि ।
लवः- यथैव गुरुस्तथोपसदनेन ।
कुशः- कथं हि नामैतत् ?
लवः- अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः ।
कुशः- संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः । (उभौ परिक्रामतः)
लवः- पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंभाव्यमानविविधलोकोत्तरसुचरितातिशयम् ।
कुशः-(निर्वर्ण्य) अहो प्रासादिकं रूपमनुभावश्च पावनः । स्थाने रामायणकविर्देवीं वाचमवीवृधत् ॥२०॥
(उपसृत्य) तात ! प्राचेतसान्तेवासी कुशोऽभिवादयते ।
रामः- एह्येह्यायुष्मन् !
अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।
परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः ॥ २१ ॥
(परिष्वज्य स्वगतम्) तत्किमित्ययं च दारकः
अङ्गादङ्गात्सृत इव निजः स्नेहजो देहसारः प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः ।
सान्द्रानन्दक्षुभितदयप्रस्रवेणावसिक्तो गाढाऽऽश्लेषः स हि मम हिमच्योतमाशंसतीव ॥ २२ ॥
लवः-ललाटन्तपस्तपति धर्मांशुः । तदत्र सालवृक्षच्छायायां मुहूर्त्तमासनपरिग्रहं करोतु तातः ।
रामः- यदभिरुचितं वत्सस्य ।
(सर्वे परिक्रम्य यथोचितमुपविशन्ति ।)
रामः-(स्वगतम्)
अहो ! प्रश्रययोगेऽपि गतिस्थित्यासनादयः ।
साम्रज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २३ ॥
वपुरवियुतसिद्धा एव लक्ष्मीविलासाः प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति ।
अमलिनमिव चन्द्रं रश्मयः स्वे यथा वा विकसितमरविन्दं विन्दवो माकरन्दाः ॥ २४ ॥
भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि ।
कठोरपारावतकण्ठमेचकं वपुर्वृषस्कन्धसुबन्धुरांसयोः ।
प्रसन्नसिंहस्तिमितं च वीक्षितं ध्वनिश्च माङ्गल्यमृदङ्गमांसलः ॥ २५ ॥
(निपुणं निरुपयन्) अये ! न केवलमस्मद्वंशसंवादिन्याकृतिः-
अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णोरभिनवशतपत्त्रश्रीमदास्यं प्रियायाः ॥ २६ ॥
शुक्लाच्छदन्तच्छविसुन्दरीयं सैवोष्ठमुद्रा स च कर्णपाशः ।
नेत्रे पुनर्यद्यपि रक्तनीले तथापि सौभाग्यगुणः स एव ॥ २७ ॥
(विचिन्त्य) तदेतत्प्राचेतसाध्युषितमरण्यं, यत्र किल देवी परित्यक्ता इयं चानयोराकृतिर्वयोऽनुभावश्च । यत्स्वतः प्रकाशान्यस्त्राणीति च । तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासङ्गिकं शस्त्राभ्यनुज्ञानं प्रबुद्धं स्यात् । न ह्यसाम्प्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुम । अयं विस्मयसंप्लवमानसुखदुःखातिशयो दयस्य मे विप्रलम्भः । यमाविति च भूयिष्ठमात्मसंवादः । जीवद्वयायत्पचिह्नो हि देव्या गर्भिणीभाव आसीत् (सास्रम्) परां कोटिं स्नेहे परिचयविकासादधिगते रहो विस्रब्धाया अपि सहजलज्जाजडदृशः ।
मयैवादौ ज्ञातः करतलपरामर्शकलया द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥
(रुदित्वा) तत्किमेतौ पृच्छामि केनचिदुपायेन ?
लवः- तात ! किमेतत् ?
बाष्पर्षेण नीतं वो जगन्मङ्गलमाननम् ।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥
कुशः- अयि वत्स !
विना सीतादेव्या किमिव हि न दुःखं रघुपतेः ?प्रियानाशे कृत्यस्नं किल जगदरण्यं हि भवति ।
स च स्नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥
रामः-(स्वगतम्) अये, तटस्थ आलापः । कृतं प्रश्नेन । मुग्धदय ! कोऽयमाकस्मिकस्ते संप्लवाधिकारः ? एवं निर्भिन्नदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि । (प्रकाशम्) वत्सौ रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य तत्कौतूहलेन यत्किंचिच्छ्रोतुमिच्छामि ।
कुशः-कृत्स्न एव सन्दर्भोऽस्माभिरावृत्तः, स्मृतिप्रत्युपस्थितौ तावदिमौ बालचरितस्यासाते द्वौ श्लोकौ ।
रामः-उदीरयतं वत्सौ ।
कुशः- प्रिया तु सीता रामस्य दाराः पितृकृता इति । गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥ ३१ ॥
तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।
दयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥
रामः-कष्टमतिदारुणो दयमर्मोद्घातः । हा देवि ! एवं किलैतदासीत् ! अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः । क्व तावानानन्दो निरतिशयविस्रम्भबहुलः ?
क्व वाऽन्योन्यप्रेम ? क्व च नु गहनाः कौतुकरसाः ? ।
सुखे वा दुःखे वा क्व नु खलु तदैक्यं दययो- स्तथाप्येष प्राणः स्फुरति, न तु पापो विरमति ॥ ३३ ॥
भोः कष्टम् ।
प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः ।
य एव दुःसहः कालस्तमेव स्मारिता वयम् ॥ ३४ ॥
तदा किंचित्किंचित्कृतपदमहोभिः कतिपयै- स्तदेतद्विस्तारि स्तनमुकुलमासीन्मृगदृशः ।
वयःस्नेहाकूतव्यतिकरघनो यत्र मदन
प्रगल्भव्यापारः स्फुरति दि मुग्धश्च वपुषि ॥ ३५ ॥
लवः- अयं तु चित्रकूटवर्त्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः-
त्वदर्थमिव विन्यस्तः शिलापऽयमायतः । यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६ ॥
रामः-(सलज्जास्मितस्नेहकरुणम्) अति हि नाम मुग्धः शिशुजनः विशेषतस्त्वरण्यचरः । हा देवि ! स्मरसि वा तस्य तत्समयविस्रम्भातिप्रङ्गस्य ?
श्रमाम्बुशिशिरीभवत् प्रसृतमन्दमन्दाकिनी- मरुत्तरलितालकाकुलललाटचन्द्रद्युति ।
अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७ ॥
(स्तम्भित इव स्थित्वा, सकरुणम्) अहो नु खलु भोः !
चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः प्रवासे चाश्वासं न खलु न करोति प्रियजनः ।
जगज्जीर्णारण्यं भवति च कलत्रे ह्युपरते कुकूलानां राशौ तदनु दयं पच्यत इव ॥ ३८ ॥
(नेपथ्ये)
वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः ।
जराग्रस्तैर्गात्रैरथ खलु सुदूराश्रमतया चिरेणागच्छन्ति त्वरितमनसो विश्लथजटाः ॥ ३९ ॥
रामः- कथंभगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कथं खलु ते द्रष्टव्याः ? (सकरुणं विलोक्य) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः । सम्बन्धस्पृहणीयताप्रमुदितैर्ज्येष्ठैर्वसिष्ठादिभि-
र्दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः सङ्गमम् ।
पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे दीर्ये किं न सहस्रधाऽहमथवा रामेण किं दुष्करम् ॥ ४० ॥
(नेपथ्ये) भो भोः ! कष्टम् ।
अनुभावमात्रसमवस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम् ।
प्रथमप्रबुद्धजनकप्रबोधिता विधुराः प्रमोहमुपयान्ति मातराः ॥ ४१ ॥
रामः- जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥ ४२ ॥
यावत्संभावयामि । (इत्युत्तिष्ठति)
कुशलवौ-इति इतस्तातः ।
(सकरुणं परिक्रम्य निष्क्रान्ताः सर्वे)
इति महाकविभूतिविरचिते उत्तररामचरिते कुमारप्रत्यभिज्ञानं नाम षष्ठोऽङ्कः ॥ ६ ॥

सप्तमोऽङ्कः

(ततः प्रविशति लक्ष्णमः)
लक्ष्मणः- भोः, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजनपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यङ्निकायः सचराचरो भूतग्रामः स्वप्रभावेण संनिधापितः । आदिष्टश्चाहमार्येण-‘वत्सलक्ष्मण ! भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः । गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसंनिवेशः’ इति । कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया । अयं तु-
राज्याश्रमनिवासोऽपि प्राप्तकष्टमुनिव्रतः । वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥
(ततः प्रविशति रामः)
रामः- वत्स लक्ष्मण ! अपि स्थिता रङ्गप्राश्निकाः ?
लक्ष्मणः- अथ किम् ।
रामः- इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमां प्रतिपत्तिं लम्भयितव्यौ ।
लक्ष्मणः-प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्णं राजासनम् । तदुपविशत्वार्यः ।
रामः-(उपविश्य) प्रस्तूयतां भोः !
सूत्रधारः-(प्रविश्य) भगवान्भूतार्थवादी प्राचेतसः स्थावरजङ्गमं जगदाज्ञापयति-‘यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं वचनामृतं करुणाद्भुतरसं च’ किंचिदुपनिबद्धम् । तत्र काव्यगौरवादवधातव्यम्’ इति । रामः- एतदुक्तं भवति । साक्षात्कृतधर्माणो महर्षयः । तेषामृतम्भराणि भगवतां परोरजांसि प्रज्ञानानि न क्वचिद्व्याहन्यन्त इति न हि शङ्कनीयानि ।
(नेपथ्ये) हा आर्यपुत्र ! कुमारलक्ष्मण ! एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा अभिलषन्ति । हा ! इदानीं मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि ।
लक्ष्मणः- कष्टं बतान्यदेव किमपि ।
सूत्रधारः- विश्वम्भराऽऽत्मजा देवी राज्ञा त्यक्ता महावने । प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥
(इति निष्क्रान्तः) प्रस्तावना ।
रामः-(सावेगम्) देवि ! देवि ! लक्ष्मणमवेक्षस्व ।
लक्ष्मणः- आर्य ! नाटकमिदम् ।
रामः-हा देवि ! दण्डकारण्यवासप्रियसखि ! एष ते रामाद्विपाकः । लक्ष्मणः- आर्य ! आश्वस्य दृश्यताम् । प्रबन्धस्त्वार्षः ।
रामः- एष सज्जोऽस्मि वज्रमयः ।
(ततः प्रविशति उत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामालम्बिता प्रमुग्धा सीता)
रामः- वत्स ! असंविज्ञातपदनिबन्धने तमसीवाहमद्य प्रविशामि, धारय माम् ।
देव्यौ- समाश्वसिहि कल्याणि ! दिष्ट्या वैदेहि ! वर्धसे । अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥
सीता- (आश्वस्य) दिष्ट्या दारकौ प्रसूतास्मि । हा आर्यपुत्र ! लक्ष्मणः-(पादयोर्निपत्य) आर्य ! दिष्ट्या वर्धामहे । कल्याणप्ररोहो रघुवंशः । (विलाक्य) हा ! कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः । (वीजयति) देव्यौ-वत्से ! समाश्वसिहि ।
सीता-(समाश्वस्य) भगवत्यौ ! के युवाम् ? मुञ्चतम् ।
पृथिवी-इयं ते श्वशुरकुलदेवता भागीरथी ।
सीता- नमस्ते भगवति !
भागीरथी-चारित्रोचितां कल्याणसंपदमधिगच्छ ।
लक्ष्मणः-अनुगृहीताः स्मः ।
भागरथी-इयं ते जननी विश्वम्भरा ।
सीता-हा अम्ब ! ईदृश्यहं त्वया दृष्टा ।
पृथिवी-एहि पुत्रि वत्से सीते !
(उभौ आलिङ्ग्य मूर्च्छतः) लक्ष्मणः-(सहर्षम्) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना ।
रामः-दिष्ट्या खल्वेतत् । करुणान्तरं तु वर्तते ।
भागीरथी-अत्रभवती विश्वम्भरा व्यथत इति जितमपत्यस्नेहेन । सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसारतन्तुः । सखि भूतधात्रि ! वत्से वैदेहि ! समाश्वसिहि ।
पृथिवी-(आश्वस्य) देवि ! सीतां प्रसूय कथमाश्वसिमि ?
सोढश्चिरं राक्षसमध्यवासस्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः ।
गङ्गा- को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य पिधातुमीष्टे ? ॥ ४ ॥
पृथिवी-भगवति भागीरथि ! युक्तमेतत्सर्वं वो रामभद्रस्य ? न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । नाहं, न जनको नाग्निर्न तु वृत्तिर्न संततिः ॥ ५ ॥
सीता- हा आर्यपुत्र ! स्मरसि ?
पृथिवी-आः ! कस्तवार्यपुत्रः ?
सीता-(सलज्जास्रम्) यथाम्बा भणति ।
रामः-अम्ब पृथिवि ! ईदृशोऽस्मि ।
गङ्गा-भगवति वसुन्धरे ! शरीरमसि संसारस्य । तत्किमसंविदानेव जामात्रे कुप्यसि ?
घोरं लोके विततमयशो या च वह्नौ विशुद्धि- र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु ? ।
इक्ष्वाकूणां कुलधनमिदं यत्समारधनीयः कृत्स्नो लोकस्तदिह विषमे किं स वत्सः करोतु ? ॥ ६ ॥
लक्ष्मणः- अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु । गङ्गा-तथाप्येष तेऽञ्जलिः ।
रामः- अम्ब ! अनुवृत्तस्त्वया । भगीरथकुले प्रसादः ।
पृथिवी- नित्यं प्रसन्नास्मि तव । किं त्वसावापातदुःसहस्नेहसंवेगः ।
न पुनर्न जानामि सीतास्नेहं रामभद्रस्य । दह्यमानेन मनसा दैवाद्वत्सां विहाय सः ।
लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥
रामः- सकरुणा हि गुरवो गर्भरूपेषु ।
सीता-(रुदती कृताञ्जलिः) नयतु मामात्मनोऽङ्गेषु विलयमम्बा ।
गङ्गा-किं ब्रीवीषि ? अविलीना वत्से ! संवत्सरसहस्राणि भूयाः ।
पृथिवी-वत्से ! अवेक्षणीयौ ते पुत्रौ ।
सीता- किमेताभ्यामनाथाभ्याम् ?
रामः-दय ! वज्रमसि ।
गङ्गा- कथं वत्सौ सनाथावप्यनाथौ ?
सीता- कीदृशं मे अभाग्यायाः सनाथत्वम् ?
देव्यौ- जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे ? । आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते ॥ ८ ॥
लक्ष्मणः-आर्य ! ंश्रूयताम् । रामः- लोकः शृणोतु ।
(नेपथ्ये कलकलः)
रामः-अद्भुततरं किमपि ।
सीता-किमित्याबद्धकलकलं प्रज्वलितमन्तरिक्षम् ?
देव्यौ-ज्ञातम् ।
कृशाश्वः कौशिको राम इति येषां गुरुक्रमः ।
प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥ ९ ॥
(नेपथ्ये)
देवि ! सीते ! नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते । आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥
सीता- दिष्ट्या अस्त्रदेवता एताः । आर्यपुत्र ! अद्याऽपि ते प्रसादाः परिस्फुरन्ति ।
लक्ष्मणः- उक्तमासीदार्येण ‘सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ती’ति ।
देव्यौ-नमो वः परमास्त्रेभ्यो धन्याः स्मो वः परिग्रहात् ।
काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥
रामः- क्षुभिताः कामपि दशां कुर्वन्ति मम संप्रति ।
विस्मयानन्दसंदर्भजर्जराः करुणोर्मयः ॥ १२ ॥
देव्यौ-मोदस्व वत्से ! मोदस्व । रामभद्रतुल्यौ ते पुत्रकाविदानीं संवृत्तौ ।
सीता-भगवत्यौ ! क एतयोः क्षत्रियोचितविधिं कारयिष्यति ?
रामः- एषा वसिष्ठशिष्याणां रघूणां वंशनन्दिनी ।
कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥ १३ ॥
गङ्गा-भद्रे ! किं तवानया चिन्तया ? एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यामि । वसिष्ठ एव ह्याचार्यो रघुवंशस्य संप्रति ।
स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति ॥ १४ ॥
यथा वसिष्ठाङ्गिरसावृषिः प्राचेतसस्तथा ।
रघूणां जनकानां च वंशयोरुभयोर्गुरुः ॥ १५ ॥
रामः-सुविचिन्तितं भगवत्या ।
लक्ष्मणः- आर्य ! सत्यं विज्ञापयामि । तैस्तैरुपार्यैरिमौ वत्सौ कुशलवावुत्प्रेक्षे ।
एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ । आर्यतुल्यकृती वीरौ वयसा द्वादशाब्दको ॥ १६ ॥
रामः- वत्सावित्येवाहं परिप्लवमानदयः प्रमुग्धोऽस्मि ।
पृथिवी-एहि वत्से ! पवित्रीकुरु रसातलम् ।
रामः- हा प्रिये ! लोकान्तरं गताऽसि ? सीता- नयतु मामात्मनोऽङ्गे विलयमम्बा । न सहिष्यामीदृशं जीवलोकस्य परिभवमनुभवितुम् ।
लक्ष्मणः- किमुत्तरं स्यात् ?
पृथिवी-मन्नियोगतः स्तन्यत्यागं यावत्पुत्रयोरवेक्षस्व । परेण तु यथा रोचिष्यते तथा करिष्यामि । गङ्गा- एवं तावत् । (इति निष्क्रान्ते देव्यौ सीता च)
रामः-कथं प्रतिपन्न एव तावत् । हा चारित्रदेवते ! लोकान्तरे पर्यवसिताऽसि ? (इति मूर्च्छति)
लक्ष्मणः-भगवन् वाल्मीके परित्रायस्व, परित्रायस्व । एष ते काव्यार्थः ?
(नेपथ्ये)
अपनीयतामातोद्यम् । भो जङ्गमस्थावराः प्राणभृतो मर्त्यामर्त्याः । पश्यन्त्विदानीं वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम् ।
लक्ष्मणः-(विलोक्य)
मन्थादिव क्षुभ्यति गाङ्गमम्भो व्याप्तं च देवर्षिभिरन्तरिक्षम् ।
आश्चर्यमार्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुपैति ॥ १७ ॥
(नेपथ्ये)
अरुन्धति ! जगद्वन्द्ये ! गङ्गापृथ्व्यौ जुषस्व नौ ।
अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥ १८ ॥
लक्ष्मणः- अहो ! आश्चर्यमाश्चर्यम् । आर्ये ! पश्य पश्य । कष्टमद्यापि नोच्छ्वसित्यार्यः ।
(ततः प्रविशत्यरुन्धती सीता च)
अरुन्धती- त्वरस्व वत्से ! वैदेहि ! मुञ्च शालीनशीलताम् । एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना ॥ १९ ॥
सीता-(ससम्भ्रमं स्पृशति) समाश्वसितु समाश्वसित्वार्यपुत्रः !
रामः-(समाश्वस्य सानन्दम्) भोः ! किमेतत् ? (दृष्ट्वा सहर्षाद्भुतम्) कथं देवी जानकी ? (सलज्जम्) अये ! कथमम्बाऽरुन्धती ? कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः ?
अरुन्धती-वत्स ! एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना ।
(नेपथ्ये) जगत्पते रामभद्र ! स्मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम् । ‘सा त्वमम्ब ! स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भवे’(पृ० ३९)ति । तदनृणास्मि ।
अरुन्धती-इयं ते श्वश्रूर्भगवती वसुन्धरा ।
(नेपथ्ये)
उक्तमासीदायुष्मता वत्सायाः परित्यागे ‘भगवति वसुन्धरे ! सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम्’ (पृ० ७८) इति । तदधुना कृतवचनाऽस्मि ।
रामः-कृतापराधोऽपि भगवति ! त्वयानुकम्पयितव्यो रामः प्रणमति ।
अरुधन्ती- भो भोः पौरजानपदाः ! इयमधुना वसुन्धराजाह्नवीभ्यामेवं प्रशस्यमाना मया चारुन्धत्या समर्पिता पूर्वं भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्व देवैः स्तुता सावित्रकुलवधूर्देवयजनसंभवा जानकी परिगृह्यताम् । कथमहि भवन्तो मन्यन्ते ?
लक्ष्मणः- आर्य ! एवमम्बयाऽरुन्धत्या च निर्भर्त्सिताः पौरजानपदाः कृत्स्नश्च भूतग्राम आर्यां नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृष्टिभिरुपतिष्ठन्ते ।
अरुन्धती- जगत्पते रामभद्र !
नियोजन यथाधर्मं प्रियां त्वं धर्मचारिणीम् । हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥ २० ॥
सीता- (स्वगतम्) अपि जानात्यार्यपुत्रः सीताया दुःखं परिमार्ष्टुम् ?
रामः- यथा भगवत्यादिशति ।
लक्ष्मणः- कृतार्थोऽस्मि ।
सीता-प्रत्युज्जीविताऽस्मि ।
लक्ष्मणः- आर्ये ! अयं लक्ष्मणः प्रणमति ।
सीता- वत्स ! ईदृशस्त्वं चिरं जीव । अरुन्धती- भगवन् वाल्मीके ! उपनयेदानीं सीतागर्भसंभवौ रामभद्रस्य कुशलवौ । (इति निष्कान्ता) रामलक्ष्मणौ-दिष्ट्या तथैवैतत् ।
सीता- क्व तौ पुत्रकौ ?
(ततः प्रविशति वल्मीकिः कुशलवौ च)
वल्मीकिः-वत्सौ ! एष वां रघुपतिः पिता । एष लक्ष्मणः कनिष्ठतातः । एषा सीता जननी । एष राजर्षिर्जनको मातामहः ।
सीता-(सहर्षकरुणाद्भुतं विलोक्य) कथं तातः ? कथं जातौ ?
वत्सौ- हा तात ! हा अम्ब ! हा मातामह !
रामलक्ष्मणौ-(सहर्षमालिङ्ग्य) ननु वत्सौ । युवां प्राप्तौ स्थः ।
सीता- एहि जात कुश ! एहि जात लव ! चिरस्य मां परिष्वजेथां लोकान्तरादागतां जननीम् ।
कुशलवौ-(तथा कृत्वा) धन्यौ स्वः ।
सीता-भगवन् ! एषाऽहं प्रणमामि ।
वाल्मीकिः- वत्से ! एवमेव चिरं भूयाः ।
(नेपथ्ये)
उत्खातलवणो मथुरेश्वरः प्राप्तः ।
लक्ष्मणः-सानुषङ्गाणि कल्याणानि ।
रामः-सर्वमिदमनुभवन्नपि न प्रत्येमि । यद्वा प्रकृतिरियमभ्युदयानाम् ।
वाल्मीकिः-रामभद्र ! उच्यतां, किं ते भूयः प्रियमुपहरामि ?
रामः-अतः षरमपि प्रियमस्ति ? किं त्विदं भरतवाक्यमस्तु ।
पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ।
तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥ २१ ॥

(निष्क्रान्ताः सर्वे)
इति महाकविभवभूतिविरचिते उत्तररामचरिते ‘सम्मेलनं’ नाम सप्तमोऽङ्कः ॥